Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.4

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.4.1

कर्णस्तु समवाप्यैवमस्त्रं भार्गवनन्दनात् ।
दुर्योधनेन सहितो मुमुदे भरतर्षभ ॥ १२.४.१ ॥

卡尔纳如此从婆利古之子处获得武器,与难敌一同欢喜,婆罗多之牛啊。

12.4.2

ततः कदाचिदाजातः समाजग्मुः स्वयंवरे ।
कलिङ्गविषये राजन्राज्ञश्चित्राङ्गदस्य च ॥ १२.४.२ ॥

之后某时,国王啊,他们在羯陵伽国国王栴陀摩陀的自选夫婿大会上聚集。

12.4.3

श्रीमद्राजपुरं नाम नगरं तत्र भारत ।
राजानः शतशस्तत्र कन्यार्थे समुपागमन् ॥ १२.४.३ ॥

那里有一座名叫室利王城的城市,婆罗多啊。数百位国王为了那位少女而来到那里。

12.4.4

श्रुत्वा दुर्योधनस्तत्र समेतान्सर्वपार्थिवान् ।
रथेन काञ्चनाङ्गेन कर्णेन सहितो ययौ ॥ १२.४.४ ॥

难敌听闻那里聚集了所有国王,便与迦尔纳乘坐金饰战车前往。

12.4.5

ततः स्वयंवरे तस्मिन्नानादेश्या महारथाः ।
समाजग्मुर्नृपतयः कन्यार्थे नृपसत्तम ॥ १२.४.५ ॥

于是,在那次自选夫婿大会上,来自各地的大战车武士国王为了那位少女而聚集,国王中的最杰出者啊。

12.4.6

शिशुपालो जरासन्धो भीष्मको वक्र एव च ।
कपोतरोमा नीलश्च रुक्मी च दृढविक्रमः ॥ १२.४.६ ॥

施苏波罗、迦罗山陀、毗湿摩迦、伐克罗、鸽毛、青色,以及勇力坚定的鲁迦弥。

12.4.7

सृगालश्च महाराजः स्त्रीराज्याधिपतिश्च यः ।
विशोकः शतधन्वा च भोजो वीरश्च नामतः ॥ १२.४.७ ॥

大王悉伽罗,女国之主,以及毗诃迦、百弓与英雄跋闼迦,皆以名称之。

12.4.8

एते चान्ये च बहवो दक्षिणां दिशमाश्रिताः ।
म्लेच्छाश्चार्याश्च राजानः प्राच्योदीच्यास्तथैव च ॥ १२.४.८ ॥

此等及其他众多依附南方之人,蛮夷与雅利安诸王,东方与北方诸王亦然。

12.4.9

काञ्चनाङ्गदिनः सर्वे शुद्धजाम्बूनदप्रभाः ।
सर्वे भास्वरदेहाश्च व्याघ्रा इव बलोत्कटाः ॥ १२.४.९ ॥

皆戴金臂钏,光如纯净的赡部金,身体光辉,力如猛虎,凶猛异常。

12.4.10

ततः समुपविष्टेषु तेषु राजसु भारत ।
विवेश रङ्गं सा कन्या धात्रीवर्षवरान्विता ॥ १२.४.१० ॥

婆罗多啊,诸王就座之后,那位少女偕乳母与宫中最优秀的女眷进入了场地。

12.4.11

ततः संश्राव्यमाणेषु राज्ञां नामसु भारत ।
अत्यक्रामद्धार्तराष्ट्रं सा कन्या वरवर्णिनी ॥ १२.४.११ ॥

婆罗多啊,在宣读诸王名号之时,那位容貌俊美的少女越过了持国之子而前行。

12.4.12

दुर्योधनस्तु कौरव्यो नामर्षयत लङ्घनम् ।
प्रत्यपेधच्च तां कन्यामसत्कृत्य नराधिपान् ॥ १२.४.१२ ॥

然而,俱卢之子难敌不能容忍这种越过,他轻慢诸王,拒绝了那位少女。

12.4.13

स वीर्यमदमत्तत्वाद्भीष्मद्रोणावुपाश्रितः ।
रथमारोप्य तां कन्यामाजुहाव नराधिपान् ॥ १२.४.१३ ॥

他因膂力之傲而沉醉,依靠毗湿摩与德罗纳,将那位少女置于战车之上,向诸王挑战。

12.4.14

तमन्वगाद्रथी खङ्गी बद्धगोधाङ्गुलित्रवान् ।
कर्णः शस्त्रभृतां श्रेष्ठः पृष्ठतः पुरुषर्षभ ॥ १२.४.१४ ॥

随后跟上的是卡尔纳,持兵者中最优秀的,乘车武士,手持利剑,手指缠着皮质护套,人中之牛啊。

12.4.15

ततो विमर्दः सुमहान्राज्ञामासीद्युयुत्सताम् ।
सन्नह्यतां तनुत्राणि रथान्योजयतामपि। ॥ १२.४.१५ ॥

于是,渴望交战的诸王之间爆发了巨大的骚动;他们披上甲胄,给战车套上马匹。

12.4.16

तेऽभ्यधावन्त संक्रुद्धाः कर्णदुर्योधनावुभौ ।
शरवर्षाणि मुञ्चन्तो मेघाः पर्वतयोरिव ॥ १२.४.१६ ॥

他们怒火中烧,一齐扑向卡尔纳与难敌二人,如云覆山一般倾下箭雨。

12.4.17

कर्णस्तेषामापततामेकैकेन शरेण ह ।
धनूंषि च शरव्रातान्पातयामास भूतले ॥ १२.४.१७ ॥

卡尔纳对每一个来袭者只以一支箭应敌,便将他们的弓和箭束全部击落于地。

12.4.18

ततो विधनुषः कांश्चित्कांश्चिदुद्यतकार्मुकान् ।
कांश्चिदुत्सृजतो बाणान्रथशक्तिगदास्तथा ॥ १२.४.१८ ॥

于是有人失去了弓,有人举起弓,有人正在放箭,还有人手持战车、长矛与铁锤。

12.4.19

लाघवाव्द्याकुलीकृत्य कर्णः प्रहरतां वरः ।
हतसूतांश्च भूयिष्ठान्स विजिग्ये नराधिपान् ॥ १२.४.१९ ॥

迦尔纳以敏捷使敌人陷入混乱,作为最优秀的战士,战胜了大多数车夫已被杀死的国王。

12.4.20

ते स्वयं वाहयन्तोऽश्वान्याहि याहीति वादिनः ।
व्यपेयुस्ते रणं हित्वा राजानो भग्नमानसाः ॥ १२.४.२० ॥

这些国王亲自驾驭马匹,喊着“快走,快走!”,心灰意冷地放弃战斗逃走了。

12.4.21

दुर्योधनस्तु कर्णेन पाल्यमानोऽभ्ययात्तदा ।
हृष्टः कन्यामुपादाय नगरं नागसाह्वयम् ॥ १२.४.२१ ॥

当时受迦尔纳保护的难敌,欣喜地带着那位少女,前往名为那伽阿瓦亚的城市。