Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.368

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.368.1

अथ तेन नरश्रेष्ठ ब्राह्मणेन तपस्विना ।
निराहारेण वसता दुःखितास्ते भुजङ्गमाः ॥ १२.३६८.१ ॥

人中之雄啊,那位苦行的婆罗门绝食而住,那些蛇便忧愁起来。

12.368.2

सर्वे संभूय सहिता ह्यस्य नावस्य बान्धवाः ।
भ्रातरस्तनया भार्या ययुस्तं ब्राह्मणं प्रति ॥ १२.३६८.२ ॥

他的亲属们——兄弟、儿子、妻子——全都聚集在一起,前往那位婆罗门处。

12.368.3

तेऽपश्यन्पुलिने तं वै विविक्ते नियतव्रतम् ।
समासीनं निराहारं द्विजं जप्यपरायणम् ॥ १२.३६८.३ ॥

他们看见他坐在僻静的沙洲上,持守誓戒,绝食,专心诵念。

12.368.4

ते सर्वे समभिक्रम्य विप्रमभ्यर्च्य चासकृत् ।
ऊचुर्वाक्यमसंदिग्धमातिथेयस्य बान्धवाः ॥ १२.३६८.४ ॥

众亲属走近,屡次恭敬礼拜那位婆罗门,并就待客之道说出明确的话语。

12.368.5

षष्ठो हि दिवसस्तेऽद्य प्राप्तस्येह तपोधन ।
न चाभिभाषसे किंचिदाहारं धर्मवत्सल ॥ १२.३६८.५ ॥

苦行的财富啊,今天是你来到此地的第六天;你什么也不说,也不进食,热爱正法者啊。

12.368.6

आमानभिगतश्चासि वयं च त्वामुपस्थिताः ।
कार्यं चातिथ्यमस्माभिरीप्सितं तव ऋद्धिमत् ॥ १२.३६८.६ ॥

你已受到应有的尊敬,我们也都在你面前侍奉。我们的责任是以充足的丰盛来奉献你所希望的待客之礼。

12.368.7

मूलं फलं वा पर्णं वा पयो वा द्विजसत्तम ।
आहारहेतोरन्नं वा भोक्तुमर्हसि ब्राह्मण ॥ १२.३६८.७ ॥

二生者中最优秀的人啊,根、果、叶或奶,或任何食物——为了充饥,你应当进食,婆罗门啊。

12.368.8

त्यक्ताहारेण भवता वने निवसता त्वया ।
बालवृद्धमिदं सर्वं पीड्यते धर्मसंकरात् ॥ १२.३६८.८ ॥

因为你住在森林中并舍弃了饮食,所以这一切——连同孩童和老人——都因法的混乱而受苦。

12.368.9

न हि नो भ्रूणहा कश्चित्पन्नगेष्विह विद्यते ।
पूर्वाशी वा कुले ह्यस्मिन्देवतातिथिबन्धुषु ॥ १२.३६८.९ ॥

此处蛇族之中,在我们家族里没有杀害胎儿的人;也没有先于神、客人和亲族而食的人。

12.368.10

उपदेशेन युष्माकमाहारोऽयं कृतो मया ।
द्विरूनं दशरात्रं वै नागस्यागमनं प्रति ॥ १२.३६८.१० ॥

依你们的教导,我奉行此饮食誓戒:十夜减二,等待蛇的到来。

12.368.11

यद्यष्टरात्रेऽतिक्रान्ते नागमिष्यति पन्नगः ।
तदाहारं करिष्यामि तन्निमित्तमिद व्रतम् ॥ १२.३६८.११ ॥

若过了八夜,蛇仍不来,那时我便进食;为此而立此誓。

12.368.12

कर्तव्यो न च संतापो गम्यतां च यथागतम् ।
तन्निमित्तमिदं सर्वं नैतद्भेत्तुगिहार्हथ ॥ १२.३६८.१२ ॥

不应悲伤;请照来时的样子离去。一切都是为此而设,你不应在此破坏它。

12.368.13

ते तेन समनुज्ञाता ब्राह्मणेन भुजङ्गमाः ।
स्वमेव भवनं जग्मुरकृतार्था नरर्षभ ॥ १२.३६८.१३ ॥

婆罗门如此遣散之后,那些蛇王,人中雄牛啊,未能达成所愿,各自回到了自己的居所。