Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.350

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.350.1

अस्तौषीद्वैदिकैर्व्यासः सशिष्यो मधुसूदनम् ।
नामभिर्विविधैरेषां निरुक्तं भगवन्मम ॥ १२.३५०.१ ॥

毗耶娑与弟子以吠陀颂歌赞美摩图苏陀那。尊者啊,请为我解说这些各种名号的词源。

12.350.2

वक्तुमर्हसि शुश्रूषोः प्रजापतिपतेर्हरः ।
श्रुत्वा भवेयं यत्पूतः शरच्चन्द्र इवामलः ॥ १२.३५०.२ ॥

哈利啊,众生之主的主宰,请您为我这渴望聆听的人讲说,使我闻后变得纯净无垢,如秋月一般。

12.350.3

शृणु राजन्यथाचष्ट फल्गुनस्य हरिः प्रभुः ।
प्रसन्नात्मात्मनो नाम्नां निरुक्तं गुणकर्मजम् ॥ १२.३५०.३ ॥

大王请听,正如主哈利心怀欢喜,向法尔古那(阿周那)讲说他自己名号的词源,这些名号源于其德性与事业。

12.350.4

नामभिः कीर्तितैस्तस्य केशवस्य महात्मनः ।
पृष्टवान्केशवं राजन्फगुनः परवीरहा ॥ १२.३५०.४ ॥

大王,灭敌英雄的法尔古那就那位大心的罗斯婆(Keśava)所被赞颂的名号,询问了罗斯婆。

12.350.5

भगवन्भूतभव्येश सर्वभूतसृगव्यय ।
लोकधाम जगन्नाथ लोकानामभयप्रद ॥ १२.३५०.५ ॥

尊者啊,过去与未来之主,一切众生的创造者,不灭者,诸世界之所依,世界之主,赐予众世界无畏者!

12.350.6

यानि नामानि ते देव कीर्तितानि महर्षिभिः ।
वेदेषु सपुराणेषु यानि गुह्यानि कर्मभिः ॥ १२.३५०.६ ॥

天神啊,您那些被大仙在吠陀与往世书中所赞颂、因您的事业而隐秘的名号。

12.350.7

तेषां निरुक्तं त्वत्तोऽहं श्रोतुमिच्छामि केशव ।
न ह्यन्यो वर्णयेन्नाम्नां निरुक्तं त्वामृते प्रभो ॥ १२.३५०.७ ॥

哦,羯舍婆,我希望从你那里听到这些名字的词源解释。主啊,除你之外,没有人能够阐述这些名字的词源。

12.350.8

ऋग्वेदे सयजुर्वेदे तथैवाथर्वसामसु ।
पुराणे सोपनिषदे तथैव ज्योतिषेऽर्जुन ॥ १२.३५०.८ ॥

在《梨俱吠陀》中,连同《夜柔吠陀》;同样在《阿闼婆吠陀》和《娑摩吠陀》中;在往世书中,连同奥义书;同样在天文学中,阿周那啊。

12.350.9

साङ्ख्ये च योगशास्त्रे च आयुर्वेदे तथैव च ।
बहूनि मम नामानि कीर्तितानि महर्षिभिः ॥ १२.३५०.९ ॥

在数论与瑜伽论典中,同样在阿育吠陀中,我的许多名字已被大仙人们宣说。

12.350.10

गौणानि तत्र नामानि कर्मजानि च कानिचित् ।
निरुक्तं कर्मजानां त्वं शृणुष्व प्रयतोऽनघ ॥ १२.३५०.१० ॥

其中一些名字源于德性,另一些则源于事业。无垢者啊,请专心听那些源于事业的名字的词源。

12.350.11

कथ्यमानं मया तात त्वं हि मेऽर्धं स्मृतः पुरा ।
नमोऽतियशमे तस्मै देवानां परमात्मने ॥ १२.३५०.११ ॥

在我宣说之时,亲爱的,你从前被忆念为我的一半。向那荣耀超越一切的神,诸天神的至上我致敬。

12.350.12

नारायणाय विश्वाय निर्गुणाय गुणात्मने ।
यस्य प्रसादजो ब्रह्मा रुद्रस्य क्रोधसंभवः ॥ १२.३५०.१२ ॥

