Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.152

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.152.1

एवं स भिक्षुर्निर्वाणं प्राप्नुयाद्दग्धकिल्बिषः ।
इहस्थो देहमुत्सृज्य नीडं शकुनिवद्यथा ॥ १३.१५२.१ ॥

如此,那已焚尽罪垢的比丘当证涅槃;住于此世,舍弃身体,如鸟离巢。

13.152.2

सत्पथालम्बनादेव शूद्रः प्राप्नोति सद्गतिम् ।
ब्रह्मणः स्थानमचलं स्थानात्स्थानमवाप्नुयात् ॥ १३.१५२.२ ॥

仅凭依止善道,首陀罗也能得到善趣;从一位次进到另一位次,他可以得到梵的不动之处。

13.152.3

यथा खनन्खनित्रेण जाङ्गले वारि विन्दति ।
अनिर्वेदात्ततः स्थानमीप्सितं प्रतिपद्यते ॥ १३.१५२.३ ॥

如同在干旱之地以锹掘地而得水,因不气馁,他便能到达所求之处。

13.152.4

सैषा गतिरनाद्यन्ता सर्वैरप्युपधारिता ।
तस्माच्छूद्रैरनिर्वेदाच्छ्रद्दधानैस्तु नित्यदा।
वर्तितव्यं यथाशक्त्या यथा प्रोक्तं मनीषिभिः। ॥ १३.१५२.४ ॥

此道无始无终,一切人都已领悟。因此,有信心的首陀罗应当永不气馁,常依自己的能力,遵从智者所说而行。

13.152.5

यत्करोति तदश्नाति शुभं वा यदि वाऽशुभम् ।
नाकृतं भुज्यते कर्म न कृतं नश्यते फलम् ॥ १३.१५२.५ ॥

人所作为,便是所受,无论善恶。未作之业不会被受用,已作之业的果报不会失去。

13.152.6

तथा शुभसमाचारः शुभमेवाप्नुते फलम् ।
तथाऽशुभसमाचारो ह्यशुभं समवाप्नुते।
शुभान्येव समादद्याद्य इच्छेद्भूतिमात्मनः ॥ १३.१५२.६ ॥

同样,行善之人只得善果,行恶之人只得恶果。欲求自身福祉者,应当只承担善行。

13.152.7

भूतिश्च नान्यतः शक्त्या शूद्राणामिति निश्चयः ।
क्रते यतीनां शुश्रूषामिति सन्तो व्यवस्थिताः ॥ १३.१५२.७ ॥

对于首陀罗而言,繁荣不来自其他途径,这是确定的。智者已经确立,只有通过侍奉苦行者才能获得。

13.152.8

तस्मादागमसम्पन्नो भवेत्सुनियतेन्द्रियः ।
शक्यते ह्यागमादेव गतिं प्राप्तुमनामयाम् ॥ १३.१५२.८ ॥

因此应当具备圣典知识,并善加约束诸根,因为无苦的归宿唯有依靠圣典才能达到。

13.152.9

वरा चैषा गतिर्दृष्टा यामन्वेपन्ति साधवः ।
यत्रामृतत्वं लभते त्यक्त्वा दुःखमनन्तरम् ॥ १३.१५२.९ ॥

善人所寻求的这一殊胜之道已被看见;在那里,舍弃苦之后,便立即获得不死。

13.152.10

इमं हि धर्मिमास्थाय येऽपि स्युः पापयोनयः ।
स्त्रियो वैश्याश्च शूद्राश्च प्राप्नुयुः परमां गतिम्।
किं पुनर्ब्राह्मणो विद्वान्क्षत्रियो वा बहुश्रुतः ॥ १३.१५२.१० ॥

依靠此法,即便是罪业出生者——女人、吠舍和首陀罗——也能达到至高的归宿;更何况博学的婆罗门或多闻的刹帝利呢?

13.152.11

न चाप्यक्षीणपापस्य ज्ञानं भवति देहिनः ।
ज्ञानोपलब्धिर्भवति कृतकृत्यो यदा भवेत् ॥ १३.१५२.११ ॥

罪业未尽的有身者,知识也不会生起;只有当人已完成应做之事时,才能获得知识。

13.152.12

उपलभ्य तु विज्ञानं ज्ञानं वाऽप्यनसूयकः ।
तथैव वर्तेद्गुरुषु भूयांसं वा समाहितः ॥ १३.१५२.१२ ॥

即使获得了证悟或知识,也应不生嫉妒;对待师长及更为尊贵者,也应以专注之心同样如此行事。

13.152.13

अथावमन्येत गुरुं तथा तेषु प्रवर्तते ।
व्यर्थमस्य श्रुतं भवति ज्ञानमज्ञानतां व्रजेत् ॥ १३.१५२.१३ ॥

若有人轻慢师长,并对他们如此行事,他所闻之学便归于徒劳,其知识也变成无知。

13.152.14

गतिं चाप्यशुभां गच्छेन्निरयाय न संशयः ।
प्रक्षीयते तस्य पुण्यं ज्ञानमस्य विरुध्यते ॥ १३.१५२.१४ ॥

他必定走向不吉的去处,堕入地狱,毫无疑问。他的福德耗尽,他的智慧也受到阻碍。

13.152.15

अदृष्टपूर्वकल्याणो यथा दृष्ट्वा विधिं नरः ।
उत्सेकान्मोहमापद्य तत्वज्ञानमवाप्तवान् ॥ १३.१५२.१५ ॥

