Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.35

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.35.1

किं भक्ष्यं चाप्यभक्ष्यं च किंच देयं प्रशस्यते ।
किंच पात्रमपात्रं वा तन्मे ब्रूहि पितामह ॥ १२.३५.१ ॥

何者可食,何者不可食,何种布施受到赞扬,何为合格或不合格的受施者,请告诉我,祖父。

12.35.2

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
सिद्धानां चैव संवादं मनोश्चैव प्रजापतेः ॥ १२.३५.२ ॥

此处人们也讲述这个古老的故事:成就者之间的对话,以及摩奴与生主之间的对话。

12.35.3

ऋषयस्तु व्रतपराः समागम्य पुरा विभुम् ।
धर्मं पप्रच्छुरासीनमादिकाले प्रजापतिम् ॥ १२.३५.३ ॥

精修誓愿的仙人们在远古相聚,向坐在太初之时的遍在生主请问法义。

12.35.4

कथमन्त्रं कथं दानं गम्यागम्याः कथं स्त्रियः ।
कार्याकार्यं च यत्सर्वं शंस वै त्वं प्रजापते ॥ १२.३५.४ ॥

食物应当如何,布施应当如何,可以亲近哪些女子、不可亲近哪些女子,何者应为何者不应为——这一切,生主啊,请您亲自讲说。

12.35.5

तैरेवमुक्तो भगवान्मनुः स्वायंभुवोऽब्रवीत् ।
शुश्रूषध्वं यथावृत्तं धर्मं व्याससमासतः ॥ १२.३५.५ ॥

他们如此请问,世尊自生之子摩奴说道:“听着,按原本的样子;法由毗耶娑简要道来。”

12.35.6

अनादेशे जपो होम उपवासस्तथैव च ।
आत्मज्ञानं पुण्यनद्यो यत्र प्रायश्च तत्पराः ॥ १२.३५.६ ॥

无需命令,诵念、火祭、斋戒,同样还有自知,以及圣河——人们多半专注于此。

12.35.7

अनादिष्टं तथैतानि पुण्यानि धरणीभृतः ।
सुवर्णप्राशनमपि रत्नादिस्नानमेव च ॥ १२.३५.७ ॥

这些虽未规定,对君王而言也是功德之事:饮用金屑,以及用珠宝等沐浴。

12.35.8

देवस्थानाभिगमनमाज्यप्राशनमेव च ।
एतानि मेध्यं पुरुषं कुर्वन्त्याशु न संशयः ॥ १२.३५.८ ॥

前往诸神的圣所,以及饮用澄清黄油,也能迅速使人清净,此无疑问。

12.35.9

न गर्वेण भवेत्प्राज्ञः कदाचिदपि मानवः ।
दीर्घमायुरथेच्छन्हि त्रिरात्रं चोष्णपो भवेत् ॥ १२.३५.९ ॥

智者绝不可因骄傲而自满。若欲长寿,应当连续三夜只饮热水。

12.35.10

अदत्तस्यानुपादानं दानमध्ययनं तपः ।
अहिंसा सत्यमक्रोधं क्षमा धर्मस्य लक्षणम् ॥ १२.३५.१० ॥

不取非所予之物、布施、诵习、苦行、不杀、诚实、无怒与忍辱,这些便是法的标志。

12.35.11

स एव धर्मः सोऽधर्मो देशकाले प्रतिष्ठितः ।
आदानमनृतं हिंसा धर्मो ह्यात्यन्तिकः स्मृतः ॥ १२.३५.११ ॥

同一件事,依处所与时节而定,既是法,也是非法。取物、妄语与杀害,被传为绝对之法。

12.35.12

द्विविधौ चाप्युभावेतौ धर्माधर्मौ विजानताम् ।
अप्रवृत्तिः प्रवृत्तिश्च द्वैविध्यं लोकवेदयोः ॥ १२.३५.१२ ॥

对知者而言,法与非法皆有两种:不作与作为。此二分既见于世间,也见于吠陀。

12.35.13

अप्रवृत्तेरमर्त्यत्वं मर्त्यत्वं कर्मणः फलम् ।
अशुभस्याशुभं विद्याच्छुभस्य शुभमेव च।
एतयोश्चोभयोः स्यातां शुभाशुभतया तथा ॥ १२.३५.१३ ॥

无所作为则得不死,作业之果则是有死。应知不善只结不善之果,善只结善之果;二者依善恶之性皆如此。

12.35.14

दैवं च दैवसंयुक्तं प्राणश्च प्रलयस्तथा ।
अप्रेक्षापूर्वकरणादशुभानां शुभं फलम् ॥ १२.३५.१४ ॥

