摩诃婆罗多 · 章 12.89
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.89.1
वनस्पतीभक्ष्यफलान्न च्छिन्द्युर्विषये तव ।
ब्राह्मणानां मूलफलं धर्ममाहुर्मनीषिणः ॥ १२.८९.१ ॥
在你的国土中,不应砍伐树木可食用的果实与食物。智者称为婆罗门所用的根与果为法。
12.89.2
ब्राह्मणेभ्योऽतिरिक्तं च भुञ्जीरन्नितरे जनाः ।
न ब्राह्मणोपरोधेन हरेदन्यः कथंचन ॥ १२.८९.२ ॥
其他人只应食用给予婆罗门之后的剩余。任何人都不得以侵扰婆罗门的方式取得任何东西。
12.89.3
विप्रश्चेत्त्यागमातिष्ठेदाख्याया वृत्तिकर्शितः ।
परिकल्यास्य वृत्तिः स्यात्सदारस्य नराधिप ॥ १२.८९.३ ॥
若婆罗门因生计匮乏而衰弱,转而依靠乞讨的舍弃,那么,人主啊,应为他和他的妻子安排生计。
12.89.4
स चेन्नोपनिवर्तेत वाच्यो ब्राह्मणसंसदि ।
कस्मिन्निदानीं मर्यादामयं लोकः करिष्यति ॥ १२.८९.४ ॥
若他不回头,应在婆罗门的集会上质问他:“如今这世界将遵循何种行为的准则?”
12.89.5
असंशयं निवर्तेत न चेत्त्यक्ष्यत्यतः परम् ।
पूर्वं परोक्षं वक्तव्यमेतत्कौन्तेय शाश्वतम् ॥ १२.८९.५ ॥
若他无疑不回头而之后舍弃,应先私下说出——孔提之子啊,这是永恒的。
12.89.6
आहुरेतज्जना ब्रह्मन्न चैतच्छ्रद्दधाम्यहम् ।
निमन्त्र्यश्च भवेद्भोगैरवृत्त्या च तदा चरेत् ॥ १२.८९.६ ॥
人们这样说,婆罗门啊,但我不信。受邀享受欲乐的人,在无生计之时,便应如此行事。
12.89.7
कृषिगोरक्ष्यवाणिज्यं लोकानामिह जीवनम् ।
ऊर्ध्वं चैव त्रयी विद्या सा भूतान्भावयत्युत ॥ १२.८९.७ ॥
农耕、牧牛与商贸是此世人民的生计;其上是三明之学,它滋养众生。
12.89.8
तस्यां प्रपतमानायां ये स्युस्तत्परिपन्थिनः ।
दस्यवस्तद्वधायेह ब्रह्मा क्षत्रमथासृजत् ॥ १२.८९.८ ॥
当那秩序将要崩坏时,梵天为诛灭与之为敌的盗贼,创造了刹帝利(武士)种姓。
12.89.9
शत्रूञ्जय प्रजा रक्ष यजस्व क्रतुभिर्नृप ।
युध्यस्व समरे वीरो भूत्वा कौरवनन्दन ॥ १२.८९.९ ॥
征服敌人者啊,请保护臣民;国王啊,以祭祀行祭祀。俱卢之子的欢喜啊,成为英雄,在战场上作战吧。
12.89.10
संरक्ष्यान्रक्षते राजा स राजा राजसत्तमः ।
ये केचित्तान्न रक्षन्ति तैरर्थो नास्ति कश्चन ॥ १२.८९.१० ॥
君王守护应当守护的人,他便是最好的君王。那些不守护他们的人,对他毫无用处。
12.89.11
सदैव राज्ञा योद्धव्यं सर्वलोकाद्युधिष्ठिर ।
तस्याद्धेतोर्हि भुञ्जीत मनुष्यानेव मानवः ॥ १२.८९.११ ॥
坚战啊,国王应当永远为一切世界而战;为此,人应当养活人。
12.89.12
आन्तरेभ्यः परान्रक्षन्परेभ्यः पुनरान्तरान् ।
परान्परेभ्यः स्वान्खेभ्यः सर्वान्पालय नित्यदा ॥ १२.८९.१२ ॥
守护内者以抵御外敌,又守护外者以抵御内患;守护自己人以抵御外人,守护众人以抵御自己人——始终守护一切。
12.89.13
आत्मानं सर्वतो रक्षन्राजन्रक्षस्व मेदिनीम् ।
आत्ममूलमिदं सर्वमाहुर्वै विदुषो जनाः ॥ १२.८९.१३ ॥
大王啊,四面保护自己,也要保护大地。智者说,这一切都以自我为根本。
12.89.14
किं छिद्रं कोनु सङ्गो मे किंवाऽस्त्यविनिपातितम् ।
कुतो मामाश्रयेद्दोष इति नित्यं विचिन्तयेत् ॥ १२.८९.१४ ॥
我身上有什么缺口,我有什么执着,有什么过失尚未除去,过失从何处能侵袭我——应当时常如此思量。
