Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.65

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.65.1

श्रुता मे कथिताः पूर्वं चत्वारो मानवाश्रमाः ।
व्याख्यानमेषामाचक्ष्व पृच्छतो मे पितामह ॥ १२.६५.१ ॥

我先前听说人生有四个阶段。祖父啊,我既然问您,请为我讲解这些阶段。

12.65.2

विदिताः सर्व एवेह धर्मास्तव युधिष्ठिर ।
यथा मम महाबाहो विदिताः साधुसंमताः ॥ १२.६५.२ ॥

坚战啊,这里的一切法你都知道,正如我所知道的,也是善人所认可的。大臂者啊。

12.65.3

यत्तु लिङ्गान्तरगतं पृच्छसे मां युधिष्ठिर ।
धर्मं धर्मभृतां श्रेष्ठ तन्निबोध नराधिप। ॥ १२.६५.३ ॥

坚战啊,你问我的、处于另一标志中的法,法持者中最优秀的人,人主啊,请你听着。

12.65.4

सर्वाण्येतानि कौन्तेय विद्यन्ते भरतर्षभ ।
साध्वाचारप्रवृत्तानां चातुराश्रम्यकर्मणाम् ॥ १२.६५.४ ॥

贡蒂之子,婆罗多中的雄牛啊,这一切存在于遵行善行并履行四住期之业的人身上。

12.65.5

अकामद्वेषसंयुक्तो दण्डनीत्या युधिष्ठिर ।
समदर्शी च भूतेषु भैक्ष्याश्रमपदं भवेत् ॥ १२.६५.५ ॥

坚战啊,无欲无憎、具备刑罚之政、对众生一视同仁的人,可以成为乞食住期的所在。

12.65.6

वेत्ति दानं विसर्गं च विग्रहानुग्रहौ तथा ।
यथोक्तवृत्तो धीरश्च क्षमाश्रमपदं भवेत् ॥ १२.६५.६ ॥

知晓布施与放舍、征战与恩惠,依所说行为而坚定的人,可以成为忍耐住期的所在。

12.65.7

अर्हान्पूजयतो नित्यं संविभागेन पाण्डव ।
सर्वतस्तस्य कौन्तेय भैक्ष्याश्रमपदं भवेत् ॥ १२.६५.७ ॥

般度之子啊,对于常常尊敬贤者并公平分享的人,贡蒂之子啊,他各方面都处于乞食隐修处的境界。

12.65.8

ज्ञातिसंबन्धिमित्राणि व्यापन्नानि युधिष्ठिर ।
समभ्युद्धरमाणस्य दीक्षाश्रमपदं भवेत् ॥ १२.६५.८ ॥

坚战啊,对于全力拯救陷入困境的亲族、姻亲与朋友的人,他的境界便是受戒的隐修处。

12.65.9

लोकमुख्येषु सत्कारं लिङ्गिमुख्येषु चासकृत् ।
कुर्वतस्तस्य कौन्तेय वन्याश्रमपदं भवेत् ॥ १२.६५.९ ॥

贡蒂之子啊,对于反复尊敬世间贤能之人和苦行者中的殊胜者的人,他的境界便是林间隐修处。

12.65.10

आह्निकं पितृयज्ञांश्च भूतयज्ञान्समानुषान् ।
कुर्वतः पार्थ विपुलान्वन्याश्रमपदं भवेत् ॥ १२.६५.१० ॥

阿周那啊,对于大量行持日常礼仪、祖先祭祀以及包括人类在内的众生祭祀的人,他的境界便是林间隐修处。

12.65.11

संविभागेन भूतानामतिथीनां तथाऽर्चनात् ।
देवयज्ञैश्च राजेन्द्र वन्याश्रमपदं भवेत् ॥ १२.६५.११ ॥

王中之王啊,对于与众生及客人分享、礼敬他们,并以天神祭祀为生的人,他的境界便是林间隐修处。

12.65.12

मर्दनं परराष्ट्राणां शिष्टार्थं सत्यविक्रम ।
कुर्वतः पुरुषव्याघ्र वन्याश्रमपदं भवेत् ॥ १२.६५.१२ ॥

真勇之人啊,对于为了贤人的秩序而摧破他国的人,人中之虎啊,他的境界便是林间隐修处。

12.65.13

पालनात्सर्वभूतानां स्वराष्ट्रपरिपालनात् ।
दीक्षा बहुविधा राजन्सत्याश्रमपदं भवेत् ॥ १२.६५.१३ ॥

大王啊,因保护一切众生、守护自己的国土,便产生多种誓戒;那时它就成为真实修行林的所在。

12.65.14

वेदाध्ययननित्यत्वं क्षमाऽथाचार्यपूजनम् ।
तथोपाध्यायशुश्रूषा ब्रह्माश्रमपदं भवेत् ॥ १२.६५.१४ ॥

常年研习吠陀、忍辱、尊敬师长,以及侍奉导师——这些便成为梵行林的所在。

12.65.15

आह्निकाञ्जपमानस्य देवान्पूजयतः सदा ।
धर्मेण पुरुषव्याघ्र धर्माश्रमपदं भवेत् ॥ १२.६५.१५ ॥

