Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.161

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.161.1

शतायुरुक्तः पुरुषः शतवीर्यश्चि वैदिके ।
कस्मान्म्रियन्ते पुरुषा बाला अपि पितामह ॥ १३.१६१.१ ॥

吠陀中说人可活百岁,具有百倍的力量;那么祖父啊,为何人会死去,连孩子也会死?

13.161.2

आयुष्मान्केन भवति अल्पायुर्वाऽपि मानवः ।
केन वा लभते कीर्तिं केन वा लभते श्रियम् ॥ १३.१६१.२ ॥

人因何而得长寿或短寿?因何而得名声,因何而得富贵?

13.161.3

तपसा ब्रह्मचर्येण जपैर्होमैस्तथा परैः ।
जन्मना यदि वाऽचारात्तन्मे ब्रूहि पितामह ॥ १३.१६१.३ ॥

是以苦行、梵行、诵咒、火祭或其他方法,还是以出身或德行?祖父啊,请告诉我。

13.161.4

अत्र तेऽहं प्रवक्ष्यामि यन्मां त्वमनुपृच्छसि ।
अल्पायुर्येन भवति दीर्घायुर्येनि मानवः ॥ १३.१६१.४ ॥

我在此将告诉你你所问的:人因何而成为短寿,因何而成为长寿。

13.161.5

येन वा लभते कीर्तिं येन वा लभते श्रियम् ।
यथा च वर्तयन्पुरुषः श्रेयसा सम्प्रयुज्यते ॥ १३.१६१.५ ॥

因何得名,因何得富,以及人如何行事便与福祉相连。

13.161.6

आचाराल्लभते ह्यायुराचाराल्लभते श्रियम् ।
आचारात्कीर्तिमाप्नोति पुरुषः प्रेत्य चेह च ॥ १३.१६१.६ ॥

确实,人因品行得长寿,因品行得富贵,因品行得名声,死后与今生皆然。

13.161.7

दुराचारो हि पुरुषो नेहायुर्विन्दते महत् ।
त्रसन्ति चास्य भूतानि तथा परिभवन्ति च ॥ १३.१६१.७ ॥

行为恶劣的人在此世不得长寿;众生畏惧他,也轻视他。

13.161.8

तस्मात्कुर्यादिहाचारं य इच्छेद्भूतिमात्मनः ।
अपि पापशरीरस्य आचारो हन्त्यलक्षणम् ॥ १३.१६१.८ ॥

因此,欲求自身福祉的人,应在此行善。即使身体有罪之人,善行也能消除其不祥之相。

13.161.9

आचारलक्षणो धर्मः सन्तश्चारित्रलक्षणाः ।
साधूनां च यथावृत्तमेतदाचारलक्षणम् ॥ १३.१६१.९ ॥

法以行为为标志,善人以品行为标志;贤善之人的行为如何,便是善行的标志。

13.161.10

अप्यदृष्टं श्रवादेव पुरुषं धर्मचारिणम् ।
स्वानि कर्माणि कुर्वाणं तं जनाः कुर्वते प्रियम् ॥ १३.१६१.१० ॥

即使未曾见到,那行法、履行本分的人,人们仅凭听闻便会喜爱他。

13.161.11

ये नास्तिका निष्क्रियाश्च गुरुशास्त्रातिलङ्घिनः ।
अधर्मज्ञा दुराचारास्ते भवन्ति गतायुषः ॥ १३.१६१.११ ॥

那些无信、懈怠、违逆师长与经典、熟知非法且行为恶劣的人,寿命都会短促。

13.161.12

विशीला भिन्नमर्यादा नित्यं सङ्कीर्णमैथुनाः ।
अल्पायुषो भवन्तीह नरा निरयगामिनः ॥ १३.१६१.१२ ॥

无德之人,常常逾越界限,行为淫乱混杂,此世便会短寿,并堕入地狱。

13.161.13

सर्वलक्षणहीनोऽपि समुदाचारवान्नरः ।
श्रद्दधानोऽनसूयुश्च शतं वर्षाणि जीवति ॥ १३.१६१.१३ ॥

