摩诃婆罗多 · 章 13.138
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.138.1
केन सङ्कल्पितं श्राद्धं कस्मिन्काले किमात्मकम् ।
भृग्वङ्गिरसिके काले मुनिना कतरेण वा ॥ १३.१३८.१ ॥
谁制定了施羅陀祭祀,在何时,其性质如何?是在婆哩古与安基罗时代,还是由哪位仙人所定?
13.138.2
येन सङ्कल्पितं चैव तन्मे ब्रूहि पितामह ।
कानि श्राद्धेषु वर्ज्यानि कानि मूलफलानि च।
धान्यजात्यश्च का वर्ज्यास्तन्मे ब्रूहि पितामह ॥ १३.१३८.२ ॥
也请告诉我是谁制定的,祖父。施羅陀祭祀中哪些应当避免,哪些根与果,哪些谷类应当避免?请告诉我,祖父。
13.138.3
यथा श्राद्धं सम्प्रवृत्तं यस्मिन्काले सदात्मकम् ।
येन सङ्कल्पितं चैव तन्मे शृणु जनाधिप ॥ १३.१३८.३ ॥
请听我说,人主啊:施羅陀祭祀如何兴起,在何时,以何种恒常的形式,又是由谁所定。
13.138.4
स्वायम्भुवोऽत्रिः कौरव्य परमर्षिः प्रतापवान् ।
तस्य वंशे महाराज दत्तात्रेय इति स्मृतः ॥ १३.१३८.४ ॥
自生者之子阿特里,孔族子孙啊,是至高的大仙,威力广大。在他的血脉中,大王啊,他被称为达塔特雷亚。
13.138.5
दत्तात्रेयस्य पुत्रोऽभून्निमिर्नाम तपोधनः ।
निमेश्चाप्यभवत्पुत्रः श्रीमान्नाम श्रिया वृतः ॥ १३.१३८.५ ॥
达塔特雷亚生了一个名叫尼弥的儿子,以苦行为财富。尼弥也生了一个名叫室利曼的儿子,富有光荣。
13.138.6
पूर्णो वर्षसहस्रान्ते स कृत्वा दुष्करं तपः ।
कालधर्मपरीतात्मा निधनं समुपागतः ॥ १३.१३८.६ ॥
满一千年后,他完成了艰难的苦行,心神被时间的法则所笼罩,便走向了死亡。
13.138.7
निमिस्तु कृत्वा शौचानि विधिदृष्टेन कर्मणा ।
सन्तापमगमत्तीप्रं पुत्रशोकपरायणः ॥ १३.१३८.७ ॥
尼弥虽依规定行了净化之礼,仍被强烈的悲痛所攫,全心沉溺于丧子之哀。
13.138.8
अथ कृत्वोपकार्याणि चतुर्दश्यां महामतिः ।
तमेव गणयञ्शोकं विरात्रे प्रत्यबुध्यत ॥ १३.१३८.८ ॥
此后,他在第十四日行了供养之事;这位大智者仍思念着那份悲痛,于夜尽时醒来。
13.138.9
तस्यासीत्प्रतिबुद्धस्य शोकेन व्यथितात्मनः ।
मनः संहृत्य विषये बुद्धिर्विस्तारगामिनी ॥ १३.१३८.९ ॥
他醒来时,被悲痛折磨的心收回于外境,而他的智慧开始向外伸展。
13.138.10
ततः सञ्चिन्तयामास श्राद्धकल्पं समाहितः ।
यानि तस्यैव भोज्यानि मूलानि च फलानि च ॥ १३.१३८.१० ॥
随后他凝神思考了祭祖仪式的规则:哪些食物、根茎和果实是专属于他的。
13.138.11
उक्तानि यानि चान्यानि यानि चेष्टानि तस्य ह ।