人中虎啊,对于每日诵持、常常礼拜诸神的人,依法便成为法行林的所在。

12.65.16

मृत्युर्वा रक्षणं वेति यस्य राज्ञो विनिश्चयः ।
प्राणद्यूते व्यवस्थाप्य ब्रह्माश्रमपदं भवेत् ॥ १२.६५.१६ ॥

对于那位决断为“或死或护”的国王,在以性命为赌注的博弈中定下决断,这便成为梵行林的所在。

12.65.17

अजिह्नमशठं मार्गं वर्तमानस्य भारत ।
सर्वदा सर्वभूतेषु ब्रह्माश्रमपदं भवेत् ॥ १२.६५.१७ ॥

婆罗多啊,对于常以正直、无欺之道待一切众生的人,这便成为梵行林的所在。

12.65.18

वानप्रस्थेषु विप्रेषु त्रैविद्येषु च भारत ।
प्रयच्छतोऽर्थान्विपुलान्वन्याश्रमपदं भवेत् ॥ १२.६५.१८ ॥

婆罗多啊,对于向林居者、婆罗门和通晓三明者大量布施财物的人,这便成为林居修行林的所在。

12.65.19

सर्वभूतेष्वनुक्रोशं कुर्वतस्तव भारत ।
आनृशंस्ये प्रवृत्तस्य नियतः पुण्यसंचयः ॥ १२.६५.१९ ॥

婆罗多啊,对于向一切众生慈悲、专注于仁慈的你,功德的积累是确定的。

12.65.20

बालवृद्धेषु कौन्तेय सर्वावस्थं युधिष्ठिर ।
अनुक्रोशक्रिया पार्थ धर्म एष सनातनः ॥ १२.६५.२० ॥

贡蒂之子坚战啊,普利塔之子啊,在任何情况下对儿童与老人施以慈悲,这便是永恒的法。

12.65.21

बलात्कृतेषु भूतेषु परित्राणं कुरूद्वह ।
शरणागतेषु कौरव्य परं कारुण्यमाचर ॥ १२.६५.२१ ॥

库鲁之最,请保护那些被暴力压迫的众生。库鲁之后裔啊,对前来寻求庇护者,施以至高的慈悲。

12.65.22

चराचराणां भूतानां रक्षणं चापि सर्वशः ।
यथार्हपूजां च तथा कुर्वन्गार्हस्थ्यमावसेत् ॥ १२.६५.२२ ॥

以各种方式保护一切众生,无论动与不动,并依礼敬奉,如此便应安住于居家生活。

12.65.23

ज्येष्ठानुज्येष्ठपत्नीनां भ्रातॄणां पुत्रनप्तृणाम् ।
निग्रहानुग्रहौ पार्थ गार्हस्थ्यममितं तपः ॥ १२.६५.२३ ॥

普利塔之子啊,对兄长与弟弟的妻子、兄弟、子孙施以约束与恩惠,这便是居家生活无量的苦行。

12.65.24

साधूनामर्चनीयानां पूजासु विदितात्मनाम् ।
पालनं पुरुषव्याघ्र गृहाश्रमपदं भवेत् ॥ १२.६५.२४ ॥

人中之虎啊,在对值得尊敬、通达自我的善人的供养中,护持他们,这才应是居家生活的所在。

12.65.25

आश्रमस्थानि भूतानि यस्य वेश्मनि भारत ।
भुञ्जते विपुलं भोज्यं तद्गार्हस्थ्यं युधिष्ठिर ॥ १२.६५.२५ ॥

婆罗多之子啊,在其家中,住于各生活阶段的众生享用丰盛食物,那便是居家之道,坚战啊。

12.65.26

यः स्थितः पुरुषो धर्मे धात्रा सृष्टे यथार्थवत् ।
आश्रमाणां हि सर्वेषां फलं प्राप्नोत्यनामयम् ॥ १२.६५.२६ ॥

安住于造物主所定之法、如理而行的人,能获得所有生活阶段的无瑕之果。

12.65.27

यस्मिन्न नश्यन्ति गुणाः कौन्तेय पुरुषे सदा ।
आश्रमस्थं तमप्याहुर्नरश्रेष्ठं युधिष्ठिर ॥ १२.६५.२७ ॥

昆提之子啊,凡德行永不丧失之人,即使住于某一生活阶段,也称为人中之最,坚战啊。

12.65.28

स्थानमानं कुलेमानं वयोमानं तथैव च ।
कुर्वन्वसति सर्वेषु ह्याश्रमेषु युधिष्ठिर ॥ १२.६५.२८ ॥

坚战啊,尊重地位、尊重家族、尊重年龄的人,便能安住于所有生活阶段。

12.65.29

देशधर्मांश्च कौन्तेय कुलधर्मास्तथैव च ।
पालयन्पुरुषव्याघ्र राजा सर्वाश्रमी भवेत् ॥ १२.६५.२९ ॥

