摩诃婆罗多 · 章 12.357
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.357.1
श्रुतं भगवतस्तस्य माहात्म्यं परमात्मनः ।
जन्मधर्मगृहे चैव नरनारायणात्मकम् ॥ १२.३५७.१ ॥
我们已听闻那位吉祥至上自我的伟大,他在出生、法与居所之中,具有那罗与那罗延的形态。
12.357.2
महावराहसृष्टा च पिण्डोत्पत्तिः पुरातनी ।
प्रवृत्तौ च निवृत्तौ च यो यथा परिकल्पितः ॥ १२.३५७.२ ॥
由大野猪所造的古老团块之起源,如在活动与止息中所设想的那样。
12.357.3
तथा स नः श्रुतो ब्रह्मन्कथ्यमानस्त्वयाऽनघ ।
हव्यकव्यभुजो विष्णुरुदक्पूर्वे महोदधौ ॥ १२.३५७.३ ॥
婆罗门啊,无罪者啊,正如你所说,我们听闻享用天祭与祖祭的毗湿奴,居于东北方的大海之中。
12.357.4
यच्च तत्कथितं पूर्वं त्वया हयशिरो महत् ।
तच्च दृष्टं भगवता ब्रह्मणा परमेष्ठिना ॥ १२.३५७.४ ॥
你先前所说的那巨大的马头,也曾被吉祥的至尊座上的梵天神所见。
12.357.5
किं तदुत्पादितं पूर्वं हरिणा लोकधारिणा ।
रूपं प्रभावं महतामपूर्वं धीमतांवर ॥ १२.३५७.५ ॥
智者中最优秀者啊,昔日持世者哈里所显现的那未曾有的形相与伟大威力是什么?
12.357.6
दृष्ट्वा हि विवुधश्रेष्ठमपूर्वममितौजसम् ।
तदश्वशिरसं पुण्यं ब्रह्मा किमकरोन्मुने ॥ १२.३५७.६ ॥
哲人啊,梵天见到那神圣的马头,诸神中最优秀者,未曾有而威力无量,他做了什么?
12.357.7
एतन्नः संशयं ब्रह्मन्पुराणं ब्रह्मसंभवम् ।
कथयस्वोत्तममते महापुरुषसंश्रितम्।
पाविताः स्म त्वया ब्रह्मन्पुण्याः कथय ताः कथाः ॥ १२.३५७.७ ॥
婆罗门啊,这是我们的疑惑:请讲述那出自梵天、依托于大神人的古老传说。至上智慧者啊,您已使我们清净;婆罗门啊,请讲那些神圣的故事。
12.357.8
सौतिरुवाच ।
कथयिष्यामि ते सर्वं पुराणं वेदसंमितम्।
जगौ यद्भगवान्व्यासो राज्ञः पारिक्षितस्य वै ॥ १२.३५७.८ ॥
苏提说:我将把那与吠陀等同的古老传说全部讲给你们——那是世尊毗耶娑为波利刹特家族的国王所吟唱的。
12.357.9
श्रुत्वाऽश्वशिरसो मूर्ति देवस्य हरिमेधसः ।
उत्पन्नसंशयो राजा एतदेवमचोदयत् ॥ १२.३५७.९ ॥
闻听哈里梅达斯所见的马头神之形相,心生疑惑的国王这样问道。
12.357.10
यत्तद्दर्शितवान्ब्राह्म देवं हयशिरोधरम् ।
किमर्थं तत्समभवद्वपुर्देवोपकल्पितम् ॥ १२.३५७.१० ॥
婆罗门所示的那位马颈之神——神所造的那一形相,是为了何种缘故而出现的?