向那纳罗衍那致敬,他是宇宙,是无属性者,是诸德的自我;因他的恩惠,梵天得以诞生,因他的愤怒,楼陀罗得以产生。

12.350.13

योसौ योनिर्हि सर्वस्य स्थावरस्य चरस्य च ।
अष्टादशगुणं यत्तत्सत्वं सत्ववतांवर ॥ १२.३५०.१३ ॥

他是一切不动与能动之物的胎藏;他也是具有十八种德性的悉多,是具悉多者中最上的。

12.350.14

प्रकृतिः सा परा मह्यं रोदसी लोकधारिणी ।
ऋता सत्याऽमरा जय्या लोकानामात्मसंज्ञिता ॥ १२.३५०.१४ ॥

那至上的本性属于我;它就是承载诸世界的天地。它被称为理、真、不死、胜者,也被称为诸世界的自我。

12.350.15

तस्मात्सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः ।
तपो यज्ञश्च यष्टा च पुराणः पुरुषो विराट् ॥ १२.३५०.१५ ॥

因此,创造与毁灭的一切变化由此生起:苦行、祭祀、祭主,以及古老的补鲁沙——毗罗吒。

12.350.16

अनिरुद्ध इति प्रोक्तो लोकानां प्रभवाप्ययः ।
ब्राह्मे रात्रिक्षये प्राप्ते तस्य ह्यमिततेजसः ॥ १२.३५०.१६ ॥

他被称为阿尼鲁达,是诸世界的生起与消散。当梵天之夜终结之时,那具无量光辉者——

12.350.17

प्रसादात्प्रादुरभवत्पद्ममर्कनिभं क्षणात् ।
तत्र ब्रह्मा समभवत्स तस्यैव प्रसादजः ॥ १२.३५०.१७ ॥

凭他的恩典,刹那间生出一朵如太阳般的莲花;梵天便生于其中,正是由他的恩典而生。

12.350.18

अह्नः क्षये ललाटाच्च सुतो देवस्य वै तथा ।
क्रोधाविष्टस्य संजज्ञे रुद्रः संहारकारकः ॥ १२.३५०.१८ ॥

日终之时,又从神的额头生出一子;从那被愤怒所攫的他,生出了施行毁灭的楼陀罗。

12.350.19

एतौ द्वौ विबुधश्रेष्ठौ प्रसादक्रोधजावुभौ ।
तदादर्शितपन्थानौ सृष्टिसंहारकारकौ ॥ १२.३५०.१९ ॥

这二位是诸天中最优秀者,生于恩惠与愤怒,是创造与毁灭的执行者,已显示了那条道路。

12.350.20

निमित्तमात्रं तावत्र सर्वप्राणिवरप्रदौ ।
कपदीं जटिलो मुण्डः श्मशानगृहसेवकः ॥ १२.३५०.२० ॥

此处他们仅是因缘,是赐予一切众生恩惠者:披发、结辫、剃头,住于火葬场。

12.350.21

उग्रव्रतचरो रुद्रो योगी त्रिपुरदारणः ।
दक्षक्रतुहरश्चैव भगनेत्रहरस्तथा ॥ १२.३५०.२१ ॥

行持猛烈誓愿的楼陀罗,瑜伽行者,摧毁三城者,毁坏达刹祭祀者,同样也是夺取薄伽眼睛者。

12.350.22

नारायणात्मको ज्ञेयः पाण्डवेय युगेयुगे ।
तस्मिन्हि पूज्यमाने वै देवदेवे महेश्वरे ॥ १२.३५०.२२ ॥

般度之子啊,每一个时代都应知他具有那罗延之性;因为当被崇拜神中之神、大自在天时。

12.350.23

संपूजितो भवत्पार्थ देवो नारायणः प्रभुः ।
अहमात्मा हि लोकानां विश्वेषां पाण्डुनन्दन ॥ १२.३५०.२३ ॥

阿周那啊,你所恭敬供养的神,即那罗延主。般度之子啊,我实为一切世界的自我。

12.350.24

तस्मादात्मानमेवाग्रे रुद्रं संपूजयाम्यहम् ।
यद्यहं नार्चयेयं वै ईशानं वरदं शिवम् ॥ १२.३५०.२४ ॥

