摩诃婆罗多 · 章 12.339
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.339.1
सुखदुःखविपर्यासो यदा समनुपद्यते ।
नैनं प्रज्ञा सुनीतं वा त्रायते नापि पौरुषम् ॥ १२.३३९.१ ॥
当苦乐颠倒降临时,智慧、良好的谋划与人的努力都不能保护他。
12.339.2
स्वभावाद्यत्नमातिष्ठेद्यत्नवान्नावसीदति ।
जरामरणरोगेभ्यः प्रियमात्मानमुद्धरेत् ॥ १२.३३९.२ ॥
应当依本性努力;勤勉之人不会沉沦。应当从衰老、死亡与疾病中拯救自己所珍爱的自我。
12.339.3
रुजन्ति हि शरीराणि रोगाः शारीरमानसाः ।
सायका इव तीक्ष्णाग्राः प्रयुक्ता दृढधन्विभिः ॥ १२.३३९.३ ॥
诚然,身与心的疾病折磨着身体,就像被坚定的射手射出的锐利箭矢。
12.339.4
व्यथितस्य विधित्साभिस्त्रस्यतो जीवितैषिणः ।
अवशस्य विनाशाय शरीरमपकृष्यते ॥ १२.३३९.४ ॥
痛苦、恐惧、渴望活命而又无能为力的人,其身体被拖向毁灭。
12.339.5
स्रवन्ति न निवर्तन्ते स्रोतांसि सरितामिव ।
आयुरादाय मर्त्यानां रात्र्यहानि पुनः पुनः ॥ १२.३३९.५ ॥
它们流逝而不回返,如同河川之流;夜与昼一次又一次地夺取凡人的寿命。
12.339.6
व्यत्ययो ह्ययमत्यन्तं पक्षयोः शुक्लकृष्णयोः ।
जातान्मर्त्याञ्जरयति निमेषान्नावतिष्ठते ॥ १२.३३९.६ ॥
明暗二分月的这种交替确实永不停息;它消磨着已生的凡人,连一瞬也不停留。
12.339.7
सुखदुःखानि भूतानामजरो जरयत्यसौ ।
आदित्यो ह्यस्तमभ्येति पुनः पुनरुदेति च ॥ १२.३३९.७ ॥
那不老者使众生的苦乐衰老;太阳确实走向落山,并一再升起。
12.339.8
अदृष्टपूर्वानादाय भावानपरिशङ्कितान् ।
इष्टानिष्टान्मनुष्याणामस्तं गच्छन्ति रात्रयः ॥ १२.३३९.८ ॥
夜晚带着从未见过、未曾料想的境遇,携着人们的喜与忧,走向落山。
12.339.9
योयदिच्छेद्यथाकाममयत्नाच्च तदाप्नुयात् ।
यदि स्यान्न पराधीनं पुरुषस्य क्रियाफलम् ॥ १२.३३९.९ ॥
人若想要什么,便会依其所愿,不费力气就能得到——倘若人的行为果报不受他人支配。
12.339.10
संयताश्च हि दक्षाश्च मतिमन्तश्च मानवाः ।
दृश्यन्ते निष्फलाः सन्तः प्रहीणाः सर्वकर्मभिः ॥ १२.३३९.१० ॥
自我克制、精明且有智慧的人,也被看到毫无成效,失去了一切所为。
12.339.11
अपरे बालिशाः सन्तो निर्गुणाः पुरुषाधमाः ।
अशुभैरपि संयुक्ता दृश्यन्ते सर्वकामिनः ॥ १२.३३९.११ ॥
另一些人愚昧、无德,是人中之最下者,却与不祥之事相连,仍被看到得遂一切欲望。
12.339.12
भूतानामपरः कश्चिद्धिंसायां सततोत्थितः ।
वञ्चनायां च लोकस्य स सुखेष्वेव जीर्यते ॥ १२.३३९.१२ ॥
众生之中另有一人,常常热衷于暴力和欺骗世间;他恰恰在享乐之中衰老。
