Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.137

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.137.1

कीदृशेभ्यः प्रदातव्यं भवेच्छ्राद्धं पितामह ।
द्विजेभ्यः कुरुशार्दूल तन्मे व्याख्यातुमर्हसि ॥ १३.१३७.१ ॥

祖父啊,祭祀亡者的施食应当供给哪一类再生族?库鲁中的猛虎啊,请为我解说。

13.137.2

ब्राह्मणान्न परीक्षेत क्षत्रियो दानधर्मवित् ।
दैवे कर्मणि पित्र्ये तु न्यायमाहुः परीक्षणम् ॥ १३.१३७.२ ॥

通晓布施之法的刹帝利不应考验婆罗门;但在祭神与祭祖之事中,人们说考察才是正当的准则。

13.137.3

देवताः पावयन्तीह दैवेनैवेह तेजसा ।
उपेत्य तस्माद्देवेभ्यः सर्वेभ्यो दापयेन्नरः ॥ १३.१३७.३ ॥

此处诸神仅凭神圣的光明而使人清净;因此人应当走近一切诸神,使之施予供奉。

13.137.4

श्राद्धे त्वथ महाराज परीक्षेद्ब्राह्मणान्बुधः ।
कुलशीलवयोरूपैर्विद्ययाऽभिजनेन च ॥ १३.१३७.४ ॥

然而,大王,在施祭时智者应当依其族系、德行、年龄、容貌、学问与出身来考察婆罗门。

13.137.5

तेषामन्ये पङ्क्तिदूष्यास्तथाऽन्ये पङ्क्तिपावनाः ।
अपाङ्क्तेयास्तु ये राजन्कीर्तयिष्यामि ताञ्शृणु ॥ १३.१३७.५ ॥

其中有人玷污席次,有人净化席次。大王啊,我将说出那些不配入席的人,请听。

13.137.6

कितवो भ्रूणहा यक्ष्मीं पशुपालो निराकृतिः ।
ग्रामप्रेष्यो वार्धुषिको गायनः सर्वविक्रयी ॥ १३.१३७.६ ॥

赌徒、杀胎者、患痨病者、牧人、弃绝祭仪者、乡村仆役、放债者、歌者,以及一切皆卖之人。

13.137.7

अगारदाही गरदः कुण्डाशी सोमविक्रयी ।
सामुद्रिको राजभृत्यस्तैलिकः कूटकारकः ॥ १३.१३७.७ ॥

放火烧屋者、投毒者、kuṇḍāśī、售卖苏摩者、相术师、王之仆役、榨油者及行欺诈者。

13.137.8

पित्रा विभजमानश्च यस्य चोपपतिर्गृहे ।
अभिशस्तस्तथा स्तेनः शिल्पं यश्चोपजीवती ॥ १३.१३७.८ ॥

与父亲分家者、家中有奸夫者、被控告者、盗贼,以及以手艺为生者。

13.137.9

पर्वकारश्च सूची च मित्रध्रुक् पारदारिकः ।
अव्रतानामुपाध्यायः काण्डपृष्ठस्तथैव च ॥ १३.१३७.९ ॥

节庆祭司、缝衣者、背叛朋友者、奸淫者、无戒者之师,以及箭背者,亦如是。

13.137.10

श्वभिश्च यः परिक्रामेद्यः शुना दष्ट एव च ।
परिवित्तिश्च यश्च स्याद्दुश्चर्मा गुरुतल्पगः। ॥ १३.१३७.१० ॥

与狗同行者、被狗咬者、先兄而娶者、恶皮者,以及与师母同床者。

13.137.11

कुशीलवो देवलको नक्षत्रैर्यश्च जीवती ।
ईदृशैर्ब्राह्मणैर्भुक्तमपाङ्क्तेयैर्युधिष्ठिर। ॥ १३.१३७.११ ॥

歌者、庙宇侍者、以星象为生者——此等不得同席的婆罗门所食之物,乃为不净,俱卢之子啊。

13.137.12

रक्षांसि गच्छते हव्यमित्याहुर्ब्रह्मवादिनः ।
श्राद्धं भुक्त्वा त्वधीयीत वृषलीतल्पगश्च यः। ॥ १३.१३७.१२ ॥

