Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.90

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.90.1

यानङ्गिराः क्षत्रधर्मानुतथ्यो ब्रह्मवित्तमः ।
मान्धात्रे यौवनाश्चाय प्रीतिमानभ्यभाषत ॥ १२.९०.१ ॥

梵知者中最优秀的乌特提亚,欣然向优瓦纳什瓦之子曼陀多讲述了他从安吉罗斯处所学的刹帝利之法。

12.90.2

स यथाऽनुशशासैनमुतथ्यो ब्रह्मवित्तमः ।
तत्तेऽहं संप्रवक्ष्यामि निखिलेन युधिष्ठिर ॥ १२.९०.२ ॥

最精通吠陀的乌特提亚如何教导他,我将完整地告诉你,俱卢族的俊杰坚战啊。

12.90.3

धर्माय राजा भवति न कामकरणाय तु ।
मान्धातरभिजानीहि राजा लोकस्य रक्षिता ॥ १२.९०.३ ॥

国王是为了法而存在的,而不是为了随心所欲。曼陀多啊,你要知道,国王是世界的守护者。

12.90.4

राजा चरति चेद्धर्मं देवत्वायैव कल्पते ।
स चेदधर्मं चरति नरकायैव गच्छति ॥ १२.९०.४ ॥

若国王行于法,便配得上神性;若行于非法,则只会堕入地狱。

12.90.5

धर्मे तिष्ठन्ति भूतानि धर्मो राजनि तिष्ठाति ।
तं राजा साधु यः शास्ति स राजा श्रियमश्नुते ॥ १२.९०.५ ॥

众生安立于法,法安立于国王。善于依法治理的国王,便能获得繁荣。

12.90.6

राजापराधान्मान्धातर्लक्ष्मीवान्पाप उच्यते ।
देवाश्च गर्हां गच्छन्ति धर्मो नास्तीति चोच्यते ॥ १२.९०.६ ॥

曼陀多啊,由于国王的过失,即使他富有,也被称为有罪之人。诸神也会谴责他,并且人们说他身上没有法。

12.90.7

अधर्मे वर्तमानानामर्थसिद्धिः प्रदृश्यते ।
तदेव मङ्गलं लोकः सर्वः समनुवर्तते ॥ १२.९०.७ ॥

在非法中行事的人,可以看到达成目的;人们便以此为吉祥,整个世界都随之而行。

12.90.8

उच्छिद्यते धर्मवृत्तमधर्मो वर्तते महान् ।
भयमाहुर्दिवारात्रं यदा पापा न वार्यते ॥ १२.९०.८ ॥

法的行为被连根拔起,大非法盛行。人们说,当恶人不被制止时,昼夜都有恐惧。

12.90.9

इदं मम इदं नेति साधूनां तात धर्मतः ।
न वै व्यवस्था भवति यदा पापो न वार्यते ॥ १२.९०.९ ॥

亲爱的孩子,在善人之间,依法没有“这是我的,这不是我的”之分。当恶人不被制止时,便不存在任何秩序。

12.90.10

नैव भार्या न पशवो न क्षेत्रं न निवेशनम् ।
संदृश्येत मनुष्याणां यदा पापबलं भवेत् ॥ १२.९०.१० ॥

当恶人的力量增长时,人们之间便看不到妻子、牲畜、田地或住所。

12.90.11

देवाः पूजां न जानन्ति न स्वधां पितरस्तदा ।
न पूज्यन्ते ह्यतिथयो यदा पापो न वार्यते ॥ १२.९०.११ ॥

当恶人不被制止时,诸神不知供奉,祖先不知斯瓦陀之祭,客人也不受尊敬。

12.90.12

न वेदानधिगच्छन्ति व्रतवन्तो द्विजातयः ।
न यज्ञांस्तन्वते विप्रा यदा पापो न वार्यते ॥ १२.९०.१२ ॥

当恶人不被制止时,持誓的再生族不再学得吠陀,婆罗门也不再举行祭祀。

12.90.13

वध्यानामिव सत्वानां मनो भवति विह्वलम् ।
मनुष्याणां महाराज यदा पापो न वार्यते ॥ १२.९०.१३ ॥

大王啊,当恶人不被制止时,人们的心便如待宰的众生一般惶乱不安。

12.90.14

उभौ लोकावभिप्रेक्ष्य राजानमसृजंस्तथा ।
मुनयोऽथ महद्भूतमयं धर्मो भविष्यति ॥ १२.९०.१४ ॥

诸仙观察二界之后,造出了一位国王;这位伟大的存在将成为法。

12.90.15

यस्मिन्धर्मो विराजेत तं राजानं प्रचक्षते ।
यस्मिन्विलीयते धर्मस्तं देवा वृषलं विदुः ॥ १२.९०.१५ ॥