12.339.13
अचेष्टमानमासीनं श्रीः कंचिदुपतिष्ठते ।
कश्चित्कर्मानुसृत्यान्यो नाप्राप्यमधिगच्छति ॥ १२.३३९.१३ ॥
吉祥天女有时自会降临于静坐不动者;另一人则依循行动,获得尚未得到之物。
12.339.14
अपराधं समाचक्ष्व पुरुषस्य स्वभावतः ।
शुक्रमन्यत्र संभूतं पुनरन्यत्र गच्छति ॥ १२.३३९.१४ ॥
请讲明男子天性所致的那种过失:在一处产生的精液,又会流向另一处。
12.339.15
तस्य योनौ प्रसक्तस्य गर्भो भवति वा न वा ।
आम्रपुष्पोपमा यस्य निर्वृत्तिरुपलभ्यते ॥ १२.३३९.१५ ॥
对于沉溺于女阴之人,是否会有怀孕,其结果如芒果花一般显现。
12.339.16
केषांचित्पुत्रकामानामनुसन्तानमिच्छताम् ।
सिद्धौ प्रयतमानानां न चाण्डमुपजायते ॥ १२.३३९.१६ ॥
对于一些渴望儿子、盼望延续家族、努力求成的人,却不会生出卵(子嗣之种)。
12.339.17
गर्भाच्चोद्विजमानानां क्रुद्धादाशीविषादिव ।
आयुष्माञ्जायते पुत्रः कथं प्रेतः पितेव ह ॥ १२.३३९.१७ ॥
对于那些自胚胎起便惊惧、如同畏惧发怒毒蛇的人,怎能生出长寿的儿子?他将如死人一般,像他的父亲。
12.339.18
देवानिष्ट्वा तपस्तप्त्वा कृपणैः पुत्रगृद्धिभिः ।
दश मासान्परिधृता जायन्ते कुलपांसनाः ॥ १२.३३९.१८ ॥
供奉诸神、修行苦行之后,被贪求儿子的卑微之人怀胎十月,于是生下了玷污家族之人。
12.339.19
अपरे धनधान्यानि भोगांश्च पितृसंचितान् ।
विपुलानभिजायन्ते लब्धास्तैरेव मङ्गलैः ॥ १२.३३९.१९ ॥
另一些人生来便拥有祖先积累的丰厚财富、粮食与享受,这些都是由那些吉祥之行所获得的。
12.339.20
अन्योन्यं समभिप्रेत्य मैथुनस्य समागमे ।
उपद्रव इवाविष्टो योनिं गर्भः प्रपद्यते ॥ १२.३३९.२० ॥
两者彼此相求,在交合相会之时,胚胎如被某种灾祸所侵,进入子宫。
12.339.21
शीर्णं परशरीराणि च्छिन्नबीजं शरीरिणम् ।
प्राणिनं प्राणंसरोधे मांसश्लेष्मविचेष्टितम् ॥ १२.३३९.२१ ॥
他人之身皆会朽坏;种子被断,化为有身之生灵;气息被阻时,它在血肉与黏液中蠕动。
12.339.22
निर्दग्धं परदेहेऽपि परदेहं चलाचलम् ।
विनश्यन्तं विनाशान्ते भावि नावमिवाहितम् ॥ १२.३३९.२२ ॥
在他人之身中焚尽,却仍动荡不定,又趋向另一身体;在毁灭的尽头终将灭亡,如同置于船上之物。
12.339.23
सङ्गत्या जठरे न्यस्तं रेतोबिन्दुमचेतनम् ।
केन यत्नेन जीवन्तं गर्भं त्वमिह पश्यसि ॥ १२.३३९.२३ ॥
因交合而置于腹中的无知觉精液一滴——你以何种努力,在此看见它成为有生命的胎儿?
12.339.24
अन्नपानानि जीर्यन्ते यत्र भक्षाश्च भक्षिताः ।
तस्मिन्नेवोदरे गर्भः किं नान्नमिव जीर्यते ॥ १२.३३९.२४ ॥
食物、饮水与所食之物在其中消化的同一腹中,胎儿为何不像食物那样被消化?
