摩诃婆罗多 · 章 12.36
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.36.1
श्रोतुमिच्छामि भगवन्विस्तरेण महामुने ।
राजधर्मान्द्विजश्रेष्ठ चातुर्वर्ण्यस्य चाखिलान् ॥ १२.३६.१ ॥
尊者啊,大仙啊,再生者中最殊胜的人啊,我愿详细听闻王法以及四姓的一切法。
12.36.2
आपत्सु च यथा नीतिः प्रणेतव्या द्विजोत्तम ।
धर्म्यमालम्ब्य पन्थानं विजयेयं कथं महीम् ॥ १२.३६.२ ॥
再生者中最殊胜的人啊,在灾难之时应当如何施行政策?依循正法之道,我该如何征服大地?
12.36.3
प्रायश्चित्तकथा ह्येषा भक्ष्याभक्ष्यसमन्विता ।
कौतूहलानुप्रवणा हर्षं जनयतीव मे ॥ १२.३६.३ ॥
这段关于赎罪的故事,涉及可食与不可食之物,激起了我的好奇,仿佛在我心中生出喜悦。
12.36.4
धर्मचर्या च राज्यं च नित्यमेव विरुध्यते ।
एवं मुह्यति मे चेतश्चिन्तयानस्य नित्यशः ॥ १२.३६.४ ॥
奉行正法与执掌王权始终相互冲突。我这样不断思索,心便陷入迷惑。
12.36.5
तमुवाच महाराज व्यासो वेदविदां वरः ।
नारदं समभिप्रेक्ष्य सर्वं जानन्पुरातनम् ॥ १२.३६.५ ॥
大王啊,精通吠陀者中最殊胜的毗耶娑,望着通晓一切古事的那罗陀,对他说道。
12.36.6
श्रोतुमिच्छसि चेद्धर्मं निखिलेन नराधिप ।
प्रेहि भीष्मं महाबाहो वृद्धं कुरुपितामहम् ॥ १२.३६.६ ॥
人主啊,若你想完整听闻正法,那就去见大臂者,年迈的俱卢祖父毗湿摩吧。
12.36.7
स ते धर्मरहस्येषु संशयान्मनसि स्थितान् ।
छेत्ता भागीरथीपुत्रः सर्वज्ञः सर्वधर्मवित् ॥ १२.३६.७ ॥
他是恒河之子,全知且通晓一切法,将斩断你心中关于法之秘义的疑惑。
12.36.8
जनयामास यं देवी दिव्या त्रिपथगा नदी ।
साक्षाद्ददर्श यो देवान्सर्वानिन्द्रपुरोगमान् ॥ १२.३६.८ ॥
他是神圣的三道河女神所生之子,他亲眼见过以因陀罗为首的一切天神。
12.36.9
बृहस्पतिपुरोगांस्तु देवर्षीनसकृत्प्रभुः ।
तोषयित्वोपचारेण राजनीतिमधीतवान् ॥ १२.३६.९ ॥
那位强大者多次以侍奉取悦以布利哈斯帕蒂为首的天仙,从而学得了王道之学。
12.36.10
उशना वेद यच्छास्त्रं देवासुरगुरुर्द्विजः ।
स च धर्मं सवैयाख्यं प्राप्तवान्कुरुसत्तमः ॥ १२.३६.१० ॥
这位库鲁之最,获得了提婆与阿修罗之师、再生者乌舍那所知的论典,以及带有其特殊名号的法。
12.36.11
भार्गवाच्च्यवनाच्चापि वेदानङ्गोपबृंहितान् ।
प्रतिपेदे महाबुद्धिर्वसिष्ठाच्चरितव्रतः ॥ १२.३६.११ ॥
他从婆里古之裔车耀那以及婆悉吒那里,获得了由六支辅助之学所滋养的吠陀,他是大智慧且持守誓戒者。
12.36.12
पितामहसुतं ज्येष्ठं कुमारं दीप्ततेजसम् ।
अध्यात्मगतितत्त्वज्ञमुपाशिक्षत यः पुरा ॥ १२.३६.१२ ॥
往昔曾受教于祖父之长子、光辉炽盛的童子室建陀的人,他通晓自我之道的真谛。
