摩诃婆罗多 · 章 13.128
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.128.1
मया गवां पुरीषं वै श्रिया जुष्टमिति श्रुतम् ।
एतदिच्छाम्यहं श्रोतुं संशयोऽत्र हि मे महान् ॥ १३.१२८.१ ॥
我听说连牛粪也为吉祥天女(Śrī)所眷顾。我希望听闻此事,因为对此我有很大的疑惑。
13.128.2
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
गोभिर्नृपेहं संवादं श्रिया भारतसत्तम ॥ १३.१२८.२ ॥
关于此事,人们也讲述这段古老的传说——牛与吉祥天女之间的对话。啊,国王,婆罗多族中最优秀者,我将为你讲述。
13.128.3
श्रीः कृत्वेह वपुः कान्तं गोमध्येषु विवेश ह ।
गावोऽथ विस्मितास्तस्या दृष्ट्वा रूपस्य सम्पदम् ॥ १३.१२८.३ ॥
吉祥天女在此化作美好的身形,走入牛群之中。牛群见到她容貌的盛美,都感到惊异。
13.128.4
काऽसि देवि कुतो वा त्वं रूपेणाप्रतिमा भुवि ।
विस्मिताः स्म महाभागे तव रूपस्य सम्पदा ॥ १३.१२८.४ ॥
女神啊,你是谁?从何处而来?你的容貌在大地上无与伦比。啊,大福之人,我们为你容貌的盛美而惊异。
13.128.5
इच्छामस्त्वां वयं ज्ञातुं का त्वं क्व च गमिष्यसि ।
तत्त्वेन हि सुवर्णाभे सर्वमेतद्ब्रवीहि नः ॥ १३.१२८.५ ॥
我们想知道你:你是谁,将往何处去?啊,金色光芒的女子,请将这一切如实告诉我们。
13.128.6
लोकस्य कान्तिर्भद्रं वः श्रीर्नामाहं परिश्रुता ।
मया दैत्याः परित्यक्ता विनष्टाः शाश्वतीः समाः ॥ १३.१२८.६ ॥
我是世界的光辉,愿你们吉祥。我以“吉祥天女”之名广为人知。被我舍弃的达提亚们,在永恒的岁月中都毁灭了。
13.128.7
मयाऽभिपन्ना देवाश्च मोदन्ते शाश्वतीः समाः ।
इन्द्रो विवस्वान्सोमश्च विष्णुरापोऽग्निरेव च ॥ १३.१२८.७ ॥
受我庇护的诸神在永恒的岁月中欢喜:因陀罗、毗婆伽、月神、毗湿奴、水与火神亦然。
13.128.8
मयाऽभिपन्ना दीप्यन्ते ऋषयो देवतास्तथा ।
यान्नाविशाम्यहं गावस्ते विनश्यन्ति सर्वशः ॥ १३.१२८.८ ॥
受我庇护的仙人与神祇同样光辉;哦,牛群啊,我不进入的人全都会灭亡。
13.128.9
धर्मश्चार्थश्च कामश्च मया जुष्टाः सुखान्विताः ।
एवंप्रभावां मां गावो विजानीत सुखप्रदाम् ॥ १३.१२८.९ ॥
我所护持的法、利与欲皆富于安乐。哦,牛群啊,请知道我有如此威力,是赐予安乐者。
13.128.10
इच्छामि चापि युष्मासु वस्तुं सर्वासु नित्यदा ।
आगत्य प्रार्थये युष्माञ्श्रीजुष्टा भवताऽनघाः ॥ १३.१२८.१० ॥
我也愿常驻于你们之中;我来此恳求你们。哦,无罪者,愿你们为吉祥天女所眷顾。
13.128.11
अध्रुवा चपला च त्वं सामान्या बहुभिः सह ।
न त्वामिच्छाम भद्रं ते गम्यतां यत्र रोचते ॥ १३.१२८.११ ॥
你无常而善变,为众人所共有。我们不愿要你。愿你安好,去你喜欢的地方吧。
13.128.12
वपुष्मन्त्यो वयं सर्वाः किमस्माकं त्वयाऽद्य वै ।
यथेष्टं गम्यतां तत्र कृतकार्या वयं त्वया ॥ १३.१२८.१२ ॥
我们个个形体光彩,今日与你何干?你想去哪里便去哪里吧;因有你,我们的事情已经办成。
13.128.13
किमेतद्वः क्षमं गावो यन्मां नेहाभिनन्दथ ।
न मां सम्प्रतिगृह्णीध्वं कस्माद्वै दुर्लभां सतीम् ॥ १३.१२८.१३ ॥
众牛啊,你们在此不欢迎我,这对你们合适吗?我乃稀有而贞洁之身,你们为何不接纳我?