12.339.25
गर्भे मूत्रपुरीषाणां स्वभावनियता गतिः ।
धारणे वा विसर्गे वा न कर्ता विद्यतेऽवशः ॥ १२.३३९.२५ ॥
在胎中,尿液与粪便的运行由其自性所决定;并无一个无能为力的施作者能够使其停留或排出。
12.339.26
स्रवन्ति ह्युदराद्गर्भा जायमानास्तथा परे ।
आगमेन तथाऽन्येषां विनाश उपपद्यते ॥ १२.३३९.२६ ॥
有些胎儿从腹中便已滑落,另一些在出生时死亡;同样,另一些的毁灭也由其降生本身而发生。
12.339.27
एतस्माद्योनिसंबन्धाद्यो जीवः परिमुच्यते ।
प्रजां च लभते कांचित्पुनर्द्वन्द्वेषु सज्जति ॥ १२.३३९.२७ ॥
从此胎之缚中解脱的生命,又得某种子嗣,然后再度执著于二元对立之中。
12.339.28
स तस्य सहजातस्य सप्तमीं नवमीं दशाम् ।
प्राप्नुवन्ति ततः पञ्च न भवन्ति शतायुषः ॥ १२.३३९.२८ ॥
他们到达该新生儿的第七与第九阶段;此后,其中五者不能活到百岁。
12.339.29
नाभ्युत्थाने मनुष्याणां योगाः स्युर्नात्र संशयः ।
व्याधिभिश्च विमथ्यन्ते व्याधैः क्षुद्रमृगा इव ॥ १२.३३९.२९ ॥
在人的身体成长之中,确会发生种种际遇,此无疑问;而人被疾病所折磨,如同小鹿被猎人所困扰。
12.339.30
व्याधिभिर्भक्ष्यमाणानां त्यजतां विपुलं धनम् ।
वेदनां नापकर्षन्ति यतमानाश्चिकित्सकाः ॥ १२.३३९.३० ॥
被疾病所吞噬、舍弃巨大财富的人,其痛苦即使是尽力施治的医者也不能减轻。
12.339.31
ते चापि निपुणा वैद्याः कुशलाः संभृतौषधाः ।
व्याधिभिः परिकृष्यन्ते मृगा व्याधैरिवार्दिताः ॥ १२.३३९.३१ ॥
即使那些精通、熟练、备齐药物的医师,也被疾病拖走,如同被猎人追逐折磨的鹿。
12.339.32
ते पिबन्तः कषायांश्च सर्पीषि विविधानि च ।
दृश्यन्ते जरया भग्ना नगा नागैरिवोत्तमैः ॥ १२.३३९.३२ ॥
他们虽饮用各种汤药和酥油,却仍被衰老摧折,如同被上好的大象折断的树木。
12.339.33
के वा भुवि चिकित्सन्ते रोगार्तान्मृगपक्षिणः ।
श्वापदानि दरिद्रांश्च प्रायो नार्ता भवन्ति ते ॥ १२.३३९.३३ ॥
世上谁来医治染病的鹿与飞鸟、猛兽与穷人?他们多半不免痛苦。
12.339.34
पौरानपि दुराधर्षान्नृपतीनुग्रतेजसः ।
आक्रम्य खादन्ते रोगाः पशून्पशुपचा इव ॥ १२.३३९.३४ ॥
疾病来袭,连城中的百姓和难以侵犯、威光炽烈的君王也一并吞噬,如同牧人吞食牲畜。
12.339.35
इति लोकमनाक्रन्दं मोहशोकपरिप्लुतम् ।
स्रोतसा सहसा क्षिप्तं ह्रियमाणं बलीयसा ॥ १२.३३९.३५ ॥
这世界沉溺于迷惑与忧愁,甚至无法哀号,忽然被抛入急流,被更强大的力量冲走。
12.339.36
न धनेन न राज्येन नोग्रेण तपसा तथा ।
स्वभावमतिवर्तन्ते ये नियुक्ताः शरीरिणः ॥ १२.३३९.३६ ॥
凡受此法所约束的有形众生,无论凭财富、王权,还是严酷苦行,都无法超越自己的本性。
12.339.37
न म्रियेरन्न जीर्येरन्सर्वे स्युः सर्वकामिनः ।
