摩诃婆罗多 · 章 12.60
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.60.1
आश्रमाणां महाबाहो शृणु सत्यपराक्रम ।
चतुर्णामपि नामानि कर्माणि च युधिष्ठिर ॥ १२.६०.१ ॥
啊,大臂者,啊,真正的勇士,请听四住期的名称与职责,坚战。
12.60.2
वानप्रस्थं भैक्षचर्यं गार्हस्थ्यं च महाश्रमम् ।
ब्रह्मचर्याश्रमं प्राहुश्चतुर्थं ब्रह्मणेरितम् ॥ १२.६०.२ ॥
林居期、乞食期、家居期这大住期,人们称梵行学生期;第四期是梵天所宣说。
12.60.3
चूडाकरणसंस्कारं द्विजातित्वमवाप्य च ।
आधानादीनि कर्माणि प्राप्य वेदानधीत्य च ॥ १२.६०.३ ॥
通过剃发礼获得再生族身份,完成从立火开始的火祭等仪式,并且学习了吠陀——
12.60.4
सदारो वाऽप्यदारो वा विनीतः संयतेन्द्रियः ।
वानप्रस्थाश्रमं गच्छेत्कृतकृत्यो गृहाश्रमात् ॥ १२.६०.४ ॥
无论有妻或无妻,谦逊且摄制诸根,完成家居期之事后,便应进入林居期。
12.60.5
तत्रारण्यकशास्त्राणि समधीत्य स धर्मवित् ।
ऊर्ध्वरेताः प्रजा हित्वा गच्छत्यक्षरसात्मताम् ॥ १२.६०.५ ॥
在那里,精通林居经典之后,这位知法者以上行之精保持梵行,舍弃子嗣,证得与不灭者合一。
12.60.6
एतान्येव निमित्तानि मुनीनामूर्ध्वरेतसाम् ।
कर्तव्यानीह विप्रेण राजन्नादौ विपश्चिता ॥ १२.६०.६ ॥
这些正是精气上行之苦行圣者所依之方法;大王啊,这里有学识的婆罗门应首先修行这些。
12.60.7
चरितब्रह्मचर्यस्य ब्राह्मणस्य विशांपते ।
भैक्षचर्यास्वधीकारः प्रशस्तो देहमोक्षणे ॥ १२.६०.७ ॥
人主啊,完成梵行的婆罗门有资格行乞;这被赞为解脱肉身的方式。
12.60.8
यत्रास्तमितशायी स्यान्निरग्निरनिकेतनः ।
यथोपलब्धजीवी स्यान्मुनिर्दान्तो जितेन्द्रियः ॥ १२.६०.८ ॥
日落之处便就寝,无火无居所,以所得为生;他应当是寂静、克制、制服诸根的圣者。
12.60.9
निराशीर्निर्नमस्कारो निर्भोगो निर्विकारवान् ।
विप्रः क्षेमाश्रमं प्राप्तो गच्छत्यक्षरसात्मताम् ॥ १२.६०.९ ॥
无欲、不行礼、无享受、不变易的婆罗门,抵达安稳的修行林,便与不灭之性合而为一。
12.60.10
अधीत्य वेदान्कृतसर्वकृत्यः ।
संतानमुत्पाद्य सुखानि भुक्त्वा।
समाहितः प्रचरेद्दुश्चरं तं ।
गार्हस्थ्यधर्मं मुनिधर्मजुष्टम् ॥ १२.६०.१० ॥
学习吠陀,完成一切职责,生育子嗣,享受快乐之后,应当心神专一地践行那艰难的居家之法,它为圣者之法所遵循。
12.60.11
स्वदारतुष्टस्त्वृतुकालगामी ।
नियोगसेवी न शठो न जिह्नः।
मिताशनो देवरतः कृतज्ञः ।
सत्यो मृदुश्चानृशंसः क्षमावान् ॥ १२.६०.११ ॥
满足于自己的妻子,只在经期之后与她同房,尽责于所派之事,不狡诈不奸邪,饮食有节,敬奉诸神,知恩,诚实,温和,不残忍,有忍耐。
