Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.82

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.82.1

एषा प्रथमतो वृत्तिर्द्वितीयां शृणु भारत ।
यः कश्चिद्वेदयेदर्थं राज्ञा रक्ष्यः स मानवः ॥ १२.८२.१ ॥

这是第一种行为;婆罗多的后裔啊,听第二种。凡向国王报告财物之事的人,国王应当保护他。

12.82.2

ह्रियमाणममात्येन भृत्यो वा यदि वा भृतः ।
यो राजकोशं नश्यन्तमाचक्षीत युधिष्ठिर ॥ १२.८२.२ ॥

义卢大王啊,若仆人或雇工看见王库被大臣窃取或正在损失,应当报告。

12.82.3

श्रोतव्यमस्य च रहो रक्ष्यश्चामात्यतो भवेत् ।
अमात्या ह्यपहर्तारो भूयिष्ठं घ्नन्ति भारत ॥ १२.८२.३ ॥

应当私下听取他的话,并且要保护他免受大臣之害;婆罗多的后裔啊,多数情况下窃取财物的正是大臣,他们还会伤害许多人。

12.82.4

राजकोशस्य गोप्तारं राजकोशविलोपकाः ।
समेत्य सर्वे बाधन्ते स विनश्यत्यरक्षितः ॥ १२.८२.४ ॥

王库的守护者,会被所有聚集起来的王库劫掠者所欺压;他若无人保护,便会毁灭。

12.82.5

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
मुनिः कालकवृक्षीयः कौसल्यं यदुवाच ह ॥ १२.८२.५ ॥

关于此事,人们也引用这个古老的故事,那是迦罗迦伐利叉族的仙人对憍萨罗王所说的。

12.82.6

कोसलानामाधिपत्यं संप्राप्तं क्षेमदर्शिनम् ।
मुनिः कालकवृक्षीय आजगोमेति नः श्रुतम् ॥ १२.८२.६ ॥

获得憍萨罗人统治权、关注安乐的国王,迦罗迦伐利叉族的仙人对他所说——我们听说是这样的。

12.82.7

स काकं पञ्जरे बद्ध्वा विषयं क्षेमदर्शिनः ।
सर्वं पर्यचरद्युक्तः प्रवृत्त्यर्थी पुनः पुनः ॥ १२.८२.७ ॥

他把乌鸦关进笼中,仔细关注见安稳者之国的一切事务,一次又一次,渴望获知消息。

12.82.8

अधीये वायसीं विद्यां शंसन्ति मम वायसाः ।
अनागतमतीतं च यच्च संप्रति वर्तते ॥ १२.८२.८ ॥

我学习了乌鸦之术;乌鸦告诉我未来、过去以及当下正在发生的事。

12.82.9

इति राष्ट्रे परिपतन्बहुभिः पुरुषैः सह ।
सर्वेषां राजयुक्तानां दुष्कृतं परिदृष्टवान् ॥ १२.८२.९ ॥

就这样,他与许多人在国中巡行,看到了所有王家官员的恶行。

12.82.10

स बुद्ध्वा तस्य राष्ट्रस्य व्यवसायं हि सर्वशः ।
राजयुक्तापचारांश्च सर्वान्बुद्ध्वा ततस्ततः ॥ १२.८२.१० ॥

他完全了解了那个国家的一切事务;了解了所有王家官员的过失之后,又一步步地了解得越来越多。

12.82.11

ततः स काकमादाय राजानं द्रष्टुमागमत् ।
सर्वज्ञोऽस्मीति वचनं ब्रुवाणः संशितव्रतः ॥ १२.८२.११ ॥

于是他带着乌鸦来见国王,说道:“我是全知的。”他立下坚定的誓言。

12.82.12

स स्म कौसल्यमागम्य राजामात्यमलंकृतम् ।
प्राह काकस्य वचनादमुत्रेदं त्वया कृतम् ॥ १२.८२.१२ ॥

他来到憍萨罗王和盛装的大臣面前,说道:“依乌鸦之言,此事是你在那里做的。”

12.82.13

असौ चासौ च जानीते राजकेशस्त्वया हृतः ।
एवमाख्याति काकोऽयं तच्छीघ्रमनुगम्यताम् ॥ १२.८२.१३ ॥

