Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.69

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.69.1

दण्डनीतिश्च राजा च समस्तौ तावुभावपि ।
तत्र किं कुर्वतः सिद्धिस्तन्मे ब्रूहि पितामह ॥ १२.६९.१ ॥

刑罚之道(daṇḍanīti)与国王二者皆同等。在此情形下,做什么的人才能成功?祖父,请告诉我。

12.69.2

माहात्म्यं दण्डनीत्यास्तु साध्यं शब्दैः सहेतुकैः ।
शृणु मे शंसतो राजन्यथावदिह भारत ॥ १२.६९.२ ॥

刑罚之道的伟大应以附有理由的言辞加以宣说。大王,婆罗多之后,请听我在此如实讲述。

12.69.3

दण्डनीतिः स्वधर्मेषु चातुर्वर्ण्यं नियच्छति ।
प्रयुक्ता स्वामिना सम्यगधर्मेभ्यो नियच्छति ॥ १२.६९.३ ॥

刑罚之道使四种姓各守其本分;若君主正确施行,便能使其远离非法。

12.69.4

चातुर्वर्ण्ये स्वधर्मस्थे मर्यादानामसंकरे ।
दण्डनीतिकृते क्षेमे प्रजानामकुतोभये ॥ १२.६९.४ ॥

四种姓安居于各自本分,界限不相混乱之时,人民因刑罚之道而得安宁,四方无所恐惧。

12.69.5

सोमे प्रयत्नं कुर्वन्ति वयो वर्णा यथाविधि ।
तस्मादेव मनुष्याणां सुखं विद्धि समाहितम् ॥ १२.६९.५ ॥

生命阶段与四种姓依规定为福祉(soma)而努力。因此你应知,人民的幸福是稳固的。

12.69.6

कालो वा कारणं राज्ञो राजा वा कालकारणम् ।
इति ते संशयो माभूद्राजा कालस्य कारणम् ॥ १२.६९.६ ॥

是时代成就君王,还是君王成就时代?愿你不要再有此疑:君王乃是时代的因。

12.69.7

दण्डनीत्यां यदा राजा सम्यक्कार्त्स्न्येन वर्तते ।
तदा कृतयुगं नाम कालः श्रेष्ठः प्रवर्तते ॥ १२.६९.७ ॥

当国王在刑罚治国之道中全面而正确地施行时,便开启了最好的时代,名为克里塔时代。

12.69.8

भवेत्कृतयुगे धर्मो नाधर्मो विद्यते क्वचित् ।
सर्वेषामेव वर्णानां नाधर्मे रमते मनः ॥ १२.६९.८ ॥

在克里塔时代有法(达摩),何处也见不到非法,所有种姓的心都不沉溺于非法。

12.69.9

योगक्षेमाः प्रवर्तन्ते प्रजानां नात्र संशयः ।
वैदिकानि च कर्माणि भवन्त्यपि गुणान्युत ॥ १२.६९.९ ॥

百姓的福利与安稳(瑜伽-刹摩)得以推行,此事无疑;吠陀祭祀也变得有效验。

12.69.10

ऋतवश्च सुखाः सर्वे भवन्त्युत निरामयाः ।
प्रसीदन्ति नराणां च स्वरवर्णमनांसि च ॥ १२.६९.१० ॥

四季都变得宜人而无病;人们的声音、容貌与心意都变得欢愉。

12.69.11

व्याधयो न भवन्त्यत्र नाल्पायुर्दृश्यते नरः ।
विधवा न भवन्त्यत्र नृशंसो नात्र जायते ॥ १२.६९.११ ॥

此处不生疾病,也看不到短命之人;此处不会有寡妇,也不会生出残忍之人。

12.69.12

अकृष्टपच्या पृथिवी भवन्त्योषधयस्तथा ।
त्वक्पत्रफलमूलानि वीर्यवन्ति भवन्ति च ॥ १२.६९.१२ ॥

大地变得不必耕种便能丰收,草药也是如此;树皮、树叶、果实与根茎都变得有效力。

12.69.13

नाधर्मो विद्यते तत्र धर्म एव तु केवलम् ।
इति कार्तयुगानेतान्गुणान्विद्धि युधिष्ठिर ॥ १२.६९.१३ ॥

那里没有非法,只有法。因此,युधिष्ठिर啊,应知这些是克利塔时代的品质。

12.69.14

दण्डनीत्या यदा राजा त्रीनंशाननुवर्तते ।
चतुर्थमंशमुत्सृज्य तदा त्रेता प्रवर्तते ॥ १२.६९.१४ ॥

当国王以刑罚之政,遵循三分而舍弃第四分时,特瑞塔时代便随之而来。

12.69.15

अधर्मस्य चतुर्थांशस्त्रीनंशाननुवर्तते ।
कृष्टपच्यैव पृथिवी भवन्त्योषधयस्तथा ॥ १२.६९.१५ ॥

非法的第四分跟随三分;那时大地仍因耕作而结实,草药也是如此。

12.69.16

अर्धं त्यक्त्वा यदा राजा नीत्यर्धमनुवर्तते ।
ततस्तु द्वापरं नाम स कालः संप्रवर्तते ॥ १२.६९.१६ ॥

当国王舍弃一半而以政治遵循另一半时,那一时代便名为德瓦帕拉时代而开始。

12.69.17

अशुभस्य यदा त्वर्धं द्वावंशावनुवर्तते ।
कुष्टपच्यैव पृथिवी भवत्यर्धफला तथा ॥ १२.६९.१७ ॥