因此我先恭敬供养楼陀罗,他即是我的自我。若我不供养赐予恩惠、吉祥的伊舍那,

12.350.25

आत्मानं नार्चयेत्कश्चिदिति मे भावितात्मनः ।
मया प्रमाणं हि कृतं लोकः समनुवर्तते ॥ १२.३५०.२५ ॥

无人应当崇拜自身——此乃我这自制之人所定。我已立下准则,世间便遵循之。

12.350.26

प्रमाणानि हि पूज्यानि ततस्तं पूजयाम्यहम् ।
यस्तं वेत्ति स मां वेत्ति योऽनु तं स हि मामनु ॥ १२.३५०.२६ ॥

准则值得崇拜,故我崇拜他。知他者即知我;随他者,确实随我。

12.350.27

रुद्रो नारायणश्चैव सत्वमेकं द्विधा कृतम् ।
लोके चरति कौन्तेय व्यक्तिस्थं सर्वकर्मसु ॥ १२.३५०.२७ ॥

楼陀罗与那罗延实为一体,分而为二。拘蒂之子啊,它以显现之形居于其中,在世间一切行为中流转。

12.350.28

न हि मे केनचिद्देयो वरः पाण्डवनन्दन ।
इति संचिन्त्य मनसा पुराणं रुद्रमीश्वरम् ॥ १२.३५०.२८ ॥

般度之子的喜悦啊,不应由任何人赐我恩惠。心中如此思量之后,我便(归向)古老的主宰楼陀罗。

12.350.29

पुत्रार्थमाराधितवानहमात्मानमात्मना ।
न हि विष्णुः प्रणमति कस्मैचिद्विबुधाय च ॥ १२.३५०.२९ ॥

为求子嗣,我以自身礼拜自身;因毗湿奴不向任何人、任何天神下拜。

12.350.30

ऋते आत्मानमेवेति ततो रुद्रं नमाम्यहम् ।
सब्रह्मकाः सरुद्राश्च सेन्द्रा देवाः सहर्षिभिः ॥ १२.३५०.३० ॥

除自身之外别无他者——故我礼拜楼陀罗。梵天、楼陀罗众、因陀罗领众天神,以及诸仙人,也皆如此。

12.350.31

अर्चयन्ति सुरश्रेष्ठं देवं नारायणं हरिम् ।
भविष्यतां वर्ततां च भूतानां चैव भारत ॥ १२.३५०.३१ ॥

婆罗多啊!未来与现存的众生都崇拜神中最优秀的哈里·那罗延天。

12.350.32

सर्वेषामग्रणीर्विष्णुः सेव्यः पूज्यश्च नित्यशः ।
नमस्व हव्यदं विष्णुं तथा शरणदं नमः। ॥ १२.३५०.३२ ॥

毗湿奴是一切之首,应常加侍奉与礼敬。向施予供品、施予皈依的毗湿奴致敬。

12.350.33

वरदं नमस्व कौन्तेय हव्यकव्यभुजं नमः ।
चतुर्विधा मम जना भक्ता एव हि मे श्रुतम् ॥ १२.३५०.३३ ॥

贡蒂之子啊!向赐予恩惠者致敬;向享用祭品与供物者致敬。我的信徒有四类,此我已闻知。

12.350.34

तेषामेकान्तिनः श्रेष्ठा ये चैवानन्यदेवताः ।
अहमेव गतिस्तेषां निराशीः कर्मकारिणाम् ॥ १२.३५०.३४ ॥

在他们之中,专一的、最优秀的、无他神的人,对于行事而不求果报者,我便是他们的归宿。

12.350.35

ये च शिष्टास्त्रयो भक्ताः फलकामा हि ते मताः ।
सर्वे च्यवनधर्माणः प्रतिबुद्धस्तु श्रेष्ठभाक् ॥ १२.३५०.३५ ॥

其余三类信徒被视为求果报者;所有人都受制于衰落。但觉醒者分享最高的果报。

12.350.36

ब्रह्माणं शितिकण्ठं च याश्चान्या देवताः स्मृताः ।
प्रबुद्धचर्याः सेवन्तो मामेवैष्यन्ति यत्फलम् ॥ १२.३५०.३६ ॥

