摩诃婆罗多 · 章 13.101
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.101.1
दह्यमानाय विप्राय यः प्रयच्छत्युपानहौ ।
यत्फलं तस्य भवति तन्मे ब्रूहि पितामह ॥ १३.१०१.१ ॥
坚战说:给予正在燃烧之婆罗门鞋履者,将得何果报?祖父,请告诉我。
13.101.2
उपानहौ प्रयच्छेद्यो ब्राह्मणेभ्यः समाहितः ।
मर्दते कण्टकान्सर्वान्विषमान्निस्तरत्यपि ॥ १३.१०१.२ ॥
毗湿摩说:凡以专一之心施予婆罗门鞋履者,能踏平一切荆棘,甚至越过崎岖不平之地。
13.101.3
स शत्रूणामुपरि च सन्तिष्ठति युधिष्ठिर ।
यानं चाश्वतरीयुक्तं तस्य शुभ्रं विशाम्पते ॥ १३.१०१.३ ॥
坚战啊,他屹立于敌人之上;人主啊,为他准备的是一辆套着骡子的光亮车驾。
13.101.4
उपतिष्ठति कौन्तेय रौप्यकाञ्चनभूषितम् ।
शकटं दम्यसंयुक्तं दत्तं भवति चैव हि ॥ १३.१०१.४ ॥
贡蒂之子啊,以银金装饰、套着驯服牲畜的车,会来到他面前,因为它已成为所施之物。
13.101.5
यत्फलं तिलदाने च भूमिदाने च कीर्तितम् ।
गोदाने चान्नदाने च भूयस्तद्ब्रूहि कौरव ॥ १३.१०१.५ ॥
俱卢之裔啊,请再告诉我:在施芝麻、施土地、施牛和施食之中,所宣说的果报是什么。
13.101.6
शृणुष्व मम कौन्तैय तिलदानस्य यत्फलम् ।
निशम्य च यथान्यायं प्रयच्छ कुरुसत्तम ॥ १३.१०१.६ ॥
贡蒂之子啊,请听我说施芝麻的果报。俱卢之最,听罢便依正法而施。
13.101.7
पितॄणां प्रथमं भोज्यं तिलाः सृष्टाः स्वयंभुवा ।
तिलदानेन वै तस्मात्पितृपक्षः प्रमोदते ॥ १३.१०१.७ ॥
芝麻由自生者所造,是祖先的第一食物;因此以芝麻布施,祖先之半月便欢喜。
13.101.8
माघमासे तिलान्यस्तु ब्राह्मणेभ्यः प्रयच्छति ।
सर्वसत्वसमाकीर्णं नरकं स न पश्यति ॥ १३.१०१.८ ॥
在摩伽月向婆罗门布施芝麻者,不会见到充满一切众生的地狱。
13.101.9
सर्वसत्रैश्च यजते यस्तिलैर्यजते पितॄन् ।
न चाकामेन दातव्यं तिलैः श्राद्धं कदाचन ॥ १३.१०१.९ ॥
以一切萨特拉祭祀供养者,以芝麻供养祖先者——然而,未离欲望者决不可以芝麻行施祭。
13.101.10
महर्षेः कश्यपस्यैते गात्रेभ्यः प्रसृतास्तिलाः ।
ततो दिव्यं गता भावं प्रदानेषु तिलाः प्रभो ॥ १३.१०१.१० ॥
这些芝麻从大仙迦叶波的肢体中生出;此后,啊主人,芝麻在布施中达到了神圣的境界。
13.101.11
पौष्टिका रूपदाश्चैव तथा पापविनाशनाः ।
तस्मात्सर्वप्रदानेभ्यस्तिलदानं विशिष्यते ॥ १३.१०१.११ ॥
芝麻能滋养、赐予美貌,并能消除罪过;因此芝麻布施在一切布施中最为殊胜。
13.101.12
आपस्तम्बश्च मेधावी शङ्खश्च लिखितस्तथा ।
महर्षिर्गौतमश्चापि तिलदानैर्दिवं गताः ॥ १३.१०१.१२ ॥
智者阿波斯坦巴、商迦、利希多,以及大仙瞿昙,也因芝麻布施而升天。
13.101.13
तिलहोमरता विप्राः सर्वे संयतमैथुनाः ।
समा गव्येन हविषा प्रवृत्तिषु च संस्थिताः ॥ १३.१०१.१३ ॥
所有专心于芝麻献祭、克制自持、戒绝房事的婆罗门,在酥油供物上一视同仁,并在其事业中坚定不移。