法在其中光明者,称为国王;法在其中消逝者,诸神称之为贱民(vṛṣala)。

12.90.16

वृषो हि भगवान्धर्मो यस्तस्य कुरुते लयम् ।
वृषलं तं वीवदुर्देवास्तस्माद्धर्मं न लोपयेत् ॥ १२.९०.१६ ॥

法实为公牛,即世尊;使它消亡者,诸神称之为贱民。因此不可毁坏法。

12.90.17

धर्मे वर्धति वर्धन्ति सर्वभूतानि सर्वदा ।
तस्मिन्ह्रसति हीयन्ते तस्माद्धर्मं विवर्धयेत् ॥ १२.९०.१७ ॥

法增长时,一切众生常得增长;法衰减时,众生也随之衰减。所以应当增长法。

12.90.18

धनानि स्पौति धर्मो हि धारणाद्वेति निश्चयः ।
मानवान मनुष्येन्द्र स सीमान्तकरः स्मृतः ॥ १२.९०.१८ ॥

法滋养财富,因其所持而得之,此乃确定之理。人主啊,他被称为划定人界之界限者。

12.90.19

प्रभवार्थंमहि भूतानां धर्मः सृष्टः स्वयंभुवा ।
तस्मात्प्रवर्धयेद्धर्मं प्रजानुग्रहकारणात् ॥ १२.९०.१९ ॥

为了众生的兴盛,自生者创造了法;因此应当出于对臣民的恩惠而增进法。

12.90.20

तस्माद्धि राजशार्दूल धर्मः श्रेष्ठतरः स्मृतः ।
स राजायः प्रजाः शास्ति साधुकृत्पुरुषर्षभ ॥ १२.९०.२० ॥

因此,王中之虎,法被认为最为殊胜;统治臣民的国王应当是行善之人,人中之牛。

12.90.21

कामक्रोधावनादृत्य धर्ममेवानुपालयेत् ।
धर्मः श्रेयस्करतमो राज्ञां भरतसत्तम ॥ १२.९०.२१ ॥

摒弃欲望与愤怒,唯应遵守法;法对诸王最为有益,婆罗多中最优秀者。

12.90.22

धर्मस्य ब्राह्मणे योनिस्तस्मात्तान्पूजयेत्सदा ।
ब्राह्मणानां च मान्धातः कुर्यात्कामानमत्सरी ॥ १२.९०.२२ ॥

法的根源在于婆罗门;因此应当常常尊敬他们。摩豆多,应当无嫉妒地满足婆罗门的愿望。

12.90.23

तेषां ह्यकामकरणाद्राज्ञः संजायते भयम् ।
मित्राणि न च वर्धन्ते तथाऽमित्रीभवन्त्यपि ॥ १२.९०.२३ ॥

若不满足他们的愿望,国王便会心生恐惧;朋友不增长,甚至朋友也会变成敌人。

12.90.24

ब्राह्मणानां सदासूयन्बाल्याद्वैरोचनिर्बलिः ।
अथास्माच्छ्रीरपाक्रामद्याऽस्मिन्नासीत्प्रतापिनी ॥ १२.९०.२४ ॥

毗卢遮那之子钵利,因少年无知,常嫉妒婆罗门;于是他身上那昌盛威严的吉祥便离他而去。

12.90.25

ततस्तस्मादपाक्रम्य साऽगच्छत्पाकशासनम् ।
अथ सोऽन्वतपत्पश्चाच्छ्रियं दृष्ट्वा पुरंदरे ॥ १२.९०.२५ ॥

于是她离开他,去了帕迦舍阇那(因陀罗)那里。之后他看到吉祥天在补兰达罗(因陀罗)身上,便懊悔起来。

12.90.26

एतत्फलमसूयाया अभिमानस्य चाभिभो ।
तस्माद्बुध्यस्व मान्धातर्मा त्वां जह्यात्प्रतापिनी ॥ १२.९०.२६ ॥

啊,征服者,这是嫉妒与傲慢的果实。因此,曼陀多,你要明白,免得光辉的她离弃你。

12.90.27

दर्पोनाम श्रियः पुत्रो जज्ञेऽधर्मादिति श्रुतिः ।
तेन देवासुरा राजन्नीताः सुबहवोऽव्ययम् ॥ १२.९०.२७ ॥

传说吉祥天之子名为傲慢(Darpa),生于非法。国王啊,由于他,许多天神与阿修罗被引入歧途。

12.90.28

राजर्षयश्च बहवस्तथा बुध्यस्व पार्थिव ।
राजा भवति तं जित्वा दासस्तेन पराजितः ॥ १२.९०.२८ ॥