12.357.11
यत्किंचिदिह लोके वै देहबद्धं विशांपते ।
सर्वं पञ्चभिराविष्टं भूतैरीश्वरबुद्धिजैः ॥ १२.३५७.११ ॥
人主啊,凡在此世被束缚于身体之中者,皆为出自主宰之智的五大元素所遍布。
12.357.12
ईश्वरो हि जगत्स्रष्टा प्रभुर्नारायणो विराट् ।
भूतान्तरात्मा वरदः सगुणो निर्गुणोपि च ॥ १२.३५७.१२ ॥
主宰确是世界的创造者:主那罗延、宇宙之主毗罗吒、众生的内在我、赐恩者——既有德性,也无德性。
12.357.13
भूतप्रलयमव्यक्तं शृणुष्व नृपसत्तम ॥ १२.३५७.१३ ॥
最好的君王啊,请听众生的毁灭与未显现者。
12.357.14
धरण्यामथ लीनायामप्सु चैकार्णवे पुरा ।
ज्योतिर्भूते जले चापि लीने ज्योतिषि चानिले ॥ १२.३५७.१४ ॥
往昔,大地融入水中成为一片大海,水融入光明,光明融入风中,
12.357.15
वायौ चाकाशसंलीने आकाशे च मनोनुगे ।
व्यक्ते मनसि संलीने व्यक्ते चाव्यक्ततां गते ॥ १२.३५७.१५ ॥
风融入虚空,虚空随心而融入;显现者融入心中,显现者转为未显现。
12.357.16
अव्यक्ते पुरुषं याते पुंसि सर्वगतेऽपि च ।
तम एवाभवत्सर्वं न प्राज्ञायत किंचन ॥ १२.३५७.१६ ॥
未显现者归入补鲁沙,遍在的补鲁沙也归于消融,一切便只剩黑暗,无物可知。
12.357.17
तमसो ब्रह्मसंभूतं तमोमूलमृतात्मकम् ।
तद्विश्वभावसंज्ञान्तं पौरुषीं तनुमाश्रितम् ॥ १२.३५७.१७ ॥
由梵从黑暗中所生,以黑暗为根,以真实为本性,名为“世界之态”者,取得补鲁沙的形体。
12.357.18
सोऽनिरुद्ध इति प्रोक्तस्तत्प्रधानं प्रचक्षते ।
तदव्यक्तमिति ज्ञेयं त्रिगुणं नृपसत्तम ॥ १२.३५७.१८ ॥
彼被称为阿尼鲁达,那便是人们所说的根本本体。最好的君王啊,应当知道它即是未显现者,由三德构成。
12.357.19
विद्यासहायवान्देवो विष्वक्सेनो हरिः प्रभुः ।
आदिकर्ता स भूतानामप्रमेयो हरिः प्रभुः ॥ १२.३५७.१९ ॥
以智慧为伴的神毗湿伐色那,哈里,主宰。他是众生的最初创造者,不可限量,哈里,主宰。
12.357.20
अप्स्वेव शयनं चक्रे निद्रायोगमुपागतः ।
जगतश्चिन्तयन्सृष्टिं चित्रां बहुगुणोद्भवाम् ॥ १२.३५७.२० ॥
他就在水中安睡,进入睡眠瑜伽,思念由众多德性所生的、丰富多彩的世界创造。
12.357.21
तस्य चिन्तयतः सृष्टिं महानात्मगुणः स्मृतः ।
अहंकारस्ततो जातो ब्रह्मा शुभचतुर्मुखः।
हिरण्यगर्भो भगवान्सर्वलोकपितामहः ॥ १२.३५७.२१ ॥
当他思念创造时,据说“自我”的伟大德性便生起了。随后生起“我执”,接着吉祥的四面梵天诞生,即金胎,世尊,一切世界的祖父。
12.357.22
पद्मेऽनिरुद्धात्संभूतस्तदा पद्मनिभेक्षणः ।
सहस्रपत्रे द्युतिमानुपविष्टः सनातनः ॥ १२.३५७.२२ ॥
那时,从阿尼鲁达生出,坐在莲花上的莲花眼者;光辉而永恒的他,端坐于千瓣莲花之上。
12.357.23
ददृशेऽद्भुतसंकाशो लोकानाप्याययन्प्रभुः ।
सत्वस्थः परमेष्ठी स ततो भूतगणान्सृजन् ॥ १२.३५७.२३ ॥