नाप्रियं प्रतिपश्येयुरुत्थानस्य फले सति ॥ १२.३३९.३७ ॥
若努力有果报,则无人会死或老去,人人皆能满足所愿,也不会遇见任何不如意之事。
12.339.38
उपर्युपरि लोकस्य सर्वो भवितुमीहते ।
यतते च यथाशक्ति न च तद्वर्तते तथा ॥ १२.३३९.३८ ॥
世间之人人人都想步步高升,也各尽所能努力,然而事情并不总是如此。
12.339.39
ऐश्वर्यमदमत्तांश्च मत्तान्मद्यमदेन च ।
अप्रमत्ताश्च शूराश्च विक्रान्ताः पर्युपासते ॥ १२.३३९.३९ ॥
人们侍奉那些因权势之傲而昏醉者、因酒醉而迷乱者,也侍奉那些警觉的、英勇的和威武的人。
12.339.40
क्लेशाः प्रतिनिवर्तन्ते केषांचिदसमीक्षिताः ।
स्वंस्वं न पुनरन्येषां न किंचिदधिगम्यते ॥ १२.३३९.४० ॥
有些人的烦恼无故消散,而另一些人则再也得不回自己所有的任何东西。
12.339.41
महच्च फलवैपम्यं दृश्यते कर्मसिद्धिषु ।
वहन्ति शिविकामन्ये यान्त्यन्ये शिविकागताः ॥ १२.३३९.४१ ॥
在事业的成就中可见结果的巨大不均:有人抬轿,有人则坐轿而行。
12.339.42
सर्वेषामृद्धिकामानामन्ये रथपुरःसराः ।
मनुजाश्च गतस्त्रीकाः शतशो विविधाः स्त्रियः ॥ १२.३३९.४२ ॥
在所有求富贵的人中,有些人走在车前引路,有些男子没有妻室,有些人则拥有数百位各式各样的女子。
12.339.43
द्वन्द्वारामेषु भूतेषु गच्छन्त्येकैकशो नराः ।
इदमन्यत्परं पश्य माऽत्र मोहं करिष्यसि ॥ १२.३३९.४३ ॥
在沉迷于二元对立的众生之中,人们一个一个地离去。看这另一个至上真理,不要在此迷惑。
12.339.44
त्यज धर्ममधर्मं च उभे सत्यानृते त्यज ।
उभे सत्यानृते त्यक्त्वा येन त्यजसि तं त्यज ॥ १२.३३९.४४ ॥
舍弃法与非法;舍弃真与假两者。舍弃真与假两者之后,也舍弃那借以舍弃之物。
12.339.45
एतत्ते परमं गुह्यमाख्यातमृषिसत्तम ।
येन देवाः परित्यज्य मर्त्यलोकं दिवं गताः ॥ १२.३३९.४५ ॥
此至上秘密已为你宣说,诸仙中最优者,诸天因此离开凡人世界而升往天界。
12.339.46
नारदस्य वचः श्रुत्वा शुकः परमबुद्धिमान् ।
संचिन्त्य मनसा धीरो निश्चयं नाध्यगच्छत ॥ १२.३३९.४६ ॥
闻听那罗陀的话语,最具智慧的坚定者шука在心中深思,却未能得出确定的结论。
12.339.47
पुत्रदारैर्महान्क्लेशो विद्याम्नाये महाञ्छ्रमः ।
किंनु स्याच्छाश्वतं स्थानमल्पक्लेशं महोदयम् ॥ १२.३३९.४७ ॥
子女与妻室带来巨大烦恼,学习与诵读吠陀带来巨大辛劳。那么,何处才是少烦恼而大兴盛的永恒之地呢?
12.339.48
ततो मुहूर्तं संचिन्त्य निश्चितां गतिमात्मनः ।
परावरज्ञो धर्मस्य परां नैःश्रेयसीं गतिम् ॥ १२.३३९.४८ ॥
于是,他稍作思索,这位知晓高下之人,便确定了自身的归宿:法之至上解脱之道。
12.339.49
कथं त्वहमसंश्लिष्टो गच्छेयं गतिमुत्तमाम् ।
नावर्तेयं यथा भूयो योनिसंसारसागरे ॥ १२.३३९.४९ ॥
我如何摆脱执着,到达那至上之道,使我不再回到轮回与胎生之海中?