以觉醒的品行侍奉梵天、蓝颈神及其他被称颂的神明者,将唯独来到我这里;这便是他们的果报。

12.350.37

भक्तं प्रति विशेषस्ते एष पार्थानुकीर्तितः ।
त्वं चैवाहं च कौन्तेय नरनारायणौ स्मृतौ ॥ १२.३५०.३७ ॥

这对信徒的特殊恩典已向帕尔塔宣说。昆蒂之子啊,你和我被称为那罗与那罗衍那。

12.350.38

भारावतरणार्थं तु प्रविष्टौ मानुषीं तनुम् ।
नानीभ्यध्यात्मयोगांश्च योऽहं यस्माच्च भारत ॥ १२.३५०.३८ ॥

为了减轻大地的重负,我们二人降生于人身。婆罗多之后啊,正因此,我这位宣说种种自我瑜伽之人才来到此世。

12.350.39

निवृत्तिलक्षणो धर्मस्तथाऽऽभ्यदयिकोऽपि च ।
नराणामयनं ख्यातमहमेकः सनातनः ॥ १२.३५०.३९ ॥

以出离为特征的法,以及带来兴盛的法,都被称为众人的归宿;而他们唯一的永恒归宿,唯有我。

12.350.40

आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।
अयनं मम ताः पूर्वमतो नारायणोस्म्यहम् ॥ १२.३५०.४० ॥

水被称为“那罗”,水确实是那罗之子。它们从前是我的居所,因此我是那罗衍那。

12.350.41

छादयामि जगद्विश्वं भूत्वा सूर्य इवांशुभिः ।
सर्वभूताधिवासश्च वासुदेवस्ततो ह्यहम् ॥ १२.३५०.४१ ॥

我化作如太阳般以光芒遍覆整个世界。因我是一切众生的居所,故我即是婆苏提婆。

12.350.42

गतिश्च सर्वभूतानां प्रजनश्चापि भारत ।
व्याप्ते म रोदसी पार्थ कान्तिश्चाभ्यधिका मम। ॥ १२.३५०.४२ ॥

婆罗多之后啊,我也是一切众生的归趣与本源。普利塔之子啊,天与地都被我所遍满,我的光辉殊胜。

12.350.43

अधिभूतनिविष्टश्च तद्विश्वं चास्मि भारत ।
क्रमणाच्चाप्यहं पार्थ विष्णुरित्यभिसंज्ञितः ॥ १२.३५०.४३ ॥

婆罗多啊,我遍入一切众生,那整个宇宙也是我。帕尔塔啊,因我的跨步,我被称为毗湿奴。

12.350.44

दमात्सिद्धिं परीप्सन्तो मां जनाः कामयन्ति ह ।
दिवं चोर्वी च मध्यं च तस्माद्दामोदरो ह्यहम् ॥ १२.३५०.४४ ॥

以克己求成就的人确实渴求于我。天、地与中界都属于我,因此我是达摩陀罗。

12.350.45

पृश्निरित्युच्यते चान्नं वेदा आपोऽमृतं तथा ।
ममैतानि सदा गर्भः पृश्निगर्भस्ततो ह्यहम् ॥ १२.३५०.४५ ॥

食物称为普利什尼,吠陀、水与甘露也是如此。这些都永远在我的胎中;因此我是普利什尼迦尔巴。

12.350.46

ऋषयः प्राहुरेवं मां त्रितं कूपनिपातितम् ।
पृश्निगर्भ त्रितं पाहीत्येकतद्वितपातितम् ॥ १२.३५०.४६ ॥

诸仙人这样对我说:“特利多坠入井中——请保护特利多,哦普利什尼迦尔巴!”于是那坠入坑中的特利多获救了。

12.350.47

ततः स ब्रह्मणः पुत्र आद्यो ह्यृषिवरस्त्रितः ।
उत्ततारोदपानाद्वै पृश्निगर्भानुकीर्तनात् ॥ १२.३५०.४७ ॥

