摩诃婆罗多 · 章 13.104
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.104.1
भूय एव कुरुश्रेष्ठ दानानां विधिमुत्तमम् ।
कथयस्व महाप्राज्ञ भूमिदानं विशेषतः ॥ १३.१०४.१ ॥
库鲁之最,请再讲述最上等的布施之法,大智者啊,尤其是施地之法。
13.104.2
पृथिवीं क्षत्रियो दद्याद्ब्राह्मणायेष्टिकर्मिणे ।
विधिवत्प्रतिगृह्णीयान्न त्वन्यो दातुमर्हति ॥ १३.१०४.२ ॥
刹帝利应当将大地施予行祭的婆罗门,而他应依法接受;其他任何人都不适合施予。
13.104.3
सर्ववर्णैस्तु यच्छक्यं प्रदातुं फलकाङ्क्षिभिः ।
वेदे वा यत्समाख्यातं तन्मे व्याख्यातुमर्हसि ॥ १३.१०४.३ ॥
请为我解说,凡求果报的各种姓都可施予何物,以及吠陀中所宣说的内容。
13.104.4
तुल्यनामानि देयानि त्रीणि तुल्यफलानि च ।
सर्वकामफलानीह गावः पृथ्वी सरस्वती ॥ १३.१०४.४ ॥
三种同名之物应当施予,果报相等,于此皆能成就一切所愿:牛、大地与萨拉斯瓦蒂。
13.104.5
यो ब्रूयाच्चापि शिष्याय धर्म्यां ब्राह्मीं सरस्वतीम् ।
पृथिवीगोप्रदानाभ्यां तुल्यं स फलमश्नुते ॥ १३.१०४.५ ॥
若向弟子传授合乎法的婆罗门萨拉斯瓦蒂(吠陀之学),他便获得与施地、施牛相等的果报。
13.104.6
तथैव गाः प्रशंसन्ति न तु देयं ततः परम् ।
सन्निकृष्टफलास्ता हि लघ्वर्थाश्च युधिष्ठिर ॥ १३.१०४.६ ॥
同样,人们也赞美施牛,但在此之后不应再施予其他。युधिष्ठिर啊,它们只带来近果,且用途微小。
13.104.7
मातरः सर्वभूतानां गावः सर्वसुखप्रदाः ।
वृद्धिमाकाङ्क्षता नित्यं गावः कार्याः प्रदक्षिणाः ॥ १३.१०४.७ ॥
牛是一切众生之母,赐予一切幸福。常求兴盛者,应使牛位于自己右侧。
13.104.8
सन्ताड्या न तु पादेन गवां मध्ये न च व्रजेत् ।
मङ्गलायतनं देव्यस्तस्मात्पूज्याः सदैव गाः ॥ १३.१०४.८ ॥
不可用脚踢牛,也不可从牛群中间穿行。牛是吉祥之所、女神,因此应永远受到尊敬。
13.104.9
प्रचोदनं देवकृतं गवां कर्मसु वर्तताम् ।
पूर्वमेवाक्षरं चान्यदभिधेयं ततः परम् ॥ १३.१०४.९ ॥
驱使牛干活的呼声是诸神所创。应先发出那一个音节,之后再说其他的话。
13.104.10
प्रचारे वा निवाते वा बुधो नोद्वेजयेत गाः ।
तृषिता ह्यभिवीक्षन्त्यो नरं हन्युः सबान्धवम् ॥ १३.१०४.१० ॥
无论在放牧时还是在无风之处,智者都不应惊扰牛群;因为口渴的牛若凝视某人,可能会连同其亲属一起杀死他。
13.104.11
पितृसद्मानि सततं देवतायतनानि च ।
पूयन्ते शकृता यासां पूतं किमधिकं ततः ॥ १३.१०४.११ ॥
以其粪便持续净化祖先居所与神庙的,还有什么比这更纯净的呢?
13.104.12
घासमुष्टिं परगवे दद्यात्संवत्सरं तु यः ।
अकृत्वा स्वयमाहारं व्रतं तत्सार्वकामिकम् ॥ १३.१०४.१२ ॥
若有人一年之中把一把草料给别人的牛,并且自己不进食而持守此戒,那么此戒能满足一切愿望。
13.104.13
स हि पुत्रान्यशोऽर्थं च श्रियं चाप्यधिगच्छति ।
नाशयत्यशुभं चैव दुःस्वप्नं चाप्यपोहति ॥ १३.१०४.१३ ॥
他确实获得子嗣、名声、财富与兴旺;消除不祥,也驱散恶梦。
13.104.14
देयाः किंलक्षणा गावः काश्चापि परिवर्जयेत् ।
कीदृशाय प्रदातव्या न देयाः कीदृशाय च ॥ १३.१०४.१४ ॥
应当布施何种特征的母牛,哪些应当避开?应当布施给何种人,又不应布施给何种人?
