Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.77

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.77.1

केषां प्रभवते राजा वित्तस्य भरतर्षभ ।
कया च वृत्त्या वर्तेत तन्मे ब्रूहि पितामह ॥ १२.७७.१ ॥

婆罗多族的雄牛啊,国王对谁的财富拥有支配权?他应当以何种生计为生?祖父啊,请告诉我。

12.77.2

अब्राह्मणानां वित्तस्य स्वामी राजेति वैदिकम् ।
ब्राह्मणानां च ये केचिद्विकर्मस्था भवन्त्युत ॥ १२.७७.२ ॥

吠陀规定,国王是非婆罗门财富的主人。至于那些从事禁行之事的婆罗门,

12.77.3

विकर्मस्थाश्च नोपेक्ष्या विप्रा राज्ञा कथंचन ।
इति राज्ञां पुरावृत्तमभिजल्पन्ति साधवः ॥ १२.७७.३ ॥

即便婆罗门行为不端,国王也绝不可以任何方式轻慢他们。这是古代国王的惯例,贤者如此宣说。

12.77.4

यस्य स्म विषये राज्ञः स्तेनो भवति वै द्विजः ।
राज्ञ एवापराधं तं मन्यन्ते किल्विषं नृप ॥ १२.७७.४ ॥

在哪位国王的领土内有婆罗门成为盗贼,国王啊,人们便认为那罪过正是国王之过。

12.77.5

अभिशस्तमिवात्मानं मन्यन्ते तेन कर्मणा ।
तस्माद्राजर्षयः सर्वे ब्राह्मणानन्वपालयन् ॥ १२.७७.५ ॥

因此事,国王自觉仿佛遭受指控。所以一切王仙都保护婆罗门。

12.77.6

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
गीतं केकयराजेन हियमाणेन रक्षसा ॥ १२.७७.६ ॥

关于此事,人们引用这段古老的传说,那是克迦耶国王在被罗刹劫走时所唱之歌。

12.77.7

केकयानामधिपतिं रक्षो जग्राह दारुणम् ।
स्वाध्यायेनान्वितं राजन्नरण्ये संशितव्रतम् ॥ १२.७७.७ ॥

柯迦耶人的主君在森林中被罗刹残忍地抓住,王啊,他专心诵习吠陀,持守坚定的誓愿。

12.77.8

न मे स्तेनो जनपदे न कदर्यो न मद्यपः ।
नानाहिताग्निर्नायज्वा मा ममान्तरमाविशः ॥ १२.७७.८ ॥

我的国土中没有窃贼,没有吝啬之人,没有酗酒者;没有不设圣火者,没有不行祭祀者。不要进入我的内心。

12.77.9

न च मे ब्राह्मणोऽविद्वान्नाव्रती नाप्यसोमपः ।
द्विजातिर्विषये मह्यं मा ममान्तरमाविशः ॥ १२.७७.९ ॥

我的国土中没有无知的婆罗门,没有不持戒的人,也没有不饮苏摩的人;我国的再生族中没有这样的人。不要进入我的内心。

12.77.10

नानाप्तदक्षिणैर्यज्ञैर्यजन्ते विषये मम ।
नाधीते चाव्रती कश्चिन्मा ममान्तरमाविशः ॥ १२.७७.१० ॥

我的国土中无人不以足额的酬金行祭,无人不诵习,也无人没有誓愿。不要进入我的内心。

12.77.11

अध्यापयन्त्यधीयन्ते यजन्ते याजयन्ति च ।
ददति प्रतिगृह्णन्ति षट्सु कर्मस्ववस्थिताः ॥ १२.७७.११ ॥

他们教授也学习,祭祀也主持祭祀,布施也接受布施;他们安住于六种职责之中。

12.77.12

पूजिताः संविभक्ताश्च मृदवः सत्यवादिनः ।
ब्राह्मणा मे स्वकर्मस्था मा ममान्तरमाविशः ॥ १२.७७.१२ ॥

我的婆罗门受人尊敬,乐于布施,温和,诚实,安守自己的职责。不要进入我的内心。

12.77.13

न याचन्ते प्रयच्छन्ति सत्यधर्मविशारदाः ।
नाध्यापयन्त्यधीयन्ते यजन्ते याजयन्ति न ॥ १२.७७.१३ ॥

他们不乞求也不施予;精通真实法的他们既不教授也不学习,既不祭祀也不主持祭祀。

12.77.14

ब्राह्मणान्परिरक्षन्ति सङ्ग्रामेष्वपलायिनः ।
क्षत्रिया मे स्वकर्मस्था मा ममान्तरमाविशः ॥ १२.७७.१४ ॥

我的刹帝利在战斗中不逃避,保护婆罗门,安住于自己的本分;你不要进入我的内心。

12.77.15

कृषिगोरक्षवाणिज्यमुपजीवन्त्यमायया ।
अप्रमत्ताः क्रियावन्तः सुवृत्ताः सत्यवादिनः ॥ १२.७७.१५ ॥

