摩诃婆罗多 · 章 13.146
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.146.1
शूद्राणामिह शुश्रूषा नित्यमेवानुवर्णिता ।
कैः कारणैः कतिविधा शुश्रूषा समुदाहृता ॥ १३.१४६.१ ॥
此处一向依种姓说明首陀罗的侍奉。因何缘故、有几种侍奉被宣说?
13.146.2
के च शुश्रूषया लोका विहिता भरतर्षभ ।
शुद्राणां भरतश्रेष्ठ ब्रूहि मे धर्मलक्षणम् ॥ १३.१४६.२ ॥
借由首陀罗的侍奉,哪些世界被规定?婆罗多之牛啊,婆罗多之最啊,请告诉我他们的法相。
13.146.3
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
शूद्राणामनुकम्पार्थं यदुक्तं ब्रह्मवादिना ॥ १३.१४६.३ ॥
此处人们也讲述这段古老的传说,它是一位梵通者出于对首陀罗的怜悯而说的。
13.146.4
वृद्धः पराशरः प्राह धर्मं शुभ्रमनामयम् ।
अनुग्रहार्थं वर्णानां शौचाचारसमन्वितम् ॥ १३.१४६.४ ॥
年长的波罗舍罗为诸种姓的恩惠,宣说了具备清净与行仪、明净无瑕的法。
13.146.5
धर्मोपदेशमकिलं यथावदनुपूर्वशः ।
शिष्यानध्यापयामास शास्त्रमर्थवदर्थवित् ॥ १३.१४६.५ ॥
通晓义理者,依次如法地向弟子讲授完整的法教,作为充满义理的论典。
13.146.6
क्षान्तेन्द्रियेण मानेन शुचिनाऽचापलेन वै ।
अदुर्बलेन धीरेण शान्तेनोत्तरवादिना ॥ १३.१४६.६ ॥
节制诸根,谦逊,清净,不躁动,不软弱,坚定,寂静,善于应答。
13.146.7
अलुब्धेनानृशंसेन ऋजुना ब्रह्मवादिना ।
चारित्रतत्परेणैव सर्वभूतहितात्मना ॥ १३.१४६.७ ॥
由无贪、无残忍、正直、宣说吠陀、专注于善行、心中以一切众生之利为念者所行。
13.146.8
अरयः षड्विजेतव्या नित्यं स्वं देहमाश्रिताः ।
कामक्रोधौ च लोभश्च मानमोहौ मदस्तथा ॥ १३.१४६.८ ॥
常居于自身之中的六种敌人应当被征服:欲与怒、贪、慢与痴,以及狂醉。
13.146.9
विधिना धृतिमास्थाय शुश्रूषुरनहंकृतः ।
वर्णत्रयस्यानुमतो यथाशक्ति यथाबलम् ॥ १३.१४६.९ ॥
依法持守坚定,乐于侍奉而不自高,为三种姓所认可,应依自己的能力与力量而行。
13.146.10
कर्मणा मनसा वाचा चक्षुषा च चतुर्विधम् ।
आस्थाय नियमं धीमाञ्शान्तो दान्तो जितेन्द्रियः ॥ १३.१४६.१० ॥
以行为、意念、言语与目光四种方式持守戒律,智者应当平静、克制,并战胜诸根。
13.146.11
रक्षोयक्षजनद्वेषी शेषान्नकृतभोजनः ।
वर्णत्रयान्मधु यथा भ्रमरो धर्ममाचरेत् ॥ १३.१४६.११ ॥
憎恶罗刹与夜叉,食用他人剩余的食物,如蜜蜂从三种姓采蜜一般,应当奉行法。
13.146.12
यदि शूद्रस्तपः कुर्याद्वेददृष्टेन कर्मणा ।
इह चास्य परिक्लेशः प्रेत्य चास्यासुभागतिः ॥ १३.१४६.१२ ॥
若首陀罗不依吠陀所定之业而修苦行,则今生受苦,死后亦有不幸之归趣。
13.146.13
अधर्म्यमयशस्यं च तपः शूद्रे प्रतिष्ठितम् ।
अमार्गेण तपस्तप्त्वा म्लेच्छेषु फलमश्नुते ॥ १३.१४६.१३ ॥
首陀罗所行的苦行既违背法,也无荣誉;以错误的途径修苦行,便在蛮夷之中获得其果报。
13.146.14
अन्यथा वर्तमानो हि न शूद्रो धर्ममर्हति ।
