Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.12

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.12.1

यथैव ते नमस्कार्याः प्रोक्ताः शक्रेण मानद ।
एतन्मे सर्वमाचक्ष्व येभ्यः स्पृहयसे नृपः ॥ १३.१२.१ ॥

正如因陀罗告诉你应当致敬的那些人,赐予尊荣者啊,请把他们全部告诉我。国王啊,你渴慕的是哪些人?

13.12.2

उत्तमापद्गतस्यापि यत्र ते वर्तते मनः ।
मनुष्यलोके सर्वस्मिन्यदमुत्रेह चाप्युत ॥ १३.१२.२ ॥

即使陷入最大的困境,你的心所向往的,在人间世界和彼世中所有的一切,那也是。

13.12.3

स्पृहयामि द्विजातिभ्यो येषां ब्रह्म परं धनम् ।
येषां संप्रत्ययः स्वर्गस्तपःस्वाध्यायसाधनम् ॥ १३.१२.३ ॥

我羡慕那些二生者:他们最高的财富是梵,他们笃信天堂,他们的修行方法是苦行与诵习。

13.12.4

येषां बालाश्च वृद्धाश्च पितृपैतामहीं धुरम् ।
उद्वहन्ति न सीदन्ति तेभ्यो वै स्पृहयाम्यहम् ॥ १३.१२.४ ॥

那些孩子和老人承担着父祖传下的重担而不沉没的人家,我真心羡慕他们。

13.12.5

विद्यास्वभिविनीतानां दान्तानां मृदुभाषिणाम् ।
श्रुतवृत्तोपपन्नानां सदाऽक्षरविदां सताम् ॥ १३.१२.५ ॥

那些在学问上受过良好训练、克制自律、言语温和、具备学识与德行、始终通晓音节的善人。

13.12.6

संसत्सु वदतां तात हंसानामिव सङ्घशः ।
मङ्गल्यरूपा रुचिरा दिव्यजीमूतनिःस्वनाः ॥ १३.१२.६ ॥

我的孩子,那些在集会中发言的人,如同成群的天鹅,相貌吉祥、姿态优雅,声音如天上云层的雷鸣。

13.12.7

सम्यगुच्चरिता वाचः श्रूयन्ते हि युधिष्ठिर ।
शुश्रूषमाणे नृपतौ प्रेत्य चेह सुखावहाः ॥ १३.१२.७ ॥

युधिष्ठिर啊,当国王愿意倾听时,善言便被听到;它们在此世和身后都带来幸福。

13.12.8

ये चापि तेषां श्रोतारः सदा सदसि सम्मताः ।
विज्ञानगुणसम्पन्नास्तेभ्यश्च स्पृहयाम्यहम् ॥ १३.१२.८ ॥

还有那些在议会中始终受人敬重、具备智慧与德行的听众,我也羡慕他们。

13.12.9

सुसंस्कृतानि प्रयताः शुचीनि गुणवन्ति च ।
ददत्यन्नानि तृप्त्यर्थं ब्राह्मणेभ्यो युधिष्ठर।
ये चापि सततं राजंस्तेभ्यश्च स्पृहयाम्यहम् ॥ १३.१२.९ ॥

युधिष्ठिर啊,还有,大王,那些始终以克制之心,把烹调精良、洁净而上好的食物供给婆罗门以使其满足的人,我也羡慕他们。

13.12.10

शक्यं ह्येवाहवे योद्धुं न दातुमनसूयितुम् ॥ १३.१२.१० ॥

在战场上作战固然可能,但要布施且不生嫉妒却并不容易。

13.12.11

शूरा वीराश्च शतशः सन्ति लोके युधिष्ठिर ।
तेषां संख्यायमानानां दानशूरो विशिष्यते ॥ १३.१२.११ ॥

युधिष्ठिर啊,世间有成百的英雄与勇士;然而在数点他们时,以布施为勇的人才显得卓越。

13.12.12

भद्रं तु जन्म सम्प्राप्य भूयो ब्राह्मणको भवेत् ।
बन्धुमध्ये कुले जातः सुदुरापमवाप्नुयात् ॥ १३.१२.१२ ॥

获得吉祥的出生之后,人又可以再度成为婆罗门;生于亲族之中的某个家族,便能得到极难获得之物。

13.12.13

धन्यः स्यां यद्यहं भूयः सौम्यब्राह्मणकोपि वा ।
कुले जातो धर्मगतिस्तपोविद्यापरायणः ॥ १३.१२.१३ ॥

若我再次投生,即使成为温和的婆罗门,我也将是有福之人——生于以法为道、专心苦行与学问的家族。

13.12.14

न मे त्वत्तः प्रियतरो लोकेऽस्मिन्पाण्डुनन्दन ।
त्वत्तश्चापि प्रियतरा ब्राह्मणा एव भारत ॥ १३.१२.१४ ॥

般度之子啊,在这世上没有比你更让我珍爱的人;婆罗多啊,连你也比不上婆罗门那样让我珍爱。

13.12.15

यथा मम प्रियतमास्त्वत्तो विप्राः कुरूत्तम ।
तेन सत्येन गच्छेयं लोकान्यत्र स शन्तनुः ॥ १३.१२.१५ ॥

俱卢中最优秀的人啊,凭着这个真实——婆罗门比你更让我珍爱——愿我前往沙恭多所去的那些世界。

13.12.16

न मे पिता प्रियतरो ब्रह्मणेभ्यस्तथाऽभवत् ।
न मे पितुः पिता वाऽपि ये चान्येऽपि सुहृञ्जनाः ॥ १३.१२.१६ ॥

