摩诃婆罗多 · 章 12.337
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.337.1
एतस्मिन्नन्तरे भूते नारदः पुनरागमत् ।
शुकं स्वाध्यायनिरतं वेदार्थान्प्रष्टुमीप्सवा ॥ १२.३३७.१ ॥
此时,那罗陀再次来到,想向沉浸于吠陀研习的首迦询问吠陀的义理。
12.337.2
देवर्षि तु शुको दृष्ट्वा नारदं समुपस्यितम् ।
अर्ध्यपूर्वेण विधिवा वेदोक्तेनाभ्यपूजयत् ॥ १२.३३७.२ ॥
见神仙仙人那罗陀走近,首迦便依规矩以奉水为始,按吠陀所说礼敬他。
12.337.3
नारदोऽयाजवीत्प्रीतो ब्रूहि ब्रह्मविदां वर ।
केन त्वां श्रेयसा वत्स योजयामीति हृष्टवत् ॥ १२.३३७.३ ॥
那罗陀欢喜地说:“梵智者中的最上者,请说!亲爱的孩子,我该引导你走向哪一种善道?”他这样欣然说道。
12.337.4
नारदस्य वचः श्रुत्वा शुकः प्रोवाच भारत ।
अस्मिँल्लोके हितं यत्स्वात्तेन मां योक्तुमर्हसि ॥ १२.३३७.४ ॥
首迦听了那罗陀的话,说道:“婆罗多的后裔啊,您应当引导我走向这世间有益之事。”
12.337.5
तत्त्वं जिज्ञासतां पूर्वनृषीणां भावितात्मनाम् ।
सनत्कुमारो भगवानिदं वतनमब्रवीत् ॥ १२.३३७.५ ॥
对于渴望知晓真理的古代心志清净的仙人,尊贵的萨那特库马拉说了这番话。
12.337.6
नास्ति विद्यासगं चक्षुर्नास्ति सत्यसमं तपः ।
नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम् ॥ १२.३३७.६ ॥
没有像智慧那样的眼睛,没有像真实那样的苦行;没有像贪欲那样的苦,没有像舍弃那样的乐。
12.337.7
निवृत्तिः कर्मणा पापात्सततं पुण्यशीलता ।
सद्वृत्तिः सद्वदाचारः श्रेय एवदनुत्तमम् ॥ १२.३३७.७ ॥
远离罪恶行为,持续培养善行,良好的品行与操守——这才是至高的善。
12.337.8
नानुवयसुखं प्राप्य यः सज्जति न मुच्यते ।
नालं स दुःखमोक्षाय संयोगो दुःखलक्षणम् ॥ १२.३३७.८ ॥
得到青春之乐却执着于其中的人,不得解脱;他无力摆脱苦,因为聚合正是苦的特征。
12.337.9
सक्तस्य बुद्धिश्चलति मोहजालविवर्धनी ।
मोहवालावृतो दुःखमिह चामुत्र सोऽश्नुते ॥ १२.३३७.९ ॥
执着者之智慧摇动,使迷惑之网增长;被迷惑之网缠绕者,今世与来世都受苦。
12.337.10
सर्वोपागात्तु कामस्व क्रोधस्य च विनिग्रहः ।
कार्यः श्रेयोर्थिना तौ हि श्रेयोघातार्थमुद्यतौ ॥ १२.३३७.१० ॥
求取至善的人,应当在一切方面克制欲望与愤怒,因为这两者总是准备毁坏善果。
12.337.11
नित्यं क्रोधात्तपो रक्षेच्छ्रियं रक्षेच्च मत्सरात् ।
विद्यां मानावमानाभ्यामात्मानं तु प्रमादतः ॥ १२.३३७.११ ॥
应当时时以不怒守护苦行,以不妒守护福德,以不计荣辱守护学问,以不放逸守护自身。
12.337.12
आनृशंस्यं परो धर्मः क्षमा च परमं बलम् ।
आत्मज्ञानं परं ज्ञानं न सत्याद्विद्यते परम् ॥ १२.३३७.१२ ॥
不残害是最高的法,忍耐是最大的力量;自知是最高的智慧,没有比真实更高的了。
12.337.13
सत्यस्य वचनं श्रेयः सत्यादपि हितं वदेत् ।
यद्भूतहितमत्यन्तमेतत्सत्यं मतं मम ॥ १२.३३७.१३ ॥
