摩诃婆罗多 · 章 12.334
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.334.1
ततः स राजा जनको मन्त्रिभिः सह भारत ।
पुरोहितं पुरस्कृत्य सर्वाण्यन्तः पुराणि च ॥ १२.३३४.१ ॥
于是,婆罗多之后啊,国王遮那迦与大臣们一起,让家庭祭司走在前面,连同他的全部内宫,前去迎接。
12.334.2
आसनं च पुरस्कृत्य रत्नानि विविधानि च ।
शिरसा चार्ध्यमादाय गुरुपुत्रं समभ्यगात् ॥ १२.३३४.२ ॥
他将座位和各种珠宝摆在前面,低头手持敬水,走向上师之子。
12.334.3
स तदासनमादाय बहुरत्नविभूषितम् ।
स्पर्ध्यास्तरणसंस्तीर्णं सर्वतोभद्रमृद्धिमत् ॥ १२.३३४.३ ॥
他取来那座座位,饰以众多宝石,铺着令人羡慕的褥垫,四面吉祥,极为华美。
12.334.4
पुरोधसा संगृहीतं हस्तेनालभ्य पार्थिवः ।
प्रददौ गुरुपुत्राय शुकाय परमार्चितम् ॥ १२.३३४.४ ॥
国王用手触碰家庭祭司所托的那座座位,将这极为尊崇的座位献给上师之子须迦。
12.334.5
तत्रोपविष्टं तं कार्ष्णि शास्त्रतः प्रतिपूज्य च ।
पाद्यं निवेद्य प्रथममर्ध्यं गां च न्यवेदयत् ॥ १२.३३४.५ ॥
他按照经典,恭敬地礼敬坐在那里的黑天之子,先奉上洗足水,然后献上敬水和一头牛。
12.334.6
स च तां मन्त्रवत्पूजां प्रत्यगृह्णाद्यथाविधि ।
प्रतिगृह्य तु तां पूजां जनकाद्द्विजसत्तमः ॥ १२.३३४.६ ॥
他依照规定,以咒语接受了那份礼敬。从遮那迦处接受了这份礼敬后,这位再生者中的最上者(欢喜了)。
12.334.7
गां चैव समनुज्ञाय राजानमनुमान्य च ।
पर्यपृच्छन्महातेजा राज्ञः कुशलमव्ययम् ॥ १२.३३४.७ ॥
他允许了母牛,又向国王致敬,这位大光明者询问国王不衰的安康。
12.334.8
अनामयं च राजेन्द्र शुकः सानुचरस्य ह ।
अनुज्ञातः स तेनाथ निषसाद सहानुगः ॥ १२.३३४.८ ॥
王中之王啊,濕迦及其随从也都安好。于是,他得到允许,便与随从一同坐下。
12.334.9
कुशलं चाव्ययं चैव पृष्ट्वा वैयासकिं नृपः ।
किमागमनमित्येवं पर्यपृच्छत पार्थिवः ॥ १२.३३४.९ ॥
国王也问候了毗耶娑之子不衰的安康,然后问道:“你来的目的是什么?”
12.334.10
पित्राऽहमुक्तो भद्रं ते मोक्षधर्मार्थकोविदः ।
विदेहराजो याज्यो मे जनको नाम विश्रुतः ॥ १२.३३४.१० ॥
我父亲对我说:“愿你平安。毗提诃之王名叫遮那迦,他精通解脱法及其义,是我为其主持祭祀的人。”
12.334.11
तत्र गच्छस्व वै तूर्णं यदि ते हृदि संशयः ।
प्रवृत्तौ वा निवृत्तौ वा स ते च्छेत्स्यति संशयं ॥ १२.३३४.११ ॥
如果你心中有疑惑,就赶快去那里。无论是入世还是出世,他都会斩断你的疑惑。
12.334.12
सोहं पितुर्नियोगात्त्वामुपप्रष्टुमिहागतः ।
तन्मे धर्मभृतां श्रेष्ठ यथावद्वक्तुमर्हसि ॥ १२.३३४.१२ ॥
因此,奉父亲之命,我来此向你请教。持法者中最优秀的人啊,请你如实地向我讲说。
12.334.13
किं कार्यं ब्राह्मणेनेह मोक्षार्थश्च किमात्मकः ।
कथं च मोक्षः प्राप्तव्यो ज्ञानेन तपसाऽथवा ॥ १२.३३४.१३ ॥
此处婆罗门的职责是什么?为求解脱,他应具备怎样的品性?解脱应当如何获得,通过智慧还是苦行?