他显现为奇妙的形象,主宰滋养诸世界。安住于萨埵的至上者,于是开始创造众生。
12.357.24
पूर्वमेव च पद्मस्य पत्रे सूर्यांशुसप्रभे ।
नारायणकृतौ बिन्दू अपामास्तां गुणोत्तरौ ॥ १२.३५७.२४ ॥
更早之前,在莲花的花瓣上,已有两滴水珠,光明如太阳之光,由那罗延所造,在德性上殊胜。
12.357.25
तावपश्यत्स भगवाननादिनिधनोऽच्युतः ।
एकस्तत्राभवद्विन्दुर्मध्वाभो रुचिरप्रभः ॥ १२.३५७.२५ ॥
无始无终的世尊阿周那(不灭者)见到了它们;于是那里出现了一滴,蜜色而光彩可爱。
12.357.26
स तामसो मधुर्जातस्तदा नारायणाज्ञया ।
कठिनस्त्वपरो विन्दुः कैटभो राजसस्तु सः ॥ १२.३५७.२६ ॥
依那罗延之命,那时诞生了暗性的摩图;另一个坚硬的水滴成为了凯塔巴,他属激性。
12.357.27
तावभ्यधातवां श्रेष्ठौ तमोरजगुणान्वितौ ।
बलवन्तौ गदाहस्तौ पद्मनालानुसारिणौ ॥ १२.३५७.२७ ॥
那两位阿修罗中的最优者,具备暗性与激性,强大,手持铁杵,沿着莲茎追来,发起了攻击。
12.357.28
ददृशातेऽरविन्दस्थं ब्रह्माणममितप्रभवम् ।
सृजन्तं प्रथमं वेदांश्चतुरश्चारुविग्रहान् ॥ १२.३५७.२८ ॥
两人看见了坐在莲花上、威力无量的梵天,他正先创造出四部美妙形体的吠陀。
12.357.29
ततो विग्रहवन्तस्तान्वेदान्दृष्ट्वाऽसुरोत्तमौ ।
सहसा जगृहतुर्वेदान्ब्रह्मणः पश्यतस्तदा ॥ १२.३५७.२९ ॥
那时,两位阿修罗中的最优者见那些化为有形体的吠陀,就在梵天注视之下,突然夺走了吠陀。
12.357.30
अथ तौ दानवश्रेष्ठौ वेदान्गृह्य सनातनान् ।
रसां विविशतुस्तूर्णमुदक्पूर्वे महोदधौ ॥ १२.३५७.३० ॥
于是,那两位达那婆中的最优者携带永恒的吠陀,迅速进入了东北方大海中的罗萨界。
12.357.31
ततो हृतेषु देवेषु ब्रह्मा कश्मलमाविशत् ।
ततो वचनमीशानं प्राह वेदैर्विनाकृतः ॥ १२.३५७.३१ ॥
诸天被夺走后,梵天陷入迷惘。随后,失去吠陀的他对伊舍那说出了这些话。
12.357.32
ब्रह्मोवाच ।
वेदा मे परमं चक्षुर्वेदा मे परमं बलम्।
वेदा मे परमं धाम वेदा मे ब्रह्म चोत्तरम् ॥ १२.३५७.३२ ॥
梵天说:吠陀是我至高的眼睛,吠陀是我至高的力量。吠陀是我至高的居所,吠陀是我至上的梵。
12.357.33
मम वेदा हृताः सर्वे दानवाभ्यां बलादितः ।
अन्धकारा हि मे लोका जाता वेदैर्विना कृताः ॥ १२.३५७.३३ ॥
我的一切吠陀都被两位檀那婆从此处强行夺走了。我的诸界因失去吠陀而变得黑暗。
12.357.34
वेदानृते हि किं कुर्या लोकानां सृष्टिमुत्तमाम् ।
अहो बत महद्दुःखं वेदनाशनजं मम ॥ १२.३५७.३४ ॥
没有吠陀,我又能如何创造诸界的至善之造化?唉,我因失去吠陀而生的悲痛何其深重!
12.357.35
प्राप्तं दुनोति हृदयं तीव्रं शोकपरायणम् ।
को हि शोकार्णवे मग्नं मामितोऽद्य समुद्धरेत् ॥ १२.३५७.३५ ॥
这剧烈的痛苦折磨着我的心,它沉溺于忧伤之中。今日谁能将我从此处拯救出来,我正沉没于忧愁的大海之中?