13.101.14
सर्वेषामिति दानानां तिलदानं विशिष्यते ।
अक्षयं सर्वदानानां तिलदानमिहोच्यते ॥ १३.१०१.१४ ॥
在一切布施中,芝麻布施被宣称最为殊胜;此处说,在一切布施中,芝麻布施是不朽的。
13.101.15
उच्छिन्ने तु पुरा हव्ये कुशिकर्षिः परन्तपः ।
तिलैरग्नित्रयं हुत्वा प्राप्तवान्गतिमुत्तमाम् ॥ १३.१०१.१५ ॥
往昔,祭祀中断之时,焚烧敌人的仙人俱舍迦以芝麻投入三火,获得了至高的归宿。
13.101.16
इति प्रोक्तं कुरुश्रेष्ठ तिलदानमनुत्तमम् ।
विधानं येन विधिना तिलानामिह शस्यते ॥ १३.१०१.१६ ॥
因此,俱卢之最,无上的芝麻布施已被宣说,以及此处所赞美的芝麻仪轨之规则。
13.101.17
अत ऊर्ध्वं निबोधेदं देवानां यष्टुमिच्छताम् ।
समागमे महाराज ब्रह्मणा वै स्वयंभुवा ॥ १३.१०१.१७ ॥
大王,请再听此事:诸神欲行祭祀时,在与自生梵天的集会中,发生了如下之事。
13.101.18
देवाः समेत्य ब्रह्माणं भूमिभागे यियश्रवः ।
शुभं देशमयाचन्त यजेम इति पार्थिव ॥ १३.१०१.१८ ॥
诸神齐聚梵天之前,欲行祭祀,请求大地某处一块吉祥之地,说道:“我们要行祭祀。”大王。
13.101.19
भगवंस्त्वं प्रभुर्भूमेः सर्वस्य त्रिदिवस्य च ।
यजेम हि महाभाग यज्ञं भवदनुज्ञया ॥ १३.१०१.१९ ॥
尊者啊,您是大地、三界及一切的主宰。大福者啊,蒙您允许,我们将举行祭祀。
13.101.20
नाननुज्ञातभूमिर्हि यज्ञस्य फलमश्नुते ।
त्वं हि सर्वस्य जगतः स्थावरस्य चरस्य च।
प्रभुर्भवसि तस्मात्त्वं समनुज्ञातुमर्हसि ॥ १३.१०१.२० ॥
未获许可之地,祭祀之果不可得。您确是整个世界、不动与动者的主宰,因此您应当允许。
13.101.21
ददानि मेदिनीभागं भवद्भ्योऽहं सुरर्षभाः ।
यस्मिन्देशे करिष्यध्वं यज्ञान्काश्यपनन्दनाः ॥ १३.१०१.२१ ॥
诸天之杰啊,我将给予你们一部分大地。迦叶波之子们啊,你们在哪个地方举行祭祀,那地方便属于你们。
13.101.22
भगवन्कृतकामाः स्म यक्ष्महे स्वाप्तदक्षिणैः ।
इमं तु देशं मुनयः पर्युपासन्ति नित्यदा ॥ १३.१०१.२२ ॥
尊者啊,我们的愿望已满足;我们将以适当的酬金举行祭祀。但这个地方总有贤哲们前来侍奉。
13.101.23
ततोऽगस्त्यश्च कण्वश्च भृगुरत्रिर्वृषाकपिः ।
असितो देवलश्चैव देवयज्ञमुपागमन् ॥ १३.१०१.२३ ॥
于是阿伽斯提亚、甘婆、跋古、阿底梨、跋沙迦毗、阿悉多与提婆罗也来到诸天的祭祀。
13.101.24
ततो देवा महात्मान ईजिरे यज्ञमच्युतम् ।
तथा समापयामासुर्यथाकालं सुरर्षभाः ॥ १३.१०१.२४ ॥
于是诸大神向不朽者(阿周那?)献祭,诸天之杰按时完成了祭祀。
13.101.25
त इष्टयज्ञास्त्रिदशा हिमवत्यचलोत्तमे ।
षष्ठमंशं क्रतोस्तस्य भूमिदानं प्रचक्रिरे। ॥ १३.१०१.२५ ॥
那些完成祭祀的天神在群山之首喜马拉雅上,以该祭祀的第六份作为土地布施。
13.101.26
प्रादेशमात्रं भूमेस्तु यो दद्यादनुपस्कृतम् ।
न सीदति स कृच्छ्रेषु न च दुर्गाण्यवाप्नुते ॥ १३.१०१.२६ ॥