12.36.13
मार्कण्डेयमुखात्कृत्स्नं यतिधर्ममवाप्तवान् ।
रामादस्त्राणि शक्राच्च प्राप्तवान्पुरुपर्षभः ॥ १२.३६.१३ ॥
他从摩根德耶的口中完整获得了苦行者之法,又从罗摩和因陀罗那里获得了武器;他是人中的最优者。
12.36.14
मृत्युरात्मेच्छया यस्य जातस्य मनुजेष्वपि ।
तथाऽनपत्यस्य सतः पुण्यलोकादिविश्रुताः ॥ १२.३६.१४ ॥
他虽生于人间,死亡却由他自己的意愿而至;同样,虽然他无子嗣,却以圣洁的世界等而闻名。
12.36.15
यस्य ब्रह्मर्षयः पुण्या नित्यमासन्स भसादः ।
यस्य नाविदितं किंचिज्ज्ञानं ज्ञेयेषु दृश्यते ॥ १२.३६.१५ ॥
圣洁的婆罗门仙人常在他身边,食用圣余的人亦然;在可知之事中,他似乎没有任何未知之物。
12.36.16
स ते वक्ष्यति धर्मज्ञः सूक्ष्मधर्मार्थतत्त्ववित् ।
तमभ्येहि पुरा प्राणान्स विमुञ्चति धर्मवित् ॥ १२.३६.१६ ॥
他通晓法,精通细微的法与义之真理,他将为你宣说。请在他舍弃生命之气之前去见他;这位知法者即将离世。
12.36.17
एवमुक्तस्तु कौन्तेयो दीर्घप्रज्ञो महामतिः ।
उवाच वदतां श्रेष्ठं व्यासं सत्यवतीसुतम् ॥ १२.३६.१७ ॥
如此被告知后,这位智慧深远、才智卓越的贡提之子,对言者中最优秀的、萨蒂耶瓦蒂之子毗耶娑说道。
12.36.18
वैशसं सुमहत्कृत्वा ज्ञातीनां रोमहर्षणम् ।
आगस्कृत्सर्वलोकस्य पृथिवीनाशकारकः ॥ १२.३६.१८ ॥
我造成了如此巨大、令人毛骨悚然的亲族屠戮,成为对整个世界的罪人,成为大地毁灭的根源。
12.36.19
घातयित्वा तमेवाजौ छलेनाजिह्नयोधिनम् ।
उपसंप्रष्टुमर्हामि तमहं केन हेतुना ॥ १२.३६.१९ ॥
我在战场上用诡计使那位正直的勇士被杀,我以何种理由有资格走近他去请教?
12.36.20
ततस्तं नृपतिश्रेष्ठं चातुर्वर्ण्यहितेप्सया ।
पुनरेव महाबाहुर्यदुश्रेष्ठोऽब्रवीद्वचः ॥ १२.३६.२० ॥
于是,为了四种姓的福祉,大臂的雅度族之最再次向那位国王之最说了这些话。
12.36.21
नेदानीमतिनिर्बन्धं शोके त्वं कर्तुमर्हसि ।
यदाह भगवान्व्यासस्तत्कुरुष्व नृपोत्तम ॥ १२.३६.२१ ॥
如今你不应在悲痛中过分执拗。请做博学的毗耶娑所说之事,哦,诸王中最优秀的人。
12.36.22
ब्राह्मणास्त्वां महाबाहो भ्रातरश्च महौजसः ।
पर्जन्यमिव घर्मान्ते नाथमाना उपासते ॥ १२.३६.२२ ॥
大臂者啊,婆罗门与你那极具光辉的兄弟们,寻求你为依怙而侍奉你,如同在炎热将尽时期盼雨云一般。
12.36.23
हतशिष्टाश्च राजानः कृत्स्नं चैव समागतम् ।
चातुर्वर्ण्यं महाराज राष्ट्रं ते कुरुजाङ्गलम् ॥ १२.३६.२३ ॥
大王啊,那些在杀戮中幸存的国王、聚集于此的全部四种姓,以及你的俱卢-占伽罗之国。
12.36.24
प्रियार्थमपि चैतेषां ब्राह्मणानां महात्मनाम् ।
नियोगादस्य च गुरोर्व्यासस्यामिततेजसः ॥ १२.३६.२४ ॥