12.357.36
वदांस्तांश्चानयेन्नष्टान्कस्य चाहं प्रियो भवे ।
इत्येवं भाषमाणस्य ब्रह्मणो नृपसत्तम ॥ १२.३५७.३६ ॥
“我能否找回那些失去的吠陀?我又将成为谁所钟爱之人?”诸王之中的最杰出者啊,梵天这样说道,口中吐出这些悲叹之语。
12.357.37
हरेः स्तोत्रार्थमुद्भूता बुद्धिर्बुद्धिमतां वर ।
ततो जगौ परं जप्यं साञ्जलिप्रग्रहः प्रभुः ॥ १२.३५७.३७ ॥
智者中的最优者啊,因赞颂哈里而生起的智慧,主便合掌吟唱了至高的持诵真言。
12.357.38
ब्रह्मोवाच ।
ॐ नमस्ते ब्रह्महृदय नमस्ते मम पूर्वज।
लोकाद्यभुवनश्रेष्ठ साङ्ख्ययोगनिधे प्रभो ॥ १२.३५७.३८ ॥
唵。敬礼你,梵之心;敬礼你,我的先祖。世界之始,诸界中最胜者,数论与瑜伽的宝藏,主啊。
12.357.39
व्यक्ताव्यक्तकराचिन्त्य क्षेमं पन्थानमास्थितः ।
विश्वभुक्सर्वभूतानामन्तरात्मन्नयोनिज।
अहं प्रसादजस्तुभ्यं लोकधाम स्वयंभुवः ॥ १२.३५७.३९ ॥
创造显现与未显现者,不可思议者,立于吉祥之道,享受一切众生者,内在我,非由胎生者。我因你的恩典而生,向你致敬,自生者的世界之居所。
12.357.40
त्वत्तो मे मानसं जन्म प्रथमं द्विजपूजितम् ।
चाक्षुषं वै द्वितीयं मे जन्म चासीत्पुरातनम् ॥ १२.३५७.४० ॥
我的第一次生,出自你的意念,受二生者敬重;我的第二次生,出自眼睛,是古老的。
12.357.41
त्वत्प्रसादात्तु मे जन्म तृतीयं वाचिकं महत् ।
त्वत्तः श्रवणजं चापि चतुर्थं जन्म मे विभो ॥ १२.३५७.४१ ॥
凭你的恩典,我的第三次生出自言语,是伟大的;我的第四次生出自听闻,啊,大能者。
12.357.42
नासत्यं चापि मे जन्म त्वत्तः पञ्चममुच्यते ।
अण्डजं चापि मे जन्म त्वत्तः षष्ठं विनिर्मितं ॥ १२.३५७.४२ ॥
我作为那搭底亚双子的出生,也被称为来自你的第五次;来自你的我的第六次生,是作为卵生而成形的。
12.357.43
इदं च सप्तमं जन्म पद्मजन्मेति वै प्रभो ।
सर्गेसर्गे ह्यहं पुत्रस्तव त्रिगुणवर्जित ॥ १२.३५७.४३ ॥
主啊,这是第七次出生,名为莲花所生。每一次创造中,我都是你的儿子,超越三德。
12.357.44
प्रथमः पुण्डरीकाक्षः प्रधानगुणकल्पितः ।
त्वमीश्वरः स्वभावश्च भूतानां त्वं प्रभावन ॥ १२.३५७.४४ ॥
首先是莲花眼者,由原初三德所造。你是主宰,你是众生的本性;你是他们力量的源泉。
12.357.45
त्वया विनिर्मितोऽहं वै वेदचक्षुर्वयोतिग ।
ते मे वेदा हृताश्चक्षुरन्धो जातोस्मि जागृहि।
ददस्व चक्षूंषि मम प्रियोऽहं ते प्रियोसि मे ॥ १२.३५७.४५ ॥
我由你所造,以吠陀为眼,超越时代。我的吠陀被夺走了,我双目失明。醒来吧!赐我双眼;我是你所爱的,你也是我所爱的。
12.357.46
एवं स्तुतः स भगवान्पुरुषः सर्वतोमुखः ।
जहौ निद्रामथ तदा वेदकार्यार्थमुह्यतः ॥ १२.३५७.४६ ॥
如此被赞颂之后,那位面向四方的薄伽梵补鲁沙,便舍弃睡眠,为吠陀之事而奋起。