施舍哪怕一拃宽未经整治之土地的人,不会陷于困苦,也不会遭遇危难。
13.101.27
शीतवातातपसहां यागभूमिं सुसंस्कृताम् ।
प्रदाय सुरलोकस्थः पुण्यान्तेऽपि न चाल्यते ॥ १३.१०१.२७ ॥
布施能耐寒风暑热、经过妥善整治的祭坛之地者,居于天界,即便福报耗尽也不会动摇。
13.101.28
मुदितो वसति प्राज्ञः शक्रेण सह पार्थिव ।
पतिश्रयप्रदानाच्च सोऽपि स्वर्गे महीयते ॥ १३.१०१.२८ ॥
君王啊,智者欢喜地与因陀罗同住;因布施居所,他亦在天界受到尊崇。
13.101.29
अध्यापककुले जातः श्रोत्रियो नियतेन्द्रियः ।
गृहे यस्य वसेत्तुष्टः प्रधानं लोकमश्नुते ॥ १३.१०१.२९ ॥
若有出身师门、通晓吠陀、克制诸根的婆罗门,满心欢喜地住在某人家中,此人便得到至上的世界。
13.101.30
तथा गवार्थे शरणं शीतवर्षसहं दृढम् ।
आसप्तमं तारयति कुलं भरतसत्तम ॥ १३.१०१.३० ॥
同样,为牛群建造能抵御寒冷与雨水的坚固庇护所者,可以拯救自己的家族直到第七代,婆罗多之最。
13.101.31
क्षेत्रभूमिं ददल्लोके शुभां श्रियमवाप्नुयात् ।
रत्नभूमिं प्रदद्यात्तु कुलवंशं प्रवर्धयेत् ॥ १३.१०१.३१ ॥
在世间施予可耕之田者,得吉祥的财富;施予珍宝之地者,则使家族血脉兴旺。
13.101.32
न चोषरां न निर्दग्धां महीं दद्यात्कथञ्चन ।
न श्मशानपरीतां च न च पापनिषेविताम् ॥ १३.१०१.३२ ॥
无论如何,不可施予贫瘠之地、焦土、被火葬场环绕之地,或为罪人所常至之地。
13.101.33
पारक्ये भूमिदेशे तु पितॄणां निर्वपेत्तु यः ।
तद्भूमिं वाऽपि पितृभिः श्राद्धकर्म विहन्यते ॥ १३.१०१.३३ ॥
若在他人之地为祖先献祭,因此地之故,祖先便使其祭祀之仪归于无效。
13.101.34
तस्मात्क्रीत्वा महीं दद्यात्स्वल्पामपि विचक्षणः ।
पिण्डः पितृभ्यो दत्तो वै तस्यां भवति शाश्वतः ॥ १३.१०१.३४ ॥
故智者即使购得少许土地,也应施予;因为在此地献给祖先的饭团将永恒不灭。
13.101.35
अटवी पर्वताश्चैव नद्यस्तीर्थानि यानि च ।
सर्वाण्यस्वामिकान्याद्दुर्न हि तत्र परिग्रहः ॥ १३.१०१.३५ ॥
森林、山岳、河流以及一切圣地渡口,都是无主之物;对它们不存在占有。
13.101.36
इत्येतद्भूमिदानस्य फलमुक्तं विशाम्पते ।
अतः परं तु गोदानं कीर्तयिष्यामि तेऽनघ ॥ १३.१०१.३६ ॥
人主啊,如此已说明了施地之果报。无罪者啊,现在我将为你宣说施牛之功德。
13.101.37
गावोऽधिकास्तपस्विभ्यो यस्मात्सर्वेभ्य एव च ।
तस्मान्महेश्वरो देवस्तपस्ताभिः सहास्थितः ॥ १३.१०१.३७ ॥
牛比苦行者更尊贵,也胜过一切;因此大自在天与它们同住,修行苦行。
13.101.38
ब्राह्मे लोके वसन्त्येताः सोमेन सह भारत ।
यां तां ब्रह्मर्षयः सिद्धाः प्रार्थयन्ति परां गतिम् ॥ १३.१०१.३८ ॥
婆罗多之子啊,这些牛与月神苏摩同住于梵界;那是梵仙与成就者所渴望的最高归宿。
13.101.39
पयसा हविषा दध्ना शकृता चाथ चर्मणा ।
अस्थिभिश्चोपकुर्वन्ति शृङ्गैर्वालैश्च भारत ॥ १३.१०१.३९ ॥
