Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.34

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.34.1

तपसा कर्मणा चैव प्रदानेन च भारत ।
पुनाति पापं पुरुषः पूतश्चेन्न प्रवर्तते ॥ १२.३४.१ ॥

婆罗多啊!人以苦行、行为与布施洗净罪恶;若既已清净,便不再造作罪业。

12.34.2

एककालं तु भुञ्जानश्चरन्भैक्षं स्वकर्मकृत् ।
कपालपाणिः खट्वाङ्गी ब्रह्मचारी सदोत्थितः ॥ १२.३४.२ ॥

一日只食一餐,乞食而行,履行自身本分,手持骷髅,执持头骨杖,为梵行者,常时警醒。

12.34.3

अनसूयुरधः शायी कर्म लोके प्रकाशयन् ।
पूर्णैर्द्वादशभिर्वर्षैर्ब्रह्महा विप्रमुच्यते ॥ १२.३४.३ ॥

无嫉妒,卧于地上,于世间彰显其所为,满十二年之后,杀婆罗门者即得解脱。

12.34.4

लक्ष्यः शस्त्रभृतां वा स्याद्विदुषामिच्छयाऽऽत्मनः ।
प्रास्येदात्मानमग्नौ वा समिद्धे त्रिरवाक्शिराः ॥ १२.३४.४ ॥

或使自己成为持械者之靶,或依智者之愿献身;或将自己头朝下,三次投入燃烧的火中。

12.34.5

जपन्वाऽन्यतमं वेदं योजनानां शतं व्रजेत् ।
सर्वस्वं वा वेदविदे ब्राह्मणायोपपादयेत् ॥ १२.३४.५ ॥

诵持任一吠陀,行走百由旬;或将全部财产奉献给通晓吠陀的婆罗门。

12.34.6

धनं वा जीवनायालं गृहं वा सपरिच्छदम् ।
मुच्यते ब्रह्महत्याया गोप्ता गोब्राह्मणस्य च ॥ १२.३४.६ ॥

当给予足以维持生计的财富,或附带家具的房屋;护持牛与婆罗门者,即免于杀婆罗门之罪。

12.34.7

षङ्गिर्वर्षैः कृच्छ्रभोजी ब्रह्महा पूयते नरः ।
मासेमासे समश्नंस्तु त्रिभिर्वर्षैः प्रमुच्यते ॥ १२.३४.७ ॥

杀害婆罗门的人若食用苦行食物六年,便得清净;若每月进食,则三年即得解脱。

12.34.8

संवत्सरेण मासाशी पूयते नात्र संशयः ।
तथैवोपवसन्राजन्स्वल्पेनापि प्रपूयते ॥ १२.३४.८ ॥

一年中每月只吃一次饭的人便得清净,此无疑问;同样,大王,禁食者即使只做少许,也能彻底清净。

12.34.9

क्रतुना चाश्वमेधेन पूयते नात्र संशयः ।
ये चाप्यवभृथस्नाताः केचिदेवंविधा नराः।
ते सर्वे धूतपाप्मानो भवन्तीति परा श्रुतिः ॥ १२.३४.९ ॥

人借祭祀,即马祠祭,便得清净,此无疑问;凡行过终末沐浴者,以及此类的某些人,都会脱离罪恶——至高的天启如此宣说。

12.34.10

ब्राह्मणार्थे हतो युद्धे मुच्यते ब्रह्महत्यया ॥ १२.३४.१० ॥

为婆罗门而战死于战场的人,便脱离杀害婆罗门之罪。

12.34.11

गवां शतसहस्रं तु पात्रेभ्यः प्रतिपादयेत् ।
ब्रह्महा विप्रमुच्येत सर्वपापेभ्य एव च ॥ १२.३४.११ ॥

应将十万头牛施予合适的受施者;杀害婆罗门者若施予婆罗门,便脱离一切罪恶。

12.34.12

कपिलानां सहस्राणि यो दद्यात्पञ्चविंशतिम् ।
दोग्ध्रीणां स च पापेभ्यः सर्वेभ्यो विप्रमुच्यते ॥ १२.३४.१२ ॥

在数千头红褐色母牛中施予二万五千头产奶母牛的人,便脱离一切罪恶。

12.34.13

गोसहस्रं सवत्सानां दोग्ध्रीणां प्राणसंशये ।
साधुभ्यो वै दरिद्रेभ्यो दत्त्वा मुच्येत किल्विषात् ॥ १२.३४.१३ ॥