天命、与天命相连的命气,以及毁灭,亦然。因未先加思虑而行,即使不善之事也得善果。

12.35.15

ऊर्ध्वं भवति संदेहादिहादिष्टार्थमेव च ।
अप्रेक्षापूर्वकरणात्प्रायश्चित्तं विधीयते ॥ १२.३५.१५ ॥

因疑惑,此处所定之事亦于之后发生;因未先思虑而行,便规定了赎罪之法。

12.35.16

क्रोधमोहकृते चैव दृष्टान्तागमहेतुभिः ।
शरीराणामुपक्लेशो मनसश्च प्रियाप्रिये।
तदौषधैश्च मन्त्रैश्च प्रायश्चित्तैश्च शाम्यति ॥ १२.३५.१६ ॥

因愤怒与迷惑而起,由所见之例与经典之因,身体受苦,心为可爱与不可爱而烦恼;此以药物、咒语与赎罪之法而平息。

12.35.17

उपवासेनैकरात्रं दण्डोत्सर्गे नराधिपः ।
विशुद्ध्येदात्मशुद्ध्यर्थं त्रिरात्रं तु पुरोहितः ॥ १२.३५.१७ ॥

国王以一夜禁食,于放下刑罚之事上得以清净,为自我清净;而家祭司则需三夜。

12.35.18

क्षयं शोकं प्रकुर्वाणो न म्रियेत यदा नरः ।
शस्त्रादिभिरुपाविष्टस्त्रिरात्रं तत्र निर्दिशेत् ॥ १२.३५.१८ ॥

若人造成损失而悲痛,即便被兵器等所伤仍未死去,则应在此规定三夜之法。

12.35.19

जातिश्रेण्यधिवासानां कुलधर्मांश्च शाश्वतान् ।
वर्जयन्ति च ये धर्मं तेषां धर्मो न विद्यते ॥ १२.३५.१९ ॥

对于那些抛弃居于种姓与行会中之人的永恒家族职责、并舍弃法(dharma)的人,便没有法。

12.35.20

दश वा वेदशास्त्रज्ञास्त्रयो वा धर्मपाठकाः ।
यद्ब्रूयुः कार्य उत्पन्ने स धर्मो धर्मसंशये ॥ १२.३५.२० ॥

无论是十位通晓吠陀与典籍之人,还是三位诵习法之人,事情发生时他们所说的,便是疑惑中的法。

12.35.21

अनुष्णा मृत्तिका चैव तथा क्षुद्रपिपीलिकाः ।
श्लेष्मातकस्तथा विप्रैरभक्ष्यं विषमेव च ॥ १२.३५.२१ ॥

未经烧制的泥土、细小的蚂蚁,同样还有黏液树(śleṣmātaka),以及毒物,婆罗门都不可食用。

12.35.22

अभक्ष्या ब्राह्मणैर्मत्स्याः शकलैर्ये विवर्जिताः ।
चतुष्पात्कच्छपादन्यो मण्डूका जलजाश्च ये ॥ १२.३५.२२ ॥

婆罗门不可食用的鱼是那些无鳞者;除四足龟外的其他,蛙类以及水生之物,也同样被排除在外。

12.35.23

भासा हंसाः सुपर्णाश्च चक्रवाकाः प्लवा बकाः ।
काको मद्रुश्च गृध्रश्च श्येनोलूकस्तथैव च ॥ १२.३५.२३ ॥

鹙鸟、天鹅、金翅鸟、赤鸭、水鸟与鹭;乌鸦、madru鸟、秃鹫、鹰与猫头鹰,亦复如是。

12.35.24

क्रव्यादा दंष्ट्रिणः सर्वे चतुष्पात्पक्षिणश्च ये ।
येषां चोभयतो दन्ताश्चतुर्दंष्ट्राश्च सर्वशः ॥ १२.३५.२४ ॥

一切食肉和有牙的动物,四足之鸟,两侧皆有牙者,以及完全有四颗犬齿者。

12.35.25

एडकाश्च मृगोष्ट्राणां सूकराणां गवामपि ।
मानुषीणां खरीणां च न पिबेद्ब्राह्मणः पयः ॥ १२.३५.२५ ॥