12.357.47
ऐश्वर्येण प्रयोगेण द्वितीयां तनुमास्थितः ।
सुनासिकेन कायेन भूत्वा चन्द्रप्रभस्तदा।
कृत्वा हयशिरः शुभ्रं वेदानामालयं प्रभुः ॥ १२.३५७.४७ ॥
他以自身权能与意志,化现为第二种形体。以美好的鼻子、月光般的身躯,主于是造出明亮的马头,作为吠陀的居所。
12.357.48
तस्य मूर्धा समभवद्द्यौः सनक्षत्रतारकाः ।
केशाश्चास्याभवन्दीर्घा रवेरंशुसमप्रभाः ॥ १२.३५७.४८ ॥
他的头化为天空,连同星宿与群星;他的头发长长地垂下,光芒如同太阳的光线。
12.357.49
कर्णावाकाशपाताले ललाटं भूतधारिणी ।
गङ्गासरस्वती पुण्ये भ्रुवावास्तां महाद्युती ॥ १२.३५७.४९ ॥
天空与地府是他的双耳;承载万物的大地是他的前额;神圣的恒河与萨拉斯瓦蒂是他两道光辉的眉。
12.357.50
चक्षुषी सोमसूर्यौं ते नासा संध्या पुनः स्मृता ।
ॐकारस्त्वथ संस्कारो विद्युज्जिह्वा च निर्मिता ॥ १२.३५७.५० ॥
月与日是他的眼睛;黄昏被记为他的鼻子;随后有唵字与净化之仪;闪电被造为他的舌头。
12.357.51
दन्ताश्च पितरो राजन्सोमपा इति विश्रुताः ।
गोलोको ब्रह्मलोकश्च ओष्ठावास्तां महात्मनः।
ग्रीवा चास्याभवद्राजन्कालरात्रिर्गुणोत्तरा ॥ १२.३५७.५१ ॥
大王,牙齿是以饮苏摩著称的祖先;牛界与梵界是那位大我的两片嘴唇;大王,以德性至上的时间之夜成为了他的颈项。
12.357.52
एतद्धयशिरः कृत्वा नानामूर्तिभिरावृतम् ।
अन्तर्दधौ स विश्वेशो विवेश च रसां प्रभुः ॥ १२.३५७.५२ ॥
造成这覆有众多形相的马首之后,宇宙之主隐身而去,进入了地底的罗萨(Rasā)。
12.357.53
रसां पुनः प्रविष्टश्च योगं परममास्थितः ।
शैक्ष्यं स्वरं समास्थाय उद्गीतं प्रासृजत्स्वरम् ॥ १२.३५७.५३ ॥
再次进入罗萨,并修习至高瑜伽,他以教导之音调,发出了优德吉陀(udgītha)歌咏之声。
12.357.54
सस्वरः सानुनादी च सर्वशः स्निग्ध एव च ।
बभूवान्तर्जलगतः सर्वभूतगुणोदितः ॥ १२.३५७.५४ ॥
他声音洪亮、回响悠远,且一切皆柔和润泽,成为居于水中之主,由一切众生之德性而显现。
12.357.55
ततस्तावसुरौ कृत्वा वेदान्समयबन्धनान् ।
रसातले विनिक्षिप्य यतः शब्दस्ततो द्रुतौ ॥ १२.३५७.५५ ॥
于是两位阿修罗认为吠陀受契约束缚,便将其抛入罗萨塔拉(地下界),并从声音传来的方向迅速离去。
12.357.56
एतस्मिन्नन्तरे राजन्देवो हयशिरोधरः ।
जग्राह वेदानखिलान्रसालगतान्हरिः ॥ १२.३५७.५६ ॥
大王,就在此时,马首神哈里取回了所有落入罗萨塔拉的吠陀。
12.357.57
प्रादाच्च ब्रह्मणे भूयस्ततः स्वां प्रकृतिं गतः ॥ १२.३५७.५७ ॥
随后他将它们交还梵天,并恢复了自己的本性。
12.357.58
स्थापयित्वा हयशिरा उदक्पूर्वे महोदधौ ।
वेदानामालयश्चापि बभूवाश्वरिरास्ततः ॥ १२.३५७.५८ ॥
马首神将它们安置在东北方的大海中,自身也成为吠陀的居所,此后被称为“马声者”。