即便是为了使这些伟大的婆罗门欢喜,也是遵从这位无量光辉的导师毗耶娑的命令。
12.36.25
सुहृदामस्मदादीनां द्रौपद्यांश्च परंतप ।
कुरु प्रियममित्रघ्न लोकस्य च हितं कुरु ॥ १२.३६.२५ ॥
啊,焚敌者!请为你的朋友、我们以及德罗波蒂行所喜之事;啊,诛敌者!也请为世间行利益之事。
12.36.26
एवमुक्तः स कृष्णेन राजा राजीवलोचनः ।
हितार्थं सर्वलोकस्य समुत्तस्थौ महामनाः ॥ १२.३६.२६ ॥
克里希那如此说后,那位莲花眼的国王,心胸宽广,为了一切世界的福祉,站了起来。
12.36.27
सोऽनुनीतो नरव्याघ्र विष्टरश्रवसा स्वयम् ।
द्वैपायनेन च तथा देवस्थानेन जिष्णुना ॥ १२.३६.२७ ॥
人中之虎啊,他也同样被毗湿塔罗什罗婆(广博仙)本人、二岛仙、天居以及胜利者(阿周那)劝导。
12.36.28
एतैश्चान्यैश्च बहुभिरनुनीतो युधिष्ठिरः ।
व्यजहान्मानसं दुःखं संतापं च महायशाः ॥ १२.३६.२८ ॥
被这些人和其他许多人劝导后,大名鼎鼎的坚战舍弃了内心的悲痛与忧伤。
12.36.29
श्रुतवाक्यः श्रुतनिधिः श्रुतश्राव्यविशारदः ।
व्यवस्य मनसा शान्तिमगच्छत्पाण्डुनन्दनः ॥ १२.३६.२९ ॥
聆听了这些言语,他是学问的宝库,精通应当听闻之事,般度之子在心中定下决心,于是得到了平静。
12.36.30
स तैः परिवृतो राजा नक्षत्रैरिव चन्द्रमाः ।
धृतराष्ट्रं पुरस्कृत्य स्वपुरं प्रविवेश ह ॥ १२.३६.३० ॥
那位君王被他们环绕,如同月亮被群星环绕,他让持国走在前面,进入了自己的城市。
12.36.31
प्रविविक्षुः स धर्मज्ञः कुन्तीपुत्रो युधिष्ठिरः ।
अर्चयामास देवांश्च ब्राह्मणांश्च सहस्रशः ॥ १२.३६.३१ ॥
即将入城的通晓法义的昆提之子坚战,向诸神与婆罗门致以千百次的敬礼。
12.36.32
ततो नवं रथं शुभ्रं कम्बलाजिनसंवृतम् ।
युक्तं षोडशभिस्त्वश्चैः पाण्डुरैः शुभलक्षणैः ॥ १२.३६.३२ ॥
随后牵来一辆崭新明亮的战车,覆以毛毯与兽皮,驾以十六匹具吉相的白马。
12.36.33
मन्त्रैरभ्यर्चितं पण्यैः स्तूयमानश्च बन्दिभिः ।
आरुरोह यथा देवः सोमोऽम्रतमयं यथम् ॥ १२.३६.३३ ॥
他以颂咒受敬,又受赞者颂扬,登上此车,正如神主月神登上由甘露所造的车辇。
12.36.34
जग्राह रश्मीन्कौन्तेयो भीमो भीमपराक्रमः ।
अर्जुनः पाण्डुरं छत्रं धारयामास भानुमत् ॥ १२.३६.३४ ॥
昆提之子、威猛无比的怖军执起缰绳,阿周那则举起那把光耀的白伞。
12.36.35
ध्रियमाणं च तच्छत्रं पाण्डुरं राजमूर्धनि ।
शुशुभे तारकाराजः सिताभ्र इव चाम्बरे ॥ १२.३६.३५ ॥
那把举在国王头顶的白伞,耀如星辰之王月亮,映在天空的白云之中。
12.36.36
चामरव्यजने त्वस्य वीरौ जगृहतुस्तदा ।
चन्द्ररश्मिप्रये शुभ्रे माद्रीपुत्रावलंकृते ॥ १२.३६.३६ ॥
此时两位英雄为他执起白牦牛尾拂与扇子:那是摩德利的两个儿子,光明而庄严,为月光所爱。
12.36.37