अमार्गेणि प्रयातानां प्रत्यक्षादुपलभ्यते।
चातुर्वर्ण्यव्यपेतानां जातिमूर्तिपरिग्रहः ॥ १३.१४६.१४ ॥
行为异于此者的首陀罗不配享有法;这在走错路的人身上可以直接看到——在四种姓之外的人,便承受种姓与形相。
13.146.15
तथा ते हि शकाश्चीनाः काम्भोजाः पारदास्तथा ।
शबराः पप्लवाश्चैव तुषारयवनास्तथा ॥ १३.१४६.१५ ॥
他们同样如此:沙迦、支那、甘菩阇、波罗陀、濕婆罗、波罗婆,以及吐火罗与药那人也一样。
13.146.16
दार्वाश्च दरदाश्चैव उज्जिहानास्तथेतराः ।
वेणाश्च कङ्कणाश्चैव सिम्हला मद्रकास्तथा ॥ १३.१४६.१६ ॥
达尔瓦与达罗陀、乌吉诃那与其他人;吠那、干岸那、僧伽罗与摩德罗迦也是如此。
13.146.17
किष्किन्धकाः पुलिन्दाश्च कह्वाश्चान्ध्राः सनीरगाः ।
गन्धिका द्रमिडाश्चैव बर्बराश्चूचुकास्तथा ॥ १३.१४६.१७ ॥
乾吉陀迦与布林陀,迦婆与安达罗,连同尼罗伽;甘提迦、德罗毗陀、蛮族与朱楚迦也是如此。
13.146.18
किराताः पार्वतेयाश्च कोलाश्चोलाः सकाषकाः ।
आरूकाश्चैव दोहाश्च याश्चान्याम्लेच्छजातयः ॥ १३.१४६.१८ ॥
吉罗多与山居者,哥罗与朱罗,连同迦湿迦;阿噜迦与多诃,以及其他蛮族部落。
13.146.19
विकृता विकृताचारा दृश्यन्ते क्रूरबुद्धयः ।
अमार्गेणाश्रिता धर्मं ततो जात्यन्तरं गताः ॥ १३.१४६.१९ ॥
可见行为扭曲、形貌变异、心地残忍之人;他们以邪道依托法(dharma),便转入了另一种种姓。
13.146.20
अमार्गोपार्जितस्यैतत्तपसो विदितं फलम् ।
न नश्यति कृतं कर्म शुभं वा यदि वाऽशुभम् ॥ १३.१४६.२० ॥
以邪道所得苦行之果,已为人所知;所作之业,无论善恶,皆不会消失。
13.146.21
अत्राप्येते वसु प्राप्य विकर्म तपसार्जितम् ।
पाषण्डानर्चयिष्यन्ति धर्मकामा वृथा श्रमाः ॥ १३.१४६.२१ ॥
此处亦然,此等人得到以恶行和苦行所获之财,虽求法(dharma),却会供奉异端派(pāṣaṇḍa);其辛劳终归徒然。
13.146.22
एवं चतुर्णां वर्णानामाश्रमाणां च पार्थिव ।
विपरीतं वर्तमाना म्लेच्छा जायन्त्यबुद्धयः ॥ १३.१४६.२२ ॥
如此,王啊,违背四种姓与四行期的愚痴之人,会投生为蔑戾车(mleccha)。
13.146.23
अध्यायधनिनो विप्राः क्षत्रियाणां बलं धनम् ।
वणिक्कृषिश्च वैश्यानां शूद्राणां परिचारिका ॥ १३.१४६.२३ ॥
婆罗门以学问为财富;刹帝利以力量与财富为本;吠舍以商贸与农耕为业;首陀罗则以侍奉为职。
13.146.24
व्युच्छेदात्तस्य धर्मस्य निरयायोपपद्यते ।
ततो म्लेच्छा भवन्त्येते निर्घृणा धर्मवर्जिताः।
पुनश्च निरयं तेषां तिर्यग्योनिश्च शाश्वती ॥ १३.१४६.२४ ॥
由于那法的断绝,便堕入地狱;于是这些人成为无慈悲、离法的蔑戾车。此后他们又受地狱之苦,并永堕畜生之道。
13.146.25
ये तु सत्यथमास्थाय वर्णाश्रमकृतं पुरा ।
सर्वान्विमार्गानुत्सृज्य स्वधर्मविधिमाश्रिताः ॥ १३.१४६.२५ ॥
那些遵循古时所定种姓与生活阶段的真理之道、舍弃一切邪途、依止自身法规的人。
13.146.26
सर्वभूतदयावन्तो दैवतद्विजपूजकाः ।