12.357.59
अथ किंचिदपश्यन्तौ दानवौ मधुकैटभौ ।
यत्र देवा विनिक्षिप्तास्तत्स्थानं शून्यमेव च ॥ १२.३५७.५९ ॥
于是两位檀那婆,摩图与凯塔巴,什么也没看见;诸神被抛下的地方,确实空无一物。
12.357.60
तत उत्तममास्थाय वेगं बलवतां वरौ ।
पुनरुत्तस्थतुः शीघ्रं रसानामालयात्तदा ॥ १२.३५७.६० ॥
于是两位最强之人施展至上的速度,从罗萨塔拉的居所中迅速再次升起。
12.357.61
ददृशाते च पुरुषं तमेवादिकरं प्रभुम् ।
श्वेतं चन्द्रविशुद्धाभमनिरुद्धतनौ स्थितम्।ट
भूयोप्यमितविक्रान्तं निद्रायोगमुपागतम् ॥ १२.३५७.६१ ॥
他们看见那位原初的创造者、主宰之神补鲁莎,白如月般清净光亮,安住于阿尼鲁达之身中;虽有无量威力,他却再度进入了睡眠瑜伽。
12.357.62
आत्मप्रमाणरचिते अपामुपरि कल्पिते ।
शयने नागभोगाढ्ये ज्वालामालासमावृते ॥ १२.३५७.६२ ॥
躺在按自身尺寸铺设、置于水面之上、以蛇盘为饰、被火焰花环环绕的床榻之上。
12.357.63
निष्कल्मषेण सत्वेन संपन्नं रुचिरप्रभम् ।
तं दृष्ट्वा दानवेन्द्रौ तौ महाहासममुञ्चताम् ॥ १२.३५७.६३ ॥
见他具足无垢的纯善之性,光华可爱,那两位达那婆之主便放声大笑。
12.357.64
ऊचतुश्च समाविष्टौ रजसा तमसा च तौ ।
अयं स पुरुषः श्वेतः शेते निद्रामुपागतः ॥ १२.३५७.६४ ॥
那两位被罗阇与答摩所蒙蔽的人说:“这位白色的补鲁莎正睡着,沉入了梦乡。”
12.357.65
अनेन नूनं वेदानां कृतमाहरणं रसात् ।
कस्यैष कोनु खल्वेष किंच स्वपिति भोगवान्।
इच्युच्चारितवाक्यौ तौ बोधयामासतुर्हरिम् ॥ १२.३५७.६५ ॥
“这必定是那个从深渊中盗走吠陀之人。此人是谁的?他是谁?这享乐之人为何还在睡觉?”两人说着这些话,唤醒了哈利。
12.357.66
युद्धार्थिनौ हि विज्ञाय विबुद्धः पुरुषोत्तमः ।
निरीक्ष्य चासुरेन्द्रौ तौ ततो युद्धे मनोदधे ॥ १२.३५७.६६ ॥
知道那二人渴望战斗,最尊的人便醒来了;看见那两位阿修罗之主后,他便将心意投入到战斗之中。
12.357.67
अथ युद्धं समभवत्तयोर्नारायणस्य वै ॥ १२.३५७.६७ ॥
于是那两人与那罗延之间爆发了战斗。
12.357.68
रजस्तमोविष्टतनू तावुभौ मधुकैटभौ ।
ब्रह्मणोपचितिं कुर्वञ्जघान मधुसूदनः ॥ १२.३५७.६८ ॥
那两个身体被激情与黑暗所笼罩的摩图与凯吒婆,被摩图苏陀那杀死,以此向梵天致敬。
12.357.69
ततस्तयोर्वधेनाशु वेदापहरणेन च ।
शोकापनयनं चक्रे ब्रह्मणः पुरुषोत्तमः ॥ १२.३५७.६९ ॥
随后,通过杀死那两人并找回吠陀,至上人迅速消除了梵天的忧愁。
12.357.70
ततः परिवृतो ब्रह्मा हरिणा वेदसत्कृतः ।
निर्ममे स तदा लोकान्कृत्स्नान्स्थावरजङ्गमान् ॥ १२.३५७.७० ॥
于是,梵天在哈里环绕下,因吠陀而受尊崇,创造了一切世界,包括静止与运动的万物。
12.357.71
दत्त्वा पितामहायाग्र्यां मतिं लोकविसर्गिकीम् ।