昆提之子啊,人中之虎啊,守护国土之法与家族之法的国王,应当通晓并圆满所有生活阶段。

12.65.30

काले विभूतिं भूतानामुपहारांस्तथैव च ।
अर्हयन्पुरुषव्याघ्र साधूनामाश्रमे वसेत् ॥ १२.६५.३० ॥

人中之虎啊,适时向众生施予财物与供品,并尊敬善人,应当安住于林居之处。

12.65.31

देशधर्मगतश्चापि यो धर्मं प्रत्यवेक्षते ।
सर्वलोकस्य कौन्तेय राजा भवति सोश्रमी ॥ १२.६५.३१ ॥

那国王既已获得本国之法,仍顾念法——他,俱卢之子啊,便成为整个世界的王,他也是一位住于阿输罗(阶段)中的人。

12.65.32

ये धर्मकुशला लोके धर्मं कुर्वन्ति भारत ।
पालिता यस्य विषये पादांशस्तस्य भूपतेः ॥ १२.६५.३२ ॥

世上那些精通法、奉行法的人,婆罗多之子啊——在其国土中受到保护的,那位地上之王便得其四分之一的功德份额。

12.65.33

धर्मारामान्धर्मपरान्ये न रक्षन्ति मानवान् ।
पार्थिवाः पुरुषव्याघ्र तेषां पापं हरन्ति ते ॥ १२.६५.३३ ॥

那些不保护乐于法、专心于法之人的诸王——人中之虎啊,这些王便承担了那些人的罪过。

12.65.34

ये च रक्षासहायाः स्युः पार्थिवानां युधिष्ठिर ।
ते चैवांशहराः सर्वे धर्मे परकृतेऽनघ ॥ १२.६५.३४ ॥

那些协助国王护卫的人——Yudhiṣṭhira啊,他们也都分享那一份;无瑕者啊,他们也分享他人所行之法的功德。

12.65.35

सर्वाश्रमपदेऽप्याहुर्गार्हस्थ्यं दीप्तनिर्णयम् ।
पावनं पुरुषव्याघ्र यद्वयं पर्युपास्महे ॥ १२.६५.३५ ॥

在一切阿输罗之处,人们说在家生活是光明决断、能够净化的——人中之虎啊,正是我们所侍奉的这种生活。

12.65.36

आत्मोपमस्तु भूतेषु यो वै भवति मानवः ।
न्यस्तदण्डो जितक्रोधः प्रेत्येह लभते सुखम् ॥ १२.६५.३६ ॥

视一切众生如己、放下刑杖、战胜愤怒的人——他在此世与死后都得到安乐。

12.65.37

धर्मोच्छ्रिता सत्यजला शीलयष्टिर्दमध्वजा ।
त्यागवाताध्वगा शीघ्रा नौस्तया सन्तरिष्यति ॥ १२.६५.३७ ॥

一艘快船,立于法之上,以真实为水,以良好品行为桅杆,以克制为旗帜,乘舍弃之风而行;人将借它渡过彼岸。

12.65.38

यदा सर्वत्र निर्मुक्तः कामो नास्य हृदि स्थितः ।
यदा सत्यान्वितो वृत्तैस्तदा ब्रह्म सम श्नुते ॥ १२.६५.३८ ॥

当欲望在一切处都被解脱,不再停留在他心中,当他具足真实与良好行为时,他便与梵相等。

12.65.39

सुप्रसन्नस्तु भावेन योगेन च नराधिप ।
धर्मं पुरुषशार्दूल प्राप्स्यसे पालने रतः ॥ १२.६५.३९ ॥

人主啊,心意与修行都令你深感喜悦,人中之虎啊,你乐于守护,便将获得法。

12.65.40

वेदाध्ययनशीलानां विप्राणां साधुकर्मणाम् ।
पालने यत्नमातिष्ठ सर्वलोकस्य चानघ ॥ १२.६५.४० ॥

无垢者啊,应尽力守护专研吠陀、行善事的婆罗门,以及一切世间。

12.65.41

वने चरन्ति ये धर्ममाश्रमेषु च भारत ।
रक्षणात्तच्छतगुणं धर्मं प्राप्नोति पार्थिवः ॥ १२.६५.४१ ॥

婆罗多的后裔啊,守护在林中和修行处奉行法的人,国王便得到他们之法的百倍果报。

12.65.42

एष ते विविधो धर्मः पाण्डवश्रेष्ठ कीर्तितः ।
युधिष्ठिर त्वमेनं वै पूर्वं दृष्टं सनातनम् ॥ १२.६५.४२ ॥

般度子孙中最优秀的人啊,为你宣说了这多种多样的法。优修瑟建啊,这永恒之法你从前便已见过。

12.65.43

चातुराश्रम्यमैकाग्र्यं चातुर्वर्ण्यं च पाण्डवं ।
धर्मं पुरुषशार्दूल प्राप्स्यसे पालने रतः ॥ १२.६५.४३ ॥

般度之子啊,人中之虎,专心守护国土,你将获得四行期的法、专一的心志,以及四种姓的法。