此人与彼人都知道王库是你所夺取的。这只乌鸦如此declare;所以应该立即跟随它。

12.82.14

तथाऽन्यानपि स प्राह राजकोशहरांस्तदा ।
न चास्य वचनं किंचिदनृतं श्रूयते क्वचित् ॥ १२.८२.१४ ॥

同样,他那时也指出了其他劫掠王库的人。在他的话语中,无论何处都听不到丝毫虚假。

12.82.15

तेन विप्रकृताः सर्वे राजयुक्ताः कुरूद्वह ।
तमतिक्रम्य सुप्तं तु निशि काकमपोथयन् ॥ १२.८२.१५ ॥

因他,所有王家官员都受到了欺辱,俱卢中的最优者啊。他们越过他,击打了夜间沉睡的那只乌鸦。

12.82.16

वायसं तु विनिर्भिन्नं दृष्ट्वा वाणेन पञ्जरे ।
पूर्वाह्णे ब्राह्मणो वाक्यं क्षेमदर्शिनमब्रवीत् ॥ १२.८२.१६ ॥

在笼中看到被箭射穿的乌鸦,上午婆罗门对看顾安危的人说了这些话。

12.82.17

राजंस्त्वामभयं याचे प्रभुं प्राणधनेश्वरम् ।
अनुज्ञातस्त्वया ब्रूयां वचनं भवतो हितम् ॥ १२.८२.१७ ॥

大王啊,我向你请求安全,你是生命与财富的主宰。得到你的允许,愿我说出对你有益的话。

12.82.18

मित्रार्थमभिसंतप्तो भक्त्या सर्वात्मनाऽऽगतः ।
ह्रियन्ते हि महार्थाश्च पुरुषे विक्रमत्यपि ॥ १२.८२.१८ ॥

为朋友之事深感痛苦,我怀着虔诚、以全部身心而来。即使男子奋勇施为,重大的财物仍会被夺走。

12.82.19

संबुबोधयिषुर्मित्रं सदश्वमिव सारथिः ।
अतिमन्युप्रसक्तो हि प्रसह्य हितकारणात् ॥ १२.८२.१९ ॥

欲开导朋友者,应如御者驾驭良马一般,为其利益而强行约束那深陷极度愤怒之人。

12.82.20

तथाविधस्य सुहृदा क्षन्तव्यं संविजानता ।
ऐश्वर्यमिच्छता नित्यं पुरुषेण बुभूषता ॥ १२.८२.२० ॥

对于这样的人,应由明白事理的朋友宽恕;对于那总是渴望权势并想要获得的人,也应当如此宽恕。

12.82.21

तं राजा प्रत्युवाचेदं यत्किंचिन्मां भवान्वदेत् ।
कस्मादहं न क्षमेयमाकाङ्क्षन्नात्मनो हितम् ॥ १२.८२.२१ ॥

国王回答他说:“无论你对我说什么,我既然希望自己的利益,又为何不能忍受呢?”

12.82.22

ब्राह्मण प्रतिजाने ते प्रब्रूहि यदिहेच्छसि ।
करिष्यामि हि ते वाक्यं यन्मां विप्र प्रवक्ष्यसि ॥ १२.८२.२२ ॥

婆罗门啊,我向你承诺:凡你在此所愿,尽管说出。智者啊,你向我所说的话,我必定照做。

12.82.23

विद्वान्नयानपायांश्च भयाख्यातॄन्भयानि च ।
भक्त्या वृत्तिं समाख्यातुं भवतोऽन्तिकमागतः ॥ १२.८२.२३ ॥

我知晓政事的得失、宣告恐惧之人以及恐惧本身,出于虔诚而来到你的身边,以说明你的行为。

12.82.24

प्रागेवोक्तं तु दोषोऽयमाचार्यैर्नृपसेवनम् ।
अगतेः कुगतिर्ह्येषा या राज्ञा सहजीविका ॥ १२.८२.२४ ॥

师长们早已说过:侍奉君王是一种过失;对于没有依靠的人,这是一条不好的道路,因为与君王共同生活正是如此。

12.82.25

आशीविषैश्च तस्याहुः संगमं यस्य राजभिः ।
बहुमित्रांश्च राजानो बह्वभित्रास्तथैव च ॥ १२.८२.२५ ॥

