Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.110

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.110.1

विस्रम्भितोऽहं भवता धर्मान्प्रवदता विभो ।
प्रवक्ष्यामि तु संदेहं तन्मे ब्रूहि पितामह ॥ १३.११०.१ ॥

威严者啊,您讲说法义,使我生起信心。现在我要提出一个疑问,请您为我解说,祖父啊。

13.110.2

व्रतानां किं फलं प्रोक्तं कीदृशं वा महाद्युते ।
नियमानां फलं किं च स्वधीतस्य च किं फलम् ॥ १३.११०.२ ॥

大光明者啊,所说誓戒的果报是什么?它是何种性质?戒律的果报是什么?善学(经典)的果报又是什么?

13.110.3

दमस्येह फलं किं च वेदानां धारणे च किम् ।
अध्यापने फलं किं च सर्वमिच्छामि वेदितुम् ॥ १३.११०.३ ॥

此处自制(dama)的果报是什么?持诵吠陀的果报是什么?教授的果报是什么?我想要知道这一切。

13.110.4

अप्रतिग्राहके किं च फलं लोके पितामह ।
तस्य किञ्च फलं दृष्टं श्रुतं यस्तु प्रयच्छति ॥ १३.११०.४ ॥

祖父啊,世间不接受布施的果报是什么?布施者所得的果报,又是怎样被见闻的?

13.110.5

स्वकर्मनिरतानां च शूराणां चापि किं फलम् ।
सत्ये च किं फलं प्रोक्तं ब्रह्मचर्ये च किं फलम्। ॥ १३.११०.५ ॥

专心于本分之业者及勇士,其果报是什么?真实的果报被说为什么?梵行的果报是什么?

13.110.6

पितृशुश्रूषणे किञ्च मातृशुश्रूषणे तथा ।
आचार्यगुरुशुश्रूषा स्वनुक्रोशानुकम्पने ॥ १३.११०.६ ॥

侍奉父亲的果报是什么?侍奉母亲亦然。侍奉师长与上师,以及自己的悲悯与慈爱,其果报又是什么?

13.110.7

एतत्सर्वमशेषेण पितामह यथातथम् ।
वेतुमिच्छामि धर्मज्ञ परं कौतूहलं हि मे ॥ १३.११०.७ ॥

祖父啊,我想完整地、如实地知道这一切。精通法的人啊,我对此非常好奇。

13.110.8

यो व्रतं वै यथोद्दिष्टं तथा सम्प्रतिपद्यते ।
अखण्डं सम्यगारभ्य तस्य लोकाः सनातनाः ॥ १३.११०.८ ॥

凡按所规定的那样,正确开始并不间断地受持誓愿的人,将得到永恒的世界。

13.110.9

नियमानां फलं राजन्प्रत्यक्षमिह दृश्यते ।
नियमानां क्रतूनां च त्वयाऽवाप्तमिदं फलम् ॥ १३.११०.९ ॥

国王啊,戒律的果报在此清楚可见。你自己已经获得了戒律与祭祀的这一果报。

13.110.10

स्वधीतस्यापि च फलं दृश्यतेऽमुत्र चेह च ।
इह लोकेऽर्थवान्नित्यं ब्रह्मलोके च मोदते ॥ १३.११०.१० ॥

善学的果报在此世与彼世都可见。他在此世常得富足,在梵天世界中欢喜。

13.110.11

दमस्य तु फलं राजञ्शृणु त्वं विस्तरेण मे ।
दान्ताः सर्वत्र सुखिनो दान्ताः सर्वत्र निर्वृताः।
यत्रेच्छागामिनो दान्ताः सर्वशत्रुनिषूदनाः ॥ १३.११०.११ ॥

国王啊,现在请详细听我说自制的果报。自制之人处处快乐;自制之人处处安宁。自制之人随意所至,是摧毁一切敌人者。

13.110.12

प्रार्थयन्ति च यद्दान्ता लभन्ते तन्न संशयः ।
युज्यन्ते सर्वकामैर्हि दान्ताः सर्वत्र पाण्डव ॥ १३.११०.१२ ॥

自制之人所求之物,他们必定得到,这毫无疑问。般度之子啊,自制之人处处都能得到一切所愿。

13.110.13

स्वर्गे यथा प्रमोदन्ते तपसा विक्रमेण च ।
दानैर्यज्ञैश्च विविधैस्तथा दान्ताः क्षमान्विताः ॥ १३.११०.१३ ॥

如同在天界因苦行与勇力,以及种种布施与祭祀而欢喜,同样,具足忍辱的自制者也会欢喜。

13.110.14

दानाद्दमो विशिष्टो हि ददत्किञ्चिद्द्विजातये ।
दाता कुप्यति नो दान्तस्तस्माद्दानात्परंदमः ॥ १३.११०.१४ ॥