梵之论者说:此等人所献之供物归于罗刹。凡于祭祀中进食,却卧于首陀罗女之床者,——当诵吠陀。

13.137.13

पुरीषे तस्य ते मासं पितरस्तस्य शेरते ।
सोमविक्रयिणे विष्ठा भिषजे पूयशोणितम् ॥ १३.१३७.१३ ॥

其粪中,其祖先卧一月;给卖苏摩者之供物为秽物,给医者之供物为脓血。

13.137.14

नष्टं देवलके दत्तमप्रतिष्ठं च वार्धुषे ।
यत्तु वाणिजके दत्तं नेह नामुत्र तद्भवेत्।
भस्मनीव हुतं हव्यं तथा पौनर्भवे द्विजे ॥ १३.१३७.१४ ॥

施于庙祝者则失落;施于放债者则无根基;施于商贾者,今世与来世皆无果。施于再婚婆罗门的供物,如同倾入灰烬的祭品。

13.137.15

ये तु धर्मव्यपेतेषु चारित्रापगतेषु च ।
हव्यं कव्यं प्रयच्छन्ति येषां तत्प्रेत्य नश्यति ॥ १३.१३७.१५ ॥

若施供物于背离法度、失其德行者,施者之功德死后便消失。

13.137.16

ज्ञानपूर्वं तु ये तेभ्यः प्रयच्छन्त्यल्पबुद्धयः ।
पुरीषं भुञ्जते तस्य पितरः प्रेत्य निश्चयः ॥ १३.१३७.१६ ॥

知其为而仍施于之之愚人——其祖先死后食秽物,此乃确定之事。

13.137.17

एतानिमान्विजानीयादपाङ्क्तेयान्द्विजाधमान् ।
शूद्राणामुपदेशं च ये कुर्वन्त्यल्पचेतसः ॥ १३.१३७.१७ ॥

此等人当知其不可入席,乃再生者中之最卑下者:即那些愚昧而教导首陀罗者。

13.137.18

षष्टिं काणः शतं षण्डः श्वित्री यावत्प्रपश्यति ।
पङ्क्त्यां समुपविष्टायां तावद्दूषयते नृप ॥ १३.१३७.१८ ॥

独眼者污六十人,阉人污百人,麻风病人所见多少,便污多少在席者,王啊。

13.137.19

यद्वेष्टितशिरा भुङ्क्ते यद्भुङ्क्ते दक्षिणामुखः ।
सोपानत्कश्च यद्भुङ्क्ते सर्वं विद्यात्तदासुरम् ॥ १३.१३७.१९ ॥

包头而食、面向南方而食、穿着鞋履而食,凡此皆应知为阿修罗之行。

13.137.20

असूयता च यदत्तं यच्च श्रद्धाविवर्जितम् ।
सर्वं तदसुरेन्द्राय ब्रह्मा भागमकल्पयत् ॥ १३.१३७.२० ॥

凡因嫉妒而施舍者,及无信心而施舍者,梵天皆定为阿修罗之主的份额。

13.137.21

श्वानश्च पङ्क्तिदूषाश्च नावेक्षेरन्कथञ्चन ।
तस्मात्परिसृते दद्यात्तिलांश्चान्ववकीरयेत् ॥ १३.१३७.२१ ॥

狗和污染行列者,无论如何不可看见;因此,在散落之处应施予并撒以芝麻。

13.137.22

तिलैर्विरहितं श्राद्धं कृतं क्रोधवशेन च ।
यातुधानाः पिशाचाश्च विप्रलुम्पन्ति तद्धविः ॥ १३.१३७.२२ ॥

无芝麻而行的祭祀,或在愤怒之下所行者,夜叉与毕舍遮便夺取其供物。

13.137.23

अपाङ्क्तो यावतः पाङ्क्तान्भुञ्जानाननुपश्यति ।
तावत्फलाद्धंशयति दातारं तस्य बालिशम् ॥ १३.१३७.२३ ॥

凡不在行列之人所看见的行列中进食者有多少,他便使愚昧的施主失去多少果报。

13.137.24

इमे तु भरतश्रेष्ठ विज्ञेयाः पङ्क्तिपावनाः ।
हेतुतस्तान्प्रवक्ष्यामि परीक्षस्वेह तान्द्विजान् ॥ १३.१३७.२४ ॥