若在性命攸关之际,将千头带犊的乳牛施予有德的贫者,便可脱离罪业。

12.34.14

शतं वै यस्तु काम्भोजान्ब्राह्मणेभ्यः प्रयच्छति ।
नियतेभ्यो महीपाल स च पापात्प्रमुच्यते ॥ १२.३४.१४ ॥

啊,大地的守护者,若将百匹劲马施予持戒自律的婆罗门,便可完全脱离罪业。

12.34.15

मनोरथं तु यो दद्यादेकस्मा अपि भारत ।
न कीर्तयेत दत्त्वा यः स च पापात्प्रमुच्यते ॥ १२.३४.१५ ॥

啊,婆罗多的后裔,若哪怕只将所愿之物施予一人,且施后不自夸,便可脱离罪业。

12.34.16

सुरापानं सकृत्कृत्वा योऽग्निवर्णां सुरां पिबेत् ।
स पावयत्यथात्मानमिह लोके परत्र च ॥ १२.३४.१६ ॥

若曾饮酒一次,又饮下如火色的烈酒者,便在今世与来世净化自己。

12.34.17

मरुप्रपातं प्रपतञ्ज्वलनं वा समाविशन् ।
महाप्रस्थानमातिष्ठन्मुच्यते सर्वकिल्बिषैः ॥ १२.३४.१७ ॥

坠入沙漠,或投身烈火,或踏上大行之路,人便脱离一切罪业。

12.34.18

बृहस्पतिसवेनेष्ट्वा सुरापो ब्राह्मणः पुनः ।
समितिं ब्राह्मणो गच्छेदिति वै ब्रह्मणः श्रुतिः ॥ १२.३४.१८ ॥

婆罗门饮过烈酒者,若行布利哈斯帕蒂祭,便可重新进入婆罗门的集会——梵天的启示如此说。

12.34.19

भूमिप्रदानं कुर्याद्यः सुरां पीत्वा विमत्सरः ।
पुनर्न च पिबेद्राजन्संस्कृतः स च शुध्यति ॥ १२.३४.१९ ॥

若人无嫉妒,饮酒之后施舍土地,且不再饮,王啊,经过仪式便得清净。

12.34.20

गुरुतल्पी शिलां तप्तामायसीमभिसंविशेत् ।
अवकृत्यात्मनः शेफं प्रव्रजेदूर्ध्वदर्शनः ॥ १२.३४.२० ॥

玷污师尊床榻者,应躺在烧红的铁板上,割除自己的男根,仰望而行。

12.34.21

शरीरस्य विमोक्षेण मुच्यते कर्मणोऽशुभात् ।
कर्मभ्यो विप्रमुच्यन्ते यताः संवत्सरं स्त्रियः ॥ १२.३४.२१ ॥

舍弃身体,人便从不吉之业中解脱;自制的女子经过一年,便从诸业中完全解脱。

12.34.22

महाव्रतं चरेद्यस्तु दद्यात्सर्वस्वमेव तु ।
गुर्वर्थे वा हतो युद्धे स मुच्येत्कर्मणोऽशुभात् ॥ १२.३४.२२ ॥

行大誓愿并施舍全部财产者,或为师长战死于战场者,可从不吉之业中解脱。

12.34.23

अनृतेनोपवर्ती चेत्प्रतिरोद्धा गुरोस्तथा ।
उपाहृत्य प्रियं तस्मै तस्मात्पापात्प्रमुच्यते ॥ १२.३४.२३ ॥

若以虚言误导他人,或阻碍师长,则向其献上所喜之物,便可脱离那罪。

12.34.24

अवकीर्णनिमित्तं तु ब्रह्महत्याव्रतं चरेत् ।
गोचर्मवासाः षण्मासांस्तथा मुच्येत किल्बिषात् ॥ १२.३४.२४ ॥

因有所玷污,应行杀婆罗门之誓;身披牛皮六个月,便可脱离罪过。

12.34.25

परदारोपसेवी तु परस्यापहरन्वसु ।
संवत्सरं व्रती भूत्वा तथा मुच्येत किल्बिषात् ॥ १२.३४.२५ ॥

若与他人之妻相好并盗取他人财物者,持戒一年,如此便可脱离罪过。

12.34.26

धनं तु यस्यापहरेत्तस्मै दद्यात्समं वसु ।
विविधेनाभ्युपायेन तदा मुच्येत किल्बिषात् ॥ १२.३४.२६ ॥