12.60.12
दान्तो विधेयो हव्यकव्याप्रमत्तो ।
ह्यन्नस्य दाता सततं द्विजेभ्यः।
अमत्सरी सर्वलिङ्गप्रदाता ।
वैताननित्यश्च गृहाश्रमी स्यात् ॥ १२.६०.१२ ॥
居家者应自我克制、恭顺,在献给天神与祖先的供奉中谨慎不怠,常常向再生者布施饮食,不怀嫉妒,施予各种布施,并恒常守护神圣的火祭。
12.60.13
अथात्र नारायणगीतमाहु ।
र्महर्षयस्तात महानुभावाः।
महार्थमत्यन्ततपः प्रयुक्तं ।
तदुच्यमानं हि मया निबोध ॥ १२.६०.१३ ॥
孩子啊,这里伟大而有威力的圣仙谈及那关于那罗延的歌,意义深远,乃以极大苦行所修习。请听我现在所说。
12.60.14
सत्यार्जवं चातिथिपूजनं च ।
धर्मस्तथार्थश्च रतिः स्वदारैः।
निषेवितव्यानि सुखानि लोके ।
ह्यस्मिन्परे चैव मतं ममैतत् ॥ १२.६०.१४ ॥
真实与正直、敬待客人、法、财富,以及与自己妻子的欢愉——这些快乐应在世间享受。无论今生或来世,这都是我的看法。
12.60.15
भरणं पुत्रदाराणां वेदानां चानुपालनम् ।
सेवतामाश्रमं श्रेष्ठं वदन्ति परमर्षयः ॥ १२.६०.१५ ॥
抚养儿子与妻子,忠实地守持吠陀——至上的圣仙说,对于奉行这些的人,居家的阶段最为殊胜。
12.60.16
एवं हि यो ब्राह्मणो यज्ञशीलो ।
गार्हस्थ्यमध्यावसते यथावत्।
गृहस्थवृत्तिं प्रतिगाह्य सम्य ।
क्स्वर्गे विशुद्धं फलमश्नुते सः ॥ १२.६०.१६ ॥
如此,一位专心于祭祀的婆罗门,若如法安住于居家生活,完全奉行居家之法,便在天界享受清净的果报。
12.60.17
तस्य देहं परित्यज्य इष्टकामाक्षया मताः ।
आनन्त्यायोपकल्पन्ते सर्वतोक्षिशिरोमुखाः ॥ १२.६०.१७ ॥
舍弃其身之后,所欲之乐被视为不可穷尽;那些眼、首、面向四方者,为无限而准备。
12.60.18
वसन्नेको जपन्नेकः सर्वान्वेदान्युधिष्ठिर ।
एकस्मिन्नेव चाचार्ये शुश्रूषुर्मलपङ्कवान् ॥ १२.६०.१८ ॥
hi 俞提斯提拉啊,一人居住,一人诵持一切吠陀,侍奉同一位师尊,身上沾满污垢与泥泞。
12.60.19
ब्रह्मचारी व्रती नित्यं नित्यं दीक्षापरो वशी ।
गुरुच्छायानुगो नित्यमधीयानः सुयन्त्रितः।
अविचाल्यव्रतोपेतं कृत्यं कुर्वन्वसेत्सदा ॥ १२.६०.१९ ॥
梵行学徒,持守誓戒,常专注于受戒,自制,随从师尊之影,常常诵习,善加约束,具足坚定之誓,应当常行其职而居住。
12.60.20
शुश्रूषां सततं कुर्वन्गुरोः संप्रणमेत च ।
षट्कर्मस्वनिवृत्तश्च न प्रवृत्तश्च सर्वशः ॥ १२.६०.२० ॥
hi 常常侍奉师尊,应当恭敬地向他顶礼;既不脱离六种职事,也不完全沉溺其中。
12.60.21
नाचरत्यधिकारेण सेवेत द्विषतो न च ।
एषोऽऽश्रमपदस्तात ब्रह्मचारिण इष्यते ॥ १२.६०.२१ ॥
不可凭借权势行事,也不可侍奉仇敌;孩子,这便是梵行学徒所规定的修行住处之位。