婆罗多中最优秀者啊,应知这些人是净化行列者;我将依理为你说明。请在此考察那些再生者。

13.137.25

विद्यावेदव्रतस्नाता ब्राह्मणाः सर्व एव हि ।
सदाचारपराश्चैव विज्ञेयाः सर्वपावनाः ॥ १३.१३७.२५ ॥

凡沐浴于学问、吠陀与誓戒之中的婆罗门,以及专心于善行的婆罗门,都应被视为能净化一切的人。

13.137.26

पाङ्क्तेयांस्तु प्रवक्ष्यामि ज्ञेयास्ते पङ्क्तिपावनाः ।
त्रिणाचिकेतः पञ्चाग्निस्त्रिसुपर्णः षडङ्गवित् ॥ १३.१३७.२६ ॥

现在我将讲述属于行列的婆罗门;他们应被视为净化行列之人:三重Nāciketa、五火守护者、三重Suparṇa,以及通晓六支吠陀者。

13.137.27

ब्रह्मदेयानुसन्तानश्छन्दोगो ज्येष्ठसामगः ।
मातापित्रोर्यश्च वश्यः श्रोत्रियो दशपूरुषः ॥ १३.१३७.२७ ॥

世系以梵施(brahmadeya)相传者、Chandoga、唱诵首要Sāman者、顺从父母者、以听闻而博学的Śrotriya,且有十代世系者。

13.137.28

ऋतुकालाभिगामी च धर्मपत्नीषु यः सदा ।
वेदविद्याव्रतस्नातो विप्रः पङ्क्तिं पुनात्युत ॥ १३.१३७.२८ ॥

总在经期适时亲近正妻、沐浴于吠陀、学问与誓戒之中的婆罗门,能净化行列。

13.137.29

अथर्वशिरसोऽध्येता ब्रह्मचारी यतव्रतः ।
सत्यवादी धर्मशीलः स्वकर्मनिरतश्च सः ॥ १३.१३७.२९ ॥

精研《阿闼婆·希罗》、守梵行、持戒坚定、诚实、性格端正且专注本分的人,能净化行列。

13.137.30

ये च पुण्येषु तीर्थेषु अभिषेककृतश्रमाः ।
मखेषु च समन्त्रेषु भन्त्यवभृथप्लुताः ॥ १३.१३७.३० ॥

凡在圣地渡口勤行灌顶沐浴者,以及在有咒语的祭祀中经终局沐浴而光耀者。

13.137.31

अक्रोधना ह्यचपलाः क्षान्ताः दान्ता जितेन्द्रियाः ।
सर्वभूतहिता ये च श्राद्धेष्वेतान्निमन्त्रयेत् ॥ १३.१३७.३१ ॥

那些无怒、不浮躁、能忍耐、自制、胜过诸根、并利益一切众生的人,应当被邀请参加祭祖(śrāddha)之礼。

13.137.32

एतेषु दत्तमक्षय्यमेते वै पङ्क्तिपावनाः ।
इमे परे महाभागा विज्ञेयाः पङ्क्तिपावनाः ॥ १३.१३७.३२ ॥

施与他们的布施是不灭的,因为他们是净化席位的人。这些其他大福之人,也应被认为是净化席位者。

13.137.33

यतयो मोक्षधर्मज्ञा योगिनश्चरितव्रताः ।
पञ्चरात्रविदो मुख्यास्तथा भागवताः परे ॥ १३.१३७.३३ ॥

苦行者、通晓解脱法(mokṣadharma)者、持守戒律的瑜伽行者、精通五夜论(Pañcarātra)的上首,以及其他的薄伽梵信徒。

13.137.34

वैखानसाः कुलश्रेष्ठा वैदिकाचारचारिणः ।
ये चेतिहासं प्रयताः श्रावयन्ति द्विजोत्तमान् ॥ १३.१३७.३४ ॥

吠伽纳娑(Vaikhānasa)修行者,诸族中的最优者,遵循吠陀行仪,并以专注的心为最上等的再生者诵说伊迪哈萨(itihāsa)。

13.137.35

ये च भाष्यविदः केचिद्ये च व्याकरणे रताः ।
अधीयते पुराणं ये धर्मशास्त्राण्यथापि च ॥ १३.१३७.३५ ॥

