Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 12.99

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

12.99.1

अत्राप्युदाहरन्तीम-तिहासं पुरातनम् ।
प्रतर्दनो मैथिलश्च संग्रामं यत्र चक्रतुः ॥ १२.९९.१ ॥

此处人们也讲述一个古老的传说:普罗塔丹那与弥提罗国王曾在那里交战。

12.99.2

यज्ञोपवीती संग्रामे जनको मिथिलाधिपः ।
योधानुद्धर्षयामास तन्निबोध युधिष्ठिर ॥ १२.९९.२ ॥

युधिष्ठिर啊,身披圣线的弥提罗之主阁那伽在战阵中激励战士;你要听着。

12.99.3

जनको मैथिलो राजा महात्मा सर्वतत्त्ववित् ।
योधानां दर्शयामास स्वर्गं नरकमेव च ॥ १२.९९.३ ॥

弥提罗的大德之王阁那伽,通晓一切真理,向战士们显示了天堂与地狱。

12.99.4

अभीरूणामिमे लोका भास्वन्तो हन्त पश्यत ।
पूर्णा गन्धर्वकन्याभिः सर्वकामदुहोऽक्षयाः ॥ १२.९९.४ ॥

这些无畏者的世界光辉闪耀;看哪!充满乾闼婆女,能满足一切愿望,永不消逝。

12.99.5

इमे पलायमानानां नरकाः प्रत्युपस्थिताः ।
अकीर्तिः शाश्वती चैव यतितव्यमनन्तरम् ॥ १२.९९.५ ॥

对于逃跑的人,这些地狱已准备就绪,还有永久的耻辱;因此应毫不迟延地努力。

12.99.6

तान्दृष्ट्वाऽरीन्विजयत भूत्वा संत्यागबुद्धयः ।
नरकस्याप्रतिष्ठस्य मा भूत वशवर्तिनः ॥ १२.९९.६ ॥

看见他们之后,以舍弃之心战胜敌人;不要受制于那无根基的地狱。

12.99.7

त्यागमूलं हि शूराणां स्वर्गद्वारमनुत्तमम् ।
इत्युक्तास्ते नृपतिना योधाः परपुरंजय ॥ १२.९९.७ ॥

舍弃是英雄通往天界至上之门的根本。国王如此吩咐之后,征服敌城的勇士们啊,

12.99.8

अजयन्त रणे शत्रून्हर्षयन्तो नरेश्वरम् ।
तस्मात्त्यक्तात्मना नित्यं स्थातव्यं रणमूर्धनि ॥ १२.९९.८ ॥

他们在战斗中战胜敌人,使人主欢喜。因此应舍弃自我,永远站立在战阵的前列。

12.99.9

गजानां रथिनो मध्ये रथानामनुसादिनः ।
सादिनामन्तरे स्थाप्यं पादातमपि दंशितम् ॥ १२.९९.९ ॥

战车武士应置于象群之中,骑兵置于战车之间,披甲步兵也应置于骑兵之间。

12.99.10

य एवं व्यूहते राजा स नित्यं जयते रिपून् ।
तस्मदितद्विधातव्यं नित्यमेव युधिष्ठिर ॥ १२.९९.१० ॥

国王如此布置军阵,便能常胜敌人。因此,俱卢子啊,应当常常如此行事。

12.99.11

स्वर्गे सुकृतमिच्छन्तः सुयुद्धेनातिमन्यवः ।
क्षोभयेयुरनीकानि सागरं मकरा यथा ॥ १२.९९.११ ॥

他们渴望天界的功德,因良战而怒气冲天,将会搅动军队,如同海中巨兽搅动大海。

12.99.12

हर्षयेयुर्विषण्णांश्च व्यवस्थाप्य परस्परम् ।
तेषां च भूमिं रक्षेयुर्भग्नान्नात्यनुसारयेत् ॥ १२.९९.१२ ॥

彼此整顿阵列后,应当鼓舞沮丧者,守护其土地;对于溃败的敌人,不应追击太远。

12.99.13

पुनरावर्तमानानां निराशानां च जीविते ।
वेगः सुदुःसहो राजंस्तस्मान्नात्यनुसारयेत् ॥ १२.९९.१३ ॥

君王啊,那些对生命绝望而回头反扑者,其冲势极难抵挡;因此不可过度追击他们。

12.99.14

न हि प्रहर्तुमिच्छन्ति शूराः प्रद्रवतो भयात् ।
तस्मात्पलायमानानां कुर्यान्नात्यनुसारणम् ॥ १२.९९.१४ ॥

英雄不愿攻击因恐惧而逃跑之人;因此不可追击逃跑者。

12.99.15

चराणामचरा ह्यन्नमदंष्ट्रा दंष्ट्रिणामपि ।
अपाणयः पाणिमतामन्नं शूरस्य कातराः ॥ १२.९९.१५ ॥

不动者是动者的食物,无齿者是有齿者的食物,无手者是有手者的食物;怯懦者则是英雄的食物。

12.99.16

समानपृष्ठोदरपाणिपादाः ।
पश्चाच्छरं भीरवोऽनुव्रजन्ति।
अतो भयार्ताः प्रणिपत्य भूयः ।
कृत्वाञ्जलीनुपतिष्ठन्ति शूरान् ॥ १२.९९.१६ ॥

尽管他们的背、腹、手、足与他人无异,怯懦者却从后方追随箭矢;因此,被恐惧所困,他们一再俯首,合掌站到英雄面前。

12.99.17

शूरबाहुषु लोकोऽयं लम्बते पुत्रवत्सद ।
तस्मात्सर्वेषु लोकेषु शूरः संमानमर्हति ॥ १२.९९.१७ ॥

善人啊,这个世界依赖英雄的臂膀,如同依赖儿子;因此英雄在所有世界中都应受到尊敬。

12.99.18

न हि शौर्यात्परं किंचिन्त्रिषु लोकेषु विद्यते ।
शूरः सर्वं पालयति सर्वं शूरे प्रतिष्ठितम् ॥ १२.९९.१८ ॥

在三界之中,没有比勇武更高的东西;英雄保护一切,一切都依托于英雄。