तानि सर्वाणि मनसा विनिश्चित्य तपोधनः ॥ १३.१३८.११ ॥
他在心中确定了所有规定之事,以及属于他的其他仪轨,这位苦行的珍宝……
13.138.12
अमावास्यां महाप्राज्ञो विप्रानानाय्य पूजितान् ।
दक्षिणावर्तिकाः सर्वा बृसीः स्वयमथाकरोत् ॥ १३.१३८.१२ ॥
新月之日,这位大智者邀请受敬重的婆罗门,亲自将所有圣草按右旋之向铺设好。
13.138.13
सप्त विप्रांस्ततो भोज्ये युगपत्समुपानयत् ।
ऋते च लवणं भोज्यं श्यामाकान्नं ददौ प्रभुः ॥ १३.१३८.१३ ॥
随后他同时请来七位婆罗门赴餐,不加盐,给他们供上小米饭。
13.138.14
दक्षिणाग्रास्ततो दर्भा विष्टरेषु निवेशिताः ।
पादयोश्चैव विप्राणां ये त्वन्नमुपभुञ्जते ॥ १३.१३८.१४ ॥
随后,将尖端朝南的吉祥草放在座位上,以及正在进食的婆罗门脚边。
13.138.15
कृत्वा च दक्षिणाग्नान्वै दर्भान्स प्रयतः शुचिः ।
प्रददौ श्रीमते पिण्डान्नामगोत्रमुदाहरन् ॥ १३.१३८.१५ ॥
他将尖端朝南的吉祥草铺好,克己自持、身心清净,念诵先祖的名字与氏族,向尊贵者奉上米团。
13.138.16
तत्कृत्वा स मुनिश्रेष्ठो धर्मसङ्करमात्मनः ।
पश्चात्तापेन महता तप्यमानोऽभ्यचिन्तयत् ॥ १३.१३८.१६ ॥
做完这件事后,这位最优秀的圣人因事后的深深悔恨而备受煎熬,开始反思自己法度的错乱。
13.138.17
अकृतं मुनिभिः पूर्वं किं मयेदमनुष्ठितम् ।
कथं नु शापेन न मां दहेयुर्ब्राह्मणा इति ॥ १३.१३८.१७ ॥
"我所做的,是先前圣人们从未做过的事。婆罗门怎么会不以诅咒将我烧毁呢?"
13.138.18
ततः सञ्चिन्तयामास वंशकर्तारमात्मनः ।
बुद्ध्वाऽत्रिं मनसा दध्यौ भगवन्तं समाहितः।
ध्यातमात्रस्तथा चात्रिराजगाम तपोधनः ॥ १३.१३८.१८ ॥
随后他想到自己家族的始祖;心中认出阿特里,他凝神专注地冥想那位尊者,刚一冥想,苦行富足的阿特里便来到了那里。
13.138.19
अथात्रिस्तं तथा दृष्ट्वा पुत्रशोकेन कर्शितम् ।
भृशमाश्वासयामास वाग्भिरिष्टाभिरव्ययः ॥ १३.१३८.१९ ॥
于是不朽的阿特里见他因丧子之痛而憔悴,便以悦耳的话语大加安慰。
13.138.20
निमे सङ्कल्पितस्तेऽयं पितृयज्ञस्तपोधन ।
मतो मे पूर्वदृष्टोऽत्र धर्मोऽयं ब्रह्मणा स्वयम् ॥ १३.१३८.२० ॥
尼弥啊,苦行富足者!你所立志举行的祖先祭祀,依我之见是正确的。此法在往昔即由梵天亲自见到。
13.138.21
सोयं स्वयभुविहितो धर्मः सङ्कल्पितस्त्वया ।
ऋते स्वयम्भुवः कोऽन्यः श्राद्धे संविधिमाहरेत् ॥ १३.१३८.२१ ॥
你所立志的,正是自生者所定的此法。除了自生者,还有谁能规定祭亡者之仪的正确程序呢?
