Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.155

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.155.1

आलोकदानं नामैतत्कीदृशं भरतर्षभ ।
कथमेतत्समुत्पन्नं फलं वा तद्ब्रवीहि मे ॥ १३.१५५.१ ॥

婆罗多族中的雄牛啊,这所谓的光明布施是怎样的?它是如何产生的,其果报是什么?请告诉我。

13.155.2

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
मनोः प्रजापतेर्वादं सुवर्णस्य च भारत ॥ १३.१५५.२ ॥

这里人们也讲述这个古老的故事:造物主之主摩奴与苏伐那的对话,婆罗多啊。

13.155.3

तपस्वी कश्चिदभवत्सुवर्णो नाम भारत ।
वर्णतो हेमवर्णः स सुवर्ण इति विश्रुतः ॥ १३.१५५.३ ॥

婆罗多啊,曾有一位名叫苏伐那的苦行者。因其肤色如金,他以苏伐那之名而闻名。

13.155.4

कुलशीलगुणोपेतः स्वाध्यायोपरमं गतः ।
बहून्सुवंशप्रभवान्समतीतः स्वकैर्गुणैः ॥ १३.१५५.४ ॥

他具备高贵的家世、品行与德性,已停止了个人诵习;凭借自身的德行,他超越了许多出身良好之族的人。

13.155.5

स कदाचिन्मनुं विप्रो ददर्शोपससर्प च ।
कुशलप्रश्नमन्योन्यं तौ चोभौ तत्र चक्रतुः ॥ १३.१५५.५ ॥

有一次,那位婆罗门看见摩奴,便走近他;两人在那里互相问候平安。

13.155.6

ततस्तौ सत्यसंकल्पौ मेरौ काञ्चनपर्वते ।
देवर्षिभिः सदा जुष्टे सहितौ संन्यषीदताम् ॥ १३.१५५.६ ॥

于是,这两位言出必行者,一同坐在摩罗山的金山上,那里常有天仙往来。

13.155.7

तत्र तौ कथयन्तौ स्तां कथा नानाविधाश्रयाः ।
ब्रह्मर्षिदेवदैत्यानां पुराणानां महात्मनाम् ॥ १३.१५५.७ ॥

他们二人在那里讲述各种各样的故事,关于梵仙、天神、阿修罗及大德之人的古老传说。

13.155.8

सुवर्णस्त्वब्रवीद्वाक्यं मनुं स्वायंभुवं प्रति ।
हितार्थं सर्वभूतानां प्रश्नं मे वक्तुमर्हसि ॥ १३.१५५.८ ॥

于是苏伐那对自生者之子摩奴说道:“为了一切众生的利益,您应当回答我的问题。”

13.155.9

सुमनोगन्धधूपाद्यैरिज्यन्ते दैवतानि च ।
किमेतत्कथमुत्पन्नं फलं योगं च शंस मे ॥ १३.१५५.९ ॥

“以鲜花、香气、熏香等供奉诸神。此事如何产生?其果报与相应之道为何?请告诉我。”

13.155.11

बलेर्वैरोचनस्येह त्रैलोक्यमनुशासतः ।
समीपमाजगामाशु शुक्रो भृगुकुलोद्वहः ॥ १३.१५५.११ ॥

在这里,当毗卢遮那之子钵利统治三界时,婆利古族的翘楚钸罗迅速来到他的身边。

13.155.12

तमर्घ्यादिभिरभ्यर्च्य भार्गवं सोऽसुराधिपः ।
निषसादासने पश्चाद्विधिवद्भूरिदक्षिणः ॥ १३.१५५.१२ ॥

他以迎宾之水等礼敬那位婆罗跋伽,阿修罗之主、布施丰厚者,随后依照仪规坐在座位上。

13.155.13

कथेयमभवत्तत्र त्वया या परिकीर्तिता ।
सुमनोधूपदीपानां सम्प्रदाने फलं प्रति ॥ १३.१५५.१३ ॥

“你在那里所说的,正是此事——关于供奉鲜花、香与灯所得之果报。”

13.155.14

ततः पप्रच्छ दैत्येन्द्रः कवीन्द्रं प्रश्नमुत्तमम् ॥ १३.१५५.१४ ॥

于是达提耶之主向诗人之主提出了一个殊胜的问题。

13.155.15

सुमनोधूपदीपानां किं फलं ब्रह्मिवित्तम ।
प्रदानस्य द्विजश्रेष्ठ तद्भवान्वक्तुमर्हति ॥ १३.१५५.१५ ॥