12.334.14
यत्कार्यं ब्राह्मणेनेह जन्मप्रभृति तच्छृणु ।
कृतोपनयनस्तात भवेद्वेदपरायणः ॥ १२.३३४.१४ ॥
请听婆罗门自出生起应尽的职责。孩子,受过入门礼之后,他应专心研习吠陀。
12.334.15
तपसा गुरुवृत्त्या च ब्रह्मचर्येण चाभिभो ।
देवतानामृषीणां चाप्यनृणो ह्यनसूयकः ॥ १२.३३४.१५ ॥
啊,强者,通过苦行、侍奉师长与梵行,对诸神与仙人无所亏欠,并且不生嫉妒。
12.334.16
वेदानधीत्य नियतो दक्षिणामपवर्ज्य च ।
अभ्यनुज्ञामथ प्राप्य समावर्तेत वै द्विजः ॥ १२.३३४.१६ ॥
修习吠陀并能自制,又免除对师长的酬谢,获得许可后,再生者应当返家。
12.334.17
समावृत्तश्च गार्हस्थ्ये स्वदारनिरतो वसेत् ।
अनसूयुर्यथान्यायमाहिताग्निरनावृतः ॥ १२.३३४.१७ ॥
回家之后,在居家生活中,他应专心于自己的妻子,不生嫉妒,依法而行,守护圣火,无所阻碍地生活。
12.334.18
उत्पाद्य पुत्रं पौत्रं तु वन्याश्रमपदे वसेत् ।
तानेवाग्नीन्यथाशास्त्रमर्चयन्नतिथिप्रियः ॥ १२.३३४.१८ ॥
生育了儿子与孙子之后,他应住在林中隐修处,依照经典礼拜那些圣火,并喜爱接待宾客。
12.334.19
स वनेऽग्नीन्यथान्यायमात्मन्यारोप्य धर्मवित् ।
निर्द्वन्द्वो बीतरागात्मा ब्रह्माश्रमपदे वसेत् ॥ १२.३३४.१९ ॥
通晓法者在森林中依规则将圣火安置于自身,摆脱二元对立,心无贪欲,居住在梵之修行处。
12.334.20
उत्पन्ने ज्ञानविज्ञाने प्रत्यक्षे हृदि शाश्वते ।
किमवश्यं निवस्तव्यमाश्रमेषु वनेषु वा ॥ १२.३३४.२० ॥
当永恒而直接的知识与证悟在心中生起之后,是否必须居住于修行处或森林之中?
12.334.21
एतद्भवन्तं पृच्छामि तद्भवान्वक्तुमर्हति ।
यथा वेदार्थतत्त्वेन ब्रूहि मे त्वं जनाधिप ॥ १२.३३४.२१ ॥
这正是我所问的,因此您有资格说明。人主啊,请依据吠陀义理的真实本质告诉我。
12.334.22
न विना ज्ञानविज्ञाने मोक्षस्याधिगमो भवेत् ।
न विना गुरुसंबन्धं ज्ञानस्याधिगमः स्मृतः ॥ १२.३३४.२२ ॥
没有知识与证悟,便不能获得解脱;没有与上师的关系,据传也不能获得知识。
12.334.23
गुरुः प्लावयिता तस्य ज्ञानं प्लव इहोच्यते ।
विज्ञाय कृतकृत्यस्तु तीर्णस्तदुभयं त्यजेत् ॥ १२.३३४.२३ ॥
上师是使他渡河的人,而此处的知识被称为筏。领悟知识、功成圆满并已渡过的人,应当舍弃这两者。
12.334.24
अनुच्छेदाय लोकानामनुच्छेदाय कर्मणाम् ।
पूर्वैराचरितो धर्मश्चातुराश्रम्यसंश्रितः ॥ १२.३३४.२४ ॥
为使世界不断绝、为使祭祀不断绝,先人所行之法依托于四种生活阶段的次第。
12.334.25
अनेन क्रमयोगेन बहुजातिषु कर्मणाम् ।
कृत्वा शुभाशुभं कर्म मोक्षो नामेह लभ्यते ॥ १२.३३४.२५ ॥
依此次第修行,在众多生死中行善与作恶之后,于此处便可获得解脱。
12.334.26
भावितैः करणैश्चायं बहुसंसारयोनिषु ।
आसादयति शुद्धात्मा मोक्षं वै प्रथमाश्रमे ॥ १२.३३४.२६ ॥
此清净自我,以在众多轮回胎中修炼的诸根,正在人生的第一阶段获得解脱。
12.334.27
तमासाद्य तु मुक्तस्य दृष्टार्थस्य विपश्चितः ।
त्रिष्वाश्रमेषु कोऽन्वर्थो भवेत्परमभीप्सतः ॥ १२.३३४.२७ ॥
对于已获得此境、已解脱、已见真义、有智慧且渴求至上者,三个生活阶段还有何意义?
