摩诃婆罗多 · 章 12.63
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.63.1
चातुराश्रम्यधर्माश्च यतिधर्माश्च पाण्डव ।
लोकवेदोत्तराश्चैव क्षात्रधर्मे समाहिताः ॥ १२.६३.१ ॥
般度之子啊,四住期的法、出家人的法,以及超越世俗与吠陀规范的法,都包含在刹帝利之法之中。
12.63.2
सर्वाण्येतानि कर्माणि क्षात्रे भरतसत्तम ।
निराशिषो जीवलोकाः क्षत्रधर्मे व्यवस्थिते ॥ १२.६३.२ ॥
婆罗多族中最优秀者啊,这些行为都属于刹帝利。刹帝利之法确立时,世间众生便无求于果报。
12.63.3
अप्रत्यक्षं बहुफलं धर्ममाश्रमवासिनाम् ।
प्ररूपयन्ति तद्भावमागमैरेव शाश्वतम् ॥ १२.६३.३ ॥
居于林居者之法不可直接见,其果报甚多;他们仅依圣典来阐述其永恒之性。
12.63.4
अपरे वचनैः पुण्यैर्वादिनो लोकनिश्चये ।
अनिश्चयज्ञा धर्माणामदृष्टान्ते परे रताः ॥ १२.६३.४ ॥
有人以圣言辩论世界的定性;有人知晓诸法的不定;另有人沉醉于不可见的终极。
12.63.5
प्रत्यक्षं फलभूयिष्ठमात्मसाक्षिकमच्छलम् ।
सर्वलोकहितं धर्मं क्षत्रियेषु प्रतिष्ठितम् ॥ १२.६३.५ ॥
显而易见、果报丰厚、自证其心、无欺无诈、利益一切世界的法,确立于刹帝利之中。
12.63.6
धर्माश्रमेऽध्यवसिनां ब्राह्मणानां युधिष्ठिर ।
यथा त्रयाणां वर्णानां संख्यातोपश्रुतिः पुरा।
राजधर्मेष्वनुमता लोकाः सुचरितैः सह ॥ १२.६३.६ ॥
犹陀罗啊,对于在林居之法中专一的婆罗门,正如往昔为三种种姓所定的圣学,王法所认可的诸世界与善行相合。
12.63.7
उदाहृतं ते राजेन्द्र यथा विष्णुं महौजसम् ।
सर्वभूतेश्वरं देवं ब्राह्मं नारायणं पुरा।
जग्मुः सुबहुशः शूरा राजानो दण्डनीतये ॥ १२.६३.७ ॥
王中之王啊,正如我向你讲述的那位大力的毗湿奴,一切众生之主,具有梵性的神那罗衍那,往昔许多勇敢的国王为了刑罚之学而前往他那里。
12.63.8
एकैकमात्मनः कर्म तुलयित्वाश्रमं पुरा ।
जानः पर्युपासन्त दृष्टान्तवचने स्थिताः ॥ १२.६३.८ ॥
往昔,人们衡量各自的本分与生活阶段,坚守譬喻之言,侍奉于他。
12.63.9
साध्या देवा वसवश्चाश्विनौ च ।
रुद्राश्च विश्वे मरुतां गणाश्च।
सृष्टाः पुरा ह्यादिदेवेन देवाः ।
क्षात्रे धर्मे वर्तयन्ते च सिद्धाः ॥ १२.६३.९ ॥
萨陀耶神、诸神、婆苏、双马神、楼陀罗、世界神与摩录多众,以及往昔由原初神所造的诸神,还有成就者们,都安住于刹帝利之法。
12.63.10
अत्र ते वर्तयिष्यामि धर्ममर्थविनिश्चये ।
निर्मर्यादे वर्तमाने दानवैकार्णवे पुरा ॥ १२.६३.१० ॥
这里我将为你阐明在判定义理时的法,那是往昔在檀那婆的大海中,界限全然失去之时。
12.63.11
बभूव राजा राजेन्द्र मान्धाता नाम वीर्यवान् ।
पुरा वसुमतीपालो यज्ञं चक्रे दिदृक्षया ॥ १२.६३.११ ॥