据说与王者相交者,其交往如同与毒蛇为伍;君王有许多朋友,也同样有许多敌人。

12.82.26

तेभ्यः सर्वेभ्य एवाहुर्भयं राजोपजीविनाम् ।
तथाऽस्य राजतो राजन्मुहुर्तादागतं भयम् ॥ १२.८२.२६ ॥

据说依靠君王谋生的人,恐惧来自他们所有人;同样,大王啊,他的恐惧也会在片刻之间从君王那里降临。

12.82.27

नैकान्तेनाप्रमादो हि शक्यः कर्तुं महीपतौ ।
न तु प्रमादः कर्तव्यः कथंचिद्भूतिमिच्छता ॥ १२.८२.२७ ॥

与大地之主相处,实在不可能完全无所疏忽;然而希求兴盛的人,无论如何都不可有所疏忽。

12.82.28

प्रमादात्स्खलते बुद्धिः स्खलतो नास्ति जीवितम् ।
अग्निं दीप्तमिवासीदेद्राजानप्नुपशिक्षितः ॥ १२.८२.२८ ॥

因为疏忽,智慧便会失足;失足者便无生存之道。善于侍奉君王者,应当如接近熊熊烈火一般接近君王。

12.82.29

आशीविषमिव क्रुद्धं प्रभुं प्राणधनेश्वरम् ।
यत्नेनोपचरेन्नित्यं नाहमस्मीति मानवः ॥ १२.८२.२९ ॥

人应当始终谨慎地侍奉那位如愤怒毒蛇般、执掌生命与财富的君主,心念只是:“我算不得什么。”

12.82.30

दुर्व्याहृताच्छङ्कमानो दुःस्थिताद्दुरनुष्ठितात् ।
दुरासदाद्दुर्वृजिनादिङ्गिताद्ध्यायितादपि ॥ १२.८२.३० ॥

畏惧言语失当、处境不妥、行事失宜、难以接近的粗暴、邪恶、一个手势,乃至一个念头。

12.82.31

देवतेव हि सर्वार्थान्कुर्याद्राजा प्रसादितः ।
वैश्वानर इव क्रुद्धः समूलमपि निर्दहेत् ॥ १२.८२.३१ ॥

国王若被取悦,便能像神明一样成就一切所求;若发怒,则如吠舍婆那罗之火,连根焚尽。

12.82.32

इति राजन्यमः प्राह वर्तते च तथैव तत् ।
अथ भूयांसमेवार्थं करिष्यामि पुनः पुनः ॥ १२.८२.३२ ॥

最杰出的王者如此说道:“确实如此。现在我将一再完成更大的目标。”

12.82.33

ददात्यत्मद्विधोऽऽमात्यो बुद्धिसाहाय्यमापदि ।
वायसस्त्वेष मे राजन्नन्तकायाभिसंहितः ॥ १२.८२.३३ ॥

像我这样的大臣在灾难中给予智慧的帮助。国王啊,这只乌鸦是死神派来对付我的。

12.82.34

न च मेऽत्र भवान्गर्ह्यो न च येषां भवान्प्रियः ।
हिताहितांस्तु बुद्ध्येथा मापरोक्षमतिर्भव ॥ १२.८२.३४ ॥

在此,您对我而言并不可责,您所爱的人亦然。请您分辨利与害,不要成为心智无法领会不可见之事的人。

12.82.35

ये त्वादानपरा एव वसन्ति भवतो गृहे ।
अभूतिकामा भूतानां तादृशैर्मेऽभिसंहितम् ॥ १२.८२.३५ ॥

那些住在您家中、只知索取、渴望众生毁灭的人——正是这样的人对我策划了此事。

12.82.36

यो वा भवद्विनाशेन राज्यमिच्छत्यनन्तरम् ।
आन्तरैराभेसंधाय राजन्सिद्ध्यति नान्यथा ॥ १२.८२.३६ ॥

若有人借您的败亡而接着觊觎王国,并与内部之人密谋,国王啊,他便能成功——否则不能。

12.82.37

तेषामहं भयाद्राजन्गमिष्याम्यन्यमाश्रमम् ।
तैर्हि मे संधितो बाणः काके निपतितः प्रभो ॥ १२.८२.३७ ॥