13.104.15
असद्वृत्ताय पापाय लुब्धायानृतवादिने ।
हव्यकव्यव्यपेताय न देया गौः कथञ्चन ॥ १३.१०४.१५ ॥
绝不可将母牛布施给品行恶劣者、罪人、贪婪者、说谎者,或缺少对诸神与祖先供奉者。
13.104.16
भिक्षवे बहुपुत्राय श्रोत्रियायाहिताग्नये ।
दत्त्वा दशगवां दाता लोकानाप्नोत्यनुत्तमान् ॥ १३.१०४.१६ ॥
将十头母牛布施给乞士、多子者、吠陀学者或守持圣火者的施主,将获得至上的诸界。
13.104.17
जुहोति यद्भोजयति यद्ददाति गवां रसैः ।
सर्वस्यैवांशभाग्दाता तन्निमित्तं प्रवर्तितः ॥ १३.१०४.१७ ॥
凡以牛之乳液行祭、施食、布施者,施主皆分享其果;此法正是为他而设立。
13.104.18
यश्चैव धर्मं कुरुते तस्य धर्मफलं च यत् ।
सर्वस्यैवांशभाग्दाता तन्निमित्तं प्रवृत्तयः ॥ १३.१०४.१८ ॥
凡行法者,其法之果报——无论为何——施主皆分享;为他的缘故,这些行为得以展开。
13.104.19
यश्चैनमुत्पादयते यश्चैनं त्रायते भयात् ।
यश्चास्य कुरुते वृत्तिं सर्वे ते पितरस्त्रयः ॥ १३.१०४.१९ ॥
生育他的人、使他免于恐惧的人、供给他生计的人——这三者都是他的父亲。
13.104.20
कल्मषं गुरुशुश्रूषा हन्ति मानो महद्यशः ।
अपुत्रतां त्रयः पुत्रा अवृत्तिं दश धेनवः ॥ १३.१०४.२० ॥
侍奉师长消除罪过;尊重带来伟大的声誉;三个儿子消除无后之忧;十头牛消除生计匮乏。
13.104.21
वेदान्तनिष्ठस्य बहुश्रुतस्य ।
प्रज्ञानतृप्तस्य जितेन्द्रियस्य।
शिष्टस्य दान्तस्य यतस्य चैव ।
भूतेषु नित्यं प्रियवादिनश्च ॥ १३.१०४.२१ ॥
专心于吠檀多、博学、以智慧为满足、克制诸根、端正、自制、精进、并且对众生总是说好话的人(之德)。
13.104.22
यः क्षुद्भयाद्वै न विकर्म कुर्या-
न्मृदुश्च शान्तौ ह्यतिथिप्रियश्च।
शुभे पात्रे ये गुणा गोप्रदाने ।
तावान्दोषो ब्राह्मणस्वापहारे। ॥ १३.१०४.२२ ॥
即使因畏惧饥饿也不作恶、温和、平静并喜爱宾客之人——向有德之人布施牛的功德有多大,夺取婆罗门财物的过失就有多大。
13.104.23
सर्वावस्थं ब्राह्मणस्वापहारे ।
दाराश्चैषां दूरतो वर्जनीयाः ॥ १३.१०४.२३ ॥
无论何种情况,夺取婆罗门的财物都是罪过;对他们的妻子应远远避开。
13.104.24
विप्रदारे परिहृते तद्धनेऽपहृते च तु ।
परित्रायन्ति शक्तास्तु नमस्तेभ्यो मृताश्च ये ॥ १३.१०४.२४ ॥
当婆罗门的妻子被遗弃、财物被夺走时,有能力的人会保护他们。向他们致敬,也向已逝者致敬。
13.104.25
न पालयन्ति निहतान्ये तान्वैवस्वतो यमः ।
दण्डयन्भर्सयन्नित्यं निरयेभ्यो न मुञ्चति ॥ १३.१०४.२५ ॥
他们不保护被杀者;毗婆娑之子阎摩不断惩罚、斥责他们,也不将他们从地狱中释放。
13.104.26
तथा गवां परित्राणे पीडने च शुभाशुभम् ।
विप्रगोषु विशेषेण रक्षितेषु गृहेषु वा ॥ १३.१०४.२६ ॥
同样,保护牛、伤害牛,皆有吉有凶;尤其是关于婆罗门与牛,或家中受守护之物。