许多王仙也同样堕落。国王啊,你要明白:能战胜他的人成为国王,被他战胜的人成为奴隶。

12.90.29

स यथा दर्पसहितमधर्मं नानुसेवते ।
तथा वर्तस्व मान्धातश्चिरं चेत्स्थातुमिच्छसि ॥ १२.९०.२९ ॥

正如他不追随伴随傲慢的非法,曼陀多啊,如果你希望长久地留存,就应这样行事。

12.90.30

मत्तात्प्रमत्तात्पौगण्डादुन्मत्ताच्च विशेषतः ।
निन्दिताच्चासदाचाराद्दुर्हृदां चापि सेवनात् ॥ १२.९०.३० ॥

要远离醉酒者、放逸者、幼稚的少年,尤其是疯狂者、被鄙视者和行为邪恶者,也要远离与恶意之人交往。

12.90.31

निगृहीतादमात्याच्च स्त्रीभ्यश्चैव विशेषतः ।
पर्वताद्विषमाद्दुर्गाद्धस्तिनोऽश्वात्सरीसृपात् ॥ १२.९०.३१ ॥

应当提防被囚禁的大臣,尤其要提防女人、山岳、险峻之地与堡垒、象、马以及爬行之物。

12.90.32

एतेभ्योऽनित्ययुक्तः स्यान्नक्तं चर्यां च वर्जयेत् ।
अत्याशां चाभिमानं च दम्भं क्रोधं च वर्जयेत् ॥ १२.९०.३२ ॥

应常加提防,不在夜间游荡,舍弃过度的希望、傲慢、虚伪与愤怒。

12.90.33

अविज्ञातासु च स्त्रीषु क्लीबासु स्वैरिणीषु च ।
परभार्यासु कन्यासु नाचरेन्मैथुनं नृप ॥ १२.९०.३३ ॥

君王啊,不可与不相识的女子、阉人、行为放荡的女子、他人之妻或少女行房。

12.90.34

कुलेषु पापरक्षांसि जायन्ते वर्णसंकरात् ।
अपुमांसोऽङ्गहीनाश्च स्थूलजिह्वा विचेतसः ॥ १२.९०.३४ ॥

因种姓混杂,家族中生出有罪的罗刹:不男不女者、肢体残缺者、舌头粗者、心智昏乱者。

12.90.35

एते चान्ये च जायन्ते यदा राजा प्रमाद्यति ।
तस्माद्राज्ञा विशेषेणं वर्तितव्यं प्रजाहिते ॥ १२.९०.३५ ॥

当君王疏忽懈怠时,这些人以及其他人便会生出;因此,君王尤应为百姓的利益而行事。

12.90.36

क्षत्रियस्य प्रमत्तस्य दोषः संजायते महान् ।
अधर्माः संप्रवर्धन्ते प्रजासंकरकारकाः ॥ १२.९०.३६ ॥

懈怠的刹帝利会生出大过;不法之事日益增长,造成臣民的混杂。

12.90.37

अशीते विद्यते शीतं शीते शीतं न विद्यते ।
अवृष्टिरतिवृष्टिश्च व्याधिश्चाप्याविशेत्प्रजाः ॥ १२.९०.३७ ॥

寒季无寒,非寒之时反而有寒;旱灾、暴雨与疾病将侵入百姓之中。

12.90.38

नक्षत्राण्युपतिष्ठन्ति ग्रहा घोरास्तथागते ।
उत्पाताश्चात्र दृश्यन्ते बहवो राजनाशनाः ॥ १२.९०.३८ ॥

星宿逼近,凶险的行星也同样逼近;此处可见许多灭王的凶兆。

12.90.39

अरक्षितात्मा यो राजा प्रजाश्चापि न रक्षति ।
प्रजाश्च तस्य क्षीयन्ते ततः सोऽनु विनश्यति ॥ १२.९०.३९ ॥

不能自我保护、也不保护臣民的君王,其百姓将日益衰落,而他自己也随之灭亡。

12.90.40

द्वावाददाते ह्येकस्य द्वयोः सुबहवोऽपरे ।
कुमार्यः संप्रलुप्यन्ते तदाहुर्नृपदूषणम् ॥ १२.९०.४० ॥

从一人取二人,从二人取许多人;少女被夺去——这被称为君王的过失。

12.90.41

ममैतदिति नैतच्च मनुष्येष्ववतिष्ठति ।
त्यक्त्वा धर्मं यदा राजा प्रमादमनुतिष्ठित ॥ १२.९०.४१ ॥

当君王舍弃法而行放逸时,"这是我的"这种念头便不会存在于人们之中。