Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.359

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.359.1

साख्यं योगः पाञ्चरात्रं वेदारण्यकमेव च ।
ज्ञानान्येतानि ब्रह्मर्षे लोकेषु प्रचरन्ति ह ॥ १२.३५९.१ ॥

數論、瑜伽、般遮羅多,以及吠陀與森林書——婆羅門仙人啊,這些智慧流傳於諸世界之中。

12.359.2

किमेतान्येकनिष्ठानिं पृथङ्निष्ठानि वा मुने ।
प्रब्रूहि वै मया पृष्टः प्रवृत्तिं च यथाक्रमम् ॥ १२.३५९.२ ॥

這些是歸於同一宗旨,還是各有不同的宗旨?賢者啊,既然我問了,請依次為我講述它們的流變。

12.359.3

कथं वैकारिको गच्छेत्पुरुषः पुरुषोत्तमम् ।
वदस्व त्वं मया पृष्टः प्रवृत्तिं च यथाक्रमम् ॥ १२.३५९.३ ॥

受造之人如何抵達至上之補魯沙?既然我問了,請依次告訴我其歷程。

12.359.4

जज्ञे बहुज्ञं परमत्युदारं ।
यं द्वीपमध्ये सुतमात्मवन्तम्।
पराशरात्सत्यवती महर्षि ।
तस्मै नमोऽज्ञानतमोनुदाय ॥ १२.३५९.४ ॥

薩耶瓦蒂在島中與婆羅沙羅所生之子——極其寬厚、博學、自製,大仙人。向這驅散無明黑暗者致敬。

12.359.5

पितामहाद्यं प्रवदन्ति षष्ठं ।
महर्षिमार्षेयविभूतियुक्तम्।
नारायणस्यांशजमेकपुत्रं ।
द्वैपायनं वेदमहानिधानम् ॥ १२.३५९.५ ॥

人們說他是祖父一脈自始的第六位——具足仙族光輝的大仙,生於那羅延之分身的唯一之子,二精神,吠陀的大寶藏。

12.359.6

तमादिकालेषु महाविभूति ।
र्नारायणो ब्रह्म महानिधानम्।
ससर्ज पुत्रार्थमुदारतेजा ।
व्यासं महात्मानमजं पुराणम् ॥ १२.३५९.६ ॥

在遠古之時,大光輝的那羅延——梵,大寶藏——以寬厚的光芒為求子而創造了那位偉大的靈魂毗耶娑,無生且古老。

12.359.7

त्वयैव कथितः पूर्वं संभवो द्विजसत्तम ।
वसिष्ठस्य सुतः शक्तिः शक्तिपुत्रः पराशरः ॥ १२.३५९.७ ॥

二度生者中最优秀的人啊,您先前已经讲过他的出身:伐悉侘之子沙克提,以及沙克提之子跋罗捨罗。

12.359.8

पराशरस्य दायादः कृष्णद्वैपायनो मुनिः ।
भूयो नारायणसुतं त्वमेवैनं प्रभाषसे ॥ १२.३५९.८ ॥

仙人黑克利须那·德维帕雅那,是跋罗捨罗之子,您现在又称他为那罗延之子。

12.359.9

किमतः पूर्वकं जन्म व्यासस्यामिततेजसः ।
कथयस्वोत्तममते जन्म नारायणोद्भवम् ॥ १२.३५९.९ ॥

无量光辉的毗耶娑,此前的出生是怎样的?至高智慧者啊,请讲述他从那罗延而生的出生。

12.359.10

वेदार्थवेत्तुव्यासस्य धर्मिष्ठस्य तपोनिधेः ।
गुरोर्मे ज्ञाननिष्ठस्य हिमवत्पाद आसतः ॥ १२.३५९.१० ॥

我的老师毗耶娑,通晓吠陀之义,最为正法,苦行的宝库,专注于智慧,曾坐在喜马拉雅山脚下。

12.359.11

कृत्वा भारतमाख्यानं तपः श्रान्तस्य धीमतः ।
शुश्रूषां तत्परा राजन्कृतवन्तो वयं तदा ॥ १२.३५९.११ ॥

大王啊,毗耶娑撰成了婆罗多的叙事,因苦行而疲惫,那时我们一心侍奉他。

12.359.12

सुमन्तुर्जैमिनिश्चैव पैलश्च सुदृढव्रतः ।
अहं चतुर्थः शिष्यो वै शुको व्यासात्मजस्तथा ॥ १२.३५९.१२ ॥