某些通晓注释的学者,乐于研习语法者,以及研读往世书与法论的人。

13.137.36

अधीत्य च यथान्यायं विधिवत्तस्य कारिणः ।
उपपन्नो गुरुकुले सत्यवादी सहस्रशः ॥ १३.१३७.३६ ॥

依法学习并如法实行所学者,在师门中成长者,说真话者,成千上万。

13.137.37

अग्र्याः सर्वेषु वेदेषु सर्वप्रवचनेषु च ।
यावदेते प्रपश्यन्ति पङ्क्त्यास्तावत्पुनन्त्युत ॥ १३.१३७.३७ ॥

在一切吠陀和一切诵读中最为卓越者,只要他们出现在行列中,便能净化这一行列。

13.137.38

ततो हि पावनात्पङ्क्त्याः पङ्क्तिपावन उच्यते ।
क्रोशादर्धतृतीयाच्च पावयेदेक एव हि।
ब्रह्मदेयानुसन्तान इति ब्रह्मविदो विदुः ॥ १३.१३७.३८ ॥

因此,凡净化行列者,由那净化之行列而称为“行列净化者”。一人即可在二又半克罗舍之内净化。梵之知者称之为梵施的延续。

13.137.39

अनुत्विगनुपाध्यायः स चेदग्रासनं व्रजेत् ।
ऋत्विग्भिरभ्यनुज्ञातः पङ्क्त्या हरति दुष्कृतम् ॥ १३.१३७.३९ ॥

若他无祭司与师长,却去了首座,但得到祭司的许可,行列便能消除那恶行。

13.137.40

अथ चेद्वेदवित्सर्वैः पङ्क्तिदोषैर्विवर्जितः ।
न च स्यात्पतितो राजन्पङ्क्तिपावन एव सः ॥ १३.१३७.४० ॥

然而若通晓吠陀者免于一切行列之过,且未堕落,王啊,他便是行列净化者。

13.137.41

तस्मात्सर्वप्रयत्नेन परीक्ष्यामन्त्रयेद्द्विजान् ।
स्वकर्मनिरतान्दान्तान्कुले जातान्बहुश्रतान् ॥ १३.१३७.४१ ॥

因此,应尽一切努力加以考察,然后邀请那些专心于本分、自制、出身良好、博学的再生者。

13.137.42

यस्य मित्रप्रधानानि श्राद्धानि च हवींषि च ।
न प्रीणन्ति पितॄन्देवान्स्वर्गं च न स गच्छति ॥ १३.१३७.४२ ॥

若其祭祀与供物主要为朋友而设,且不能令祖先与诸神欢喜,此人不得升天。

13.137.43

यश्च श्राद्धे कुरुते सङ्गतानि ।
न देवयानेन पथा स याति।
स वै मुक्तः पिप्पलं बन्धनाद्वा ।
स्वर्गाल्लोकच्च्यवते श्राद्धमित्रः ॥ १३.१३७.४३ ॥

在祭祀祖先的圣礼中聚集朋友的人,不走诸神之道。他不能获得从束缚中解脱的果报;以施主的朋友为施祭对象的人,会从天界坠落。

13.137.44

तस्मान्मित्रं श्राद्धकृन्नाद्रियेत ।
दद्यान्मित्रेभ्यः सङ्ग्रहार्थं धनानि।
यन्मन्यते नैव शत्रुं न मित्रं ।
तं मध्यस्थं भोजयेद्धव्यकव्ये ॥ १३.१३७.४४ ॥

因此行祭者不应以朋友为尊,也不应为了笼络朋友而施舍财物。对于那些既不被视为敌人也不被视为朋友的中立者,应在天神和祖先的供奉中供给食物。

13.137.45

यथोषरे बीजमुप्तं न रोहे-
न्नचावप्ता प्राप्नुयाद्बीजभागम्।
एवं श्राद्धं भुक्तमनर्हमाणै-
र्न चेह नामुत्र फलं ददाति ॥ १३.१३७.४५ ॥

如同播种在贫瘠土地上的种子不会发芽,播种者也得不到收成的份额,同样,被不配之人所食的施祭,无论在此世还是彼世都不会结果。

13.137.46

ब्राह्मणो ह्यनधीयानस्तृणाग्निरिव शाम्यति ।
तस्मै श्राद्धं न दातव्यं न हि भस्मनि हूयते ॥ १३.१३७.४६ ॥