说真话固然好,但应说那对众生有益的话,甚至胜于真话。对众生最有利的,我认为才是真实。
12.337.14
सर्वारम्भपरित्यागी निराशीर्निष्परिग्रहः ।
येन सर्वं परित्यक्तं स विद्वान्स च पण्डितः ॥ १२.३३७.१४ ॥
舍弃一切事业、无求于果报、无所执取、已舍弃一切者,他便是智者,他便是学者。
12.337.15
इन्द्रियैरिन्द्रियार्थान्यश्चरत्यात्मवशैरिह ।
आसज्जमानः शान्तात्मा निर्विकारः समाहितः ॥ १२.३३७.१५ ॥
在此以自我掌控的诸根,行于诸根对境之间;虽似执著,心却寂静、不动、专注。
12.337.16
अत्मभूतैरतद्भूतः सह चैव विनैव च ।
स विमुक्तः परं श्रेयो नचिरेणाधिगच्छति ॥ १२.३३७.१६ ॥
他与自我一样的众生同住,却不同于他们的本性,即使离开他们,他也解脱,不久便得到至上的善。
12.337.17
अदर्शनमसंस्पर्शस्तथाऽसंभाषणं तदा ।
यस्य भूतैः सह मुने स श्रेयो विन्दते परम् ॥ १२.३३७.१७ ॥
哦,仙人,那与众生既不相见、不相触、也不相语的人,便能获得至上的善。
12.337.18
न हिंस्यात्सर्वभूतानि मैत्रायगणतश्चरेत् ।
नेदं जन्म समासाद्य वैरं कुर्वीत केनचित् ॥ १२.३३७.१८ ॥
不应伤害任何众生,应以慈心而行。既得此生,不应与任何人结怨。
12.337.19
आकिञ्चन्यं सुसंतोषो निराशीस्त्वमचापलम् ।
एतदाहुः परं श्रेय आत्मज्ञस्य जितात्मनः ॥ १२.३३७.१९ ॥
无所执着,极大的知足,无求于报偿,心不躁动——这被称为知自我、胜自我者的至上善。
12.337.20
परिग्रहं परित्यज्य भव तात जितेन्द्रियः ।
अशोकं स्थानमातिष्ठ इह चामुत्र चाभयम् ॥ १२.३३७.२० ॥
孩子,舍弃财物,成为制伏诸根者。安住于无忧之境,此世与来世皆无所畏惧。
12.337.21
निरामिषा न शोचन्ति त्यजेदामिषमात्मनः ।
परित्यज्यामिषं सौभ्य दुःखतापाद्विमोक्ष्यसे ॥ १२.३३७.२१ ॥
无诱饵者不忧愁。舍弃你内心的诱饵;善良的人啊,舍弃诱饵,你便能脱离苦恼之热。
12.337.22
तपोनित्येन दान्तेन मुनिना संयतात्मना ।
अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना ॥ १२.३३७.२२ ॥
一位恒常修苦行、调伏、摄心的苦修者,若想征服那不可征服者,便应在诸种执着中保持无执。
12.337.23
गुणसङ्गेष्वनासक्त एकचर्यारतः सदा ।
ब्राह्मणो नचिरादेव सुखमायात्यनुत्तमम् ॥ १२.३३७.२३ ॥
不执着于诸德之执着、常乐于独修的婆罗门,不久便能获得无上的快乐。
12.337.24
द्वन्द्वारामेषु भूतेषु य एको रमते मुनिः ।
विद्धि प्रज्ञानतृप्तं तं ज्ञानतृप्तो न शोचति ॥ १२.३३७.२४ ॥
在那些沉溺于二元对立的众生之中,独自安乐的牟尼——应知他以智慧为满足;以智慧为满足者,不忧愁。
12.337.25
शुभैर्लभति देवत्वं व्यामिश्रेर्जन्म मानुषम् ।
अशुभैश्चाप्यधोजन्म कर्मभिर्लभतेऽवशः ॥ १२.३३७.२५ ॥
行善者得为天神,行善恶混杂者得为人身,行恶者则身不由己,堕入下等生处。
12.337.26
तत्र मृत्युवशो दुःखैः सततं समभिद्रुतः ।
संसारे पच्यते जन्तुस्तत्कथं नावबुध्यसे ॥ १२.३३७.२६ ॥
众生受死亡所制,常被苦恼所逼,在轮回中煎熬,你怎么竟不觉察呢?