当恶的一半跟随两分时,大地变得难以成熟,只结一半的果实。

12.69.18

दण्डनीतिं परित्यज्य यदा कार्त्स्न्येन भूमिपः ।
प्रजाः क्लिश्नात्ययोगेन प्रवर्तेत तदा कलिः ॥ १२.६९.१८ ॥

当国王完全舍弃刑罚之政,以失序苦恼百姓时,迦利便兴起了。

12.69.19

कलावधर्मो भूयिष्ठो धर्मो भवति न क्वचित् ।
सर्वेषामेव वर्णानां स्वधर्माच्च्यवते मनः ॥ १२.६९.१९ ॥

在迦利时代,非法将最为盛行,正法无处留存;一切种姓之心都将背离其自身的本分(自法)。

12.69.20

शूद्रा भैक्षेण जीवन्ति ब्राह्मणाः परिचर्यया ।
योगक्षेमस्य नाशश्च वर्तते वर्णसंकरः ॥ १२.६९.२० ॥

首陀罗将以乞食为生,婆罗门以侍奉为生;获得与守护(瑜伽-刹摩)将被毁灭,种姓混杂(婆罗那-桑卡罗)随之出现。

12.69.21

वैदिकानि च कर्माणि भवन्ति विगुणान्युत ।
ऋतवो न सुखाः सर्वे भवन्त्यामयिनस्तथा ॥ १२.६९.२१ ॥

吠陀祭仪也将变得有缺陷,四季也不再都令人舒适;人们都将患病。

12.69.22

ह्रसन्त च मनुष्याणां स्वरवर्णमनांस्युत ।
व्याधयश्च भवन्त्यत्र म्रियन्ते चाशतायुषः ॥ १२.६९.२२ ॥

人们的声音、容貌与心智都将衰退;疾病在此滋生,人们未满百岁便会死去。

12.69.23

विधवाश्च भवन्त्यत्र नृशंसा जायते प्रजा ।
क्वचिद्वर्षति पर्जन्यः क्वचित्सस्यं प्ररोहति ॥ १२.६९.२३ ॥

此地女子将守寡,后代生来残忍;有时云雨降下,有时庄稼生长。

12.69.24

रसाः सर्वे क्षयं यान्ति यदा नेच्छति भूमिपः ।
प्रजाः संरक्षितुं सम्यग्दण्डनीतिसमाहितः ॥ १२.६९.२४ ॥

当君王不愿好好保护臣民,又不坚守刑罚之治(达摩那提)时,一切精华(罗娑)都将衰竭。

12.69.25

राजा कृतयुगस्रष्टा त्रेताया द्वापरस्य च ।
युगस्य च चतुर्थस्य राजा भवति कारणम् ॥ १२.६९.२५ ॥

君王是圆满时代的创造者,也是三时与二时的创造者;他也成为第四时代的因由。

12.69.26

कृतस्य करणाद्राजा स्वर्गमत्यन्तमश्नुते ।
त्रेतायाः करणाद्राजा स्वर्गं नात्यन्तमश्नुते ॥ १२.६९.२६ ॥

因成就圆满时代,君王完全获得天界;因成就三时,君王不能完全获得天界。

12.69.27

प्रवर्तनाद्द्वापरस्य यथाभागमुपाश्नुते ।
कलेः प्रवर्तनाद्राजा पापमत्यन्तमश्नुते ॥ १२.६९.२७ ॥

因推动二时,君王依其分得相应的果报;因推动迦利时代,君王完全承受罪过。

12.69.28

ततो वसति दुष्कर्मा नरके शाश्वतीः समाः ।
प्रजानां कल्मषे मग्नोऽकीर्ति पापं च विन्दति ॥ १२.६९.२८ ॥

此后那作恶的君王在地狱中住于无尽的岁月;沉没于臣民的污秽之中,他得到恶名与罪过。

12.69.29

दण्डनीतिं पुरस्कृत्य क्षत्रियेण विजानता ।
लिप्सितव्यमलभ्यं च लब्धं रक्ष्यं च भारत।
योगक्षेमाः प्रवर्तन्ते प्रजानां नात्र संशयः ॥ १२.६९.२९ ॥

以刑罚之道为先,智慧的刹帝利应求取未得之物,守护已得之物,婆罗多啊;臣民的安稳由此而行,此无疑问。

12.69.30

लोकस्य सीमन्तकरी मर्यादा लोकपावनी ।
सम्यङ्गीता दण्डनीतिर्यथा माता यथा पिता ॥ १२.६९.३० ॥

刑罚之道是划分世界的界限,也是净化世界的法度;若正确地宣说,刑罚之道如同母亲,如同父亲。

12.69.31

यस्यां भवन्ति भूतानि तद्विद्धि भरतर्षभ ।
एष एव परो धर्मो यद्राजा दण्डनीतिमान् ॥ १२.६९.३१ ॥

婆罗多族的雄牛啊,应知众生所依之处。这便是最高的法:君王须精通刑罚之道(daṇḍanīti)。

12.69.32

तस्मात्कौरव्य धर्मेण प्रजाः पालय नीतिमान् ।
एवं वृत्तः प्रजा रक्षन्स्वर्गं जेतासि दुर्जयम् ॥ १२.६९.३२ ॥

因此,库鲁之子啊,你应以智慧依法护佑臣民。如此行事、守护百姓,你将征服那难以征服的天界。