凡盗取他人财物者,应将等量的财物归还其主;以种种方法如此行之,便可脱离罪过。

12.34.27

कृच्छ्राद्द्वादशरात्रेण संयतात्मा व्रते स्थितः ।
परिवेत्ता भवेत्पूतः परिवित्तिस्तथैव च ॥ १२.३४.२७ ॥

行克里恰拉苦行十二夜,克制其心,坚守戒律,则离家在先者得以清净,先后娶嫁的兄长亦然。

12.34.28

निवेश्यं तु पुनस्तेन भवेत्तारयता पितॄन् ।
न तु स्त्रिया भवेद्दोषो न तु सा तेन लिप्यते ॥ १२.३४.२८ ॥

使祖先得救的那个人,应当再将她接回家中;女子并无过失,她也不因此而被玷污。

12.34.29

भोजनं ह्यन्तराशुद्धं चातुर्मास्ये विधीयते ।
स्त्रियस्तेन प्रशुध्यन्ति इति धर्मविदो विदुः ॥ १२.३४.२९ ॥

在四月之季,即使中间不净的食物也被规定;女子借此得以清净,懂得法的人如此知晓。

12.34.30

स्त्रियस्त्वाशङ्किताः पापे नोपगम्या विजानता ।
रजसा ता विशुध्यन्ते भस्मना भाजनं यथा ॥ १२.३४.३० ॥

然而,对于有过失嫌疑的女子,有智者不应亲近;她们经由月经而清净,如同器皿以灰烬而清净。

12.34.31

पादजोच्छिष्टकांस्यं यद्गवा घ्रातमथापि वा ।
गण्डूषोच्छिष्टमपि वा विशुध्येद्दशभिस्तु तत् ॥ १२.३४.३१ ॥

被脚触碰、被牛嗅过、或被口中残余唾液污染的铜器,以十种方法净化。

12.34.32

चतुष्पात्सकलो धर्मो ब्राह्मणस्य विधीयते ।
पादोन इष्टो राजन्ये तथा धर्मो विधीयते ॥ १२.३४.३२ ॥

婆罗门被规定遵行完整的四足法;刹帝利则被认为应遵行少一足的法,大王,法就这样被规定。

12.34.33

तथा वैश्ये च शूद्रे च पादः पादो विधीयते ।
विद्यादेवंविधनैषां गुरुलाघवनिश्चयम् ॥ १२.३४.३३ ॥

同样,为吠舍与首陀罗各规定一足之差;应当了解他们之间轻重的这种判定。

12.34.34

तिर्यग्योनिवधं कृत्वा द्रुमांश्छित्वोत्तरान्बहून् ।
त्रिरात्रं वायुभक्षः स्यात्कर्म च प्रथयन्नरः ॥ १२.३४.३४ ॥

杀死一个畜生,并砍伐北方的许多树木之后,此人应只以风为食三夜,并宣告自己的行为。

12.34.35

अगम्यागमने राजन्प्रायश्चित्तं विधीयते ।
आर्द्रवस्त्रेण षण्मासान्विभाव्यं भस्मशायिना ॥ १२.३४.३५ ॥

大王,与不可交往者行淫,须规定赎罪:穿湿衣、睡灰中,应持续六个月。

12.34.36

एवमेव तु सर्वेषामकार्याणां विधिर्भवेत् ।
ब्रह्मणोक्तेन विधिना दृष्टान्तागमहेतुभिः ॥ १२.३४.३६ ॥

同样,对于一切不当之行,也应有规定,依照梵天所说的规则,以譬喻与经典为依据。

12.34.37

सावित्रीमप्यधीयानः शुचौ देशे मिताशनः ।
अहिंसो मन्दकं जल्पान्मुच्यते सर्वकिल्बिषात् ॥ १२.३४.३७ ॥

在洁净之处诵念萨维特里,饮食有节,不伤生,少言者,可解脱一切罪业。

12.34.38

अहः सु सततं तिष्ठेदभ्याकाशं निशाः स्वपन् ।
त्रिरह्नि त्रिर्निशायां च सवासा जलमाविशेत् ॥ १२.३४.३८ ॥