12.337.27
अहिते हितसंज्ञस्त्वमध्रुवे ध्रुवसंज्ञकः ।
अनर्थे चार्थसंज्ञस्त्वं किमर्थं नावबुध्यसे ॥ १२.३३७.२७ ॥
你把有害当作有益,把无常当作恒常,把无义当作有义,你为何不觉察?
12.337.28
संवेष्ट्यमानं बहुभिर्मोहात्तन्तुभिरात्मजैः ।
कोशकार इवात्मानं वेष्टयन्नावबुध्यसे ॥ १२.३३७.२८ ॥
你因迷惑而被众多子女之线所缠绕,却不觉察自己如同蚕虫作茧一般,正在缠绕自身。
12.337.29
अलं परिग्रहेणेह दोषवान्हि परिग्रहः ।
कृमिर्हि कोशकारस्तु बध्यते स परिग्रहात् ॥ १२.३३७.२९ ॥
此处不必执著于占有,占有确有其过患。作茧之虫正是因这占有而被束缚。
12.337.30
पुत्रदारकुटुम्बेषु सक्ताः सीदन्ति जन्तवः ।
सरःपङ्कार्णवे मग्ना जीर्णा वनगजा इव ॥ १२.३३७.३० ॥
执著于子女、妻子和家族的众生沉没其中,如同老迈的林象陷入湖泊泥沼的汪洋之中。
12.337.31
महाजालसमाकृष्टान्स्थले मत्स्यानिवोद्धृतान् ।
मोहजालसमाकृष्टान्पश्य जन्तून्सुदुःखितान् ॥ १२.३३७.३१ ॥
看那些被迷惑之网拖拽的众生,极其痛苦,如同被大网捞起抛到岸上的鱼。
12.337.32
कुटुम्बं पुत्रदारांश्च शरीरं संचयाश्च ये ।
पारक्यमध्रुवं सर्वं किं स्वं सुकृतदुष्कृतम् ॥ १२.३३७.३२ ॥
家庭、子女与妻子、身体以及所积聚的一切,都属于他人且无常。除了善业与恶业,还有什么是真正属于自己的?
12.337.33
यदा सर्वान्परित्यज्य गन्तव्यमवशेन ते ।
अनर्थे किं प्रसक्तस्त्वं समर्थं नानुतिष्ठसि ॥ १२.३३७.३३ ॥
当你必须违背意愿舍弃一切而去时,为何执著于无益之事?为何不去做你能做的事?
12.337.34
अविश्रान्तमनालम्बमपाथेयमदैशिकम् ।
तमः कान्तारमध्वानं कथमेको गमिष्यसि ॥ १२.३३७.३४ ॥
没有休息,没有依靠,没有干粮,没有向导,你独自一人如何走过那黑暗的荒林之路?