梵知者中最殊胜者啊,供养花、香与灯的果报是什么?再生者中最殊胜者啊,请您说明。

13.155.16

अग्नीषोमादिसृष्टौ तु विष्णोः सर्वात्मनः प्रभोः ।
तपः पूर्वं समुत्पन्नं धर्मस्तस्मादनन्तरम् ॥ १३.१५५.१६ ॥

在以阿耆尼与苏摩开始的创造中,从万有之我主毗湿奴,先生起苦行,其后生起法。

13.155.17

एतस्मिन्नन्तरे चैव वीरुदोषध्य एव च ।
सोमस्यात्मा च बहुधा सम्भूतः पृथिवीतले।
अमृतं च विषं चैव याश्चान्यास्तृणजातयः ॥ १३.१५५.१७ ॥

此间,藤蔓与草药,以及苏摩之本体,以多种形式出现在大地表面;甘露与毒,以及其他各类草,也都生起。

13.155.18

अमृतं मनसः प्रीतिं सद्यस्तृप्तिं ददाति च ।
मनो ग्लपयते तीव्रं विषं गन्धेन सर्वशः ॥ १३.१५५.१८ ॥

甘露立即给心带来喜悦与满足;毒则以其气味,使心全面而猛烈地衰弱。

13.155.19

अमृतं मङ्गलं विद्धि महद्विषममङ्गलम् ।
ओषध्यो ह्यमृतं सर्वा विषं तेजोग्निसम्भवम् ॥ १३.१५५.१९ ॥

应知甘露为吉祥,毒为大不祥。一切草药实为甘露;毒则生于火之光焰。

13.155.20

अमृतं मनो ह्लादयते श्रियं चापि ददाति च ।
तस्मात्सुमनसः प्रोक्ता नरैः सुकृतकर्मभिः ॥ १३.१५५.२० ॥

甘露能令心欢喜,也赐予吉祥与财富;因此行善的人称之为"善心"(sumanas)。

13.155.21

देवताभ्यः सुमनसो यो ददाति नरः शुचिः ।
तस्मै सुमनसो देवास्तस्मात्सुमनसः स्मृताः ॥ १३.१५५.२१ ॥

清净之人向诸神供奉花朵,诸神便对他心生欢喜(sumanas);因此它们被称为sumanas。

13.155.22

यंयमुद्दिश्य दीयेरन्देवं सुमनसः प्रभो ।
मङ्गलार्तं स तेनास्य प्रीतो भवति दैत्यप ॥ १३.१५५.२२ ॥

主啊,凡为某位神而献上的花,那位神便会欢喜于为求吉祥而供奉者;大阿修罗之主啊。

13.155.23

ज्ञेयास्तूग्राश्च सौम्याश्च तेजस्विन्यश्च ताः पृथक् ।
ओषध्यो बहुवीर्या हि बहुरूपास्तथैव च ॥ १३.१५५.२३ ॥

这些草药应当分别认识:有的猛烈,有的温和,有的光明有力;它们具有多种效能,也有多种形态。

13.155.24

यज्ञियानां च वृक्षाणामयज्ञीयान्निबोध मे ।
आसुराणि च माल्यानि दैवतेभ्यो हितानि च ॥ १३.१५५.२४ ॥

请从我这里了解哪些树木适于祭祀,哪些不适于祭祀;也请了解阿修罗的花环,以及对诸神有益的花环。

13.155.25

रक्षसामुरगाणां च यक्षाणां च तथा प्रियाः ।
मनुष्याणां पितॄणां च कान्ता यास्त्वनुपूर्वशः ॥ १३.१५५.२५ ॥

凡为罗刹、诸蛇与夜叉所喜爱的,以及为人类与祖先所爱悦、可爱的——这些将依次为你说明。

13.155.26

वन्या ग्राम्याश्चेह तथा कृष्टोप्ताः पर्वताश्रयाः ।
अकण्टकाः कण्टकिनो गन्धरूपरसान्विताः ॥ १३.१५५.२६ ॥

此处有野生和村庄种植的植物,有耕种播种的,有生长于山中的,有无刺的和有刺的,具备香气、形态与滋味。

13.155.27

द्विविधो हि स्मृतो गन्ध इष्टोऽनिष्टश्च पुष्पजः ।
इष्टगन्धानि देवानां पुष्पाणीति विभावय ॥ १३.१५५.२७ ॥

气味被称为两类:悦意的与不悦的,由花朵所生。应当明白,诸神的花朵具有悦意的香气。

13.155.28

अकण्टकानां वृक्षाणां श्वेतप्रायाश्च वर्णतः ।
तेषां पुष्पाणि देवानामिष्टानि सततं प्रभो ॥ १३.१५५.२८ ॥