婆罗多啊,它们以乳、酥油、凝乳、粪便、皮、骨、角和毛惠及世人。
13.101.40
नासां शीतातपौ स्यातां सदैताः कर्म कुर्वते ।
न वर्षविषयं वाऽपि दुःखमासां भवत्युत ॥ १३.१०१.४० ॥
它们不常遭受寒暑之苦,始终履行其职分,也不因雨水而受苦。
13.101.41
ब्राह्मणैः सहिता यान्ति तस्मात्पारमकं पदम् ।
एकं गोब्राह्मणं तस्मात्प्रवदन्ति मनीषिणः ॥ १३.१०१.४१ ॥
与婆罗门同行而往;因此那是至高之处。所以智者说牛与婆罗门original为一体。
13.101.42
रन्तिदेवस्य यज्ञे ताः पशुत्वेनोपकल्पिताः ।
अतश्चर्मण्वती राजन्गोचर्मभ्यः प्रवर्तिता।
पशुत्वाच्च विनिर्मुक्ताः प्रदानायोपकल्पिताः ॥ १३.१०१.४२ ॥
在仙人兰提提婆的祭祀中,它们被指定为祭牲;因此,国王啊,恰尔曼瓦蒂河从牛皮中流出。脱离了祭牲之身后,它们被安置用于布施。
13.101.43
ता इमा विप्रमुख्येभ्यो यो ददाति महीपते ।
निस्तरेदापदं कृच्छ्रां विषमस्थोऽपि पार्थिव ॥ १३.१०१.४३ ॥
君王啊,凡将这些牛施与最尊贵的婆罗门者,即使处于危难之中,也能度过艰难的灾祸。
13.101.44
गवां सहस्रदः प्रेत्य नरकं न प्रपद्यते ।
सर्वत्र विजयं चापि लभते मनुजाधिप ॥ १३.१०१.४४ ॥
施与一千头牛的人,死后不会堕入地狱;人主啊,他还能在一切处获得胜利。
13.101.45
अमृतं वै गवां क्षीरमित्याह त्रिदशाधिपः ।
तस्माद्ददाति यो धेनुममृतं स प्रयच्छति ॥ १३.१०१.४५ ॥
三十三天之主曾说:牛奶即是甘露;因此,施与奶牛者便是施予甘露。
13.101.46
अग्नीनामव्ययं ह्येतद्धौम्यं वेदविदो विदुः ।
तस्माद्ददाति यो धेनुं स हौम्यं सम्प्रयच्छति ॥ १३.१०१.४६ ॥
通晓吠陀者知道,这是诸火不灭的祭品;因此施与牛者,便是完整地施予祭供。
13.101.47
स्वर्गो वै मूर्तिमानेष वृषभं यो गवां पतिम् ।
विप्रे गुणयुते दद्यात्स वै स्वर्गे महीयते ॥ १३.१०१.४७ ॥
这头公牛乃牛群之主,是化身的天界;施与有德婆罗门者,必在天界受尊崇。
13.101.48
प्राणा वै प्राणिनामेते प्रोच्यन्ते भरतर्षभ ।
तस्माद्ददाति यो धेनुं प्राणानेष प्रयच्छति ॥ १३.१०१.४८ ॥
婆罗多族中的雄牛啊,这些被称为众生的命气;因此施与牛者,便是施予命气。
13.101.49
गावः शरण्या भूतानामिति वेदविदो विदुः ।
तस्माद्ददाति यो धेनुं शरणं सम्प्रयच्छति ॥ १३.१०१.४९ ॥
牛是众生的庇护所,通晓吠陀者如是说。因此,布施奶牛者便赐予庇护。
13.101.50
न वधार्थं प्रदातव्या न कीनाशे न नास्तिके ।
गोजीविने न दातव्या तथा गौर्भरतर्षभ।
गोरसानां न विक्रेतू रसं च यजनस्य च ॥ १३.१०१.५० ॥
不应将牛给予屠宰之人、屠夫或无神论者。不应给予以牛为生者;同样,婆罗多之牛王啊,也不应给予出售牛乳制品者,或出售祭祀圣液者。
13.101.51
ददत्स तादृशानां वै नरो गां पापकर्मणाम् ।
अक्षयं नरकं यातीत्येवमाहुर्महर्षयः ॥ १३.१०१.५१ ॥
将牛布施给这些作恶之人的人,将堕入不灭的地狱,大仙人如是说。