शास्त्रदृष्टेन विधिना श्रद्धया जितमन्यवः ॥ १३.१४६.२६ ॥
对一切众生怀有慈悲,敬拜天神与再生者,依照经典所见之规以信心行持,已战胜愤怒。
13.146.27
तेषां विधिं प्रवक्ष्यामि यथावदनुपूर्वशः ।
उपादानविधइं कृत्स्नं शुश्रूषाधिगमं तथा ॥ १३.१४६.२७ ॥
我将依次准确讲述他们的规范:完整的接受之规,以及通过侍奉而获得之道。
13.146.28
शिष्टोपनयनं चैव मन्त्राणि विविधानि च ।
तथा शिष्यपरीक्षां च शास्त्रप्रामाण्यदर्शनात् ॥ १३.१४६.२८ ॥
贤者的入门礼、种种咒语,以及依经典权威考察弟子之法。
13.146.29
प्रवक्ष्यामि यथातत्वं यथावदनुपूर्वशः ।
शौचकृत्यस्य शौचार्थान्सर्वानेव विशेषतः ॥ १३.१४६.२९ ॥
我将依真实之理、依序准确讲述净化之业的一切净化目的,尤其是。
13.146.30
महाशौचप्रभृतयो दृष्टास्तत्वार्थदर्शिभिः ।
तत्रापि शूद्रो भिक्षूणामिदं शेष च कल्पयेत् ॥ १३.१४६.३० ॥
大净等法已为通达真义者所见;在那里,首陀罗也应为乞食者安排这其余之事。
13.146.31
भिक्षुभिः सुकृतप्रज्ञैः केवलं दर्ममाश्रितैः ।
सम्यद्गर्शनसम्पन्नैर्गताध्वनि हितार्थिभिः।
अवकाशमिमं मेध्यं निर्मितं तामवीरुधम् ॥ १३.१४६.३१ ॥
由智慧圆满、唯依吉祥草、具足正见、已行于道并求利益的比丘们,将这处清净、无草木的地方整治妥当。
13.146.32
निर्जनं संवृतं बुद्ध्वा नियतात्मा जितेन्द्रियः ।
सजलं भाजनं स्थाप्य मृत्तिकां च परीक्षिताम् ॥ १३.१४६.३२ ॥
知道是无人而有遮蔽之处后,自制其心、克服诸根的人应放置盛水的器皿,以及经过检验的泥土。
13.146.33
परीक्ष्य भूमिं मूत्रार्थी तत आसीत वाग्यतः ।
उदङ्मुखो दिवा कुर्याद्रात्रौ चेद्दक्षिणामुखः ॥ १३.१४६.३३ ॥
察看地面之后,欲小解者应当缄默而坐;白天面向北方,若在夜间则面向南方。
13.146.34
अन्तर्हितायां भूमौ तु अन्तर्हितशिरास्तथा ।
असमाप्ते तथा शौचे न वाचं किञ्चिदीरयेत् ॥ १३.१४६.३४ ॥
地面有遮蔽、头部覆盖之时,以及清洁尚未完成之时,都不应说任何话。
13.146.35
कृतकृत्यस्तथाऽऽचम्य गच्छन्नोदीरयेद्वचः ।
शौचार्थमुपविष्टस्तु मृद्गाजनपुरस्कृतः ॥ १३.१४६.३५ ॥
事情办完,同样漱口之后,行走时不应说话;为清洁而坐的人,将泥土与水置于面前,
13.146.36
स्थाप्यं कमण्डलुं गृह्यि पार्श्वोरुभ्यामथान्तरे ।
शौचं कुर्याच्छनैर्वीरो बुद्धिपूर्वमसङ्करम् ॥ १३.१४६.३६ ॥
放下水瓶,再取起,然后在两侧与大腿之间,勇者应当缓慢、有意识地、不混乱地进行清洁。
13.146.37
पाणिना शुद्धमुदकं सङ्गृह्य विधिपूर्वकम् ।
विप्रुषश्च यता न स्युर्यथा चोरू न संस्पृशेत् ॥ १३.१४६.३७ ॥
依规矩用手取干净的水,应加克制,使水滴不沾到大腿。
13.146.38
अपाने मृत्तिकास्तिस्रः प्रदेयास्त्वनुपूर्वशः ।
हस्ताभ्यां च तथा विप्रो हस्तं हस्तेन संस्पृशेत् ॥ १३.१४६.३८ ॥
在肛门处应依次施用三份泥土;婆罗门也应同样用双手以一手洗另一手。
13.146.39