无刺之树的花,多为白色,主啊,永远为诸神所喜爱。

13.155.29

पद्मं च तुलसी जातिरापः सर्वेषु पूजिता ।
जलजानि च माल्यानि पद्मादीनि च यानि वै।
गन्धर्वनागयक्षेभ्यस्तानि दद्याद्विचक्षणः ॥ १३.१५५.२९ ॥

莲花、罗勒、茉莉与水,在一切之中皆受崇敬。凡水中所生之物及莲花等所制花环,智者应当将之奉献给乾闼婆、那伽和夜叉。

13.155.30

ओषध्यो रक्तपुष्पाश्च कटुकाः कण्टकान्विताः ।
शत्रूणामभिचारार्थमथर्वसु निदर्शिताः ॥ १३.१५५.३० ॥

开红花、辛辣而带刺的草药,在《阿闼婆吠陀》中被指明用于针对敌人的诅咒之仪。

13.155.31

तीक्ष्णवीर्यास्तु भूतानां दुरालम्भाः सकण्टकाः ।
रक्तभूयिष्ठवर्णाश्च कृष्णाश्चैवोपहारयेत् ॥ १३.१५५.३१ ॥

但对于诸鬼神,应当奉献那些药力猛烈、难以接近、带刺、多为红色,以及黑色的(花)。

13.155.32

मनोहृदयनन्दिन्यो विमर्दे मधुराश्च याः ।
चारुररूपाः सुमनसो मानुपाणां स्मृता विभो ॥ १३.१५५.३२ ॥

那些令心意和心灵喜悦、即使被揉碎也芬芳甜美、形貌美好的花朵,啊,无上者,被说为属于世人。

13.155.33

न तु श्मशानसम्भूता न देवायतनोद्भवाः ।
सन्नयेत्पुष्टियुक्तेषु विवाहेषु रहःसु च ॥ १३.१५५.३३ ॥

但不要用生于火葬场或长于神庙的花;应在增益福祉的仪式、婚礼和秘密仪轨中供奉。

13.155.34

गिरिसानुरुहाः सौम्या देवानामुपधारयेत् ।
प्रोक्षिताभ्युक्षिताः सौम्या यथायोगं यथास्मृति ॥ १३.१५५.३४ ॥

生于山坡的温和之花应献给诸神;经洒净和遍洒的温和之花应按适宜和传统所载供奉。

13.155.35

गन्धेन देवास्तुष्यन्ति दर्शनाद्यक्षराक्षसाः ।
नागाः समुपभोगेन त्रिभिरेतैस्तु मानुषाः ॥ १३.१५५.३५ ॥

以香气,诸天欢喜;以观看,夜叉与罗刹欢喜;龙以享用而欢喜;世人则以这三者而欢喜。

13.155.36

सद्यः प्रीणाति देवान्वै ते प्रीता भावयन्त्युत ।
सङ्कल्पसिद्धा मर्त्यानामीप्सिताश्च मनोरथाः ॥ १३.१५५.३६ ॥

它能立刻使诸神欢喜;神既欢喜,便又使之昌盛,凡人的心愿得以成就,所求的愿望也得以实现。

13.155.37

देवाः प्रीणन्ति सततं मानिता मानयन्ति च ।
अवज्ञातावधूताश्च निर्दहन्त्यधमान्नरान् ॥ १३.१५५.३७ ॥

诸神常怀欢喜;受到尊敬时,也会回报尊敬;若被轻慢或弃置,便焚烧卑下之人。

13.155.38

अत ऊर्ध्वं प्रवक्ष्यामि धूपदानविधेः फलम् ।
धूपांश्च विविधान्साधूनसाधूंश्च निबोध मे ॥ १३.१५५.३८ ॥

今我将说明供奉香料之仪轨的果报;请听我讲述种种好香与恶香。

13.155.39

निर्यासाः सरलाश्चैव कृत्रिमाश्चैव ते त्रयः ।
इष्टोऽनिष्टो भवेद्गन्धस्तन्मे विस्तरशः शृणु ॥ १३.१५५.३९ ॥

树脂、松脂与人工调制之香,此为三类;香气可令人喜悦或令人厌恶。请详细听我说。

13.155.40

निर्यासाः सल्लकीवर्ज्या देवानां दयितास्तु ते ।
गुग्गुलुः प्रवरस्तेषां सर्वेपामिति निश्चयः ॥ १३.१५५.४० ॥