ते पञ्च रथमास्थाय भ्रातरः समलंकृताः ।
भूतानीव समस्तानि राजन्ददृशिरे तदा ॥ १२.३६.३७ ॥
五位兄弟装饰一新,登上战车;王啊,那时他们看上去仿佛众生皆在。
12.36.38
आस्थाय तु रथं शुभ्रं युक्तमश्वैर्मनोजवैः ।
अन्वयात्पृष्ठतो राजन्युयुत्सुः पाण्डवाग्रजम् ॥ १२.३६.३८ ॥
王啊,乘上套着快如意念之马的明亮战车,युयुत्सु从后跟随般度族长兄。
12.36.39
रथं हेममयं शुभ्रं शैव्यसुग्रीवयाजितम् ।
सह सात्यकिना कृष्णः समास्थायान्वयात्कुरून् ॥ १२.३६.३९ ॥
乘坐由夏卑耶与须羯哩婆所套的金色明亮战车,黑天与萨谛耶吉同登,跟随俱卢族而行。
12.36.40
नरयानेन तु ज्येष्ठः पिता पार्थस्य भारत ।
अग्रतो धर्मराजस्य गान्धारीसहितो ययौ ॥ १२.३६.४० ॥
婆罗多啊,般度之父长者与甘陀利乘人力所拉之车,走在法王之前。
12.36.41
कुरुस्त्रियश्च ताः सर्वाः कुन्ती कृष्णा च माधवी ।
यानैरुच्चावचैर्जग्मुर्विदुरेण पुरस्कृताः ॥ १२.३६.४१ ॥
俱卢族的所有女子——昆提、黑女与摩陀维——乘各式车辆而行,由毗杜罗引导在前。
12.36.42
ततो रथाश्च बहुला नागाश्वसमलंकृताः ।
पादाताश्च हयाश्चैव पृष्ठतः समनुव्रजन् ॥ १२.३६.४२ ॥
随后,装饰着象与马的众多战车,步兵与马匹在后随行。
12.36.43
ततो वैतालिकैः सूतैर्मागधैश्च सुभाषितैः ।
स्तूयमानो ययौ राजा नगरं नागसाह्वयम् ॥ १२.३६.४३ ॥
那时,царь在吠陀歌者、御者与赞颂者以善言赞颂之中,前往名为那伽萨呼耶的城市。
12.36.44
तत्प्रयाणं माहबाहोर्बभूवाप्रतिमं भुवि ।
आकुलाकुलमुत्क्रुष्टं हृष्टपुष्टजनाकुलम् ॥ १२.३६.४४ ॥
这位大臂者的出行在大地上无与伦比,喧嚣层层叠叠,人声鼎沸,充满欢欣富足之人。
12.36.45
अभियाने तु पार्थस्य नरैर्नगरवासिभिः ।
नगरं राजमार्गाश्च यथावत्समलंकृताः ॥ १२.३६.४५ ॥
在普利塔之子出行时,城中居民按礼仪装饰了城市与王道。
12.36.46
पाण्डुरेण च माल्येन पताकाभिश्च मेदिनी ।
संस्कृतो राजमार्गोऽभूद्धूपनैश्च प्रधूपितः ॥ १२.३६.४६ ॥
以白色花环与旗幡装饰大地;王道被布置妥当,并以香烟熏染。
12.36.47
अथ चूर्णैश्च गन्धानां नानापुष्पप्रियङ्गुभिः ।
माल्यदामभिरासक्तै राजवेश्माभिसंवृतम् ॥ १२.३६.४७ ॥
于是王宫被香粉、各色花朵、普利扬古花及垂挂的花环所环绕。
12.36.48
कुम्भाश्च नगरद्वारि वारिपूर्णा नवा दृढाः ।
सिताः सुमनसो गौराः स्थापितास्तत्र तत्र ह ॥ १२.३६.४८ ॥
城门口处,到处摆放着盛满清水、崭新坚固、洁白而缀满鲜花的水瓶。
12.36.49
तथा स्वलंकृतं द्वारं नगरं पाण्डुनन्दनः ।
स्तूयमानः शुभैर्वाक्यैः प्रविवेश सुहृद्वृतः ॥ १२.३६.४९ ॥
如此,般度之子经由装饰精美的城门进入城市,受到吉祥言辞的赞颂,被众友人簇拥着。