大王啊,因为惧怕他们,我将前往另一座修行处,因为是他们使我搭上的箭落在了乌鸦身上,主啊。

12.82.38

छझना मम काकश्च गमितो यमसादनम् ।
दृष्टं ह्येतन्मया राजंस्तपोदीर्घेन चक्षुषा ॥ १२.८२.३८ ॥

我的乌鸦也被诡计送往阎摩的住所。大王啊,我以长久苦行所得的慧眼看见了这一切。

12.82.39

बहुनक्रझषग्राहां तिमिंगिलगणैर्युताम् ।
काकेन वालिशेनेमामतार्षमहमापगाम् ॥ १२.८२.३९ ॥

这条满是鳄鱼、鱼类和鲨鱼、布满迦摩罗群的河流,我与那只愚蠢的乌鸦一同渡过。

12.82.40

स्थाण्वश्मकण्टकवर्तीं सिंह व्याघ्रसमाकुलाम् ।
दुरासदां दुष्प्रसहां गुहां हैमवतीमिव। ॥ १२.८२.४० ॥

犹如喜马拉雅的洞穴,道路布满树桩、石块和荆棘,充满狮子与老虎,难以靠近,难以忍受。

12.82.41

अग्निना तामसं दुर्गं नौभिराप्यं च गम्यते ।
राजदुर्गावतरणे नोपायं पण्डिता विदुः ॥ १२.८२.४१ ॥

黑暗的堡垒可借火渡过,以船只经水路抵达;但智者不知道进入国王堡垒的办法。

12.82.42

गहनं भवतो राज्यमन्धकारं तमोन्वितम् ।
नेह विश्वसितुं शक्यं भवताऽपि कुतो मया ॥ १२.८२.४२ ॥

你的王国幽深,充满黑暗与愚昧;在这里无法信任,即使是对你,又何况对我?

12.82.43

अतो नायं शुभो वासस्तुल्ये सदसती इह ।
वधो ह्येवात्र सुकृते दुष्कृते न च संशयः ॥ १२.८२.४३ ॥

因此在此善与恶同等,此处并无吉祥的居所。在此,无论行善者还是作恶者,都必然面临死亡,此事无疑。

12.82.44

न्यायतो दुष्कृते घातः सुकृते न कथनम् ।
नेह युक्तं स्थिरं स्थातुं जवेनैवाव्रजेद्वुधः ॥ १२.८२.४४ ॥

依法,作恶者被杀,而行善者则不被提及。在此不宜稳固地停留;智者应迅速离去。

12.82.45

सीता नाम नदी राजन्प्लवो यस्यां निमज्जति ।
तयोपमामिमां मन्ये वागुरां सर्वधातिनीम् ॥ १२.८२.४५ ॥

大王,有一条名为悉多的河,筏子在其中沉没。我以它来比喻此事;我认为这是毁灭一切的罗网。

12.82.46

मधुप्रपातो हि भवान्भोजनं विषसंयुतम् ।
असतामिव ते भावो वर्तते न सतामिव ॥ १२.८२.४६ ॥

你好比落入蜂蜜之中,你的食物掺有毒药。你的心性像不善之人,而不像善人。

12.82.47

आशीविषैः परिवृतः कूपस्त्वमसि पार्थिव ॥ १२.८२.४७ ॥

大王,你好比被毒蛇环绕的井。

12.82.48

दुर्गतीर्था बृहत्कूला कावेरी चोरसंयुता ।
नदी मधुरपानीया यथा राजंस्तथा भवान्।
श्वगृध्रगोमायुयुतो राजहंससमो ह्यसि ॥ १२.८२.४८ ॥

大王,你就像卡维里河,渡口艰难、河岸广大,是甘甜之水的河流。虽与狗、秃鹫、豺狼为伴,你仍像王家天鹅一般。

12.82.49

यथाऽऽश्रित्य महावृक्षं कक्षः संवर्धते महान् ।
ततस्तं संवृणोत्येव तमतीत्य च वर्धते ॥ १२.८२.४९ ॥

如同大树之下的密林依靠大树而生长,随后遮蔽大树,并超越大树而继续生长。

12.82.50

तेनैवोग्रेन्धनेनैनं दावो दहति दारुणः ।
तथोपमा ह्यमात्यास्ते राजंस्तान्परिशोधय ॥ १२.८२.५० ॥