即使缺少一切吉相,行为端正、怀有信心、不嫉妒的人也能活到一百岁。

13.161.14

अक्रोधनः सत्यवादी भूतानामविहिंसकः ।
अनसूयुरजिह्मश्च शतं वर्षाणि जीवति ॥ १३.१६१.१४ ॥

不怒、说真话、不伤害众生、不嫉妒、正直的人活到一百岁。

13.161.15

लोष्ठमर्दी तृणच्छेदी नखखादी च यो नरः ।
नित्योच्छिष्टः सङ्कुसुको नेहायुर्विन्दते महत् ॥ १३.१६१.१५ ॥

碾碎土块、割草、咬指甲、总是残留剩食且不整洁的人,在此不能获得长寿。

13.161.16

ब्राह्मे मुहूर्ते बुध्येत धर्मार्थौ चानुचिन्तयेत् ।
उत्थाय चोपतिष्ठेत पूर्वां सन्ध्यां कृताञ्जलिः।
एवमेवापरां सन्ध्यां समुपासीत वाग्यतः ॥ १३.१६१.१६ ॥

应在梵时醒来,思念法与利。起身合掌,应行晨间之敬礼;同样,应守口而行晚间之敬礼。

13.161.17

नेक्षेतादित्यमुद्यन्तं नास्तं यन्तं कदाचन ।
नोपसृष्टं न वारिस्थं न मध्यं नभसो गतम् ॥ १३.१६१.१७ ॥

不可看初升之日与将落之日;也不可看被日食遮蔽之日、水中之日,以及已至天空中央之日。

13.161.18

ऋषयो नित्यसन्ध्यत्वाद्दीर्घमायुरवाप्नुवन् ॥ १३.१६१.१८ ॥

诸仙人因恒常行晨昏之敬礼,得享长寿。

13.161.19

सदर्भपाणिस्तत्कुर्वन्वाग्यतस्तन्मनाः शुचिः ।
तस्मात्तिष्ठेत्सदा पूर्वां पश्चिमां चैव वाग्यतः ॥ १३.१६१.१९ ॥

手持吉祥草,行此事,守口收心,心念专一,保持清净;因此应当常在晨昏之际守口而立。

13.161.20

ये न पूर्वामुपासन्ते द्विजाः संध्यां न पश्चिमाम् ।
सर्वांस्तान्धार्मिको राजा शूद्रकर्माणि कारयेत् ॥ १३.१६१.२० ॥

凡不修晨间与黄昏之念诵的再生者,正法之王应使他们全部从事首陀罗的职事。

13.161.21

परदारा न गन्तव्याः सर्ववर्णेषु कर्हिचित् ।
नहीदृशमनायुष्यं लोके किञ्चन विद्यते ॥ १३.१६१.२१ ॥

在任何种姓中,任何时候都不可亲近他人之妻;世间没有任何事比这更折损寿命。

13.161.22

यादृशं पुरुषस्येह परदारोपसेवनम् ।
तादृशं विद्यते किञ्चिदनायुष्यं नृणामिह ॥ १३.१६१.२२ ॥

正如在此世亲近他人之妻会折损男子的寿命,此世没有任何别的事物能如此折损人的寿命。

13.161.23

यावन्तो रोमकूपाः स्युः स्त्रीणां गात्रेषु निर्मिताः ।
तावद्वर्षसहस्राणि नरकं पर्युपासते ॥ १३.१६१.२३ ॥

女子身上所生的毛孔有多少,他们便在地狱中住上多少千年。

13.161.24

मैत्रं प्रसाधनं स्नानमञ्जनं दन्तधावनम् ।
पूर्वाह्ण एव कुर्वीत देवतानां च पूजनम् ॥ १३.१६१.२४ ॥