12.337.35
न हि त्वां प्रस्थितं कश्चित्पृष्ठतोऽनुगमिष्यति ।
सुकृतं दुष्कृतं च त्वां यास्यन्तमनुयास्यतः ॥ १२.३३७.३५ ॥
你启程时,不会有人在你身后跟随;只有你的善业与恶业会随你而行。
12.337.36
विद्या कर्म च शौचं च ज्ञानं च बहुविस्तरम् ।
अर्थार्थमनुसार्यन्ते सिद्धार्थस्य विमुच्यते ॥ १२.३३७.३६ ॥
学问、行为、清净与广博的智慧,都是为了某种目的而追求;目的已达成者便得解脱。
12.337.37
निबन्धनी रज्जुरेषा या ग्रामे वसतो रतिः ।
छित्त्वैतां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः ॥ १२.३३७.३७ ॥
此束缚之绳,即居于村落者的贪恋。斩断此绳者,善人得以前行;恶人则不能斩断。
12.337.38
रूपकूलां मनःस्रोतां स्पर्शद्वीपां रसावहाम् ।
गन्धपङ्कां शब्दजलां स्वर्गमार्गदुरावहाम् ॥ १२.३३७.३८ ॥
以色为岸,以意为流,以触为洲,载运味道,以香为泥,以声为水,在通往天界的道路上难以渡过。
12.337.39
क्षमारित्रां सत्यमयीं धर्मस्थैर्यपदाङ्कुराम् ।
त्यागवाताध्वगां शीघ्रां नौतार्यां तां नदीं तरेत् ॥ १२.३३७.३९ ॥
以忍辱为舟,以真实为体,以法之坚定为根芽,因舍离之风而行于其道,迅疾,可以舟渡——应当渡过此河。
12.337.40
त्यज धर्ममधर्मं च उभे सत्यानृते त्यज ।
उभे सत्यानृते त्यक्त्वा येन त्यजसि तं त्यज ॥ १२.३३७.४० ॥
舍弃法与非法;舍弃真与伪二者。既舍真伪二者,连那能舍之物也应舍弃。
12.337.41
त्यज धर्ममसंकल्पादधर्मं चाप्यलिप्सया ।
उभे सत्यानृते बुद्ध्या बुद्धिं परमनिश्चयात् ॥ १२.३३७.४१ ॥
以无所欲念舍法,以无所贪求亦舍非法。以智慧舍真伪二者,以至上决定舍智慧本身。
12.337.42
अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनम् ।
चर्मावनद्धं दुर्गन्धिं पूर्णं मूत्रपुरीषयोः ॥ १२.३३७.४२ ॥
以骨为柱,以筋相连,以肉血涂抹,以皮包裹,恶臭,充满小便与粪便。
12.337.43
जराशोकसमाविष्टं रोगायतनमातुरम् ।
रजस्वलमनित्यं च भूतावासमिमं त्यज ॥ १२.३३७.४३ ॥
此身被衰老与忧愁所笼罩,乃病之居所,受苦、污秽而无常;应当舍弃这五大的住所。
12.337.44
इदं विश्वं जगत्सर्वमजगच्चापि यद्भवेत् ।
महाभूतात्मकं सर्वं महद्यत्परमाणु च ॥ १२.३३७.४४ ॥
此整个宇宙,一切动物与不动之物,皆由大种所成,大者与微小的原子亦然。
12.337.45
महाभूतानि खं वायुरग्निरापस्तथा मही ।
षष्ठं तु चेतना या तु आत्मा सप्तममुच्यते।
अष्टमं तु मनो ज्ञेयं बुद्धिस्तु नवमी स्मृता ॥ १२.३३७.४५ ॥
大种为虚空、风、火、水与地;第六是觉知,第七称为自我。第八应知为意,第九称为觉(智性)。
12.337.46
इन्द्रियाणि च पञ्चैव तमः सत्वं रजस्तथा ।
इत्येष सप्तदशको राशिरव्यक्तसंज्ञकः ॥ १२.३३७.४६ ॥
五根,以及暗性、善性与激性;如此,这十七之聚称为未显现者。
12.337.47
सर्वैरिहेन्द्रियार्थैश्च व्यक्ताव्यक्तैर्हि संहितः ।
चतुर्विशक इत्येष व्यक्ताव्यक्तमयो गणः ॥ १२.३३७.४७ ॥
此处一切根境,连同显现与未显现者相合,即是二十四之聚;这便是由显现与未显现所成的诸聚。