我的父亲也不曾比婆罗门更让我珍爱;我父亲的父亲也不曾,其他的亲友也不曾。

13.12.17

न हि मे वृजिनं किञ्चिद्विद्यते ब्राह्मणेष्विह ।
अणु वा यदि वा स्थूलं विद्यते साधुकर्मसु ॥ १३.१२.१७ ॥

此处我对婆罗门并无任何过失可寻;无论大小,在我的善行中都不存在。

13.12.18

कर्मणा मनसा वाऽपि वाचा वाऽपि परंतप ।
यन्मे कृतं ब्राह्मणेभ्यस्तेनाद्य न तपाम्यहम् ॥ १३.१२.१८ ॥

灭敌者啊,我为婆罗门所做的一切,无论以行为、心念,还是言语,因此今天我并不感到悔恨。

13.12.19

ब्रह्मण्य इति मामाहुस्तया वाचाऽस्मि तोषितः ।
एतदेव पवित्रेभ्यः सर्वेभ्यः परमं स्मृतम् ॥ १३.१२.१९ ॥

人们称我为敬重婆罗门者;我因这话而感到欣慰。对于所有清净之人,这被认为是最高的。

13.12.20

पश्यामि लोकानमलाञ्शुचीन्ब्राह्मणतोषणात् ।
तेषु मे तात गन्तव्यमह्नाय च चिराय च ॥ १३.१२.२० ॥

因取悦婆罗门,我看见那些无垢清净的世界。亲爱的孩子,我必须前往那里,暂时也好,长久也好。

13.12.21

यथा भर्त्राश्रयो धर्मः स्त्रीणां लोके युदिष्ठिर ।
स देवः सा गतिर्नान्या क्षत्रियस्य तथा द्विजाः ॥ १३.१२.२१ ॥

尤帝史提罗啊,正如世间女子的本分依赖于丈夫,他便是她的神明,也是她唯一的归宿,别无他途;二生者啊,刹帝利亦是如此。

13.12.22

क्षत्रियः शतवर्षी च दशवर्षी द्विजोत्तमः ।
पितापुत्रौ च विज्ञेयौ तयोर्हि ब्राह्मणो गुरुः ॥ १३.१२.२२ ॥

即便刹帝利已百岁,而最杰出的二生者才十岁,二人也应被视为父子;二者之中,婆罗门才是师长。

13.12.23

नारी तु पत्यभावे वै देवरं कुरुते पतिम् ।
पृथिवी ब्राह्मणालाभे क्षत्रियं कुरुते पतिम् ॥ १३.१२.२३ ॥

然而,若无丈夫,妇人便以夫之幼弟为夫;若无婆罗门,大地便以刹帝利为其主。

13.12.24

ब्राह्मणानुज्ञया ग्राह्यं राज्यं च सपुरोहितैः ।
तद्रक्षणेन स्वर्गोऽस्य तत्कोपान्नरकोऽक्षयः ॥ १३.१२.२४ ॥

应得婆罗门许可,并与祭司一同接受王国;保护它,他便获得天界,而若引起他们愤怒,则招致永恒的地狱。

13.12.25

पुत्रवच्चैव ते रक्ष्या उपास्या गुरुवच्च ते ।
अग्निवच्चोपचार्या वै ब्राह्मणाः कुरुसत्तम् ॥ १३.१२.२५ ॥

库鲁之最,你应当如保护儿子一样保护婆罗门,如尊敬老师一样侍奉他们,如对待火一样服侍他们。

13.12.26

ऋजुन्सतः सत्यशीलान्सर्वभूतहिते रतान् ।
आशीविषानिव क्रुद्धान्द्विजान्परिचरेत्सदा ॥ १३.१२.२६ ॥

应当始终侍奉正直、诚实、致力于众生利益的婆罗门,而对愤怒的再生者应视如毒蛇。

13.12.27

तेजसस्तपसश्चैव नित्यं बिभ्येद्युधिष्ठिर ।
उभे चैते परित्याज्ये तेजश्चैव तपस्तथा ॥ १३.१२.२७ ॥

坚战啊,应当始终畏惧(婆罗门的)威力与苦行;这两者都应当避开。

13.12.28

व्यवसायस्तयोः शीघ्रमुभयोरेव विद्यते ।
हन्युः क्रुद्धा महाराज ब्राह्मणा ये तपस्विनः ॥ १३.१२.२८ ॥

这两者的效果很快显现;大王,愤怒的苦行婆罗门甚至可能杀人。

13.12.29

दूरतो मातृवत्पूज्या विप्रदाराः सुरक्षया ।
अकोपनापराधेन भूयो नरकमश्नुते ॥ १३.१२.२९ ॥

婆罗门的妻子应当远远地如母亲一样尊敬并妥善保护;因过失而使她们愤怒的人,会再次堕入地狱。

13.12.30

भूयः स्यादुभयं दत्तं ब्राह्मणाद्यदकोपनात् ।
कुर्यादुभयतः शेषं दत्तशेषं न शेषयेत् ॥ १३.१२.३० ॥

不激怒婆罗门,所给予的两方面利益便会再次获得;剩余部分应从两方面完成,所给之物不应留下任何余数。

13.12.31

दण्डपाणिर्यथा गोष्ठं पालो नित्यं हि रक्षयेत् ।
ब्राह्मणेषु स्थितं ब्रह्म क्षत्रियः परिपालयेत् ॥ १३.१२.३१ ॥

如同手持棍杖的牧人始终守护牛栏,刹帝利也应妥善守护存在于婆罗门之中的梵(吠陀)。

13.12.32

पितेव पुत्रान्रक्षेथा ब्राह्मणान्ब्रह्मतेजसः ।
गृहे चैषामवेक्षेथाः किंस्विदस्तीति जीवनम् ॥ १३.१२.३२ ॥

如同父亲保护儿子,你应保护具有梵之光辉的婆罗门;并在他们家中留意是否有维持生计之物。