须曼突、阇弥尼、坚定誓愿的伯罗,以及我这第四位弟子,还有毗耶娑之子俱卢(修迦)。

12.359.13

एभिः परिवृतो व्यासः शिष्यैः पञ्चभिरुत्तमैः ।
शुशुभे हिमवत्पादे भूतैर्भूतपतिर्यथा ॥ १२.३५९.१३ ॥

维耶萨被这五位杰出的弟子环绕,在喜马拉雅山脚下闪耀,如同众生之主在众生之中。

12.359.14

वेदानावर्तयन्साङ्गान्भारतार्थांश्च सर्वशः ।
तमेकमनसं दान्तं युक्ता वयमुपास्महे ॥ १२.३५९.१४ ॥

他完整地诵习吠陀及其支分,以及《婆罗多》的义理,心志专一,自我克制,我们虔诚地侍奉着他。

12.359.15

कथान्तरेऽथकस्मिंश्चित्पृष्टोऽस्माभिर्द्विजोत्तमः ।
वेदार्थान्भारतार्थांश्च जन्म नारायणात्तथा ॥ १२.३५९.१५ ॥

在一次谈话之中,我们向那位再生者中的最优者询问了吠陀的义理、《婆罗多》的义理,以及从那罗延而生的缘由。

12.359.16

स पूर्वमुक्त्वा वेदार्थान्भारतार्थांश्च तत्त्ववित् ।
नारायणादिदं जन्म व्याहर्तुमुपचक्रमे ॥ १२.३५९.१६ ॥

这位通晓真理者先讲述了吠陀的义理与《婆罗多》的义理,然后开始叙说从那罗延而生的这一诞生。

12.359.17

शृणुध्वमाख्यानवरमिदमार्षेयमुत्तमम् ।
आदिकालोद्भवं विप्रास्तपसाऽधिगतं मया ॥ १२.३५९.१७ ॥

诸位婆罗门,请听这部出自仙人传统、起源于远古的殊胜圣传,它是我依靠苦行而获得的。

12.359.18

प्राप्ते प्रजाविसर्गे वै सप्तमे पद्मसंभवे ।
नारायणो महायोगी शभाशुभविवर्जितः ॥ १२.३५९.१८ ॥

当生灵的第七次创生来临,出于莲花的梵天之时,超越善恶的大瑜伽士那罗延显现了。

12.359.19

ससृजे नाभितः पूर्वं ब्रह्माणममितप्रभः ।
ततः स प्रादुरभवदथैनं वाक्यमब्रवीत् ॥ १२.३५९.१९ ॥

无量光辉者先从肚脐中创造了梵天。然后他显现,对他说了这些话。

12.359.20

मम त्वं नाभितो जातः प्रजासर्गकरः प्रभुः ।
सृज प्रजास्त्वं विविधा ब्रह्मन्सजडपण्डिताः ॥ १२.३५९.२० ॥

你从我的肚脐中诞生,是创造众生的主宰。梵,请创造各种众生,包括愚钝者和智者。

12.359.21

स एवमुक्तो विमुखश्चिन्ताव्याकुलमानसः ।
प्रणम्य वरदं देवमुवाच हरिमीश्वरम् ॥ १२.३५९.२१ ॥

他被如此告知,心中因忧虑而烦乱,转过脸去,向赐予恩惠的神致敬,并对主宰者哈里说道。

12.359.22

का शक्तिर्मम देवेश प्रजाः स्रष्टुं नमोस्तु ते ।
अप्रज्ञावानहं देव विधत्स्व यदनन्तरम् ॥ १२.३५९.२२ ॥

众神之主啊,我哪有创造众生的能力?向你致敬。神啊,我缺乏智慧;请你决定接下来该怎么做。

12.359.23

स एवमुक्तो भगवान्भूत्वाऽथान्तर्हितस्ततः ।
चिन्तयामास देवेशो बुद्धिं बुद्धिमतांवरः।
स्वरूपिणी ततो बुद्धिरुपतस्थे हरिं प्रभुम् ॥ १२.३५९.२३ ॥

他被如此告知后,世尊便隐没了。于是智者中最杰出的天神思量智慧,于是具象化的智慧前来侍奉主哈里。

12.359.24

योगेन चैनां निर्योगः स्वयं नियुयुजे तदा ।
स तामैश्वर्ययोगस्थां बुद्धिं गतिमतीं सतीम् ॥ १२.३५९.२४ ॥