自制胜于布施:施主在给予婆罗门某物时会生气,而自制之人不会生气;因此,自制胜过布施。

13.110.15

यस्तु दद्यादकुप्यन्हि तस्य लोकाः सनातनाः ।
क्रोधो हन्ति हि यद्दानं तस्माद्दानाद्वरो दमः ॥ १३.११०.१५ ॥

然而,不怀怒意而施舍的人,得到永恒的世界,因为愤怒会毁灭布施;因此自制胜过布施。

13.110.16

अदृश्यानि महाराज स्थानान्ययुतशो दिवि ।
ऋषीणां सर्वलोकषु यानि ते यान्ति देवताः ॥ १३.११०.१६ ॥

大王啊,天界中有数以万计不可见的仙人住所,遍于一切世界,诸神所往之处即是。

13.110.17

दमेन यानि नृपते गच्छन्ति परमर्षयः ।
कामयाना महत्स्थानं तस्माद्दानात्परं दमः ॥ १३.११०.१७ ॥

大王啊,至上仙人凭自制而往生那些处所,渴望伟大处所者也往那里去;因此,自制胜过布施。

13.110.18

विद्यादानाद्वरं नास्ति वेदविद्या महाफलाः ।
अध्यापकः परिक्लेशादक्षयं फलमश्नुते ॥ १३.११०.१८ ॥

没有比传授知识更好的布施;吠陀之学结出大果。老师忍受辛劳,便得到不灭的果报。

13.110.19

विधिवत्पावकं हुत्वा ब्रह्मलोके नराधिप ।
अधीत्यापि हि यो वेदान्न्यायविद्भ्यः प्रयच्छति।
गुरुकर्मप्रशंसी तु सोपि स्वर्गे महीयते ॥ १३.११०.१९ ॥

人主啊,依法在圣火中献祭,在梵天界学习吠陀,把它们传授给懂得正道的人,并赞美师长之职的人,在天界也受到尊崇。

13.110.20

क्षत्रियोऽध्ययने युक्तो यजने दानकर्मणि ।
युद्धे यश्च परित्राता सोपि स्वर्गे महीयते ॥ १३.११०.२० ॥

专注于学习、祭祀与布施之事,并在战场上守护他人的刹帝利,也在天界受到尊崇。

13.110.21

वैश्यः स्वकर्मनिरतः प्रदानाल्लभते महत् ।
शूद्रः स्वकर्मनिरतः स्वर्गं शुश्रूषयाऽऽर्च्छति ॥ १३.११०.२१ ॥

专注于本职的吠舍,因布施而获得大福报;专注于本职的首陀罗,因侍奉而得生天界。

13.110.22

शूरा बहुविधाः प्रोक्तास्तेषामर्थास्तु मे शृणु ।
शूरान्वयानां निर्दिष्टं फलं शूरस्य चैव हि ॥ १३.११०.२२ ॥

英雄有多种类型,请听我说其义(特征)。也请听那为英雄之后裔与英雄本人所定的果报。

13.110.23

यज्ञशूरा दमे शूराः सत्यशूरास्तथा परे ।
युद्धशूरास्तथैवोक्ता दानशूराश्च मानवाः ॥ १३.११०.२३ ॥

有祭祀之英雄,有自制之英雄,有真实之英雄,还有其他;同样也说有战斗之英雄,以及布施之英雄的人。

13.110.24

बुद्धिशूरास्तथैवान्ये क्षमाशूरास्तथा परे ।
साङ्ख्यशूराश्च बहवो योगशूरास्तथा परे।
अरण्ये गृहवासे च त्यागे शूरास्तथा परे ॥ १३.११०.२४ ॥

智慧之英雄及其他亦然;忍耐之英雄及其他亦然;数论之英雄甚多,瑜伽之英雄及其他亦然;在森林中、在家居生活中、在舍离中的英雄及其他亦然。

13.110.25

आर्जवे च तथा शूराः शमे वर्तन्ति मानवाः ।
तैस्तैश्च नियमैः शूरा बहवः सन्ति चापरे।
वेदाध्ययनशूराश्च शूराश्चाध्यापने रताः ॥ १३.११०.२५ ॥

同样,人们在正直与平静中成为英雄。依据这些各种戒律,英雄众多,还有其他的。在诵读吠陀中有英雄,在教授中乐于此道的也有英雄。

13.110.26

गुरुशुश्रूषया शूराः पितृशुश्रूषया परे ।
मातृशुश्रूषया शूरा भैक्ष्यशूरास्तथा परे ॥ १३.११०.२६ ॥

有人因侍奉师长而成为英雄,另一些因侍奉父亲而成为英雄。有人因侍奉母亲而成为英雄,在乞食中成为英雄的,其他人亦然。

13.110.27

अरण्ये गृहवासे च शूराश्चातिथिपूजने ।
सर्वे यान्ति पराँल्लोकान्स्वकर्मफलनिर्जितान् ॥ १३.११०.२७ ॥