除薩拉卡树脂外,这些树脂为诸神所喜;其中古古鲁最为殊胜,此乃确定之论。

13.155.41

अगुरुः सारिणां श्रेष्ठो यक्षराक्षसभोगिनाम् ।
दैत्यानां सल्लकीजश्च काङ्क्षितो यश्च तद्विधः ॥ १३.१५५.४१ ॥

沉香在诸香木中最为殊胜,适于夜叉、罗刹与蛇众;对阿修罗而言,则是从薩拉树所生及同类所欲之物。

13.155.42

अथ सर्जरसादीनां गन्धैः पार्थिवदारवैः ।
फाणितासवसंयुक्तैर्मनुष्याणां विधीयते ॥ १३.१५५.४२ ॥

今为人类规定:以娑罗脂等香料,取自陆上林木,混以糖蜜与酒而供奉。

13.155.43

देवदानवभूतानां सद्यस्तुष्ठिकरः स्मृतः ।
येऽन्ये वैहारिकास्तत्र मानुषाणामिति स्मृताः ॥ १३.१५५.४३ ॥

据传对诸天、檀那婆与鬼神,此香能即刻令其欢喜;其余供娱乐者,则说是为人而设。

13.155.44

य एवोक्ताः सुमनसां प्रदाने गुणहेतवः ।
धूपेष्वपि परिज्ञेयास्त एव प्रीतिवर्धनाः ॥ १३.१५५.४४ ॥

凡为供花所说的功德之因,于供香亦当知之;正是这些增益欢喜。

13.155.45

दीपदाने प्रवक्ष्यामि फलयोगमनुत्तमम् ।
यथा येन यदा चैव प्रदेया यादृशाश्च ते ॥ १३.१५५.४५ ॥

我将说明供灯之中无上的果报关联:如何、由何人、何时,以及应供何种灯。

13.155.46

ज्योतिस्तेजः प्रकाशं वाऽप्यूध्वगं चापि वर्धते ।
प्रदानं तेजसां तस्मात्तेजो वर्धयते नृणाम् ॥ १३.१५५.४६ ॥

光明、光辉与明亮即使向上升起也会增长;因此布施光辉能增益人的光辉。

13.155.47

अन्धतमस्तमिस्रं च दक्षिणायनमेव च ।
उत्तरायणमेतस्माज्ज्योतिर्दानं प्रशस्यते ॥ १३.१५५.४७ ॥

盲暗、深暗、南行与北行:由此而言,施光明之德最为称赞。

13.155.48

यस्मादूर्ध्वगमे तत्तु तमसश्चैव भेषजम् ।
तस्मादूर्ध्वगतेर्दाता भवेदत्रेति निश्चयः ॥ १३.१५५.४८ ॥

因为在上行之中,这正是黑暗的药,所以此处施者应为上行之施者——此为定论。

13.155.49

देवास्तेजस्विनो यस्मात्प्रभावन्तः प्रकाशकाः ।
तामसा राक्षसाश्चैव तस्माद्दीपः प्रदीयते ॥ १३.१५५.४९ ॥

因为诸天光明、威力广大且能照耀,而黑暗的罗刹并非如此,所以供奉灯火。

13.155.50

आलोकदानाच्चक्षुष्मान्प्रभायुक्तो भवेन्नरः ।
तान्दत्त्वा नोपहिंसेन न हरेन्नोपनाशयेत् ॥ १३.१५५.५० ॥

施予光明的人会获得明目与光辉。施予之后,不应损害,不应夺取,也不应使其熄灭。

13.155.51

दीपहार्ता भवेदन्धस्तमोगतिरसुप्रभः ।
दीपप्रदः स्वर्गलोके दीपमाली विराजते ॥ १३.१५५.५१ ॥

偷窃灯火者将成为盲人,走向黑暗之道,失去生命的光辉。施予灯火者在天界闪耀,以灯鬘为饰。

13.155.52

हविपा प्रथमः कल्पो द्वितीयश्चौषधीरसैः ।
वसामेदोस्थिनिर्यासैर्न कार्यः पुष्टिमिच्छता ॥ १३.१५५.५२ ॥

第一种仪轨以供品进行,第二种以草药汁进行。希求滋养者不应以脂肪、骨髓、骨头或树脂来行此仪。

13.155.53

देवालये सभायां च गिरौ चैत्यचतुष्पथे ।
दीपदाता भवेन्नित्यं य इच्छेद्भूतिमात्मनः ॥ १३.१५५.५३ ॥

