摩诃婆罗多 · 章 12.92
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
12.92.1
कथं धर्मे स्थातुमिच्छन्राजा वर्तेत भारत ।
पृच्छामि त्वां कुरुश्रेष्ठ तन्मे ब्रूहि पितामह ॥ १२.९२.१ ॥
渴望安住于法的国王应当如何行事?婆罗多之子、俱卢之最,我请问您;祖父,请告诉我。
12.92.2
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
गीतं दृष्टार्थतत्त्वेन वामदेवेन धीमता ॥ १२.९२.२ ॥
关于此事,人们也讲述这古老的传说,它是由已洞见事物真义的智者婆摩提婆所唱的。
12.92.3
राजा वसुमना नाम कौसल्यो बलवाञ्शुचिः ।
महर्षि परिपप्रच्छ वामदेवं तपस्विनम् ॥ १२.९२.३ ॥
一位出身憍萨罗家族、名叫婆苏摩那的强健而纯洁的国王,向苦行者大仙婆摩提婆详细请教。
12.92.4
धर्मार्थसहितैर्वाक्यैर्भगवन्ननुशाधि माम् ।
येन वृत्तेन वै तिष्ठन्न च्यवेयं स्वधर्मतः ॥ १२.९२.४ ॥
尊者啊,请以法与利相结合的言辞教导我:以怎样的行为安住,我才不会偏离自己的本分。
12.92.5
तमब्रवीद्धामदेवस्तेजस्वी तपतां वरः ।
हेमवर्णं सुखासीनं ययातिमिव नाहुषम् ॥ १२.९२.५ ॥
光辉的婆摩提婆,苦行者中的最优者,对他说话——对那坐得安稳、肤色如金、仿佛那呼until之子耶耶提的国王。
12.92.6
धर्ममेवानुवर्तस्व न धर्माद्विद्यते परम् ।
धर्मे स्थिता हि राजानो जयन्ति पृथिवीमिनाम् ॥ १२.९२.६ ॥
只应遵循法,因为没有比法更高的。安住于法的国王,才能征服这大地。
12.92.7
अर्थसिद्धेः परं धर्मं मन्यते यो महीपतिः ।
वृद्ध्यां च कुरुते बृद्धिं स धर्मेण विराजते ॥ १२.९२.७ ॥
若君王以法为高于求得财利,并在兴盛之时仍保持明智,他便因法而光彩照人。
12.92.8
अधर्मदर्शी यो राजा बलादेव प्रवर्तते ।
क्षिप्रमेवापयातोऽस्मादुभौ प्रथममध्यमौ ॥ १२.९२.८ ॥
见不义而只以武力行事的君王,很快便会从此位跌落;第一与中间的两者亦然。
12.92.9
असत्पापिष्ठसचिवो वध्यो लोकस्य धर्महा ।
सहैव परिवारेण क्षिप्रमेवावसीदति ॥ १२.९२.९ ॥
若君王的谋臣极为邪恶罪恶,且他在世间毁灭法度,便当被诛杀;他连同其随从很快便会灭亡。
12.92.10
अर्थानामननुष्ठाता कामचारी विकत्थनः ।
अपि सर्वां महीं लब्ध्वा क्षिप्रमेव विनश्यति ॥ १२.९२.१० ॥
不履行职责与事务、随心所欲而又夸耀的人,即使得到整个大地,也很快就会灭亡。
12.92.11
अथाददानः कल्याणमनसूयुर्जितेन्द्रियः ।
वर्धते मतिमान्राजा स्रोतोभिरिव सागरः ॥ १२.९२.११ ॥
智慧的君王接受善行,不妒忌,且已制服诸根,便如大海因众流涌入而增长一般,日益兴盛。
12.92.12
न पूर्णोऽस्मीति मन्येत धर्मतः कामतोऽर्थतः ।
बुद्धितो मन्त्रतश्चापि सततं वसुधाधिप ॥ १२.९२.१२ ॥
不可自以为圆满——无论在法、欲、利之中,还是在智慧与谋略之中,都应时时如此,哦,大地之主。
12.92.13
एतेष्वेव हि सर्वेषु लोकयात्रा प्रतिष्ठिता ।
एतानि शृण्वँल्लभते यशः कीर्ति श्रियं प्रजाः ॥ १२.९२.१३ ॥
世间的运行正建立在这一切之上。聆听这些的人,将获得荣耀、名声、福祉与臣民。
12.92.14
एवं यो धर्मसंरम्भी धर्मार्थपरिचिन्तकः ।
अर्थान्परीक्ष्यारभते स ध्रुवं महदश्नुते ॥ १२.९२.१४ ॥
如此热衷于法、思虑法与利、在行事前先加以考察的人,必定获得大成就。
12.92.15
अदाता ह्यनभिस्नेहो दण्डेनावर्तयन्प्रजाः ।
साहसप्रकृती राजा क्षिप्रमेव विनश्यति ॥ १२.९२.१५ ॥
不施舍、无慈爱、以刑罚驱使百姓、性情鲁莽的君王,很快就会灭亡。
12.92.16
अथ पापं कृतं बुद्ध्या न च पश्यत्यबुद्धिमान् ।
अकीर्त्याऽभिसमायुक्तो भूयो नरकमश्नुते ॥ १२.९२.१६ ॥
无智之人看不见自己有意所作的罪;他蒙受恶名,又再次堕入地狱。
12.92.17
ततो न याचितुर्दातुः शुक्लस्य रसवेदिनः ।
व्यसनं स्वमिवोत्पन्नं विजिघांसन्ति मानवाः ॥ १२.९२.१७ ॥
因此,人们想要毁灭求者和那清净、懂得滋味的施者,仿佛他是自己所招来的灾祸。
12.92.18
यस्य नास्ति गुरुर्धर्मे न चान्यानपि पृच्छति ।
सुखतन्त्रोऽर्थलाभेषु न चिरं सुखमश्नुते ॥ १२.९२.१८ ॥
若在法上没有导师,也不向他人请教,在获利时受乐所支配,便不能长久享受快乐。
12.92.19
गुरुप्रधानो धर्मेषु स्वयमर्थानवेक्षिता ।
धर्मप्रधानो लाभेषु स चिरं सुखमश्नुते ॥ १२.९२.१९ ॥
在法中以师长为首,自己审视财利的目的,在得利时以法为首的人,将长久享受安乐。