于是那无所系缚者亲自以瑜伽驱使她:那处于主宰瑜伽中、有动力、忠贞的智慧,他便使其发挥作用。

12.359.25

उवाच वचनं देवो बुद्धिं वै प्रभुरव्ययः ।
ब्रह्माणं प्रविशस्वेति लोकसृष्ट्यर्थसिद्धये।
ततस्तमीश्वरादिष्टा बुद्धिः क्षिप्रं विवेश सा ॥ १२.३५९.२५ ॥

不灭的主神对觉性说:“进入梵天,以成就世界的创造。”于是,依主宰的命令,那觉性迅速进入了他。

12.359.26

अथैनं बुद्धिसंयुक्तं पुनः स ददृशे हरिः ।
भूयश्चैव वचः प्राह सृजेमा विविधाः प्रजाः ॥ १२.३५९.२६ ॥

于是哈利再次看见他与觉性相合,又说:“创造这些种种众生。”

12.359.27

बाढमित्येव कृत्वाऽसौ यथाऽऽज्ञां शिरसा हरेः ।
एवमुक्त्वा स भगवांस्तत्रैवान्तरधायत ॥ १२.३५९.२७ ॥

他说“好”,便低首领受哈利的命令。说完这些,那位世尊就在当场消失了。

12.359.28

प्राप चैनं मुहूर्तेन स्वं स्थानं देवसंज्ञितम् ।
तां चैव प्रकृतिं प्राप्य एकीभावगतोऽभवत् ॥ १२.३५९.२८ ॥

刹那间他回到了自己名为神圣的居所;获得那种本性后,他便与之合一。

12.359.29

अथास्य बुद्धिरभवत्पुनरन्या तदा किल ।
सृष्टाः प्रजा इमाः सर्वा ब्रह्मणा परमेष्ठिना ॥ १२.३५९.२९ ॥

此时他的觉性中又生起另一个念头:这些众生都已由至尊之座的梵天所创造。

12.359.30

दैत्यदानवगन्धर्वरक्षोगणसमाकुला ।
जाता हीयं वसुमती भाराक्रान्ता तपस्विनी ॥ १२.३५९.३० ॥

这大地(Vasumatī)挤满了达伊提亚、达那婆、乾闼婆与罗刹的群众,已然诞生——被重负压身的苦行女。

12.359.31

बहवो बलिनः पृथ्व्यां दैत्यदानवराक्षसाः ।
भविष्यन्ति तपोयुक्ता वरानप्राप्स्यन्ति चोत्तमान् ॥ १२.३५९.३१ ॥

大地上将有许多强大的达extya、檀那婆和罗刹;他们具足苦行,将获得殊胜的恩赐。

12.359.32

अवश्यमेव तैः सर्वैर्वरदानेन दर्पितैः ।
बाधितव्याः सुरगणा ऋषयश्च तपोधनाः ॥ १२.३५९.३२ ॥

他们因获得恩赐而骄傲,必定会压迫诸神之众,以及以苦行为财富的仙人们。

12.359.33

तत्र न्याय्यमिदं कर्तुं भारावतरणं मया ।
अथ नानासमुद्भूतैर्वसुधायां यथाक्रमम् ॥ १२.३५९.३३ ॥

因此,我应当卸下大地的重负,通过在大地上以种种形态降生者,依次完成此事,这是合宜的。

12.359.34

निग्रहेण च पापानां साधूनां प्रग्रहेण च ।
इदं तपस्विनी सत्या धारयिष्यति मेदिनी ॥ १२.३५९.३४ ॥

以惩治恶人、扶助善人,这位苦行而真实的大地将承担此事。

12.359.35

मया ह्येषा हि ध्रियते पातालस्थेन भोगिना ।
तस्मात्पृथ्व्याः परित्राणं करिष्ये संभवं गतः ॥ १२.३५९.३५ ॥

此地是由居于地底的我这条蛇所支撑的;因此,我将降生并拯救大地。

12.359.36

एवं स चिन्तयित्वा तु भगवान्मघधुसूदनः ।
रुपाण्यनेकान्यसृजत्प्रादुर्भावभवाय सः ॥ १२.३५९.३६ ॥

如此思量之后,世尊摩图苏陀那为了显现与降生,创造了种种形相。

12.359.37

वाराहं नारसिहं च वामनं मानुषं तथा ।
एभिर्मया निहन्तव्याः दुर्विनीताः सुरारयः ॥ १२.३५९.३७ ॥