不学吠陀的婆罗门如同草火一般熄灭。不应给他施祭,因为供品不会倾入灰烬之中。

13.137.47

सम्भोजनी नाम पिशाचदक्षिणा ।
सा नैव देवान्न पितॄनुपैति।
इहैव सा भ्राम्यति हीनपुण्या ।
शालान्तरे गौरिव नष्टवत्सा ॥ १३.१३७.४७ ॥

名为“共食”的酬金是毕舍遮的酬金。它既不能到达诸神,也不能到达祖先。无功德的它就在此地徘徊,如同失去小牛的母牛在牛栏之间游荡。

13.137.48

यथाऽग्नौ शान्ते घृतमाजुहोति ।
तन्नैव देवान्न पितॄनुपैति।
तथा दत्तं नर्तके गायके च ।
यां चानृते दक्षिणामावृणोति ॥ १३.१३७.४८ ॥

如同倾入已熄灭之火的酥油,既不能到达诸神,也不能到达祖先;同样,给予舞者与歌者之物,以及在虚妄中所施之布施,亦是如此。

13.137.49

उभौ हिनस्ति न भुनक्ति चैषा ।
या चानृते दक्षिणा दीयते वै।
आघातिनी गर्हितैषा पतन्ती ।
तेषां प्रेतान्पातयेद्देवयानात् ॥ १३.१३७.४९ ॥

它伤害二者,于谁都无益;在虚妄中所施的布施,确实是伤人、可耻且导致堕落的。它使他们的亡灵从诸神之道上跌落。

13.137.50

ऋषीणां समये नित्यं ये चरन्ति युधिष्ठिर ।
निश्चिताः सर्वधर्मज्ञास्तान्देवा ब्राह्मणान्विदुः ॥ १३.१३७.५० ॥

俱卢子,那些始终依循诸仙规范而行、意志坚定、通晓一切法的人,诸神称他们为婆罗门。

13.137.51

स्वाध्यायनिष्ठा ऋषयो ज्ञाननिष्ठास्तथैव च ।
तपोनिष्ठाश्च बोद्धव्याः कर्मनिष्ठाश्च भारत ॥ १३.१३७.५१ ॥

专注于自修吠陀的诸仙,专注于智慧的人,同样专注于苦行的人,以及专注于祭祀行为的人,都应被认识,婆罗多之子啊。

13.137.52

कव्यानि ज्ञाननिष्ठेभ्यः प्रतिष्ठाप्यानि भारत ।
तत्र ये ब्राह्मणान्केचिन्न सीदन्ति हि ते नराः ॥ १३.१३७.५२ ॥

婆罗多之子啊,祭祀祖先的供品应奉献给专注于智慧的人;在那里给予婆罗门的人,不会陷入痛苦。

13.137.53

ये तु निन्दन्ति जल्पेषु न ताञश्राद्धेषु भोजयत् ।
ब्राह्मणा निन्दिता राजन्हन्युस्त्रैपुरुषं कुलम् ॥ १३.१३७.५३ ॥

在闲谈中诽谤婆罗门的人,不应在祭祖仪式中让他们进食。大王啊,被诽谤的婆罗门会毁灭三代的家族。

13.137.54

वैखानसानां वचनमृषीणां श्रूयते नृप ।
दूरादेव परीक्षेत ब्राह्मणान्वेदपारगान् ॥ १३.१३७.५४ ॥

国王啊,人们听说过毗迦那萨圣仙的教导:精通吠陀的婆罗门,应当从远处就加以考察。

13.137.55

प्रियो वा यदि वा द्वेष्यस्तेषां तु श्राद्धमावपेत् ॥ १३.१३७.५५ ॥

无论他们可爱还是可憎,都应只向他们奉献施食祭(śrāddha)。

13.137.56

यः सहस्रं सहस्राणां भोजयदेनृचो नरः ।
एकस्तान्मन्त्रवित्प्रीतः सर्वानर्हति भारत ॥ १३.१३७.५६ ॥

婆罗多之子啊,若有人供养成千上万名一颂诵者,而只让一位通晓真言的婆罗门欢喜,他便配得上与所有人同等的福报。