摩诃婆罗多 · 章 12.54
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.54.1
अथाव्रवीन्महातेजा वाक्यं कौरवनन्दनः ।
हन्त धर्मान्प्रवक्ष्यामि दृढे वाङ्भनसी मम ॥ १२.५४.१ ॥
于是大光明的俱卢之喜者说道:好吧,我将阐述诸法;我的言语与心意皆坚定。
12.54.2
तव प्रसादाद्गोविन्द भूतात्मा ह्यसि शाश्वतः ।
युधिष्ठिरस्तु धर्मात्मा मां धर्माननुपृच्छतु।
एवं प्रीतो भविष्यामि धर्मान्वक्ष्यामि चाखिलान् ॥ १२.५४.२ ॥
蒙你的恩典,哦戈文达,你是众生永恒的自我。愿正法之子般的优陀提希罗问我诸法;如此欢喜,我将宣说一切诸法。
12.54.3
यस्मिन्राजर्षभे जाते धर्मात्मनि महात्मनि ।
अहृष्यन्नृषयः सर्वे स मां पृच्छतु पाण्डवः ॥ १२.५४.३ ॥
在那位王中之牛降生时,所有正法而伟大的仙人都欢喜;愿那位般度之子问我。
12.54.4
सर्वेषां दीप्तयशसां कुरूणां धर्मचारिणाम् ।
यस्य नास्ति समः कश्चित्स मां पृच्छतु पाण्डवः ॥ १२.५४.४ ॥
在所有名声显赫、奉行正法的俱卢族人中,没有人能与他相比;愿那位般度之子问我。
12.54.5
धृतिर्दमो ब्रह्मचर्यं क्षमा धर्मश्च नित्यदा ।
यस्मिन्नोजश्च तेजश्च स मां पृच्छतु पाण्डवः ॥ १२.५४.५ ॥
其中恒常具备坚定、克制、梵行、忍辱与正法,又有活力与光辉者,愿那位般度之子问我。
12.54.6
संबन्धिनोऽतिथीन्भृत्यान्संश्रितांश्चैव यो भृशम् ।
संमानयति सत्कृत्य स मां पृच्छतु पाण्डवः ॥ १२.५४.६ ॥
凡以恭敬之礼深深尊敬亲属、客人、仆役与依附之人者,愿那位般度之子问我。
12.54.7
सत्यं दानं तपः शौर्यं शान्तिर्दाक्ष्यमसंभ्रमः ।
यस्मिन्नेतानि सर्वाणि स मां पृच्छतु पाण्डवः ॥ १२.५४.७ ॥
凡具备真实、布施、苦行、勇武、寂静、干练与镇定这一切之人,那位般度之子,请向我提问。
12.54.8
यो न कामान्न संरम्भान्न भयान्नार्थकारणात् ।
कुर्यादधर्मं धर्मात्मा स मां पृच्छतु पाण्डवः ॥ १२.५४.८ ॥
凡因欲望、愤怒、恐惧或为利益而不行非法的法心之人,那位般度之子,请向我提问。
12.54.9
सत्यनित्यः क्षमानित्यो ज्ञाननित्योऽतिथिप्रियः ।
यो ददाति सतां नित्यं स मां पृच्छतु पाण्डवः ॥ १२.५४.९ ॥
凡常住于真实、忍耐与智慧,为宾客所爱,且常施与善人之人,那位般度之子,请向我提问。
12.54.10
इज्याध्ययननित्यश्च धर्मे च निरतः सदा ।
क्षान्तः श्रुतरहस्यश्च स मां पृच्छतु पाण्डवः ॥ १२.५४.१० ॥
凡恒常精进于祭祀与诵习、始终专注于法、有忍耐、且已闻秘密教诫之人,那位般度之子,请向我提问。
12.54.11
लज्जया परयोपेतो धर्मराजो युधिष्ठिरः ।
अभिशापभयाद्भीतो भवन्तं नोपसर्पति ॥ १२.५४.११ ॥
