摩诃婆罗多 · 章 13.119
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.119.1
सुरभ्यास्तु तदा देव्याः कीर्तिर्लक्ष्मीः सरस्वती ।
मेधा च प्रवरा देवी याश्चतस्रोऽभिविश्रुताः ॥ १३.११९.१ ॥
彼时,苏罗毗女神所生的四位女神——吉祥天(Kīrti)、吉祥(Lakṣmī)、辩才天(Sarasvatī)与殊胜女神慧(Medhā)——名声远扬。
13.119.2
पृथग्गोभ्यः किमेताः स्युरुताहो गोषु संश्रिताः ।
देवाः के वाऽऽश्रिता गोषु तन्मे ब्रूहि पितामह ॥ १३.११९.२ ॥
这些女神是与牛分离,还是安住于牛中?哪些神灵安住于牛中?祖父,请告诉我。
13.119.3
यं देवं संश्रिता गावस्तं देवं देवसंज्ञितम् ।
यद्यद्देवाश्रितं दैवं तत्तद्दैवं द्विजा विदुः ॥ १३.११९.३ ॥
牛群所依赖之神,便被称为“神”。凡依托于诸神的神圣力量,婆罗门(再生族)都认为是神圣的。
13.119.4
सर्वेषामेव देवानां पूर्वं किल समुद्भवे ।
अमृतार्थे सुरपतिः सुरभिं समुपस्थितः ॥ १३.११९.४ ॥
往昔搅动大海之时,诸神之主为求甘露,前来拜见苏罗毗(Surabhi)。
13.119.5
इच्छेयममृतं दत्तं त्वया देवि रसाधिकम् ।
त्वत्प्रसादाच्छिवं मह्यममरत्वं भवेदिति ॥ १३.११९.५ ॥
女神啊,我愿得你所赐、味最醇厚的甘露;愿借你的恩惠,使我获得吉祥的不死。
13.119.6
वत्सो भूत्वा सुपरते पिबस्व प्रस्रवं मम ।
ततोऽमरत्वमपि तस्थानमैन्द्रमवाप्स्यसि ॥ १३.११९.६ ॥
苏帕勒啊,变作小牛,饮我乳房之乳;如此你将获得不死,也将得到因陀罗之位。
13.119.7
न च ते वृत्रहन्युद्धे व्यथाऽरिभ्यो भविष्यति ।
बलार्थमात्मनः शक्र प्रस्रवं पिब मे विभो ॥ १३.११९.७ ॥
在杀死弗栗多的战斗中,敌人不会伤害你。啊,帝释天,啊,大能者,为了你自己的力量,饮我的乳流吧。
13.119.8
ततोऽपिबत्स्नं तस्याः सुरभ्याः सुरसत्तमः ।
अमरत्वं सुरूपत्वं बलं चापदनुत्तमम् ॥ १३.११९.८ ॥
于是诸神中最优秀者饮下了苏罗毗的乳流。他获得了不死、美貌、力量和无上的恩赐。
13.119.9
पुरंदरोऽमृतं पीत्वा प्रहृष्टः समुपस्थितः ।
पुत्रोऽहं तव भद्रं ते ब्रूहि किं करवाणि ते ॥ १३.११९.९ ॥
饮下甘露而欢喜的富兰陀罗走近说道:“我是你的儿子,愿你吉祥。请告诉我,我该为你做什么?”