12.334.28
राजसांस्तामसांश्चैव नित्यं दोषान्विवर्जयेत् ।
सात्विकं मार्गमास्थाय पश्येदात्मानमात्मना ॥ १२.३३४.२८ ॥
应当始终远离激情与黑暗的过失;坚守清净之道,以自我观照自我。
12.334.29
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।
संपश्यन्नोपलिप्येत जले वारिचरो यथा ॥ १२.३३४.२९ ॥
见一切众生中有自我,见自我中有一切众生,便不被染着,如水中生物不为水所污。
12.334.30
पक्षिवत्प्रायणादूर्ध्वममुत्रानन्त्यमश्नुते ।
विहाय देहान्निर्मुक्तो निर्द्वन्द्वः प्रशमं गतः ॥ १२.३३४.३० ॥
如鸟一般,死后升向上方,在彼处证得无穷;舍弃诸身,解脱而超越二元,达到寂静。
12.334.31
अत्र गाथाः पुरा गीताः शृणु राज्ञा ययातिना ।
धार्यन्तो या द्विजैस्तात मोक्षशास्त्रविशारदैः ॥ १२.३३४.३१ ॥
请听这里古时国王耶耶提所唱的偈颂,它们为精通解脱论典的再生者所传承,亲爱的孩子。
12.334.32
ज्योतिरात्मनि नान्यत्र सर्वजन्तुषु तत्समम् ।
स्वयं च शक्यते द्रष्टुं सुसमाहितचेतसा ॥ १२.३३४.३२ ॥
这光明在自我之中,而不在别处;它在一切众生中亦相同。以专注的心,人可自己见到它。
12.334.33
न बिभेति परो यस्मान्न बिभेति पराच्च यः ।
यश्च नेच्छति न द्वेष्टि ब्रह्म संपद्यते तु सः ॥ १२.३३४.३३ ॥
他人不畏惧他,他也不畏惧他人,既不贪欲也不憎恨,此人便证得梵。
12.334.34
यदा भावं न कुरुते सर्वभूतेषु पापकम् ।
कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा ॥ १२.३३४.३४ ॥
当一个人对一切众生不生恶念,无论行为、心意或言语,那时他便证得梵。
12.334.35
संयोज्य मनसाऽऽत्मानमीर्ष्यामुत्सृज्य मोहनीम् ।
त्यक्त्वा कामं च मोहं च ततो ब्रह्मत्वमश्नुते ॥ १२.३३४.३५ ॥
以心摄持自我,舍弃迷惑的嫉妒,断除欲望与愚痴,然后便得梵性。
12.334.36
यदा श्राव्ये च दृश्ये च सर्वभूतेषु चाप्ययम् ।
समो भवति निर्द्वन्द्वो ब्रह्म संपद्यते तदा ॥ १२.३३४.३६ ॥
当一个人对所闻所见以及一切众生平等相待,超越二元对立,那时他便证得梵。
12.334.37
यदा स्तुतिं च निन्दां च समत्वेनैव पश्यति ।
काञ्चनं चायसं चैव सुखं दुःखं तथैव च ॥ १२.३३४.३७ ॥
当人以平等之心看待赞美与诽谤,同样看待黄金与铁器、快乐与痛苦时,
12.334.38
शीतमुष्णं तथैवार्थमनर्थं प्रियमप्रियम् ।
जीवितं मरणं चैव ब्रह्म संपद्यते तदा ॥ १२.३३४.३८ ॥
当他平等看待寒暑、得失、喜与不喜、生与死时,那时他便证得梵。
12.334.39
प्रसार्येह यथाङ्गानि कूर्मः संहरते पुनः ।
तथेन्द्रियाणि मनसा संयन्तव्यानि भिक्षुणा ॥ १२.३३४.३९ ॥
如龟伸展肢体,又收回肢体,比丘也应以意念控制诸根。