往昔有一位名为摩檀陀多的大力国王,是王中之王,大地的守护者;他出于想要见到(神)的愿望而举行了祭祀。
12.63.12
अनादिमध्यनिधनं देवं नारायणं प्रभुम् ।
स राजा राजशार्दूल मान्धाता परमेश्वरम् ॥ १२.६३.१२ ॥
那无始、无中、无终的神、主那罗衍那——王中猛虎啊,那位国王摩檀陀多敬奉了至高的主。
12.63.13
जगाम शिरसा पादौ यज्ञे विष्णोर्महात्मनः ।
दर्शयामास तं विष्णू रूपमास्थाय वासवम् ॥ १२.६३.१३ ॥
他在祭祀中前往以头顶礼伟大灵魂毗湿奴的双足。毗湿奴化为一种形象,向婆薮(因陀罗)显现。
12.63.14
स पार्थिवैर्वृतः सद्भिरर्चयामास तं प्रभुम् ।
तस्य पार्थिवसङ्घस्य तस्य चैव महात्मनः।
संवादोऽयं महानासीद्विष्णुं प्रति महाद्युतिम् ॥ १२.६३.१४ ॥
他被诸王和善人环绕,礼拜那位主宰。在那群国王与那位伟大灵魂之间,就大光明的毗湿奴展开了这场伟大的对话。
12.63.15
किमिष्यसे धर्मभूतां वरिष्ठ ।
यं द्रष्टुकामोऽसि तमप्रमेयम्।
अनन्तमायामितमन्त्रवीर्यं ।
नारायणं ह्यादिदेवं पुराणम् ॥ १२.६३.१५ ॥
持法者中最殊胜者啊,你想要什么?你所欲见者——那不可量度、具无尽幻力与无量咒力的古老原初神那罗延(Nārāyaṇa)。
12.63.16
नासौ देवो विश्वरूपो मयाऽपि ।
शक्यो द्रष्टुं ब्रह्मणा वाऽपि साक्षात्
येऽन्ये कामास्तव राजन्हृदिस्था ।
दास्ये चैतांस्त्वं हि मर्त्येषु राजा ॥ १२.६३.१६ ॥
那具有宇宙形相的神,即使是我或梵天也无法直接见到。啊,国王,你心中其他的愿望,我将赐予你,因为你是凡人中的国王。
12.63.17
सत्ये स्थितो धर्मपरो जितेन्द्रियः ।
शूरो दृढप्रीतिरतः सुराणाम्।
बुद्ध्या भक्त्या चोत्तमः श्रद्धया च ।
ततस्तेऽहं दझि वरान्यथेष्टम् ॥ १२.६३.१७ ॥
你安住于真实,专心于法,调伏诸根,勇猛,喜爱对诸神的坚定之爱,并在智慧、虔信与信心上殊胜。因此,我将依你所愿赐予你恩惠。
12.63.18
असंशयं भगवन्नादिदेवं ।
वक्ष्यामि त्वाऽहं शिरसा संप्रसाद्य।
त्यक्त्वा कामान्धर्मकामो ह्यरण्य ।
मिच्छे गन्तुं सत्पथं साधुजुष्टम् ॥ १२.६३.१८ ॥
毫无疑问,尊贵的原初之神啊,我将向您陈述;我低首敬礼使您欢喜,舍弃欲望,渴求法,我愿进入森林,行走于善人所行的正道。
12.63.19
क्षात्राद्धर्माद्विपुलादप्रमेया ।
श्लोकाः प्राप्ताः स्थापितं स्वं यशश्च।
धर्मो योऽसावादिदेवात्प्रवृत्तो ।
लोकश्रेष्ठं तं न जानामि कर्तुम् ॥ १२.६३.१९ ॥
凭借广大无量的刹帝利之法,我赢得了无尽的赞颂,并确立了自己的名声;但那从原初之神而来、世上最为殊胜的法,我不知如何修行。
12.63.20
असैनिका धर्मपराश्च धर्मे ।
परां गतिं न नयन्ते ह्ययुक्तम्।
क्षात्रो धर्मो ह्यादिदेवात्प्रवृत्तः ।
पश्चादन्ये शेषभूताश्च धर्माः ॥ १२.६३.२० ॥
