摩诃婆罗多 · 章 13.103
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.103.1
तिलानां कीदृशं दानमथ दीपस्य चैव हि ।
अन्नानां वाससा चैव भूय एव ब्रवीहि मे ॥ १३.१०३.१ ॥
芝麻之施如何?灯之施、食物与衣物之施又如何?请再为我说明。
13.103.2
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
ब्राह्मणस्य च संवादं यमस्य च युधिष्ठिर ॥ १३.१०३.२ ॥
此处人们也讲述这个古老的故事——一位婆罗门与阎摩的对话。般遮罗之主啊,俱卢之子。
13.103.3
मध्यदेशे महान्ग्रामो ब्राह्मणानां बभूव ह ।
गङ्गायमुनयोर्मध्ये यामुनस्य गिरेरधः ॥ १३.१०३.३ ॥
中原之地有一座大的婆罗门村落,位于恒河与阎牟那河之间,阎牟那山之下。
13.103.4
पर्णशालेति विख्यातो रमणीयो नराधिप ।
विद्वांशस्तत्र भूयिष्ठा ब्राह्मणाश्चावसंस्तथा ॥ १३.१०३.४ ॥
人主啊,那座可爱的村落名为“叶舍”,那里多住着博学的婆罗门。
13.103.5
अथ प्राह यमः कञ्चित्पुरुषं कृष्णवाससम् ।
रक्ताक्षमूर्ध्वरोमाणं काकजङ्घाक्षिनासिकम् ॥ १३.१०३.५ ॥
于是阎摩对一人说道:此人身穿黑衣,眼睛赤红,毛发直竖,双腿、双眼与鼻子都像乌鸦。
13.103.6
गच्छ त्वं ब्राह्मणग्रामं ततो गत्वा तमानय ।
अगस्त्यं गोत्रतश्चापि नामतश्चापि शर्मिणम् ॥ १३.१०३.६ ॥
你去婆罗门村,到那里把他带来——阿伽斯蒂耶,依族姓和名字,也被称为舍尔明。
13.103.7
शमे निविष्टं विद्वांसमध्यापकमनावृतम् ।
मा चान्यमानयेथास्त्वं सगोत्रं तस्य पार्श्वतः ॥ १३.१०३.७ ॥
不要带来别人,只带他身旁的同族之人:那位在寂静中安住、博学的导师,无所阻碍。
13.103.8
स हि तादृग्गुणस्तेन तुल्योऽध्ययनजन्मना ।
अपत्येषु तथा वृत्ते समस्तेनैव धीमता।
तमानय यथोद्दिष्टं पूजा कार्या हि तस्य मे ॥ १३.१०३.८ ॥
他具有这样的品德;凭借学习所生的学问,他与他相等,在子嗣和行为上也与那位智者相同。请按所指示的把他带来,我应当敬重他。
13.103.9
स गत्वा प्रतिकूलं तच्चकार यमशासनम् ।
तमाक्रम्यानयामास प्रतिषिद्धो यमेन यः ॥ १३.१०३.९ ॥
他前去违背了阎摩的命令;尽管被阎摩禁止,他仍然擒住了他并带来。
13.103.10
तस्मै यमः समुत्थाय पूजा कृत्वा च वीर्यवान् ।
प्रोवाच नीयतामेष सोऽन्य आनीयतामिति ॥ १३.१०३.१० ॥
阎摩为他起身,致以敬意,有力的阎摩说道:“把这位带走;把另一位带来。”
13.103.11
एवमुक्ते तु वचने धर्मराजेन स द्विजः ।
उवाच धर्मराजानं निर्विण्णोऽध्ययनेन वै।
यो मे कालो भवेच्छेषस्तं वसेयमिहाच्युत ॥ १३.१०३.११ ॥
法王如此说后,那位再生者厌倦了学习,对他说:“不退者啊,我余下的时间,我愿在此度过。”
13.103.12
नाहं कालस्य विहितं प्राप्नोमीह कथञ्चन ।
यो हि धर्मं चरति वै तं तु जानामि केवलम् ॥ १३.१०३.१२ ॥
我在此无论如何也无法得到时间所定的期限;我只认得那奉行法的人。
13.103.13
गच्छ विप्र त्वमद्यैव आलयं स्वं महाद्युते ।
ब्रूहि सर्वं यथा स्वैरं करवाणि किमच्युत ॥ १३.१०३.१३ ॥
婆罗门啊,今日你便回到自己的居所去吧,大光明者啊。凭你的心意说出一切,无堕者啊,我该做什么?