12.334.40
तमः परिगतं वेश्म यथा दीपेन दृश्यते ।
तथा बुद्धिप्रदीपेन शक्य आत्मा निरीक्षितुम् ॥ १२.३३४.४० ॥
如黑暗的屋室借灯而见,自我也可以用智慧之灯来观照。
12.334.41
एतत्सर्वं च पश्यामि त्वयि बुद्धिमतां वर ।
यच्चान्यदपि नोक्तं मे तत्त्वतो वेद तद्भवान् ॥ १२.३३४.४१ ॥
智者中最优秀的人啊!我在你身上看到这一切;我未曾说的,你也确实知道。
12.334.42
ब्रह्मर्षे विदितश्चासि विषयान्तमुपागतः ।
गुरोस्तव प्रसादेन तव चैवोपशिक्षया ॥ १२.३३४.४२ ॥
梵仙啊,你已闻名,并已达到诸境的尽头,这是由于你老师的恩惠,也由于你自己的教导。
12.334.43
तस्यैव च प्रसादेन प्रादुर्भूतं महात्मनः ।
ज्ञानं दिव्यं ममापीदं तेनासि विदितो मम ॥ १२.३३४.४३ ॥
正因那位大德之恩典,此神圣的智慧也在我心中生起;也因他,你才为我所知。
12.334.44
अधिकं तव विज्ञानमधिका च गतिस्तव ।
अधिकं तव चैश्वर्यं तच्च त्वं नावबुध्यसे ॥ १२.३३४.४४ ॥
你的智慧更加深广,你的境界更加高远,你的威能更加殊胜;然而你自己并不觉察。
12.334.45
बाल्याद्वा संशयाद्वापि भयाद्वाऽप्यविमोक्षणात् ।
उत्पन्ने चापि विज्ञाने नाधिगच्छति तां गतिं ॥ १२.३३४.४५ ॥
或因幼稚,或因疑惑,或因恐惧,或因未得解脱,即使智慧已经生起,人也不能证得那境界。
12.334.46
व्यवसायेन शुद्धेन मद्विधैश्छिन्नसंशयः ।
विमुच्य हृदयग्रन्थीनासादयति तां गतिम् ॥ १२.३३४.४६ ॥
以纯净的决心,由像我这样的人斩断疑惑,解开心中的结,便能证得那境界。
12.334.47
भवांश्चोत्पन्नविज्ञानः स्थिरबुद्धिरलोलुपः ।
व्यवसायादृते ब्रह्मन्नासादयति तत्परम् ॥ १२.३३४.४७ ॥
婆罗门啊,你智慧已生,心志坚定,且无贪欲;然而若无决心的努力,人便不能证得那至高的境界。
12.334.48
नास्ति ते सुखदुःखेषु विशेषो नास्ति लोलुपः ।
नौत्सुक्यं नृत्यगीतेषु न राग उपजायते ॥ १२.३३४.४८ ॥
于你而言,苦乐并无分别,你没有贪欲;对于歌舞你不生向往,也不生执着。
12.334.49
न बन्धुष्वनुबन्धस्ते न भयेष्वस्ति ते भयम् ।
पश्यामि त्वां महाभाग तुल्यलोष्टाश्मकाञ्चनम् ॥ १२.३३४.४९ ॥
哦,大福之人,你对亲属没有执着,在恐惧中你也无所畏惧。我看见你视土块、石头与黄金为同等。
12.334.50
अहं त्वामनुपश्यामि ये चाप्यन्ते मनीषिणः ।
आस्थितं परमं मार्गमक्षयं तमनामयम् ॥ १२.३३४.५० ॥
我看你如同看那最终的智者;你已踏上那至高、不朽、无病的道路。
12.334.51
यत्फलं ब्राह्मणस्येह मोक्षार्थश्च यदात्मकः ।
तस्मिन्वै वर्तसे विप्र किमन्यत्परिपृच्छसि ॥ १२.३३४.५१ ॥
此处婆罗门所应得的果报,以及为解脱而成为自我的那一切,你正安住其中,哦婆罗门;那你还问别的做什么呢?