अपाने नव देयाः स्युरिति वृद्धानुशासनम् ।
मृत्तिका दीयमाना हि शोधयेद्देशमञ्जसा ॥ १३.१४६.३९ ॥
肛门处应施用九份泥土——这是长者的教导;施用泥土时,应迅速将该处清洁干净。
13.146.40
तस्मात्पाणितले देया मृत्तिकास्तु पुनः पुनः ।
बृद्धिपूर्वं प्रयत्नेन यथा नैव स्पृशेत्स्फिजौ ॥ १३.१४६.४० ॥
因此应在掌中反复取泥,用心谨慎地行事,使臀部不被触及。
13.146.41
यथा घातो हि न भवेत्क्लेदजः परिधानके ।
तथा गुदं प्रमार्जेत शौचार्थं तु पुनःपुनः ॥ १३.१४६.४१ ॥
为免衣物因潮湿受损,同样应反复擦拭肛门以求清洁。
13.146.42
प्रतिपादं ततस्त्यक्त्वा शौचमुत्थाय कारयेत् ।
सव्ये द्वादश देयाः स्युस्तिस्रस्तिस्रः पुनः पुनः।
देया कूर्परके हस्ते पृष्ठे बन्धे पुनः पनः। ॥ १३.१४६.४२ ॥
然后离开双足,起身行洁净之事;左手应施用十二份泥土,每次三份,反复进行;肘部、手、背部及关节处也应反复施用泥土。
13.146.43
तथैवादर्शके दद्याच्चतस्रस्तूभयोरपि ।
उभयोर्हस्तयोरेवं सप्तसप्त प्रदापयेत् ॥ १३.१४६.४३ ॥
同样,在镜面般的部位(ādarśaka)上应给四份,两侧也如此。如此,两手各给七份。
13.146.44
ततोऽन्यां मृत्तिकां गृह्य कार्यं शौचं पुनस्तयोः ।
हस्तयोरेवमेतद्धि महाशौच विधीयते।
ततोऽन्यथा न कुर्वीत विधिरेष सनातनः ॥ १३.१४६.४४ ॥
然后取另一块泥土,再次清洁那两只手。手的大净就这样被规定。之后不应另作他法;这是永恒的规则。
13.146.45
उपस्थे मूत्रशौचं स्यादत ऊर्ध्वं विधीयते ।
अतोऽन्यथा तु यः सुर्यात्प्रायश्चित्तीयते तु सः ॥ १३.१४६.४५ ॥
生殖器应在小便后清洁;此后有此规定。若有违此者,应受赎罪之罚。
13.146.46
मलोपहतचेलस्य द्विगुणं तु विधीयते ।
सहपादमथोरुभ्यां हस्तशौचमसंशयम् ॥ १३.१४६.४६ ॥
衣服被污秽沾染者,应加倍清洁。手连同脚与大腿的清洁,此无疑义。
13.146.47
अवधीरयमाणस्य सन्देह उपजायते ।
यथायथा विशुद्ध्येत तत्तथा तदुपक्रमे ॥ १३.१४६.४७ ॥
忽视者会产生疑惑。以何种方式能清净,就应当在开始时如此行持。
13.146.48
सकर्दमं तु वर्षासु गृहमाविश्य सङ्कटम् ।
हस्तयोर्मृत्तिकास्तिस्रः पादयोः षट् प्रदापयेत् ॥ १३.१४६.४८ ॥
雨季时,若因急迫进入泥泞之屋,应令人为双手给三块泥团,为双脚给六块。
13.146.49
कामं दत्त्वा गुदे दद्यात्तिस्रः पद्भ्यां तथैव च ।
हस्तशौचं प्रकर्तव्यं मूत्रशौचविधेस्तथा ॥ १३.१४६.४९ ॥
随意用于肛门;同样为双足用三次。手的净洁也应依照小便后净洁的规定而行。
13.146.50
मूत्रशौचे तथा हस्तौ पादाभ्यां चानुपूर्वशः ।
नैष्ठिके स्थानशौचे तु महाशौचं विधीयते ॥ १३.१४६.५० ॥
小便后净洁时,同样依次洗净双手和双足;而在奈湿提迦的场所净洁中,则规定行大净。
13.146.51
क्षारौषराभ्यां वस्त्रस्य कुर्याच्छौचं मृदा सह ।
लेपगन्धापनयनममेध्यस्य विधीयते ॥ १३.१४६.५१ ॥
应以碱及盐碱土连同泥土洗净布料;规定要去除不净之物的污垢与气味。
13.146.52