他们以农耕、牧牛和经商谋生,不欺不诈;警觉、勤于行动、品行端正、说话诚实。

12.77.16

संविभागं दमं शौचं सौहृदं च व्यपाश्रिताः ।
मम वैश्याः स्वकर्मस्था मा ममान्तरमाविशः ॥ १२.७७.१६ ॥

我的吠舍依托于分享、克制、清净与友善,安住于自己的本分;你不要进入我的内心。

12.77.17

त्रीन्वर्णानुपतिष्ठन्ते यथावदनसूयकाः ।
मम शूद्राः स्वकर्मस्था मा ममान्तरमाविशः ॥ १२.७७.१७ ॥

我的首陀罗无嫉妒地恰当侍奉三个种姓,安住于自己的本分;你不要进入我的内心。

12.77.18

कृपणानाथवृद्धानां दुर्बलातुरयोषिताम् ।
संविभक्ताऽस्मि सर्वेषां मा ममान्तरमाविशः ॥ १२.७७.१८ ॥

我分给了所有人:贫苦者、无依者、老人、弱者、病人和妇女。你不要进入我的内心。

12.77.19

कुलानुरूपधर्माणां प्रस्थितानां यथाविधि ।
अव्युच्छेत्ताऽस्मि सर्वेषां मा ममान्तरमाविशः ॥ १२.७७.१९ ॥

凡依其族之法而行、依规定出发者,我皆不断地护持;莫入我之内心。

12.77.20

तपस्विनो मे विषये पूजिताः परिपालिताः ।
संविभक्ताश्च सत्कृत्य मा ममान्तरमाविशः ॥ १२.७७.२० ॥

在我的国土中,苦行者受到尊敬、庇护,并被恭敬地供养;莫入我之内心。

12.77.21

नासंविभज्य भोक्ताऽस्मि न विशामि परस्त्रियम् ।
स्वतन्त्रो जातु न क्रीडे मा ममान्तरमाविशः ॥ १२.७७.२१ ॥

我不分与他人便不进食,不亲近他人之妻,也绝不肆意纵乐;莫入我之内心。

12.77.22

नाब्रह्मचारी भिक्षावान्भिक्षुर्वा ब्रह्मचर्यवान् ।
अनृत्विजा हुतं नास्ति मा ममान्तरमाविशः ॥ १२.७७.२२ ॥

不持梵行者非乞食者,持梵行者方为比丘;无祭司则不行供养;莫入我之内心。

12.77.23

कृतं राज्यं मया सर्वं राज्यस्थेनापि कार्यवत् ।
नाहं व्युत्क्रामितः सत्यान्मा ममान्तरमाविशः ॥ १२.७७.२३ ॥

我为王之时,已将王政诸事妥善完成,且从未背离真实;莫入我之内心。

12.77.24

नावजानाम्यहं वैद्यान्न वृद्धान्न तपस्विनः ।
राष्ट्रे स्वपति जागर्मि मा ममान्तरमाविशः ॥ १२.७७.२४ ॥

我不轻慢医者、长者与苦行者;即使在国中安睡,我仍保持警醒;莫入我之内心。

12.77.25

शुक्लकर्मास्मि सर्वत्र न दुर्गतिभयं मम ।
धर्मचारी गृहस्थश्च मा ममान्तरमाविशः ॥ १२.७७.२५ ॥

我在一切处所行清净之业,不怕恶道之险。我是奉行法的居家者;不要进入我的内心。

12.77.26

वेदाध्ययनसंपन्नस्तपस्वी सत्यधर्मवित् ।
स्वामी सर्वस्य राष्ट्रस्य धीमान्मम पुरोहितः ॥ १२.७७.२६ ॥

精通吠陀学习、苦行、知晓真理之法、为整个王国之主、有智慧的,是我的家庭祭司。

12.77.27

दानेन दिव्यानभिवाञ्छामि लोकान् ।
सत्येनाथ ब्राह्मणानां च गुप्त्या।
शुश्रूषया चापि गुरूनुपैमि ।
न मे भयं विद्यते राक्षसेभ्यः ॥ १२.७७.२७ ॥

我以布施求取天界;以真实、护持婆罗门、以侍奉,亲近尊长。我不怕罗刹。

12.77.28

न मे राष्ट्रे विधवा ब्रह्मबन्धु ।
र्न ब्राह्मणः कितवो नोत चोरः।
नायाज्ययाजी न च पापकर्मा ।
न मे भयं विद्यते राक्षसेभ्यः ॥ १२.७७.२८ ॥