无军者虽奉行法,也不能借法达到至高的归宿,因为那对他们并不相宜。刹帝利之法确实出自原初之神;之后才有属于其余众生的其他法。
12.63.21
शेषाः सृष्टा ह्यन्तवन्तो ह्यनन्ताः ।
सप्रस्थानाः क्षात्रधर्मा विशिष्टाः।
अस्मिन्धर्मे सर्वधर्माः प्रविष्टाः ।
क्षात्रं धर्मं श्रेष्ठतमं वदन्ति ॥ १२.६३.२१ ॥
其余诸法,有生有灭,亦有无尽,各有其道;刹帝利之法最为殊胜。一切法都已融入此法之中。他们称刹帝利之法为最上。
12.63.22
कर्मणा वै पुरा देवा ऋषयश्चामितौजसः ।
त्राताः सर्वे प्रसह्यारीन्क्षत्रधर्मेण विष्णुना ॥ १२.६३.२२ ॥
往昔,诸神与具无限光辉的仙人,皆由毗湿奴借刹帝利之法守护,他们以自己的行动,强力制服敌人。
12.63.23
यदि ह्यसौ भगवन्नाहनिष्य ।
द्रिपू सर्वानसुरानप्रमेयः।
न च ब्रह्मा नैव लोकादिकर्ता ।
सन्तो धर्माश्चादिधर्माश्च न स्युः ॥ १२.६३.२३ ॥
尊者啊,若那不可量度者未曾诛杀一切敌人与阿修罗,便不会有梵天,也不会有世界的初始创造者,善人之法与原初之法也都不会存在。
12.63.24
इमामुर्वी नाजयद्विक्रमेण ।
देवश्रेष्ठः सासुरामादिदेवः।
चातुर्वर्ण्यं चातुराश्रम्यधर्माः ।
सर्वे न स्युर्ब्राह्मणानां विनाशात् ॥ १२.६३.२४ ॥
若天中之最胜、本初之神,不曾以勇力征服此大地及阿修罗,则因婆罗门之灭绝,四种姓与四住期之法皆将不存。
12.63.25
नष्टा धर्माः शतधा शाश्वतास्ते ।
क्षात्रेण धर्मेण पुनः प्रवृद्धाः।
युगेयुगे ह्यादिधर्माः प्रवृत्ता ।
लोकज्येष्ठं क्षात्रधर्मं वदन्ति ॥ १२.६३.२५ ॥
那些永恒之法曾百般毁坏,然而借由刹帝利之法,它们再度兴盛。世世代代,原初之法皆得运行;因此,刹帝利之法被称为世间之首。
12.63.26
आत्मत्यागः सर्वभूतानुकम्पा ।
लोकज्ञानं पालनं मोक्षणं च।
विषण्णानां मोक्षणं पीडितानां ।
क्षात्रे धर्मे विद्यते पार्थिवानाम् ॥ १२.६३.२६ ॥
舍身、对一切众生的慈悲、对世间的知识、护持,以及解救忧愁者和受苦者——这些都存在于诸王的刹帝利之法之中。
12.63.27
निर्मर्यादाः काममन्युप्रवृत्ता ।
भीता राज्ञो नाधिगच्छन्ति पापम्।
शिष्टाश्चान्ये सर्वधर्मोपपन्नाः ।
साध्वाचाराः साधुधर्मं वदन्ति ॥ १२.६३.२७ ॥
那些无所节制、被欲望与愤怒驱使的人,畏惧国王,不会陷入罪恶。而其他有教养、具备一切法度、行为端正的人,则宣说善法。
12.63.28
पुत्रवत्पाल्यमानानि धर्मलिङ्गानि पार्थिवैः ।
लोके भूतानि सर्वाणि चरन्ते नात्र संशयः ॥ १२.६३.२८ ॥
在国王如保护儿子般的守护之下,法的标志得以保存,世间一切众生都依此而行;这点毫无疑问。
12.63.29
सर्वधर्मपरं क्षात्रं लोकश्रेष्ठं सनातनम् ।
शश्वदक्षरपर्यन्तमक्षरं सर्वतोमुखम् ॥ १२.६३.२९ ॥
刹帝利之法超越一切法,是世间最上者,永恒不朽;直至不灭之境,是不灭的,面向一切方向。