在森林中、在家庭生活中,以及在礼敬宾客中都有英雄。他们都前往由自己业报之果所赢得的殊胜世界。

13.110.28

धारणं सर्ववेदानां सर्वतीर्थावगाहनम् ।
सत्यं च ब्रुवतो नित्यं समं वा स्यान्नवा समम् ॥ १३.११०.२८ ॥

对于常说真话的人而言,持守一切吠陀与沐浴于一切圣渡口,两者或许相等,或许不等。

13.110.29

अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥ १३.११०.२९ ॥

一千次马祭与真实被放在天平上称量。的确,唯有真实胜过一千次马祭。

13.110.30

सत्येन सूर्यस्तपति सत्येनाग्निः प्रदीप्यते ।
सत्येन मरुतो वान्ति सर्वं सत्ये प्रतिष्ठितम् ॥ १३.११०.३० ॥

因真实,太阳照耀;因真实,火焰燃烧。因真实,风得以吹拂;一切都建立在真实之中。

13.110.31

सत्येन देवाः प्रीयन्ते पितरो ब्राह्मणास्तथा ।
सत्यमाहुः परो धर्मस्तस्मात्सत्यं न लोपयेत् ॥ १३.११०.३१ ॥

凭借真实,诸天、祖先与婆罗门皆感欣悦。真实被称为至上的法,因此不应违背真实。

13.110.32

मुनयः सत्यनिरता मुनयः सत्यविक्रमाः ।
मुनयः सत्यशपथास्तस्मात्सत्यं विशिष्यते ॥ १३.११०.३२ ॥

仙人专注于真实,仙人以真实而勇猛,仙人以真实立誓;因此真实最为殊胜。

13.110.33

सत्यवन्तः सत्यलोके मोदन्ते भरतर्षभ ।
दमः सत्यफलावाप्तिरुक्ता सर्वात्मना मया ॥ १३.११०.३३ ॥

诚实之人在真实界中欢喜,婆罗多之雄啊。通过自制(dama)获得真实之果,这是我全面所说的。

13.110.34

असंशयं विनीतात्मा स वै स्वर्गे महीयते ।
ब्रह्मचर्यस्य च गुणं शृणु त्वं वसुधाधिप ॥ १३.११०.३४ ॥

毫无疑问,心性谦逊者在天界受到尊崇。地上之主啊,现在请听梵行的功德。

13.110.35

आजन्ममरणाद्यस्तु ब्रह्मचारी भवेदिह ।
न तस्य किञ्चिदप्राप्यमिति विद्धि नराधिप ॥ १३.११०.३५ ॥

若有人自生至死在此保持梵行,则无一物不可得;人王啊,你当知之。

13.110.36

बह्व्यः कोट्यस्त्वषीणां तु ब्रह्मलोके वसन्त्युत ।
सत्ये रतानां सततं दान्तानामूर्ध्वरेतसाम् ॥ १३.११०.३६ ॥

梵界之中居住着数以千万计的仙人,他们恒常专注于真实、自制,且精液上升不泄。

13.110.37

ब्रह्मचर्यं दहेद्राजन्सर्वपापान्युपासितम् ।
ब्राह्मणेन विशेषेण ब्राह्ममो ह्यग्निरुच्यते ॥ १३.११०.३७ ॥

啊,国王,修持的梵行能焚烧一切罪恶;尤其对婆罗门而言,它被称为梵火。

13.110.38

प्रत्यक्षं हि तथा ह्येतद्ब्राह्मणेषु तपस्विषु ।
बिभेति हि यथा शक्रो ब्रह्मचारिप्रधर्षितः ॥ १३.११०.३८ ॥

这在婆罗门和苦行者中确实可见,正如因陀罗害怕被梵行者所攻击的人。

13.110.39

तद्ब्रह्मचर्यस्य फलमृषीणामिह दृश्यते ।
मातापित्रोः पूजने यो धर्मस्तमपि मे शृणु ॥ १३.११०.३९ ॥

梵行的果报在这里的仙人身上可以看到;现在也请听我讲敬奉父母的法。

13.110.40

शुश्रूषते यः पितरं न चासूयेत्कदाचन ।
मातरं भ्रातरं वाऽपि गुरुमाचार्यमेव च ॥ १३.११०.४० ॥

侍奉父亲、从不怨恨父亲,同样对待母亲、兄弟、师长和老师的人。

13.110.41

तस्य राजन्फलं विद्धि स्वर्लोके स्थानमर्चितम् ।
न च पश्येत नरकं गुरुशुश्रूषयाऽऽत्मवान् ॥ १३.११०.४१ ॥

啊,国王,要知道他的果报是天界中受尊敬的位置;而自制之人凭侍奉师长,不见地狱。