于是梵天的长子、最优秀的仙人特利多,单凭念诵普利什尼迦尔巴之名,便从井中升起。

12.350.48

सूर्यस्य तपतो लोकानग्नेः सोमस्य चाप्युत ।
अंशवो यत्प्रकाशन्ते ममैते केशसंज्ञिताः ॥ १२.३५०.४८ ॥

灼热的太阳、火与月亮的光线照耀诸界,这些被称为我的“发”。

12.350.49

सर्वज्ञाः केशवं तस्मान्मामाहुर्द्विजसत्तमाः ।
स्वपत्न्यामाहितो गर्भ उचथ्येन महात्मना ॥ १२.३५०.४९ ॥

因此,通晓一切的最优秀婆罗门称我为Keśava。伟大的乌贾提耶在其自己的妻子中植入了胚胎。

12.350.50

उचथ्येऽन्तहिंते चैव कदाचिद्देवताज्ञया ।
बृहस्पतिरथाविन्दत्तां पत्नीं तस्य धीमतः ॥ १२.३५०.५० ॥

乌贾提耶消失后,有一次,依诸神之命,布里哈斯帕提得到了那位智者的妻子。

12.350.51

ततो वै तमृषिश्रेष्ठं मैथुनोपगतं तथा ।
उवाच गर्भः कौन्तेय पञ्चभूतगुणात्मकः ॥ १२.३५०.५१ ॥

于是,俱卢之子啊,由五大元素之性构成的胚胎,对前来交合的那位最优秀的仙人这样说道。

12.350.52

पूर्वागतोऽहं वरद नार्हस्यम्बां प्रबाधितुम् ।
एतद्बृहस्पतिः श्रुत्वा चुक्रोध च शशाप च ॥ १२.३५०.५२ ॥

"我先到了,赐予恩惠者啊;你不应当骚扰母亲。"布里哈斯帕提听后大怒,并且诅咒了他。

12.350.53

मैथुनायागतो यस्मात्त्वयाऽहं विनिवारितः ।
तस्मादन्धो यास्यसि त्वं मच्छापान्नात्र संशयः ॥ १२.३५०.५३ ॥

因为你阻止了为交合而来的我,所以你将变成盲人;由于我的诅咒,此事毫无疑问。

12.350.54

स शापादृषिमुख्यस्य दीर्घं तम उपेयिवान् ।
स हि दीर्घतमा नाम नाम्ना ह्यासीदृषिः पुरा ॥ १२.३५०.५४ ॥

因那位首要仙人的诅咒,他陷入了长久的黑暗。他在往昔是一位名叫长暗的仙人。

12.350.55

वेदानवाप्य चतुरः साङ्गोपाङ्गान्सनातनान् ।
प्रयोजयामास तदा नाम गुह्यमिदं मम ॥ १२.३५०.५५ ॥

他获得了四部永恒的吠陀及其支分和附分,于是便使用了我这个秘密的名字。

12.350.56

आनुपूर्व्येण विधिना केशवेति पुनः पुनः ।
स चक्षुष्मान्समभवद्गौतमश्चाभवत्पुनः ॥ १२.३५०.५६ ॥

按照次第和仪轨,反复称念'Keśava',他便重获视力,又成为了乔达摩。

12.350.57

एवं हि वरदं नाम केशवेति ममार्जुन ।
देवानामथ सर्वेषामृषीणां च महात्मनाम् ॥ १२.३५०.५७ ॥

如此,阿周那啊,我的名字'Keśava'能赐予恩惠,对于一切天神和大德仙人亦然。

12.350.58

अग्निः सोमेन संयुक्त एकयोनिर्मुखं कृतम् ।
अग्नीषोममयं तस्माज्जगत्कृत्स्नं चराचरम् ॥ १२.३५०.५८ ॥

与苏摩相结合、同源的阿耆尼被造为面;因此,这整个动与不动的世界都由阿耆尼与苏摩所成。

12.350.59

अपि हि पुराणे भवति एकयोन्यावग्नीषोमौ देवाश्चाग्निमुखा इति। एकयोनित्वाच्च परस्परं हर्षयन्तो लोकान्धारयन्त इति ॥ १२.३५०.५९ ॥

《往世书》中也说,阿耆尼与苏摩同源,诸神以阿耆尼为面;因同源之故,彼此欢喜,护持诸世界。