我将以野猪、人狮、矮人与人类之形,诛杀这些傲慢的诸神之敌。

12.359.38

अथ भूयो जगत्स्रष्टा भोःशब्देनानुनादयन् ।
सरस्वतीमुच्चचार तत्र सारस्वतोऽभवत् ॥ १२.३५९.३८ ॥

此后,世界的创造者以“bhoḥ”之声使之回响,高声诵出萨拉斯瓦蒂,于是萨拉斯瓦塔在那里诞生。

12.359.39

अपान्तरतमा नाम सुतो वाक्संभवः प्रभोः ।
भूतभव्यभविष्यज्ञः सत्यवादी दृढव्रतः ॥ १२.३५९.३९ ॥

主有一子,名为阿般坦罗塔玛,生于言语之中;他知过去、现在、未来,言语真实,誓愿坚定。

12.359.40

तमुवाच नतं मूर्ध्ना देवानामादिवरव्ययः ।
वेदाख्याने श्रुतिः कार्या त्वया मतिमतांवर ॥ १२.३५९.४० ॥

众神之中最初、最尊、不朽的主对低首而立的他说:“智者中最好的,在阐述吠陀时,你应当确立天启圣典(śruti)。”

12.359.41

तस्मात्कुरु यथाज्ञप्तं ममैतद्वचनं मुने ।
तेन भिन्नास्तदा वेदा मनोः स्वायंभुवेन्तरे ॥ १२.३५९.४१ ॥

因此,哦,贤者,请照我所命令的去做吧;因为正是由此,在斯瓦延布瓦Manu的时代,吠陀才被分开。

12.359.42

ततस्तुतोष भगवान्हरिस्तेनास्य कर्मणा ।
तपसा च सुतप्तेन यमेन नियमेन च ॥ १२.३५९.४२ ॥

于是世尊哈里因他的行为、他精勤的苦行、克制与持戒而欢喜。

12.359.43

मन्वन्तरेषु पुत्र त्वमेवं लोकप्रवर्तकः ।
भविष्यस्यचलो ब्रह्मन्नप्रधृष्यश्च नित्यशः ॥ १२.३५९.४३ ॥

儿啊,在诸摩奴时期,你将如此成为世界的推动者。婆罗门啊,你将永远不动摇、不可战胜。

12.359.44

पुनस्तिष्ये च संप्राप्ते कुरवो नाम भारताः ।
भविष्यन्ति महात्मानो राजानः प्रथिता भुवि ॥ १२.३५९.४४ ॥

再到提舍时代来临时,将有名为俱卢的婆罗多人。他们将是世间闻名的伟大君王。

12.359.45

तेषां त्वत्तः प्रसूतानां कुलभेदो भविष्यति ।
परस्परविनाशार्थं त्वामृते द्विजसत्तम ॥ १२.३५९.४५ ॥

从你而生的他们之中,将发生家族分裂,彼此走向毁灭;只有你除外,二生者中最优秀的人啊。

12.359.46

तत्राप्यनेकधा वेदान्भेत्स्यसे तपसाऽन्वितः ।
कृष्णे युगे च संप्राप्ते कृष्णवर्णो भविष्यसि ॥ १२.३५९.४६ ॥

在那里,你以苦行为具足,将把吠陀分为多种;当黑暗时代来临时,你将成为黑色肤色。

12.359.47

धर्माणां विविधानां च कर्ता ज्ञानकरस्तथा ।
भविष्यसि तपोयुक्तो न च रागाद्विमोक्ष्यसे ॥ १२.३५९.४७ ॥

你将成为多种法的践行者,也将成为知识的创造者;虽具苦行,你仍不能从贪爱中解脱。

12.359.48

वीतरागश्च पुत्रस्ते परमात्मा भविष्यति ।
महेश्वरप्रसादेन नैतद्वचनमन्यथा ॥ १२.३५९.४८ ॥

你的儿子将成为离欲的至上自我;因大自在天的恩典,此言不虚。

12.359.49

यं मानसं वै प्रवदन्ति विप्राः ।
पितामहस्योत्तमबुद्धियुक्तम्।
वसिष्ठमग्र्यं च तपोनिधानं ।
यस्यातिसूर्यं व्यरिरिच्यते भाः ॥ १२.३५९.४९ ॥

婆罗门称之为意生者,具有祖父(梵天)至高智慧的最上者婆私吒,苦行的宝库,其光芒超过太阳。

12.359.50

तस्यान्वपे चापि ततो महर्षिः ।
पराशरो नाम महाप्रभावः।
पिता स ते वेदनिधिर्वरिष्ठो ।
महातपा वै तपसो निवासः ॥ १२.३५९.५० ॥