白天应常立于露天之下,夜晚应露天而眠;白天三次、夜晚三次,应穿着衣服入水。

12.34.39

स्त्रीशूद्रपतितांश्चापि नाभिभाषेद्ब्रतान्वितः ।
पापान्यज्ञानतः कृत्वा मुच्येदेवंव्रतो द्विजः ॥ १२.३४.३९ ॥

持守誓愿的再生者,即使对妇女、首陀罗或堕落之人也不应交谈;若因无知而造作罪业,持守此誓即可解脱。

12.34.40

शुभाशुभफलं प्रेत्य लभते भूतसाक्षिकम् ।
अतिरिच्येत्तयोर्यस्तु तत्कर्ता लभते फलम् ॥ १२.३४.४० ॥

死后人所得善恶业报,以众生为证;二者中何者为多,行者便得其果。

12.34.41

तस्माद्दानेन तपसा कर्मणा च फलं शुभम् ।
वर्धयेदशुभं कृत्वा यथा स्यादतिरेकवान् ॥ १२.३४.४१ ॥

故当以布施、苦行与善业增益善果;即使曾造恶业,也应行善,使善果更为殊胜。

12.34.42

कुर्याच्छुभानि कर्माणि निमित्ते पापकर्मणाम् ।
दद्यान्नित्यं च वित्तानि तथा मुच्येत किल्बिषात् ॥ १२.३४.४२ ॥

为作恶之人而行善,并常常布施财物,如此便可脱离罪业。

12.34.43

अनुरूपं हि पापस्य प्रायश्चित्तमुदाहृतम् ।
महापातकवर्जं तु प्रायश्चित्तं विधीयते ॥ १२.३४.४३ ॥

确实宣说了与罪相称的赎罪;除大罪之外,规定了赎罪之法。

12.34.44

भक्ष्याभक्ष्येषु चान्येषु वाच्यावाच्ये तथैव च ।
अज्ञानज्ञानयो राजन्विहितान्यनुजानतः ॥ १२.३४.४४ ॥

国王啊,对于在饮食可否、其他事务以及可言与不可言之事上,无论出于无知或有知而遵行所规定之事者,(有赎罪之法)。

12.34.45

जानता तु कृतं पापं गुरु सर्वं भवत्युत ।
अज्ञानात्स्खलिते दोषे प्रायश्चित्तं विधीयते ॥ १२.३४.४५ ॥

明知而犯的罪确实变得极为严重;因无知而失误的过错,则规定了赎罪之法。

12.34.46

शक्यते विधिना पापं यथोक्तेन व्यपोहितुम् ।
आस्तिके श्रद्दधाने च विधिरेष विधीयते ॥ १२.३४.४६ ॥

依所说之仪轨,罪可以除去;此仪轨是为有信仰、有虔敬心的信徒所规定的。

12.34.47

नास्तिकाश्रद्दधानेषु पुरुषेषु कदाचन ।
दम्भद्वेषप्रधानेषु विधिरेष न शिष्यते ॥ १२.३४.४७ ॥

对于不信之人、无信之人,以及以伪善和憎恨为主的人,此仪轨从来不会留存其效。

12.34.48

शिष्टाचारश्च दिष्टश्च धर्मो धर्मभूतां वर ।
सेवितव्यो नरव्याघ्र प्रेत्येह च हितेप्सुना ॥ १२.३४.४८ ॥

义人中之最杰出者,人中之虎啊:欲求今世与来世之利益者,应当遵循贤者的行为与经典所规定的法。

12.34.49

स राजन्मोक्ष्यते पापात्तेन पूर्णेन हेतुना ।
त्राणार्थं वा वधे तेषामथवा नृपकर्मणा ॥ १२.३४.४९ ॥

大王啊,他将因那完整的理由而脱离罪恶——为了保护他们,或在杀害他们之中,或由于王者的职责。

12.34.50

अथवा ते घृणा काचित्प्रायश्चित्तं चरिष्यसि ।
मा चैवानार्यजुष्टेन मृत्युना निधनं गमः ॥ १२.३४.५० ॥

或者,如果你心中有些许悲悯,你将行赎罪之事;不要因不高尚之人所行的死亡而走向毁灭。

12.34.51

एवमुक्तो भगवता धर्मराजो युधिष्ठिरः ।
चिन्तयित्वा मुहूर्तेन प्रत्युवाच तपोधनम् ॥ १२.३४.५१ ॥

世尊如此说后,法王坚战沉思片刻,便回答了那以苦行为财富的仙人。