婆罗门不应饮用母羊、鹿、骆驼、猪、母牛、人类女性或母驴的奶。

12.35.26

प्रेतान्नं सूतकान्नं च यच्च किंचिदनिर्दशम् ।
अभोज्यं चाप्यपेयं च धेनोर्दुग्धमनिर्दशम् ॥ १२.३५.२६ ॥

死者之食、丧污之食以及十日之内的任何食物,不可食用或饮用;母牛十日之内的奶不可饮用。

12.35.27

राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम् ।
आयुः सुवर्णकारान्नमवीरायाश्च योषितः ॥ १२.३५.२७ ॥

王者之食夺去光辉,首陀罗之食夺去梵之光采,金匠之食夺去寿命,无英勇之子的妇人之食亦然。

12.35.28

विष्ठा वार्धुषिकस्यान्नं गणिकान्नमथेन्द्रियम् ।
मृष्यन्ति ये चोपपतिं स्त्रीजितान्नं च सर्वशः ॥ १२.३५.२८ ॥

放高利贷者的食物如同粪便;妓女的食物毁坏感官;容忍情夫者的食物,以及完全受女人支配者的食物,亦然。

12.35.29

दीक्षितस्य कदर्यस्य क्रतुविक्रयिकस्य च ।
तक्ष्णश्चर्मावकर्तुश्च पुंश्चल्या रजकस्य च ॥ १२.३५.२९ ॥

受戒祭祀者、吝啬者、卖祭者、木匠、皮匠、娼妓和洗衣匠的食物亦然。

12.35.30

चिकित्सकस्य यच्चान्नमभोज्यं रक्षिणस्तथा ।
गणग्रामाभिशस्तानां रङ्गस्त्रीजीविनां तथा ॥ १२.३५.३० ॥

医生与守卫的食物不可食用;同样,被团体或村落指控者的食物,以及在舞台上扮演女角为生的伶人的食物,亦不可食用。

12.35.31

परिवित्तीनामपुंसां च बन्दिद्यूतविदां तथा ।
वामहस्ताहृतं चान्नं शुष्कं पर्युषितं च यत् ॥ १२.३५.३१ ॥

先于长兄娶妻者、阉人、囚犯与赌徒之食,以左手奉上之食,以及干燥的和隔夜的食物。

12.35.32

सुरानुगतमुच्छिष्टमभोज्यं शेषितं च यत् ।
पिष्टमांसेक्षुशाकानामाविकाजापयस्तथा।
सक्तु धाना करम्भाश्च नोपभोग्याश्चिरस्थिताः ॥ १२.३५.३२ ॥

随酒而来之物、残食、不可食之物及剩余之物;碎肉、甘蔗与蔬菜、羊奶、麦粉、炒谷与和以凝乳之谷,若久置者,皆不可食用。

12.35.33

पायसं कृसरं मांसमपूपाश्च वृथा कृताः ।
अपेयाश्चाप्यभक्ष्याश्च ब्राह्मणैर्गृहमेधिभिः ॥ १२.३५.३३ ॥

乳粥、米粥、肉与饼,若是徒然所作,对居家婆罗门而言,既不可饮,也不可食。

12.35.34

देवानृषीन्मनुष्यांश्च पितॄन्गृह्याश्च देवताः ।
पूजयित्वा ततः पश्चाद्गृहस्थो भोक्तुमर्हति ॥ १२.३५.३४ ॥

先敬拜诸天、仙人、人类、祖先与家神之后,居家者方才有资格进食。

12.35.35

यथा प्रव्रजितो भिक्षुस्तथैव स्वे गृहे वसेत् ।
एवंवृत्तः प्रियैर्दारैः संबसन्धर्ममाप्नुयात् ॥ १२.३५.३५ ॥

如同出家比丘之生活,居家者亦当安居于自家;如此行事,与所爱之妻同居,便可得法。

12.35.36

न दद्याद्यशसे दानं न भयान्नोपकारिणे ।
न नृत्यगीतशीलेषु हासकेषु च धार्मिकः ॥ १२.३५.३६ ॥

有德之人不应为求名而布施,不应因畏惧而布施,也不应施予曾帮助自己的人;亦不应施予好歌舞者与戏谑之人。

12.35.37

न मत्ते चैव नोन्मत्ते न स्तेने न च कुत्सके ।
न वाग्घीने विवर्णे वा नाङ्गहीने न वामने ॥ १२.३५.३७ ॥

不应施与醉者、狂人、盗贼或诽谤者。也不应施与不能言语、容貌残缺、肢体有缺或侏儒者。

12.35.38

न दुर्जने दौष्कुले वा व्रतैर्यो वा न संस्कृतः ।
न श्रोत्रियमृते दानं ब्राह्मणे ब्रह्मवर्जिते ॥ १२.३५.३८ ॥