12.89.15
अतीतदिवसे वृत्तं प्रशंसन्ति न वा पुनः ।
गुप्तैश्चारैरनुमतैः पृथिवीमनुसारयेत् ॥ १२.८९.१५ ॥
人们是否称赞过去的行为,再者——应当借可信的密探察访大地。
12.89.16
जानीत यदि मे वृत्तं प्रशंसन्ति न वा पुनः ।
कच्चिद्रोचेज्जनपदे कच्चिद्राष्ट्रे च मे वशः ॥ १२.८९.१६ ॥
若你知道人们是否称赞我的行为——我的行为在疆域中是否得人心,国家是否在我掌控之中。
12.89.17
धर्मज्ञानां धृतिमतां संग्रामेष्वपलायिनाम् ।
राष्ट्रे तु येऽनुजीवन्ति ये तु राज्ञोऽनुजीविनः ॥ १२.८९.१७ ॥
知晓法(dharma)的人,坚定的人,在战争中不逃跑的人——在国中谋生的人,以及依附于国王而生活的人。
12.89.18
अमात्यानां च सर्वेषां मध्यस्थानां च सर्वशः ।
ये च त्वाऽभिप्रशंसेयुर्निन्देयुरथवा पुनः ॥ १२.८९.१८ ॥
在所有大臣与调停者之中,那些称赞你的人,或者那些再次指责你的人。
12.89.19
सर्वान्सुपरिणीतांस्तान्कारयेथा युधिष्ठिर ।
एकान्तेन हि सर्वेषां न शक्यं तात रोचितुम्।
मित्रामित्रमथो मध्यं सर्वभूतेषु भारत ॥ १२.८९.१९ ॥
坚战啊,要让他们都婚配得当、安置妥善。孩子,要使所有人完全满意是不可能的。婆罗多之子啊,在一切众生之中,有朋友,有敌人,也有中立者。
12.89.20
तुल्यबाहुबलानां च तुल्यानां च गुणैरपि ।
कथं स्यादधिकः कश्चित्स च भुञ्जीत मानवान् ॥ १२.८९.२० ॥
在臂力相等、德行也相同的人之中,怎能有人变得更强?他又怎能统治人民呢?
12.89.21
यच्चरा ह्यचरानद्युरदंष्ट्रान्दंष्ट्रिणस्तथा ।
आशीविषा इव क्रुद्धा भुजङ्गान्भुजगा इव ॥ १२.८९.२१ ॥
能动的吞食不能动的,无牙的被有牙的吞食,正如愤怒的毒蛇吞食其他蛇一样。
12.89.22
एतेभ्यश्चाप्रमत्तः स्यात्सदा शत्रोर्युधिष्ठिर ।
भारुण्डसदृशा ह्येते निपतन्ति प्रमादतः ॥ १२.८९.२२ ॥
坚战啊,对这些人和敌人都应时刻警惕,因为他们像婆鲁达鸟一样,会因疏忽而猛然扑下。
12.89.23
कच्चित्ते वणिजो राष्ट्रे नोद्विजन्ति करार्दिताः ।
क्रीणन्तो बहुनाऽल्पेन कान्तारकृतविश्रमाः ॥ १२.८९.२३ ॥
你国中的商贩不是因税赋所迫而心神不安吗?他们以少买多,在森林的关隘中歇息。
12.89.24
कच्चित्कृषिकरा राष्ट्रं न जहत्यतिपीडिताः ।
ये बहन्ति धुरं राज्ञां ते भरन्तीतरानपि ॥ १२.८९.२४ ॥
你的农夫被极度压迫,难道不离开国土吗?那些承担君王重担的人,也正是养活他人的人。
12.89.25
आलस्येन हृतः पादः पादः पाषण्डमाश्रितः ।
राजानं सेवते पादः पादः कृषिमुपाश्रितः ॥ १२.८९.२५ ॥
懒惰夺去一分;一分依托异端;一分侍奉国王;一分投身农耕。
12.89.26
एकपादं त्रयः पादा भक्षयन्ति दिनेदिने ।
तस्मात्सर्वप्रयत्नेन पादं रक्ष युधिष्ठिर ॥ १२.८९.२६ ॥
三分日复一日吞食一分;因此,坚战啊,你要尽全力守护那一分。
12.89.27
इतो दत्तेन जीवन्ति देवाः पितृगणास्तथा ।
मानुषोरगरक्षांसि वयांसि पशवस्तथा ॥ १२.८९.२७ ॥
依靠这里所施的供奉,诸神与祖先之众得以存活;人类、蛇与罗刹、飞鸟与走兽也是如此。
12.89.28
एषा ते राष्ट्रवृत्तिश्च राज्ञां गुप्तिश्च भारत ।
प्रोक्तोद्दिश्यैतमेवार्थं भूयो वक्ष्यामि पा…व ॥ १२.८९.२८ ॥
婆罗多的后裔啊,这对你而言就是国政的行为与对国王的保护;针对这同一件事,我将再次讲说,pā…v。