此后在他的世系中出现了大仙波罗舍罗,威力广大。他是你的父亲:吠陀的宝库,最上者,大苦行者,苦行的住所。

12.359.51

कानीनगर्भः पितृकन्यकायां ।
तस्मादृषेस्त्वं भविता च पुत्रः ॥ १२.३५९.५१ ॥

你将生于未嫁女子之胎,成为那位仙人的儿子。

12.359.52

भूतभव्यभविष्याणां ज्ञानानां वेत्स्यसे गतिम् ।
ये ह्यतिक्रान्तकाः पूर्वं सहस्रसुगपर्ययाः ॥ १२.३५९.५२ ॥

你将知晓过去、未来与现在之知识的流转,以及此前已逝去的千万个时代循环。

12.359.53

तांश्च सर्वान्मयोद्दिष्टान्द्रक्ष्यसे तपसाऽन्वितः ।
पुनर्द्रक्ष्यसि चानेकसहस्रयुगपर्ययान् ॥ १२.३५९.५३ ॥

我所宣示的这一切,你将以苦行而亲见;此后你还将看见成千上万个时代的循环。

12.359.54

अनादिनिधनं लोके चक्रहस्तं च मां मुने ।
अनुध्यानान्मम मुने नैतद्वचनमन्यथा।
भविष्यति महासत्व ख्यातिश्चाप्यतुला तव ॥ १२.३५९.५४ ॥

哦,仙人,你当知我在世间乃无始无终、手持法轮者。仙人,因我的冥想,此言必不虚假。哦,大德者,你的名声也将无与伦比。

12.359.55

शनैश्चरः सूर्यपुत्रो भविष्यति मनुर्महान् ।
तस्मिन्मन्वन्तरे चैव मन्वादिगणपूर्वकः।
त्वमेव भविता वत्स मत्प्रसादान्न संशयः ॥ १२.३५९.५५ ॥

日之子土星(Śanaiścara)将成为伟大的摩奴。在那个摩诃摩奴之世中,与摩奴及以其为首的众生一起,亲爱的孩子,你自己将成为其中之一,这是凭借我的恩典;毫无疑问。

12.359.56

यत्किंचिद्विद्यते लोके सर्वं तन्मद्विचेष्टितम् ।
अन्यो ह्यन्यं चिन्तयति स्वच्छन्दं विदधाम्यहम् ॥ १२.३५९.५६ ॥

世间所有存在之物,都是我的行动。一者思念另一者,而我依自己的意愿施行安排。

12.359.57

एवं सारस्वतमृषिमपांतरतमं तथा ।
युक्त्वा वचनमीशानः साधयस्वेत्यथाब्रवीत् ॥ १२.३५९.५७ ॥

如此,伊舍那对萨罗室伐多仙人阿般但罗多摩说了这些话之后,说道:「你去成就此事吧。」

12.359.58

सोहं तस्य प्रसादेन देवस्य हरिमेधसः ।
अपांतरतमो नाम्ना ततो जातोऽऽज्ञया हरेः ॥ १२.३५९.५८ ॥

我,凭借那位哈利-梅达斯天神的恩典,那时依哈利的命令,以阿般但罗多摩之名而生。

12.359.59

पुनश्च जातो विख्यातो वसिष्ठकुलनन्दनः ॥ १२.३५९.५९ ॥

我再次出生,名声显赫,成为婆罗底斯家族的喜悦。

12.359.60

तदेतत्कथितं जन्म मया पूर्वकमात्ममः ।
नारायणप्रसादेन तदा नारायणांशजम् ॥ १२.३५९.६० ॥

我如此讲述了我的前世之生,凭借那罗延的恩典,那时我由那罗延的一分而生。

12.359.61

मया हि सुमहत्तप्तं तपः परमदारुणम् ।
पुरा मतिमतां श्रेष्ठाः परमेण समाधिना ॥ १२.३५९.६१ ॥

昔日我曾以至高的三昧修行极为严酷的苦行,诸位智者中的最优者啊。

12.359.62

एतद्वः कथितं सर्वं यन्मां पृच्छत पुत्रकाः ।
पूर्वजन्म भविष्यं च भक्तानां स्नेहतो मया ॥ १२.३५९.६२ ॥