我的国中没有寡妇、徒有其名的婆罗门、赌徒,也没有盗贼;没有为不配者行祭的人,也没有作恶之人。我不怕罗刹。

12.77.29

न मे शस्त्रैरनिर्भिन्नं गात्रे व्द्यङ्गुलमन्तरम् ।
धर्मार्थं युध्यमानस्य मा ममान्तरमाविशः ॥ १२.७७.२९ ॥

我为法而战,身上没有一寸两指宽的地方未被兵器所伤;不要进入我的内心。

12.77.30

गोब्राह्मणेभ्यो यज्ञेभ्यो नित्यं स्वस्त्ययनं मम ।
आशासते जना राष्ट्रे मा ममान्तरमाविशः ॥ १२.७७.३० ॥

因为牛、婆罗门与祭祀,我常得吉祥;国中百姓为我祝福。不要进入我的内心。

12.77.31

नारीणां व्यभिचाराच्च अन्यायाच्च महीक्षिताम् ।
विप्राणां कर्मदोषाच्च प्रजानां जायते भयम् ॥ १२.७७.३१ ॥

妇女的淫乱、君王的不义以及婆罗门祭仪的过失,使民众心生恐惧。

12.77.32

अवृष्टिर्मारको दोषः सततं क्षुद्भयानि च ।
विग्रहश्च सदा तस्मिन्देशे भवति दारुणः ॥ १२.७७.३२ ॥

无雨、致命的灾祸、持续的饥饿恐惧与争斗——在那片土地上,这些总是可怕的。

12.77.33

यक्षरक्षःपिशाचेभ्यो नासुरेभ्यः कथंचन ।
भयमुत्पद्यते तत्र यत्र विप्राः सुसंयताः ॥ १२.७७.३३ ॥

婆罗门严守戒律的地方,无论如何都不会因夜叉、罗刹、毕舍遮或阿修罗而生恐惧。

12.77.34

गन्धर्वाप्सरसः सिद्धाः पन्नगाश्च सरीसृपाः ।
मानवान्न जिघांसन्ति यत्र नार्यः पतिव्रताः ॥ १२.७७.३४ ॥

妇女忠于丈夫的地方,乾达婆、阿普萨拉、悉陀、龙蛇及爬行之物都不愿伤害人类。

12.77.35

ब्राह्मणः क्षत्रिया वैश्या यत्र शूद्राश्च धार्मिकाः ।
नाऽनावृष्टिभयं तत्र न दुर्भिक्षं न विभ्रमः ॥ १२.७७.३५ ॥

婆罗门、刹帝利、吠舍及守法的首陀罗居住之处,既无旱灾之忧,也无饥荒与混乱。

12.77.36

धार्मिको यत्र भूपालो न तत्रास्ति पराभवः ।
उत्पाता न च दृश्यन्ते न दिव्या न च मानुषाः ॥ १२.७७.३६ ॥

君王守法之地,便无败亡;在那里,既不见天象之异,也不见人间之变。

12.77.37

यस्मात्सर्वास्ववस्थासु धर्ममेवान्ववेक्षसे ।
तस्मात्प्राप्नुहि कैकेय गृहं स्वस्ति व्रजाम्यहम् ॥ १२.७७.३७ ॥

因为你在一切境况中只顾念法,因此,迦基耶啊,你可以回家;我平安地离去。

12.77.38

येषां गोब्राह्मणा रक्ष्याः प्रजा रक्ष्याश्च केकय ।
न रक्षोऽभ्यो भयं तेषां कुत एव तु पातकम् ॥ १२.७७.३८ ॥

凡保护牛、婆罗门与民众的人,迦基耶啊,不惧罗刹;那么他们怎会有罪过呢?

12.77.39

येषां पुरोगमा विप्रा येषां ब्रह्म परं बलम् ।
सुरक्षितास्तथा विप्रास्ते वै स्वर्गजितो नृपाः ॥ १२.७७.३९ ॥

那些以婆罗门为先、以梵为最大力量、且婆罗门得到良好守护的君王,确实是征服天界者。

12.77.40

तस्माद्द्विजातीन्रक्षेत ते हि रक्षन्ति रक्षिताः ।
आशीरेषां भवेद्राजन्राज्ञां सम्यक्प्रवर्तताम् ॥ १२.७७.४० ॥

因此,国王应当保护再生者,因为受保护者反过来也保护他。啊国王,愿这成为善于治理之君王的祝福。

12.77.41

तस्माद्राज्ञा विशेषेण विकर्मस्था द्विजातयः ।
नियम्याः संविभज्याश्च प्रजानुग्रहकारणात् ॥ १२.७७.४१ ॥

因此,国王应特别约束偏离本分的再生者,并为他们分配供给,以施恩于民众。

12.77.42

एवं यो वर्तते राजा पौरजानपदेष्विह ।
अनुभूयेह भद्राणि प्राप्नोतीन्द्रसलोकताम् ॥ १२.७७.४२ ॥

国王若如此对待城乡之民,在此享受福泽,便能到达因陀罗的天界。