13.103.14
शुद्धदानं च सुमहत्पुण्यं स्यात्तद्ब्रवीहि मे ।
सर्वस्य हि प्रमाणं त्वं त्रैलोक्यस्यापि सत्तम ॥ १३.१०३.१४ ॥
请告诉我什么是纯净的布施,什么是极大的功德。善中之最啊,你是所有人、乃至三界的准则。
13.103.15
शृणु तत्त्वेन विप्रर्पे प्रदानविधिमुत्तमम् ।
तिलाः परमकं दानं पुण्यं चैवेह शाश्वतम् ॥ १३.१०३.१५ ॥
婆罗门仙人啊,请如实听取布施的最高规则。芝麻是至高的布施,此处的功德也是永恒的。
13.103.16
तिलाश्च सम्प्रदातव्या यथाशक्ति द्विजर्षभ ।
नित्यदानात्सर्वकामांस्तिला निर्वर्तयन्त्युत ॥ १३.१०३.१६ ॥
二生族中的俊杰啊,应当依自己的能力布施芝麻。由于经常布施,芝麻能成就一切愿望。
13.103.17
तिलाञ्श्राद्धे प्रशंसन्ति दानमेतद्ध्यनुत्तमम् ।
तान्प्रयच्छस्व विप्रेभअयो विधिदृष्टेन कर्मणाः ॥ १३.१०३.१७ ॥
在祭祀(śrāddha)中,人们赞美芝麻为无上的布施。请依规定的仪轨把它们施予婆罗门。
13.103.18
वैशाख्यां पौर्णमास्यां तु तिलान्दद्याद्द्विजातिषु ।
तिला भक्षयितव्याश्च सदा त्वालम्भं च तैः ॥ १३.१०३.१८ ॥
在吠舍佉月的满月日,应当把芝麻布施给再生族;芝麻应当食用,并且应当时常接触它们。
13.103.19
कार्यं सततमिच्छद्भिः श्रेयः सर्वात्मना गृहे ।
तथाऽऽपः सर्वदा देयाः पेयाश्चैव न संशयः ॥ १३.१०३.१९ ॥
欲求福祉者,应在家中始终全心如此行事。同样,应常常施水,并供人饮用;此事毫无疑问。
13.103.20
पुष्करिण्यस्तटाकानि कूपांश्चैवात्र खानयेत् ।
एतत्सुदुर्लभतरमिह लोके द्विजोत्तम ॥ १३.१०३.२० ॥
此处还应开凿池塘、水池与水井。此事在世间极为罕见,二生者中的最上者啊。
13.103.21
आपो नित्यं प्रदेयास्ते पुण्यं ह्येतदनुत्तमम् ।
प्रपाश्च कार्या दानार्थं नित्यं ते द्विजसत्तम।
भुक्तेऽप्यथ प्रदेयं तु पानीयं वै विशेषतः ॥ १३.१०३.२१ ॥
应常常将水施予他们,这才是无上的功德。二生者中的最上者啊,为布施也应常设水亭。即便饭后,尤应施予饮水。
13.103.22
पानीयाभ्यर्थिनं दृष्ट्वा प्रीत्या दत्त्वा त्वरान्वितः ।
वस्त्रे तन्तुप्रमाणेन दीपे निमिषवत्सरम् ॥ १३.१०३.२२ ॥
见到求饮水者,怀着爱心并迅速地施予,其功德如布帛中的一缕丝线,灯中的一瞬,以及一年之久。
13.103.23
गवां रोमप्रमाणेन स्वर्गभोगमुपाश्नुते ।
जलबिन्दुप्रमाणेन तदेतान्युपवर्तय॥ ॥ १३.१०३.२३ ॥
以牛毛之量的功德,可得天上的享乐;以水滴之量的功德,便能获得这一切。
13.103.24
इत्युक्ते स तदा तेन यमदूतेन वै गृहान् ।