13.101.52
न कृशां नापवत्सां वा वन्ध्यां रोगान्वितां तथा ।
न व्यङ्गां न परिश्रान्तां दद्याद्गां ब्राह्मणाय वै ॥ १३.१०१.५२ ॥
不应将瘦弱、失去牛犊、不育或患病的牛,以及残缺或疲惫的牛布施给婆罗门。
13.101.53
दशगोसहस्रदः सम्यक् शक्रेण सह मोदते ।
अक्षयाँल्लभते लोकान्नरः शतसहस्रशः ॥ १३.१०१.५३ ॥
若能如法布施一万头牛,此人便与因陀罗同乐,并获得数以十万计的不灭世界。
13.101.54
इत्येतद्गोप्रदानं च तिलदानं च कीर्तितम् ।
तथा भूमिप्रदानं च शृणुष्वान्ने च भारत ॥ १३.१०१.५४ ॥
如此已宣说了布施牛与布施芝麻。婆罗多啊,也请听布施土地与布施食物的道理。
13.101.55
अन्नदानं प्रधानं हि कौन्तेय परिचक्षते ।
अन्नस्य हि प्रदानेन रन्तिदेवो दिवं गतः ॥ १३.१०१.५५ ॥
孔提之子啊,施食被称为最殊胜;因布施食物,蓝提提婆升入了天界。
13.101.56
श्रान्ताय क्षुधितायान्नं यः प्रयच्छति भूमिप ।
स्वायंभुवं महात्स्थानं स गच्छति नराधिप ॥ १३.१०१.५६ ॥
君王啊,凡以食物施予疲乏与饥饿者,人主啊,他便往生于自生主的伟大居所。
13.101.57
न हिरण्यैर्न वासोभिर्नान्यदानेन भारत ।
प्राप्नुवन्ति नराः श्रेयो यथा ह्यन्नप्रदाः प्रभो ॥ १३.१०१.५७ ॥
婆罗多啊,主上啊,人们不能以黄金、衣服或其他布施获得那样的福祉,而施食者却能获得。
13.101.58
अन्नं वै प्रथमं द्रव्यमन्नं श्रीश्च परा मता ।
अन्नात्प्राणः प्रभवति तेजो वीर्यं बलं तथा ॥ १३.१०१.५८ ॥
食物是第一要物,食物即是吉祥,被视为至上。生命之气由食物而生,光明、勇力与力量也是如此。
13.101.59
सद्यो ददाति यश्चान्नं सदैकाग्रमना नरः ।
न स दुर्गाण्यवाप्नोतीत्येवमाह पराशरः ॥ १३.१०१.५९ ॥
若人常以专一之心立即施食,便不会遭遇困厄——波罗奢罗如是说。
13.101.60
अर्चयित्वा यथान्यायं देवेभ्योऽन्नं निवेदयेत् ।
यदन्ना हि नरा राजंस्तदन्नास्तस्य देवतः ॥ १३.१०१.६० ॥
依法敬礼之后,应向诸神供奉食物。君王啊,人所食之物,也正是他们所奉之神的食物。
13.101.61
कौमुद्यां शुक्लपक्षे तु योऽन्नदानं करोत्युत ।
स सन्तरति दुर्गाणि प्रेत्य चानन्त्यमश्नुते ॥ १३.१०१.६१ ॥
凡于明半月、迦摩陀节的月圆之夜布施食物者,能度过困厄,死后得至无尽。
13.101.62
अभुक्त्वाऽतिथेये चान्नं प्रयच्छेद्यः समाहितः ।
स वै ब्रह्मविदां लोकान्प्राप्नुयाद्भरतर्षभ ॥ १३.१०१.६२ ॥
婆罗多族中的雄牛啊,凡自己未食而专心将食物施予客人者,将得到梵智者的世界。
13.101.63
सुकृच्छ्रामापदं प्राप्तश्चान्नदः पुरुषस्तरेत् ।
पापं तरति चैवेह दुष्कृतं चापकर्षति ॥ १३.१०१.६३ ॥
即使陷入极大困境之人,若为施食之人,亦能度过。他在此处即度过罪业,并使恶行远离。
13.101.64
इत्येतदन्नदानस्य तिलदानस्य चैव ह ।
भूमिदानस्य च फलं गोदानस्य च कीर्तितम् ॥ १३.१०१.६४ ॥
如是宣说了施食、施芝麻、施土地与施牛之果报。