तत्रैवान्तर्दधे देवो यत एवागतो हरिः ॥ १२.३५७.७१ ॥
赐予始祖创造诸世界的至高意志后,神哈里就在他来的地方消失了。
12.357.72
तौ दानवौ हरिर्हत्वा कृत्वा हयशिरस्तनुम् ।
पुनः प्रवृत्तिधर्मार्थं तामेव विदधे तनुम् ॥ १२.३५७.७२ ॥
哈里杀死那两个檀那婆后,化为马首之身;为了延续活动的法,他又再次取了这同一种身形。
12.357.73
एवमेष महाभागो बभूवाश्वशिरा हरिः ।
पौराणमेतत्प्रख्यातं रूपं वरदमैश्वरम् ॥ १२.३५७.७३ ॥
如此,这位大福之神哈里化为马头。此乃古老著名、赐予恩惠的主宰之形。
12.357.74
यो ह्येतद्ब्राह्मणो नित्यं शृणुयाद्धारयीत वा ।
न तस्याध्ययनं नाशमुपगच्छेत्कदाचन ॥ १२.३५७.७४ ॥
若婆罗门常常听闻或记诵此篇,其所学永不致失落。
12.357.75
आराध्य तपसोग्रेण देवं हयशिरोधरम् ।
पाञ्चालेन क्रमः प्राप्तो रामेण पथि देशिते ॥ १२.३५७.७५ ॥
以猛烈苦行崇拜马首之神后,般遮罗王循罗摩所指之道而获此境界。
12.357.76
एतद्धयशिरो राजन्नाख्यानं तव कीर्तितम् ।
पुराणं वेदसमितं यन्मां त्वं परिपृच्छसि ॥ १२.३५७.७६ ॥
大王,你所问的这则马首故事已为你讲述。这是与吠陀等同的古老往世书。
12.357.77
यांयामिच्छेत्तनुं देवः कर्तुं कार्यविधौ क्वचित् ।
तातां कुर्याद्विकुर्वाणः स्वयमात्मानमात्मना ॥ १२.३५७.७७ ॥
神欲为某事而现某种形相时,他便以自身之力自我变化,成就那一形相。
12.357.78
एष वेदनिधिः श्रीमानेष वै तपसोनिधिः ।
एष योगश्च साङ्ख्यं च ब्रह्म चाग्र्यं हविर्विभुः ॥ १२.३५७.७८ ॥
此尊贵者是吠陀的宝库,是苦行的宝库。他即是瑜伽,即是数论,即是至高梵,即是最上供物,即是遍在之主。
12.357.79
नारायणपरा वेदा याज्ञा नारायणात्मकाः ।
तपो नारायणपरं नारायणपरा गतिः ॥ १२.३५७.७९ ॥
吠陀以那罗延为归依,祭祀以那罗延为本体。苦行以那罗延为归依,以那罗延为归依即是至高归宿。
12.357.80
नारायणपरं सत्यमृतं नारायणात्मकम् ।
नारायणपरो धर्मः पुनरावृत्तिदुर्लभः ॥ १२.३५७.८० ॥
真实与天则以那罗延为归依,以那罗延为本体。法以那罗延为归依;那使人不再轮回的法,是难以获得的。
12.357.81
प्रवृत्तिलक्षणश्चैव धर्मो नारायणात्मकः ।
नारायणात्मको गन्धो भूमौ श्रेष्ठतमः स्मृतः ॥ १२.३५७.८१ ॥
以行动为特征的法也是那罗延的本性。以那罗延为本性的香气,被认为是大地上最殊胜的。
12.357.82
अपां चापि गुणा राजन्रसा नारायणात्मकाः ।
ज्योतिषां च परं रूपं स्मृतं नारायणात्मकम् ॥ १२.३५७.८२ ॥
大王,水之德性与味道也以那罗延为本性。光明之最上形相,也被认为以那罗延为本性。
12.357.83
नारायणात्मकश्चापि स्पर्शो वायुगुणः स्मृतः ।
नारायणात्मकश्चैव शब्द आकाशसंभवः ॥ १२.३५७.८३ ॥
触,被认为是风的德性,也以那罗延为本性。从虚空生起的声音,同样以那罗延为本性。