नीतश्च कारयामास सर्वं तद्यमशासनम् ॥ १३.१०३.२४ ॥
说完这些,那位阎摩使者便带他回家,并让他履行阎摩的一切教令。
13.103.25
नीत्वा तं यमदूतोऽपि गृहीत्वा शर्मिणं तदा ।
ययौ स धर्मराजाय न्यवेदयत चापि तम् ॥ १३.१०३.२५ ॥
阎摩的使者带走了他,抓住沙尔敏,随即前往法王处,将一切禀报。
13.103.26
तं धर्मराजो धर्मज्ञं पूजयित्वा प्रतापवान् ।
कृत्वा च संविदं तेन विससर्ज यथागतम् ॥ १३.१०३.२६ ॥
威武的法王尊敬这位通晓法的人,与他立下约定,并让他按来时的样子离去。
13.103.27
तस्यापि च यमः सर्वमुपदेशं चकार ह ।
प्रेत्यैत्य च ततः सर्वं चकारोक्तं यमेन तत् ॥ १३.१०३.२७ ॥
阎摩也向他作了全部教导;他死后返回,便做了阎摩所说的一切。
13.103.28
तथा प्रशंसने दीपान्यमः पितृहितेप्सया ।
तस्माद्दीपप्रदो नित्यं सन्तारति वै पितॄन् ॥ १३.१०३.२८ ॥
于是阎摩出于祝福祖先的心愿,赞美了灯火;因此布施灯火者常能超度祖先渡过彼岸。
13.103.29
दातव्याः सततं दीपास्तस्माद्भरतसत्तम ।
देवतानां पितॄणां च चक्षुष्यं चात्मनां विभो ॥ १३.१०३.२९ ॥
因此,婆罗多中最优秀的人啊,灯火应当时常布施;威严者啊,它们对诸神、祖先和灵魂的眼目有益。
13.103.30
रत्नदानं च सुमहत्पुण्यमुक्तं जनाधिप ।
यस्तान्विक्रीय यजते ब्राह्मणो ह्यभयंकरम् ॥ १३.१०३.३० ॥
人主啊,布施珠宝被宣称为极大的功德;婆罗门若卖掉它们而行祭祀,便真正成为施予无畏的人。
13.103.31
यद्वै ददाति विप्रेभ्यो ब्राह्मणः प्रतिगृह्य वै ।
उभयोः स्यात्तदक्षय्यं दातुरादातुरेव च ॥ १३.१०३.३१ ॥
婆罗门若将所受之物施与婆罗门,此施对施者与受者皆成不尽之功德。
13.103.32
यो ददाति स्थितः स्थित्यां तादृशाय प्रतिग्रहम् ।
उभयोरक्षयं धर्मं तं मनुः प्राह धर्मवित् ॥ १३.१०३.३२ ॥
若安住本分者,将布施之物施予如此合格之人,则对施者与受者皆为不尽之法,此乃知法者摩奴所说。
13.103.33
वाससां सम्प्रदानेनि स्वदारनिरतो नरः ।
सुवस्त्रश्च सुवेषश्च भवतीत्यनुशुश्रुम ॥ १३.१०३.३३ ॥
以施舍衣物,安于自己妻子的男子,便会衣着华美、仪容俊雅——此乃我们所闻。
13.103.34
गावः सुवर्णं च तथा तिलाश्चैवानुवर्णिताः ।
बहुशः पुरुषव्याघ्र वेदप्रामाण्यदर्शनात् ॥ १३.१०३.३४ ॥
牛、金、芝麻,亦屡次被述及,人中虎啊,因见吠陀之权威故。
13.103.35
विवाहांश्चैव कुर्वीत पुत्रानुत्पादयेत च ।
पुत्रलाभो हि कौरव्य सर्वलाभाद्विशिष्यते ॥ १३.१०३.३५ ॥
当结婚并生育子嗣;俄,居卢之裔,得子之利胜于一切之利。