12.339.50
परं भावं हि काङ्क्षामि यत्र नावर्तते पुनः ।
सर्वसङ्गान्परित्यज्य निश्चितो मनसा गतिम् ॥ १२.३३९.५० ॥
我渴望那至高之境,一旦到达便不再返回;舍弃一切执着,以心意坚定地走向那条道路。
12.339.51
तत्र यास्यामि यत्रात्मा शर्म मेऽधिगमिष्यति ।
अक्षयश्चाव्ययश्चैव यत्र स्थास्यामि शाश्वतः ॥ १२.३३९.५१ ॥
我将前往那里,在那里我的自我将得到安宁;在那里我将永恒不灭、不朽地安住。
12.339.52
न तु योगमृते शक्त्या प्राप्नुयां परमां गतिम् ।
अनुबन्धो विमुक्तस्य कर्मभिर्नोपपद्यते ॥ १२.३३९.५२ ॥
若无瑜伽,我凭自身之力无法达到那至上之道;对于解脱者而言,行为不会产生束缚。
12.339.53
यस्माद्योगं समास्थाय त्यक्त्वा गृहकलेवरम् ।
वायुभूतः प्रवेक्ष्यामि तेजोराशिं दिवाकरम् ॥ १२.३३९.५३ ॥
因此,我将修习瑜伽,舍弃这身体之屋,化为风,进入光明聚集的太阳。
12.339.54
न ह्येप क्षयतां याति सोमः सुरगणैर्यथा ।
कम्पितः पतते भूमिं पुनश्चैवाधिरोहति ॥ १२.३३९.५४ ॥
如同月亮被众神之群撼动,落到大地又重新升起,这位(月神苏摩)并不会走向衰败。
12.339.55
क्षीयते हि सदा सोमः पुनश्चैवाभिपूर्यते ।
नेच्छाम्येवं विदित्वैते ह्रासवृद्धी पुनः पुनः ॥ १२.३३९.५५ ॥
月亮总是亏损,然后又重新圆满。我反复知晓这亏损与增长,因此不愿如此。
12.339.56
रविस्तु संतापयते लोकान्रश्मिभिरुल्बणैः ।
सर्वतस्तेज आदत्ते नित्यमक्षयमण्डलः ॥ १२.३३९.५६ ॥
太阳以猛烈的光线炙烤世界;他的圆轮永不衰竭,他从四面八方不断汲取光辉。
12.339.57
अतो मे रोचते गन्तुमादित्यं दीप्ततेजसम् ।
अत्र वत्स्यामि दुर्धर्षो निःसङ्गेनान्तरात्मना ॥ १२.३३९.५७ ॥
因此我乐意前往光芒炽盛的太阳。我将以无执的内心住于此处,不可战胜。
12.339.58
सूर्यस्यर सदने चाहं निक्षिप्येदं कलेवरम् ।
ऋषिभिः सह वत्स्यामि सौरं तेजोऽतिदुःसहं ॥ १२.३३९.५८ ॥
我将此身置于太阳的居所,与诸仙人同住在那极难忍受的太阳光辉之中。
12.339.59
आपृच्छामि नगान्नागान्गिरीनुर्वी दिशो दश ।
देवदानवगन्धर्वान्पिशाचोरगराक्षसान् ॥ १२.३३९.५९ ॥
我向山岳、龙蛇、丘陵、大地与十方告别;也向天神、檀那婆、乾闼婆、毗舍遮、大蛇与罗刹告别。
12.339.60
लोकेषु सर्वभूतानि प्रवेक्ष्यामि न संशयः ।
पश्यन्तु योगवीर्यं मे सर्वे देवाः सहर्षिभिः ॥ १२.३३९.६० ॥
我将进入世间一切众生之中,毫无疑问。愿诸天神与仙人都来看我瑜伽的力量。
12.339.61
अथानुज्ञाप्य तमृषिं नारदं लोकविश्रुतम् ।
तस्मादनुज्ञां संप्राप्य जगाम पितरं प्रति ॥ १२.३३९.६१ ॥
随后,他向闻名于世间的仙人那罗陀告辞,得到允许后,便朝父亲的方向出发了。
12.339.62
सोऽभिवाद्य महात्मानं कृष्णद्वैपायनं मुनिम् ।
शुकः प्रदक्षिणं कृत्वा कृष्णमापृष्टवान्मुनिम् ॥ १२.३३९.६२ ॥
叙迦向伟大的仙人黑天·二岁尊致敬,右绕他一周,然后向仙人黑天请求告辞。
12.339.63
श्रुत्वा चर्षिस्तद्वचनं शुकस्य ।
प्रीतो महात्मा पुनराह चैनम्।
भोभो पुत्र स्थीयतां तावदद्य ।
यावच्चक्षुः प्रीणयामि त्वदर्थे ॥ १२.३३९.६३ ॥
仙人闻听叙迦之言,心中欢喜,又对他说:“孩子啊,你且暂留片刻,待我为你而让双目得到欣慰。”
12.339.64
निरपेक्षः शुको भूत्वा निःस्नेहो मुक्तसंशयः ।
मोक्षमेवानुसंचिन्त्य गमनाय मनो दधे ॥ १२.३३९.६४ ॥
叙迦无所期求、无情无爱、断除疑惑,唯一心思量解脱,于是决意离去。
12.339.65
पितरं स परित्यज्य जगाम मुनिसत्तमः ।
कैलासपृष्ठं विपुलं सिद्धसङ्घनिषेवितम् ॥ १२.३३९.६५ ॥
这位最优秀的仙人离开了父亲,前往广阔的冈仁波齐山脊,那里常有成就者的群体往来。