13.138.22
अथाख्यास्यामि ते पुत्र श्राद्दे यं विधिमुत्तमम् ।
स्वयम्भुविहितं पुत्र तत्कुरुष्व निबोध मे ॥ १३.१३८.२२ ॥
现在,孩子,我将为你宣说自生者所定的那至上的祭亡之仪。孩子,去行它;从我这里听来。
13.138.23
कृत्वाऽग्निशरणं पूर्वं मन्त्रपूर्वं तपोधन ।
ततोऽग्नयेऽथ सोमाय वरुणाय च नित्यशः ॥ १३.१३८.२३ ॥
苦行富足者啊,先以咒语皈依阿耆尼,然后每日供奉阿耆尼、苏摩与伐楼那。
13.138.24
विश्वेदवाश्च यि नित्यं पितृभिः सह गोचराः ।
तेभ्यः सङ्कल्पिता भागाः स्वयमेव स्वयम्भुवा ॥ १३.१३८.२४ ॥
众天神(…)常与祖先一同在其所辖之处游行;为他们所定的份额,正是自生者亲自所定。
13.138.25
स्तोतव्या चेह पृथिवी लोकस्यैव तु धारिणी ।
वैष्णवी काश्यपि चेति तथैवेहाक्षयेति च ॥ १३.१३८.२५ ॥
此处应赞颂支撑世界的大地;她亦被称为毗湿奴之女、迦叶波之女,此处也称她为不灭者。
13.138.26
उदकानयने चैव स्तोतव्यो वरुणो विभुः ।
ततोऽग्निश्चैव सोमश्च आराध्याविह तेऽनघ ॥ १३.१३८.२६ ॥
取水之时,亦当赞颂无所不在的伐楼那;然后,无垢者啊,此处应崇奉火神与苏摩。
13.138.27
देवास्तु पितरो नाम निर्मिता ये स्वयम्भुवा ।
ऊष्मपा ये महाभागास्तेषां भागः प्रकल्पितः ॥ १३.१३८.२७ ॥
自生者所造、名为祖灵的诸神,即热气饮者、大福德者,为他们已定下了供物之份。
13.138.28
ते श्राद्धेनार्च्यमाना वै विमुच्यन्ते ह किल्बिषात् ।
सप्तकाः पितृवंशास्तु पूर्वदृष्टाः स्वयंभुवा ॥ १३.१३८.२८ ॥
以施设的祭祀礼拜之,他们确能脱离罪恶;自生者早先所见的七支祖先之系,亦复如是。
13.138.29
विश्वे चाग्निमुखा देवाः संख्याताः पूर्वमेव ते ।
तेषां नामानि वक्ष्यामि भागार्हाणां महात्मनाम् ॥ १३.१३८.२९ ॥
以火神为口的诸毗湿伐提婆,前已列举;我将说出那些配受供物之份的大德之名。
13.138.30
सहः कृतिर्विपाप्मा च पुण्यकृत्पावनस्तथा ।
ग्राम्यः क्षेम्यः समूहश्च दिव्यसानुस्तथैव च ॥ १३.१३८.३० ॥
娑诃、羯利底、离罪者、作福者、清净者,以及村居者、安隐者、集聚者,还有天峰者。
13.138.31
विवस्वान्वीर्यवाञ्श्रीमान्कीर्तिमान्कृत एव च ।
जितात्मा मुनिवीर्यश्च दीप्तरोमा भयङ्करः ॥ १३.१३८.३१ ॥
毗婆娑特,威力强大而光辉,名声显赫,亦是创造者;自制,具有圣人般的威力,毛发闪耀,令人畏惧。
13.138.32
अनुकर्मा प्रतीतश्च प्रदाताऽप्यंशुमांस्तथा ।
शैलाभः परमक्रोधी धीरोष्णी भूपतिस्तथा ॥ १३.१३८.३२ ॥
阿奴羯摩,闻名,亦是施予者,光芒四射;如山岳般,极为易怒,坚定而炽烈,亦是大地之主。
13.138.33
स्रजो वज्रीवरी चैव विश्वेदेवाः सनातनाः ।
विद्युद्वर्चाः सोमवर्चाः सूर्यश्रीश्चेति नामतः ॥ १३.१३८.३३ ॥
室罗阇、金刚手、婆梨,以及永恒的诸毗湿伐提婆;以闪电之光、月光、日辉之名而称。
13.138.34