स्नानशाट्यां मृदस्तिस्रो हस्ताभ्यां चानुपूर्वशः ।
शौचं प्रयत्नतः कृत्वा कम्पमानः समुद्धरेत् ॥ १३.१४६.५२ ॥
在浴巾中,以三团泥土和双手依次仔细净洁后,应当颤抖着起身。
13.146.53
देयाश्चतस्रस्तिस्रो वा द्वे वाऽप्येकां तथाऽऽपदि ।
कालमासाद्य देशं च शौचस्य गुरुलाघवम् ॥ १३.१४६.५३ ॥
应给四次、或三次、或两次,遇困厄时甚至一次;须视时间与地点,定下净洁的轻重。
13.146.54
विधिनाऽनेन शौचं तु नित्यं कुर्यादतन्द्रितः ।
अविप्रेक्षन्नसम्भ्रान्तः पादौ प्रक्षाल्य तत्परः ॥ १३.१४६.५४ ॥
依照此规,应每日不懈地行净洁,不左顾右盼,不慌乱,洗净双足并专心于此。
13.146.55
अप्रक्षालितपादस्तु पाणिमामणिबन्धनात् ।
अधस्तादुपरिष्टाच्च ततः पाणिमुपस्पृशेत् ॥ १३.१४६.५५ ॥
双足未洗者,应当触摸手腕以下和以上的部位,然后触摸手。
13.146.56
मनोगतास्तु निश्शब्दा निश्शब्दं त्रिरपः पिबेत् ।
द्विर्मुखं परिमृज्याच्च खानि चोपस्पृशेद्बुधः ॥ १३.१४६.५६ ॥
心中默念,无声地三次饮水;擦拭嘴唇两次后,智者应当触摸身体的孔窍。
13.146.57
ऋग्वेदं तेन प्रीणाति प्रथमं यः पिबेदपः ।
द्वितीयं तु यजुर्वेदं तृतीयं साम एव च ॥ १३.१४६.५७ ॥
先饮水者,以此令《梨俱吠陀》欢喜;第二次令《夜柔吠陀》欢喜,第三次令《娑摩吠陀》欢喜。
13.146.58
मृज्यते प्रथमं तेन अथर्वा प्रीतिमाप्नुयात् ।
द्वितीयेनेतिहासं च पुराणस्मृतिदेवताः ॥ १३.१४६.५८ ॥
先以此擦拭,《阿闼婆吠陀》便获得喜悦;第二次则令史诗、往世书、法典和诸神喜悦。
13.146.59
यच्चक्षुषि समाधत्ते तेनादित्यं तु प्रीणयेत् ।
प्रीणाति वायुं घ्राणं च दिशश्चाप्यथ श्रोत्रयोः ॥ १३.१४६.५९ ॥
以触于眼者,令太阳欢喜;以鼻,令风欢喜;以耳,令诸方欢喜。
13.146.60
ब्रह्माणं तेन प्रीणाति यन्मूर्धनि समापयेत् ।
समुत्क्षिपति चापोर्ध्वमाकाशं तेन प्रीणयेत् ॥ १३.१४६.६० ॥
以涂于头顶者,令梵天欢喜;将水向上抛起时,应令天空欢喜。
13.146.61
प्रीणाति विष्णुः पद्भ्यां तु सलिलं वै समादधत् ।
प्राङ्मुखोदङ्मुखो वाऽपि अन्तर्जानुरुपस्पृशेत्। ॥ १३.१४६.६१ ॥
毗湿奴以足上所置之水而欢喜。面向东或北,屈膝向内,应当漱水净身。
13.146.62
सर्वत्र विधिरित्येष भोजनादिषु नित्यशः ।
अन्नेषु दन्तलग्नेषु उच्छिष्टः पुनराचमेत्। ॥ १३.१४६.६२ ॥
此规则处处、时时适用于饮食等事。若饭粒卡在牙缝中,则已被污染者应再次漱水净身。
13.146.63
विधिरेष समुद्दिष्टः शौचे चाभ्युक्षणं स्मृतम् ।
शूद्रस्यैव विधिर्दृष्टो गृहान्निष्क्रमतस्ततः। ॥ १३.१४६.६३ ॥
此规定已被宣示,清净中的洒水也被记载。此规定所见只适用于首陀罗,即他离家外出之时。
13.146.64
नित्यं त्वलुप्तशौचेन वर्तितव्यं कृतात्मना ।
यशस्कामेन भिक्षुभ्यः शुद्रेणात्महितार्थिना ॥ १३.१४६.६४ ॥
自制者应常以不断的清净而行事:渴望名声者对待乞食苦行者时,以及首陀罗为求自身福利时,皆应如此。