12.357.84
मनश्चापि ततो भूतमव्यक्तगुणलक्षणम् ।
नारायणपरं कालो ज्योतिषामयनं च यत् ॥ १२.३५७.८४ ॥
意也是,其后以未显之德为特征的诸大(五大)也是,皆以那罗延为归依。时间也是,光明之运行(阿衍那)也是,皆以那罗延为归依。
12.357.85
नारायणपरा कीर्तिः श्रीश्च लक्ष्णीश्च देवताः ।
नारायणपरं साङ्ख्यं योगो नारायणात्मकः ॥ १२.३५७.८५ ॥
名声、吉祥天(Śrī)与拉克什米(Lakṣmī)以及诸神皆以那罗延为归依。数论以那罗延为归宿,瑜伽以那罗延为自性。
12.357.86
कारणं पुरुषो ह्येषां प्रधानं चापि कारणम् ।
स्वभावश्चैव कर्माणि दैवं येषां च कारणम् ॥ १२.३५७.८६ ॥
此等之因乃是补鲁莎(puruṣa),原质(pradhāna)亦为其因。自性、业行与天命,亦为其因。
12.357.87
अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् ।
विविधा च तथा चेष्टा दैवं चैवात्र पञ्चमम् ॥ १२.३५७.८७ ॥
所依之处、作者、种种不同的器具与诸般作为,而在此,天命即为第五。
12.357.88
पञ्चकारणसंख्यातो निष्ठा सर्वत्र वै हरिः ।
तत्त्वं विज्ञासमानानां हेतुभिः सर्वतोमुखैः ॥ १२.३५७.८८ ॥
虽被列为五因之一,但一切皆依归的究竟之处实为哈里(Hari)。对于欲知真理者,应从各方面以诸种理由而求之。
12.357.89
तत्त्वमेको महायोगी हनिर्नारायणः प्रभुः ।
ब्रह्मादीनां सलोकानामृषीणां च महात्मनाम् ॥ १२.३५७.८९ ॥
唯一真实者,乃大瑜伽行者哈里·那罗延,主宰。梵天等诸神、其诸世界以及伟大的仙人,皆属于他。
12.357.90
साङ्ख्यानां योगिनां चापि यतीनामात्मवेदिनाम् ।
मनीषितं विजानाति केशवो न तु तस्य ते ॥ १२.३५७.९० ॥
数论修行者、瑜伽行者、苦行者与知自我者的心意,克沙瓦(Keśava)皆知;然而他们并不认识他。
12.357.91
ये केचित्सर्वलोकेषु दैवं पित्र्यं च कुर्वते ।
दानानि च प्रयच्छन्ति तप्यन्ते च तपो महत् ॥ १२.३५७.९१ ॥
凡在一切世界中为诸神与祖先行祭祀,施舍布施,并修行大苦行的人——
12.357.92
सर्वेषामाश्रयो विष्णुरैश्वरं विधिमास्थितः ।
सर्वभूतकृतावासो वासुदेवेति चोच्यते ॥ १२.३५७.९२ ॥
毗湿奴是众生的归宿,安住于主宰的秩序之中;因一切众生以他为居所,故被称为婆苏提婆。
12.357.93
अयं हि नित्यः परमो महर्षि ।
र्महाविभूतिर्गुणवान्गुणाख्यः।
गुणैश्च संयोगमुपैति शीघ्रं ।
कालो यथर्तावृतुसंप्रयुक्तः ॥ १२.३५७.९३ ॥
此(时间)永恒、至高,是大仙,具大威德,有德性,以德性得名;如四时各按其时相应,它迅速与诸德相合。
12.357.94
नैवास्य विन्दन्ति गतिं महात्मनो ।
न चागतिं कश्चिदिहानुपश्यति।
ज्ञानात्मकाः संयमिनो महर्षयः ।
पश्यन्ति नित्यं पुरुषं गुणाधिकम् ॥ १२.३५७.९४ ॥
无人能到达这位大我的归途,也无人在此看见他的非归途;以智慧为本性、自我克制的大仙,始终见到超越诸德的补鲁沙。