不应施与恶人、出身恶劣者,或未以誓戒修养者。除了通晓吠陀的学者,不应施与不懂吠陀的婆罗门。

12.35.39

असम्यच्कैव यद्दत्तमसम्यक् च प्रतिग्रहः ।
उभयं स्यादनर्थाय दातुरादातुरेव च ॥ १२.३५.३९ ॥

不当地施与和不当地接受,二者都会给施者和受者带来灾祸。

12.35.40

यथा खदिरमालम्ब्य शिलां वाप्यर्णवं तरन् ।
मञ्जेत मञ्जतस्तद्वद्दाता यश्च प्रतिग्रही ॥ १२.३५.४० ॥

如同抓住槐木或石头渡海的人会沉没,施者与受者也同样沉没。

12.35.41

काष्ठैरार्द्रैर्यथा वह्निरुपस्तीर्णो न दीप्यते ।
तपःस्वाध्यायचारित्रैरेवं हीनः प्रतिग्रही ॥ १२.३५.४१ ॥

如同被湿柴覆盖的火不会燃烧,缺乏苦行、诵读吠陀与德行的受施者也不会光辉。

12.35.42

कपाले यद्वदापः स्युः श्वदृतौ च यथा पयः ।
आश्रयस्थानदोषेण वृत्तहीने तथा श्रुतम् ॥ १२.३५.४२ ॥

如同盛在骷髅中的水、盛在狗皮袋中的奶会因容器之过而变质,缺乏德行者所学的知识也会因承载之器的缺陷而败坏。

12.35.43

निर्मन्त्रो निर्वृतो यः स्यादशास्त्रज्ञोऽनसूयकः ।
अनुक्रोशात्प्रदातव्यं हीनेष्वव्रतिकेषु च ॥ १२.३५.४३ ॥

对于没有咒语、没有仪式、不通晓学问且不嫉妒的人,应出于慈悲施舍;对贫困者和无戒律者亦然。

12.35.44

न वै देयमनुक्रोशाद्दीनायापगुणाय तु ।
आप्ताचरित इत्येव धर्म इत्येव वा पुनः ॥ १२.३५.४४ ॥

不应出于慈悲施予贫苦者或无德之人,也不应以'这是可信者的行为'或'这就是法'为由而施予。

12.35.45

निष्कारणं स्मृतं दत्तं ब्राह्मणे ब्रह्मवर्जिते ।
न फलेत्पात्रदोषेण न चात्रास्ति विचारणा ॥ १२.३५.४५ ॥

施予不通吠陀的婆罗门之物,被记载为无益;因受施者的缺失,不结果实,此中无疑。

12.35.46

यथा दारुमयो हस्ती यथा चर्ममयो मृगः ।
ब्राह्मणश्चानधीयानस्त्रयस्ते नामधारकाः ॥ १२.३५.४६ ॥

如同木象与皮鹿,不诵读吠陀的婆罗门——这三者只是徒有其名。

12.35.47

यथा षण्ढोऽफलः स्त्रीषु यथा गौर्गवि चाफला ।
शकुनिर्वाप्यपक्षः स्यान्निर्मन्त्रो ब्राह्मणस्तथा ॥ १२.३५.४७ ॥

如同女人中的阉人无子、牛群中的不育母牛、鸟群中的无翼之鸟,无咒语的婆罗门亦然。

12.35.48

ग्रामस्थानं यथा शून्यं यथा कूपश्च निर्जलः ।
यथा हुतमनग्नौ च तथैव स्यान्निराकृतौ ॥ १२.३५.४८ ॥

如同村落之地空无一人,井中无水,或无火而献的供品,施舍便归于虚无。

12.35.49

देवतानां पितॄणां च हव्यकव्यविनाशकः ।
सर्वथाऽर्थहरो मूर्खो न लोकान्प्राप्तुमर्हति ॥ १२.३५.४९ ॥

毁坏献给诸神与祖先的供物、又全面掠夺财富的愚人,不配获得诸界。

12.35.50

एतत्ते कथितं सर्वं यथावृत्तं युधिष्ठिर ।
समासेन महद्ध्येतच्छ्रोतव्यं नरतर्षभ ॥ १२.३५.५० ॥

坚战啊,这一切已按其发生的情形简要地告诉了你。人中的公牛啊,这件大事值得聆听。