同样的猛烈燃料,可怕的山火将其焚烧。同样,国王啊,那些大臣正是此喻;请仔细考察并清除他们。

12.82.51

त्वया चैव कृता राजन्भवता परिपालिताः ।
भवन्तं पर्यवज्ञाय जिघांसन्ति भवत्प्रियम् ॥ १२.८२.५१ ॥

国王啊,他们是由你造就,也是你所庇护的;然而他们轻视你,却想杀死你所爱之人。

12.82.52

उषितं शङ्कमानेन प्रमादं परिरक्षता ।
अन्तः सर्प इवागारे वीरपत्न्या इवालये।
शीलं जिज्ञासमानेन राज्ञः साहसजीविनः ॥ १२.८२.५२ ॥

如同居于屋内藏有毒蛇,或英雄之妻的居所一般,怀着警惕与疑虑,防范疏忽地居住,想要了解这位以冒险为生的国王的品性。

12.82.53

कच्चिज्जितेन्द्रियो राजा कच्चिदस्यान्तरा जिताः ।
कच्चिदेषां प्रियो राजा कच्चिद्राज्ञः प्रियाः प्रजाः ॥ १२.८२.५३ ॥

国王是否已经克制了自己的感官?他内在的敌人是否已被战胜?国王是否受这些人爱戴?臣民是否为国王所爱?

12.82.54

विजिज्ञासुरिह प्राप्तस्तवाहं राजसत्तम ।
तस्य मे रोचते राजन्क्षुधितस्येव भोजनम् ॥ १२.८२.५४ ॥

诸王中最优秀者啊,我想了解你,因而来到此地。国王啊,此事令我欢喜,如同饥饿者喜爱食物。

12.82.55

अमात्या मे न रोचन्ते वितृष्णस्य यथोदकम् ।
भवतोऽर्थकृदित्येवं मयि ते दोषमादधन्।
विद्यते कारणं नान्यदिति मे नात्र संशयः ॥ १२.८२.५५ ॥

我的大臣不合我意,如同不渴的人不喜欢水。他们为你谋利,所以把过错加在我身上。没有别的原因,对此我毫无疑问。

12.82.56

न हि तेषामहं द्रोग्धा तत्तेषां द्रोहवद्गतम् ।
अरेर्हि दुर्हृदाद्भेयं भग्नपृष्ठादिवोरगात् ॥ १२.८२.५६ ॥

我并非他们的叛徒;他们的背叛已经反噬自身。应当提防敌人和心怀恶意的人,如同提防脊背折断的蛇。

12.82.57

भूयसा परिहारेण सत्कारेण च भूयसा ।
पूजितो ब्राह्मणश्रेष्ठ भूयो वस गृहे मम ॥ १२.८२.५७ ॥

以极大的尊敬和盛情款待受到敬重,婆罗门中最尊贵者啊,请再次住在我的家中。

12.82.58

ये त्वां ब्राह्मण नेच्छन्ति ते न वत्स्यन्ति मे गृहे ।
भवतैव हि तज्ज्ञेयं यत्तदेषामनन्तरम् ॥ १२.८२.५८ ॥

婆罗门啊,不愿见到你的人不会住在我的家里。你自己应当知道,此后会发生什么。

12.82.59

यथा स्यात्सुधृतो दण्डो यथा च सुकृतं कृतम् ।
तथा समीक्ष्य भगवञ्श्रेयसे विनियुङ्क्ष्व माम् ॥ १२.८२.५९ ॥

思量如何使刑罚得以妥善施行,使已做之善得以正确完成,尊者啊,请为了善而任用我。

12.82.60

अदर्शयन्निमं दोषमेकैकं दुर्बलं कुरु ।
ततः कारणमाज्ञाय पुरुषंपुरुषं जहि।
एकदोषा हि बहवो मृद्गीयुरपि कण्टकान् ॥ १२.८२.६० ॥

指出这一过错,使每个人都变得虚弱。然后,知道了根源,就逐个打击每一个人。即便是许多各有一处缺陷的荆棘,也可以被踩碎。

12.82.61

अर्थे सर्वं जगद्वद्धमर्थेनैव निबध्यते ।
अर्थे दर्पो मनुष्याणां तस्मादर्थं विरोचय ॥ १२.८२.६१ ॥