सोमपः सूर्यसावित्रो दत्तात्मा पुण्डरीयकः ।
उष्णीनाभो नभोदश्च विश्वायुर्दीप्तिरेव च ॥ १३.१३८.३४ ॥
饮苏摩者,日之子萨维特里,自施者,白莲;热脐,亦是赐天空者,遍寿,光明。
13.138.35
चमूहरः सुरेशश्च व्योमारिः शङ्करो भवः ।
ईशः कर्ता कृतिर्दक्षो भुवनो दिव्यकर्मकृत् ॥ १३.१३८.३५ ॥
摧军者,亦是诸天之主,虚空之敌,湿婆,有生者,主宰,作者,创造,巧者,世界,行神圣事业者。
13.138.36
गणितः पञ्चवीर्यश्च आदित्यो रश्मिवांस्तथा ।
सप्तकृत्सोमवर्चाश्च विश्वकृत्कविरेव च ॥ १३.१३८.३६ ॥
计数者,五力者,阿提亚,具光线者,七之作者,亦是苏摩辉者,宇宙的创造者,诗人。
13.138.37
अनुगोप्ता सुगोप्ता च नप्ता चेश्वर एव च ।
कीर्तितास्ते महाभागाः कालस्य गतिगोचराः ॥ १३.१३८.३७ ॥
守护者、善守护者、孙子与主宰者——这些大福者已被提及,他们都在时间的运行之中。
13.138.38
अश्राद्धेयानि धान्यानि कोद्रवाः पुलकास्तथा ।
हिङ्गुद्रवेषु शाकेषु मूलानां लशुनं तथा ॥ १३.१३८.३८ ॥
谷物不宜用于祭祀:考德罗与普拉卡亦然;在以阿魏汁烹制的菜蔬与青菜中;根茎之中还有大蒜。
13.138.39
पलाण्डुः सौभाञ्जनकस्तथा गृञ्जनकादयः ।
कूश्माण्डजात्यलाबुं च कृष्णं लवणमेव च ॥ १३.१३८.३९ ॥
洋葱、索跋犍阇那迦、格林阇那迦等;冬瓜一类与葫芦;黑盐,以及食盐。
13.138.40
ग्राम्यवाराहमांसं च यच्चैवाप्रोक्षितं भवेत् ।
कृष्णाजं जीरकं चैव शीतपाकी तथैव च।
अङ्कुराद्यास्तथा वर्ज्या इह शृङ्गाटकानि च ॥ १३.१३८.४० ॥
家养野猪之肉,以及未经洒水净化者;黑山羊、孜然与冷食亦然;嫩芽之类,此处还有菱角——这些都应避免。
13.138.41
वर्जयेल्लवणं सर्वं तथा जम्बूफलानि च ।
अवक्षुतावरुदितं तथा श्राद्धे च वर्जयेत्। ॥ १३.१३८.४१ ॥
应避免一切盐,也避免蒲桃(jambu)之果;打喷嚏与哭泣之时,以及在祭祀中,都应避免。
13.138.42
निवापे हव्यकव्ये वा गर्हितं च सुदर्शनम् ।
पितरश्च हि देवाश्च नाभिनन्दन्ति तद्धविः ॥ १३.१३८.४२ ॥
在祭奠(nivāpa)或向诸神与祖先的供献中,被斥责之物与苏达尔沙那也是如此;祖先与诸神不喜悦那份供品。
13.138.43
चण्डालश्वपचौ वर्ज्यौ निवापे समुपस्थिते ।
काषायवासाः कुष्ठी वा पतितो ब्रह्महाऽपि वा ॥ १३.१३८.४३ ॥
祭祖之时,旃陀罗与狗肉者应当避开,身披赭衣者、患麻风者、堕落者,乃至杀害婆罗门者,亦然。
13.138.44
सङ्कीर्णयोनिर्विप्रश्च सम्बन्धी पतितश्च यः ।
वर्जनीय बुधैरेते निवापे समुपस्थिते ॥ १३.१३८.४४ ॥
混合种姓的婆罗门、堕落的亲属,以及其他人——祭祖之时,智者应当避开他们。
13.138.45
इत्येवमुक्त्वा भगवान्स्ववंश्यं तमृषिं पुरा ।
पितामहसभां दिव्या जगामात्रिस्तपोधनः ॥ १३.१३८.४५ ॥
对那位是他后裔的仙人如此说完,以苦行为财富的世尊阿特里,昔日便前往祖父的天界集会。