孩子们啊,你们所问的一切,我都已告诉你们了:前世与未来,皆出于对信徒的爱护。

12.359.63

एष ते कथितः पूर्वः संभवोऽस्मद्गुरोर्नृप ।
व्यासस्याक्लिष्टमनसो यथा पृष्टः पुनः शृणु ॥ १२.३५९.६३ ॥

国王啊,这段关于我们的导师毗耶娑——心不动摇者——之前的起源已为你讲述;现在,正如你所问,再听一遍。

12.359.64

साङ्ख्यं योगः पाञ्चरात्रं वेदाः पाशुपतं तथा ।
ज्ञानान्येतानि राजर्षे विद्धि नानामतानि वै ॥ १२.३५९.६४ ॥

数论、瑜伽、般遮罗多、吠陀,以及湿婆派——王仙啊,应知这些是各种不同宗义的知识。

12.359.65

साङ्ख्यस्य वक्ता कपिलः परमर्षिः स उच्यते ।
हिरण्यगर्भो योगस्य वेत्ता नान्यः पुरातनः ॥ १२.३५९.६५ ॥

数论之说者称为至上仙人迦毗罗;瑜伽之知者是金胎,无人比他更古老。

12.359.66

अपांतपतमाश्चैव वेदाचार्यः स उच्यते ।
प्राचीनगर्भं तमृषिं प्रवदन्तीह केचन ॥ १२.३५९.६६ ॥

阿般多罗陀摩也被称为吠陀的导师;此处有人称那位仙人为“古胎”。

12.359.67

उमापतिर्भूतपतिः श्रीकण्ठो ब्रह्मणः सुतः ।
उक्तवानिदमव्यग्रो ज्ञानं पाशुपतं शिवः ॥ १२.३५९.६७ ॥

乌摩之主、众生之主、妙颈者、梵天之子湿婆,平静地宣说了这帕索帕塔之智。

12.359.68

पाञ्चरात्रस्य कृत्स्नस्य वक्ता तु भगवान्स्वयम् ।
सर्वेषु च नृपश्रेष्ठ ज्ञानेष्वेतेषु दृश्यते ॥ १२.३५९.६८ ॥

君王中的最优者啊,整个般遮罗多之说的宣说者正是世尊自己;在所有这些智慧中,都可见到他。

12.359.69

यथागमं यथाज्ञानं निष्ठा नारायणः प्रभुः ।
न चैनमेवं जानन्ति तमोभूता विशांपते ॥ १२.३५९.६९ ॥

依据经典与智慧,主那罗衍那是至上的归依;但被黑暗所笼罩的人并不如此认识他,人民之主啊。

12.359.70

तमेव शास्त्रकर्तारं प्रवदन्ति मनीषिणः ।
निष्ठां नारायणमृषिं नान्योस्तीति च वादिनः ॥ १२.३५९.७० ॥

智者们称他为经典的作者;那些这样说的人宣称,见者那罗衍那是至上的归依,此外再无他者。

12.359.71

निःसंशयेषु सर्वेषु नित्यं वसति वै हरिः ।
ससंशयान्हेतुबलान्नाध्यावसति माधवः ॥ १२.३५९.७१ ॥

在一切无疑之事中,哈里常常安住;但由于论辩之力,怀疑者之中,摩陀婆并不安住。

12.359.72

पाञ्चरात्रविदो ये तु यथाक्रमपरा नृप ।
एकान्तभावोपगतास्ते हरिं प्रविशन्ति वै ॥ १२.३५९.७२ ॥

君王啊,那些通晓般遮罗多、依次精进者,达到专一的虔信后,确实进入哈里之中。

12.359.73

साङ्ख्यं च योगं च सनातने द्वे ।
वेदाश्च सर्वे निखिलेन राजन्।
सर्वैः समस्तैर्ऋषिभिर्निरुक्तो ।
नारायणो विश्वमिदं पुराणम् ॥ १२.३५९.७३ ॥

数论与瑜伽二者皆为永恒;国王啊,所有吠陀都全面(关乎他)。诸位仙人都宣说,那纳拉延那便是这古老的宇宙。

12.359.74

शुभाशुभं कर्म समीरितं य ।
त्प्रवर्तते सर्वलोकेषु किंचित्।
तस्मादृपेस्तद्भवतीति विद्या ।
द्दिव्यन्तरिक्षे भुवि चाप्सु चेति ॥ १२.३५९.७४ ॥

所宣说的善与恶之业,在一切世界中所发生的任何事情里运行。因此,这便是知识:它出自仙人——于天上、虚空中、大地上以及水中。