整个世界都被财富束缚,唯有以财富而被束缚。人的傲慢在于财富;因此你要培养财富。

12.82.62

एकेनैकस्य दोषेण तद्विरुद्धं प्रचोदय ।
स तस्य दोषानुद्भाव्य तस्यार्थं ग्राहयिष्यति ॥ १२.८२.६२ ॥

以其一人之一过,激动他去反对那人。他揭露那人的过错,便会让那人交出财富。

12.82.63

सामपूर्वं च केषांचिद्भेदेन च परस्परम् ।
वैरं कारय भूपाल पश्चाद्दण्डं प्रचोदय ॥ १२.८२.६३ ॥

对某些人先用怀柔,再以离间使他们彼此相仇。啊,大地的守护者,之后便发动惩罚。

12.82.64

बिल्वेन च यथा बिल्वमाकारं छाद्य बुद्धिमान् ।
अशुद्धं सचिवं राजन्नशुद्धेनैव नाशय ॥ १२.८२.६४ ॥

如同一个木橘果遮盖另一个木橘果的外形,国王啊,智者应以不正当之法毁灭不纯的大臣。

12.82.65

मन्त्रभेदभयाद्राजंस्तस्मादेतद्ब्रवीमि ते ॥ १२.८२.६५ ॥

国王啊,因为害怕谋略泄露,所以我才这样告诉你。

12.82.66

वयं तु ब्राह्मणा नाम मृदुदण्डाः कृपालवः ।
स्वस्ति चेच्छाम भवतः परेषां च यथाऽऽत्मनः ॥ १२.८२.६६ ॥

然而我们是婆罗门,惩罚温和,心怀慈悲。我们愿你、他人以及我们自己都得到安康。

12.82.67

राजन्नात्मानमाचक्षे संबन्धी भवतो ह्यहम् ।
मुनिः कालकवृक्षीय इत्येवमभिसंज्ञितः।
पितुः सखा च भवतः संमतः सत्यसंगरः ॥ १२.८२.६७ ॥

国王啊,我自称是你的亲属。人们称我为迦拉卡树族的仙人。我曾是你父亲的朋友,受你尊敬,是守持真誓的人。

12.82.68

व्यापन्ने भवतो राज्ये राजन्पितरि संस्थिते ।
सर्वकामान्परित्यज्य तपस्तप्तं तदा मया ॥ १२.८२.६८ ॥

国王啊,当你的王国衰败、父亲去世之时,我便舍弃一切欲望,修行苦行。

12.82.69

स्नेहात्त्वां तु ब्रवीम्येतन्मा भूयो विभ्रो दिति ॥ १२.८२.६९ ॥

出于爱护,我对你说:不要再陷入迷惑了,提提之子啊。

12.82.70

उभे दृष्ट्वा दुःखसुखे राज्यं प्राप्य यदृच्छया ।
राज्येनामात्यसंस्थेन कथं राजन्प्रमाद्यसि ॥ १२.८२.७० ॥

你已看过苦与乐两者,又偶然获得了王位;国王啊,你依靠大臣治理的王国,怎会如此放逸?

12.82.71

ततो राजकुले नान्दी संजज्ञे भूयसा पुनः ।
पुरोहितकुले चैव संप्राप्ते ब्राह्मणर्षभे ॥ १२.८२.७१ ॥

于是王族之中又兴起了盛大的吉祥祝福(难提),婆罗门中最优秀者来到时,祭司之家也是如此。

12.82.72

एकच्छत्रां महीं कृत्वा कौसल्याय यशस्विने ।
मुनिः कालकवृक्षीय ईजे क्रतुभिरुत्तमैः ॥ १२.८२.७२ ॥

为光荣的考商雅使大地成为一柄伞之下的统治,迦拉卡树族的仙人以殊胜的祭祀行祭。

12.82.73

हितं तद्वचनं श्रुत्वा कौसल्योऽप्यजयन्महीम् ।
तथा च कृतवान्राजा यथोक्तं तेन भारत ॥ १२.८२.७३ ॥

聆听了那有益的教导后,考萨利亚也征服了大地;婆罗多啊,国王便照他所说的去做了。