欲求自身福利者,应常于神庙、议事堂、山上、圣祠或十字路口施予灯火。

13.155.54

कुलोद्योतो विशुद्धात्मा प्रकाशत्वं च गच्छति ।
ज्योतिषां चैव सालोक्यं दीपदाता भवेन्नरः ॥ १३.१५५.५४ ॥

照耀家族、灵魂清净之人获得光辉;施予灯火者更获得与诸光同住之“萨洛迦” (sālokya)。

13.155.55

बलिकर्मसु वक्ष्यामि गुणान्कर्मफलोदयान् ।
देवयक्षोरगनृणां भूतानामथ रक्षसाम् ॥ १३.१५५.५५ ॥

关于供祭之仪,我将说明其功德与业果之生起——为诸天、夜叉、龙蛇、人类、众生及罗刹而设。

13.155.56

येषां नाग्रभुजो विप्रा देवतातिथिबालकाः ।
राक्षसानेव तान्विद्धि निर्वषट्कारमङ्गलान् ॥ १३.१५५.५६ ॥

应知那些婆罗门、诸神、客人和孩童不食其首份供品的人,便是罗刹,缺乏瓦沙特之呼与吉祥之礼。

13.155.57

तस्मादग्रं प्रयच्छेत देवभ्यः प्रतिपूजितम् ।
शिरसा प्रणतश्चापि हरेद्बलिमतन्द्रितः ॥ १३.१५५.५७ ॥

故应恭敬地将首份供奉于诸神,低首,毫不懈怠地奉上祭品。

13.155.58

गृह्णन्ति देवता नित्यमाशंसन्ति सदा गृहान् ।
बाह्याश्चागन्तवो येऽन्ये यक्षराक्षसपन्नगाः ॥ १३.१५५.५८ ॥

诸神常常接受之,并常为家宅祈福;外来的客人及其他夜叉、罗刹、蛇类亦然。

13.155.59

इतो दत्तेन जीवन्ति देवताः पितरस्तथा ।
ते प्रीताः प्रीणयन्त्येनमायुषा यशसा धनैः ॥ १३.१५५.५९ ॥

凭借此处所施之物,诸神与祖先得以存续;他们欢悦之后,以长寿、名望与财富滋养此人。

13.155.60

बलयः सह पुष्पैस्तु देवानामुपहारयेत् ।
दधिदुग्धमयाः पुण्याः सुगन्धाः प्रियदर्शनाः ॥ १३.१५५.६० ॥

应以花朵向诸神奉献供品,以凝乳与牛奶制成,洁净、芬芳、悦目。

13.155.61

कार्या रुधिरमांसाढ्या बलयो यक्षरक्षसाम् ।
सुरासवपुरस्कारा लाजोल्लापिकभूषिताः ॥ १३.१५५.६१ ॥

为夜叉与罗刹应作血肉丰盛的供品,以烈酒与美酒为首,并以爆米与花环装饰。

13.155.62

नागानां दयिता नित्यं पद्मोत्पलविमिश्रिताः ।
तिलान्गुडसुसम्पन्नान्भूतानामुपहारयेत् ॥ १३.१५५.६२ ॥

常为龙蛇(那伽)所喜,混以莲花与青莲,备足芝麻与红糖,应奉献给诸魔灵(bhūta)。

13.155.63

अग्रदाताऽग्रभोगी स्याद्बलवीर्यसमन्वितः ।
तस्मादग्रं प्रयच्छेत देवभ्यः प्रतिपूजितम् ॥ १३.१५५.६३ ॥

施与首份者成为先享用者,并具备力量与威势;因此应当敬重地将首份奉献给诸神。

13.155.64

ज्वलन्त्यहरहो वेश्म याश्चास्य गृहदेवताः ।
ताः पूज्या भूतिकामेन प्रसृताग्रप्रदायिना ॥ १३.१५५.६४ ॥

每日燃灯的家宅,其家神应当由希求富足、并将首份施与来者的人加以供奉。

13.155.65

इत्येतदसुरेन्द्राय काव्यः प्रोवाच भार्गवः ।
सुवर्णाय मनुः प्राह सुवर्णो नारदाय च ॥ १३.१५५.६५ ॥

如是,婆利古之子迦婆耶(Kāvya,即室建陀)向阿修罗之主宣说;摩奴对苏婆那说,苏婆那又对那罗陀说。

13.155.66

नारदोऽपि मयि प्राह गुणानेतान्महाद्युते ।
त्वमप्येतद्विदित्वेह सर्वमाचर पुत्रक ॥ १३.१५५.६६ ॥

那罗陀也曾向我宣说这些德行,大光明者啊。你也应当知晓此理,在此一一奉行,孩儿。