13.119.10
कृतं पुत्र त्वया सर्वमुपयाहि त्रिविष्टपम् ।
पालयस्व सुरान्सर्वाञ्जहि ये सुरशत्रवः ॥ १३.११९.१० ॥
孩子,你已完成一切。现在去天界吧;保护诸神,杀死所有诸神的敌人。
13.119.11
न च गोब्राह्मणेऽवज्ञा कार्या ते शान्तिमिच्छता ।
गोब्राह्मणस्य निश्वासः शोषयेदपि देवताः ॥ १३.११९.११ ॥
若你渴望安宁,切莫轻慢牛与婆罗门。牛或婆罗门的一声叹息,甚至能使诸神枯萎。
13.119.12
गोब्राह्मणप्रियो नित्यं स्वस्तिशब्दमुदाहरन् ।
पृथिव्यामन्तरिक्षे च नाकपृष्ठे च विक्रमेत् ॥ १३.११९.१२ ॥
要为牛与婆罗门所喜爱,常说“吉祥”之语;在大地、虚空与天界之巅,勇敢地行走。
13.119.13
यच्च तेऽन्यद्भवेत्कृत्यं तन्मे ब्रूयाः समासतः ।
तत्ते सर्वं करिष्यामि सत्येनैतद्ब्रवीमि ते ॥ १३.११९.१३ ॥
你若另有所求,简要告诉我。我必为你全部完成;我以真实对你说这话。
13.119.14
इच्छेयं गोषु नियतं वस्तुं देवि ब्रवीमि ते ।
एभिः सुरगणैः सार्धं ममानुग्रहमाचर ॥ १३.११९.१४ ॥
女神,我对你说:我愿常住在牛群之中。请与这些天神众一同,施恩于我。
13.119.15
गवां शरीरं प्रत्यक्षमेतत्कौशिक लक्ष्ये ।
यो यत्रोत्सहते वस्तुं स तत्र वसतां सुरः ॥ १३.११९.१५ ॥
憍尸迦,这牛的身体是可见的。哪位神愿意在何处居住,便让他在那里的居住者之中。
13.119.16
सर्वं पवित्रं परमं गवां गात्रं सुपूजितम् ।
तथा कुरुष्व भद्रं ते यथा त्वं शक्र मन्यसे ॥ १३.११९.१६ ॥
牛的全身至为清净,也极值得供奉。故你认为怎样合宜,便怎样去做吧;愿你吉祥,帝释天。
13.119.17
तस्यास्तद्वचनं श्रुत्वा सुरभ्याः सुरसत्तमः ।
सह सर्वैः सुरगणैरभजत्सौरभीं प्रजाम् ॥ १३.११९.१७ ॥
最优秀的天神听了苏罗跋的这番话,便与全部天神众一起,接纳了苏罗跋之后的众生。
13.119.18
शृङ्गे वक्त्रे च जिह्वायां देवराजः समाविशत् ।
सर्वच्छिद्रेषु पवनः पादेषु मरुतां गणाः ॥ १३.११९.१८ ॥
天王因陀罗进入牛角、面部与舌头之中;风神进入它们的一切孔窍,诸摩禄多众则进入它们的足中。
13.119.19
ककुदं सर्वगो रुद्रः कुक्षौ चैव हुताशनः ।
सरस्वती स्तनेष्वग्र्या श्रीः पुरीषे जगत्प्रिया ॥ १३.११९.१९ ॥
牛峰中有遍在的楼陀罗,腹中有火神(胡多沙那)。乳房中有至上的萨罗室伐底,粪便中有世人所爱的吉祥天女。
13.119.20
मूत्रे कीर्तिश्च गङ्गा च मेधा पयसि शाश्वती ।
वक्त्रे सोमश्च वै देवो हृदये भगवान्यमः ॥ १३.११९.२० ॥
尿中有名声与恒河,乳中有永恒的智慧。口中有神明苏摩,心中有世尊阎摩。
13.119.21
धर्मः पुच्छे क्रिया लोम्नि भास्करश्चक्षुषी श्रितः ।
सिद्धाः सन्धिषु सिद्धिश्च तपस्तेजश्च चेष्टने ॥ १३.११९.२१ ॥
尾中有法,毛中有祭事;眼中安住着太阳婆伽罗。关节中有成就者与成就,动作中有苦行与光明。
13.119.22
एवं सर्वे सुरगणा नियता गात्रवर्त्मसु ।
महती देवता गावो ब्राह्मणैः परिसंस्कृताः ॥ १३.११९.२२ ॥
如此,诸神众皆安住于牛身的脉络之中。牛是伟大的神明,经婆罗门们如法加持。
13.119.23
गामाश्रयन्ति सहिता देवा हि प्रभविष्णवः ।
किमासां सर्वभावेन विदध्याद्भगवान्प्रियम् ॥ १३.११९.२३ ॥
威力强大的诸神共同皈依于牛。世尊应当以全部心意为她们做什么可悦之事呢?
13.119.24
भवांश्च परया भक्त्या पूजयस्व नरेश्वर ।
गावस्तु परमं लोके पवित्रं पावनं हविः ॥ १३.११९.२४ ॥
人主啊,你也应以至上的虔诚敬拜她们。在世间,牛是至上、清净、能使人圣洁的供物。
13.119.25
निपात्य भक्षितः स्वर्गाद्भार्गवः फेनपः किल ।
स च प्राणान्पुनर्लब्ध्वा ततो गोलोकमाश्रितः ॥ १३.११९.२५ ॥
从天堂坠落的婆利古之后、饮泡沫者,据说曾被吞食。然而他重新获得了生命之气,随后投奔了牛界戈洛卡。