12.337.48
एतैः सर्वैः समायुक्तः पुमानित्यभिधीयते ।
त्रिवर्गं तु सुखं दुःखं जीवितं मरणं तथा ॥ १२.३३७.४८ ॥
与这一切相合者,名为人(puruṣa);三种目标、乐与苦、生与死亦然。
12.337.49
य इदं वेद तत्त्वेन स वेद प्रभवाप्ययौ ।
पारम्पर्येह बोद्धव्यं ज्ञानानां यच्च किंचन ॥ १२.३३७.४९ ॥
真正知晓此者,便知万物的生起与消散。在此,凡可知的知识,都应通过师承相传而领会。
12.337.50
इन्द्रियैर्गृह्यते यद्यत्तत्तद्व्यक्तमिति स्थितिः ।
अव्यक्तमिति विज्ञेयं लिङ्गग्राह्यमतीन्द्रियम् ॥ १२.३३७.५० ॥
凡为诸根所取者,即是显现,这是定论。应当知道,未显现者是由相(标志)所取、超越诸根的。
12.337.51
इन्द्रियैर्नियतैर्देही धाराभिरिव तर्प्यते ।
लोके विततमात्मानं लोकांश्चात्मनि पश्यति ॥ १२.३३७.५१ ॥
诸根被善加调伏,有身者便如得水流灌溉而得满足。他见到遍在世间的自我,也见到自我中的诸世界。
12.337.52
परावरदृशः शक्तिर्ज्ञानमूला न नश्यति ।
पश्यतः सर्वभूतानि सर्वावस्थासु सर्वदा ॥ १२.३३७.५२ ॥
能见高低者的力量,以智慧为根本,不会灭失——对于在一切境况中、始终见一切众生者而言。
12.337.53
ब्रह्मभूतस्य संयोगो नाशुभेनोपपद्यते ।
ज्ञानेन विविधान्क्लेशानतिवृत्तस्य मोहजान् ॥ १२.३३७.५३ ॥
成为梵者,不与不吉相合;凭借知识超越了由迷妄所生的种种苦恼者,亦是如此。
12.337.54
लोके बुद्धिप्रकाशेन लोकमार्गो न रिष्यते ।
अनादिनिधनज्ञं तमात्मनि स्थितमव्ययम् ॥ १२.३३७.५४ ॥
在世间,以智慧之光,世间之道不会受损——因为知晓那无始无终的知者,那不坏者,安住于自我之中。
12.337.55
अकर्तारममूर्तं च भगवानाह तीर्थवित् ।
यो जन्तुः स्वकृतैस्तैस्तैः कर्मभिर्नित्यदुःखितः ॥ १२.३३७.५५ ॥
通晓圣渡的世尊说他是无作者、无形的。那众生因自己所作的种种业,而永远处于痛苦之中。
12.337.56
स दुःखप्रतिघातार्थं हन्ति जन्तूननेकधा ।
ततः कर्म समादत्ते पुनरन्यन्नवं बहु ॥ १२.३३७.५६ ॥
为了免除痛苦,他以多种方式伤害众生。然后他又承担另外许多新的业。
12.337.57
तप्यतेऽथ पुनस्तेन भुक्त्वा पथ्यमिवातुरः ।
अजस्रमेव मोहान्धो दुःखेषु सुखसंज्ञितः ॥ १२.३३७.५७ ॥
然后他又因此而受苦,好像病人吃了合宜的食物。被迷惑遮蔽的他,在痛苦中总认为是快乐,永不停息。
12.337.58
बध्यते मथ्यते चैव कर्मभिर्मन्थवत्सदा ।
ततो निबद्धः स्वां योनिं कर्मणामुदयादिह ॥ १२.३३७.५८ ॥
他总是被业所缚而被搅动,如同搅棍一样。然后被束缚,因业的生起而在此得到自己的生育之胎。
12.337.59
परिभ्रमति संसारं चक्रवद्बहुवेदनः ।
सत्वं निर्वृत्तबन्धस्तु निवृत्तश्चापि कर्मतः ॥ १२.३३७.५९ ॥
他像车轮一样,带着许多痛苦在轮回中流转。但是那束缚已解、已脱离行为的存在者(得解脱)。
12.337.60
सर्ववित्सर्वजित्सिद्धौ भव भावविवर्जितः ।
संयमेन नवं बन्धं निवर्त्य तपसो बलात्।
संप्राप्ता बहवः सिद्धिमप्यबाधां सुखोदयाम् ॥ १२.३३७.६० ॥
成为一切知者、一切胜者,在成就中离开有为。以克制使新的束缚倒转,以苦行之力,许多人已得成就——无碍而生起安乐的成就。