如同一个从未见过善事的人,因见到定则而因傲慢陷入迷惑,却仍得到了真理的智慧。

13.152.16

एवमेवि हि नोत्सेकः कर्तव्यो ज्ञानसम्भवः ।
फलं ज्ञानस्य हि शमः प्रशामाय यतेत्सदा ॥ १३.१५२.१६ ॥

同样,不应傲慢,因为知识不由此而生。知识的果实是寂静,因此应当时时努力求得平和。

13.152.17

उपशान्तेन दान्तेन क्षमायुक्तेन सर्वदा ।
शुश्रूषा प्रतिपत्तव्या नित्यमेवानसूयता ॥ १३.१५२.१७ ॥

心平气和、克制自持、具备忍耐的人,应当始终不怀嫉妒,经常地奉行侍奉。

13.152.18

धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा ।
इन्द्रियार्थांश्च मनसा मनो बुद्धौ समादधेत् ॥ १३.१५२.१८ ॥

应以坚定守护生殖器与腹部,以眼守护手足,以意守护诸根之境,并将心安住于觉性之中。

13.152.19

धृत्याऽऽसीत ततो गत्वा शुद्धदेशं सुसंवृतम् ।
लब्धासनं यथा दृष्टं विधिपूर्वं समाचरेत् ॥ १३.१५२.१९ ॥

应以坚定之心端坐;随后前往清净、隐蔽的处所,择好座位,依所见之规矩如法修习。

13.152.20

ज्ञानयुक्तस्तथा देवं हृदिस्थमुपलक्षयेत् ।
आदीप्यमानं वपुषा विधूममनलं यथा ॥ १३.१५२.२० ॥

同样,具备智慧者应当识知安住于心中的神,其形体光耀如无烟之火。

13.152.21

रश्मिमन्तमिवादित्यं वैद्युताग्निमिवाम्बरे ।
संस्थितं हृदये पश्येदीशं शाश्वतमव्ययम् ॥ १३.१५२.२१ ॥

如天空中光芒四射的太阳,又如空中闪电之火,应见心中安立的永恒不灭之主。

13.152.22

न चायुक्तेन शक्येत द्रष्टुं देहे महेश्वरः ।
युक्तस्तु पश्यते बुद्ध्या सन्निवेश्य मनो हृदि ॥ १३.१५२.२२ ॥

不具修持者不能在身中见到大自在天;具修持者则以智慧,将心安置于心中而见之。

13.152.23

अथ त्वेवं न शक्नोति कर्तुं हृदयधारणम् ।
यथासांख्यमुपासीत यथावद्योगमास्थितः ॥ १३.१५२.२३ ॥

若不能如此在心中执持,则应依瑜伽,循数论之次第,如法地崇奉。

13.152.24

पञ्च बुद्धीन्द्रियाणीह पञ्च कर्मेन्द्रियाणि वै ।
पञ्च भूतविशेषाश्च मनश्चैव तु षोडश ॥ १३.१५२.२४ ॥

此处有五知根,实有五作根,五大之殊相,以及意——共十六。

13.152.25

तन्मात्राण्यपबि पञ्चैव मनोऽहङ्कार एव च ।
अष्टमं चाप्यथाव्यक्तमेताः प्रकृतिसंज्ञिताः।
एताः प्रकृतयश्चाष्टौ विकाराश्चापि षोडश ॥ १३.१५२.२५ ॥

五微细元素,manas与我慢,第八是未显现者——这些被称为自性(prakṛti)。

13.152.26

एवमेतदिहस्थेन विज्ञेयं तत्वबुद्धिना ।
एवं वर्ष्म समुत्तीर्य तीर्णो भवति नान्यथा ॥ १३.१५२.२६ ॥

住于此身者,以明辨真理之智,应当如此了知。如此超越身体者方能度越,别无他途。

13.152.27

परिसंख्यानमेवैतन्मन्तव्यं ज्ञानबुद्धिना ॥ १३.१५२.२७ ॥

此仅是列举;以智慧之心应当如此看待。

13.152.28

अहन्यहनि शान्तात्मा पावनाय हिताय च ।
एवमेव प्रसंख्याय तत्वबुद्धिर्विमुच्यते।
निष्पलं केवलं भवति शुद्धतत्वार्थतत्ववित् ॥ १३.१५२.२८ ॥

心平静者,日日为了清净与利益而修习。如此列举之后,求真之智得解脱;通晓纯净本原之义者,便无所执果,唯一纯粹。

13.152.29

भिक्षुकाश्रममास्थाय शुश्रूषानिरतो बुधः ।
शूद्रो निर्मुच्यते सत्वसंसर्गादेव नान्यथा ॥ १३.१५२.२९ ॥

智慧的首陀罗若入苦行乞食之林,专心服侍,便因亲近纯善(sattva)而得解脱,别无他途。

13.152.30

सत्संनिक्रषे परिवर्तितव्यं ।
विद्याधिकाश्चापि निषेवितव्याः।
सवर्णतां गच्छति सन्निकर्षा-
न्नीलः खगो मेरुमिवाश्रयन्वै ॥ १३.१५२.३० ॥

应当与善人同居,并侍奉学问更高者。如蓝鸟依止须弥山,便与之同性;因亲近而得与之同类。

13.152.31

इत्येवमाख्याय महामुनिस्तदा ।
चतुर्षु वर्णेषु विधानमर्थवित्।
शुश्रूषया वृत्तगतिं समाधिना ।
समाधियुक्तः प्रययौ स्वमाश्रमम् ॥ १३.१५२.३१ ॥

大智者、通晓义理者如此宣说了四种姓的规则后,心定入定,前往自己的修行林。