怀有极大羞耻、因惧怕诅咒而恐惧的法王坚战,不敢来到你面前。
12.54.12
लोकस्य कदनं कृत्वा लोकनाथो विशांपते ।
अभिशापभयाद्भीतो भवन्तं नोपसर्पति ॥ १२.५४.१२ ॥
啊,人主!那世界之主既已使世界遭受毁灭,便因惧怕诅咒而不敢来到你面前。
12.54.13
पूज्यान्मान्यांश्च भक्तांश्च गुरून्संबन्धिबान्धवान् ।
अर्घार्हानिषुभिर्भित्त्वा भवन्तं नोपसर्पति ॥ १२.५४.१३ ॥
他用箭射穿了值得尊敬的人、受尊重者、虔诚者、师长、亲属与族人,那些应受献供之人,因此他不敢来见你。
12.54.14
ब्राह्मणानां यथा धर्मो दानमध्ययनं तपः ।
क्षत्रियाणां तथा कृष्ण समरे देहपातनम् ॥ १२.५४.१४ ॥
婆罗门的法是布施、学习与苦行,同样,克里希那啊,刹帝利的法是在战场上舍弃此身。
12.54.15
पितॄन्पितामहान्भ्रातॄन्गुरून्संबन्धिबान्धवान् ।
मिथ्याप्रवृत्तान्यः सख्ये निहन्याद्धर्म एव सः ॥ १२.५४.१५ ॥
若有人杀死在友情中行为虚伪的父辈、祖辈、兄弟、师长、亲属与族人,那他便是依循法。
12.54.16
समयत्यागिनो लुब्धान्गुरूनपि च केशव ।
निहन्ति समरे पापान्क्षत्रियो यः स धर्मवित् ॥ १२.५४.१६ ॥
克舍婆啊,那刹帝利在战场上连弃守约定、贪婪、有罪的师长也杀,他便是通晓法者。
12.54.17
यो लोभान्न समीक्षेत धर्मसेतुं सनातनम् ।
निहन्ति यस्तं समरे क्षत्रियो वै स धर्मवित् ॥ १२.५४.१७ ॥
若有人因贪婪而不顾永恒的法之桥,而刹帝利在战场上杀之,那刹帝利便是真正通晓法者。
12.54.18
लोहितोदां केशतृणां गजशैलां ध्वजद्रुमाम् ।
महीं करोति युद्धेषु क्षत्रियो यः स धर्मवित् ॥ १२.५४.१८ ॥
在战斗中使大地充满血河、发丝如草、象群如山、旗帜如树的刹帝利,便是通晓法者。
12.54.19
आहूतेन रणे नित्यं योद्धव्यं क्षत्रबन्धुना ।
धर्म्यं स्वर्ग्यं च लोक्यं च युद्धं हि मनुरब्रवीत् ॥ १२.५४.१९ ॥
受召唤到战场时,刹帝利族人应当常战,因为摩奴曾说,战争合乎法义,能通往天界与诸世界。
12.54.20
एवमुक्तस्तु भीष्मेण धर्मपुत्रो युधिष्ठिरः ।
विनीतवदुपागम्य तस्थै संदर्शनेऽग्रतः ॥ १२.५४.२० ॥
毗湿摩如此说后,法之子坚战谦恭地走近,站在他面前,在他的目光之内。
12.54.21
अथास्य पादौ जग्राह भीष्मश्चापि ननन्द तम् ।
मूर्ध्निं चैनमुपाघ्राय निषीदेत्यब्रवीत्तदा ॥ १२.५४.२१ ॥
于是毗湿摩握住他的双足,欢喜不已,嗅了嗅他的头顶,说道:“坐下吧。”
12.54.22
तमुवाचाथ गाङ्गेयो वृषभः सर्वधन्विनाम् ।
मां पृच्छ तात विस्रब्धं मा भैस्त्वं कुरुसत्तम ॥ १२.५४.२२ ॥
于是,众善射者中的雄牛、恒河之子对他说:“亲爱的孩子,你尽管无所畏惧地问我。不要害怕,俱卢中最杰出的人。”