13.128.14
सत्यश्च लोकवादोऽयं लोके चरति सुव्रताः ।
स्वयं प्राप्ते परिभवो भवतीति विनिश्चयः ॥ १३.१२८.१४ ॥
持善誓的众牛啊,世间这句俗语是真的:自己前来的人必遭轻慢,这是确定的。
13.128.15
महदुग्रं तपः कृत्वा मां निषेवन्ति मानवाः ।
देवदानवगन्धर्वाः पिशाचोरगराक्षसाः ॥ १३.१२८.१५ ॥
人类修行了伟大而严酷的苦行后侍奉我;天神、阿修罗、乾闼婆、毕舍遮、蛇神与罗刹也都如此。
13.128.16
क्षममेतद्धि वो गावः प्रतिगृह्णीत मामिह ।
नावमन्या ह्यहं सौम्यास्त्रैलोक्ये सचराचरे ॥ १३.१२८.१६ ॥
众牛啊,你们在此接纳我才是合宜的。善良的众女啊,在动与不动的三界中,我不是可受轻慢的人。
13.128.17
नावमान्यामहे देवि न त्वां परिभवामहे ।
अध्रुवा चलचित्तासि ततस्त्वां वर्जयामहे ॥ १३.१२८.१७ ॥
女神啊,我们并不轻视你,也不鄙弃你。但你不稳定,心意善变,因此我们拒绝你。
13.128.18
बहुना च किमुक्तेन गम्यतां यत्र वाञ्छसि ।
वपुष्मन्त्यो वयं सर्वाः किमस्माकं त्वयाऽनघे ॥ १३.१२८.१८ ॥
何必多说?你想去哪里就去哪里吧。我们都是容颜光彩的人;无辜的女子啊,我们与你有何相干?
13.128.19
अवज्ञाता भविष्यामि सर्वलोकेषु मानवैः ।
प्रत्याख्यातेति युष्माभिः प्रसादः क्रियतां मम ॥ १३.१२८.१९ ॥
若你们拒绝我,我将在所有世界中被世人轻视。请赐我恩惠吧。
13.128.20
महाभागा भवत्यो वै शरण्याः शरणागताम् ।
परित्रायन्तु मां नित्यं भजमानामनिन्दिताम् ॥ १३.१२८.२० ॥
你们大福大德,值得庇护众生。请常常护佑我这来求庇护、无可指摘的人。
13.128.21
माननामहमिच्छामि भवत्यः सततं शिवाः ।
अप्येकाङ्गेष्वधो वस्तुमिच्छामि च सुकुत्सिते ॥ १३.१२८.२१ ॥
吉祥的你们啊,我总希望得到你们的尊敬。即使在你们身上最受鄙视的部位,我也愿意居住。
13.128.22
न वोऽस्ति कुत्सितं किञ्चिदङ्गेष्वालक्ष्यतेऽनघाः ।
पुण्याः पवित्राः सुभगा अवाग्देशं प्रयच्छथ।
वसेयं यत्र वो देहे तन्मे व्याख्यातुमर्हथ ॥ १३.१२८.२२ ॥
你们无罪、纯净、神圣、有福,你们的肢体上看不出任何可以指责之处。请赐我一个较低的位置,告诉我在你们身体的哪个部位我可以居住。
13.128.23
एवमुक्तास्तु ता गावः शुभाः करुणवत्सलाः ।
सम्मान्य सहिताः सर्वाः श्रियमुचुर्नराधिप ॥ १३.१२८.२३ ॥
人主啊,被如此相告之后,那些慈悲而柔和的吉祥牝牛全体一起尊敬吉祥天女,并向她说道。
13.128.24
अवश्यं मानना कार्या तवास्माभिर्यशस्विनि ।
शकृन्मूत्रे निवसतां पुण्यमेतद्धि नः शुभे ॥ १३.१२८.२४ ॥
光荣的你啊,我们必定尊敬你。吉祥的你啊,对于住在粪便与尿液之中的我们来说,这正是我们的功德。
13.128.25
दिष्ट्या प्रसादो युष्माभिः कृतो मेऽनुग्रहात्मकः ।
एवं भवतु भद्रं वः पूजिताऽस्मि सुखप्रदाः ॥ १३.१२८.२५ ॥
幸运的是,你们向我施以恩惠。愿如此,愿你们吉祥;赐予幸福的诸位,你们尊重了我。
13.128.26
एवं कृत्वा तु समयं श्रीर्गोभिः सह भारत ।
पश्यन्तीनां ततस्तासां तत्रैवान्तरधीयत ॥ १३.१२८.२६ ॥
婆罗多啊,如此立约之后,吉祥天女与牛群一起,在它们注视之下,就在那里隐没了。
13.128.27
एवं गोशकृतः पुत्र माहात्म्यं तेऽनुवर्णितम् ।
माहात्म्यं च गवां भूयः श्रूयतां गदतो मम ॥ १३.१२८.२७ ॥
孩子啊,你这生于牛粪之子,她的威德已为你述说。现在请再听我所说的牛的威德。