友善之礼、梳妆、沐浴、涂眼膏、洁齿——这些都应在上午进行,也应在此时礼拜诸神。

13.161.25

पुरीषमूत्रे नोदीक्षेन्नाधितिष्ठेत्कदाचन ।
नातिकल्यं नातिसायं न च मध्यंदिने स्थिते।
नाज्ञातैः सह गच्छेत नैको न वृषलैः सह ॥ १३.१६१.२५ ॥

不应看粪便和小便,也不应站在其上。不应过早于清晨,不应过晚于傍晚,也不应在太阳正午时出行。不应与陌生人同行,不应独行,也不应与贱民同行。

13.161.26

पन्था देयो ब्राह्मणाय गोभ्यो राजभ्य एव च ।
वृद्धाय भारतप्ताय गर्भिण्यै दुर्बलाय च ॥ १३.१६१.२६ ॥

应让路给婆罗门、牛和国王。也应让路给老人、被重担压得灼热的人、孕妇和体弱者。

13.161.27

प्रदक्षिणं च कुर्वीत परिज्ञातान्वनस्पतीन् ।
चतुष्पदान्मङ्गलांश्च मान्यान्वृद्धान्द्विजानपि ॥ १३.१६१.२७ ॥

应绕行,使右侧朝向他们:熟知的树木、吉祥的四足动物、受尊敬的长者,也包括再生族。

13.161.28

मध्यंदिने निशाकाले अर्धरात्रे च सर्वदा ।
चतुष्पथं न सेवेत उभे सन्ध्ये तथैव च ॥ १३.१६१.२८ ॥

正午、夜间、午夜以及任何时候,都不应常至十字路口;两个黄昏时也同样。

13.161.29

उपानहौ न वस्त्रं च धृतमन्यैर्न धारयेत् ।
ब्रह्मचारी च नित्यं स्यात्पादं पादेन नाक्रमेत् ॥ १३.१६१.२९ ॥

不应穿他人穿过的鞋子或衣服。梵行者应始终保持梵行,不应将一只脚压在另一只脚上。

13.161.30

अमावास्यां पौर्णमास्यां चतुर्दश्यां च जन्मनि ।
अष्टम्यामथ द्वादश्यां ब्रह्मचारी सदा भवेत् ॥ १३.१६१.३० ॥

在新月日、满月日、十四日、生日、八日和十二日,梵行者应始终保持梵行。

13.161.31

वृथा मांसं न खादेनि पृष्ठमांसं तथैव च ।
आक्रोशं परिवादं च पैशुन्यं च विवर्जयेत् ॥ १३.१६१.३१ ॥

不应徒然食肉,也不应背后诽谤。应当远离辱骂、诽谤与搬弄是非。

13.161.32

नारुन्तुदः स्यान्न नृशंसवादी ।
न हीनतो वरमभ्याददीत।
ययाऽस्य वाचा पर उद्विजेत ।
न तां वदेद्रुशतीं पापलोक्याम् ॥ १३.१६१.३२ ॥

不可伤害他人,不可说残酷的话。不可接受卑贱者的任何馈赠。不可说那种使他人惊恼的、罪恶而伤人的话。

13.161.33

अतिवादबाणा मुखतो निःसरन्ति ।
यैराहतः शोचति रात्र्यहानि।
परस्य वा मर्मसु ये पतन्ति ।
तान्पण्डितो नावसृजेत्परेषु ॥ १३.१६१.३३ ॥

尖刻的话语如箭从口中射出;被它射中的人日夜悲伤。那些落在他人要害之处的话,智者不应射向他人。

13.161.34

संरोहत्यग्निना दग्धं वनं परशुना हतम् ।
वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम् ॥ १३.१६१.३४ ॥

被火烧毁的森林会重新绿起来,被斧头砍伐的森林也会。但因口舌说出的卑劣刻薄之言所造成的伤口,却不会愈合。

13.161.35

कर्णिनालीकनाराचान्निर्हरन्ति शरीरतः ।
वाक्शल्यस्तु न निर्हर्तुं शक्यो हृदिशयो हि सः ॥ १३.१६१.३५ ॥

带倒钩的箭、铁箭可以从身体中拔出;但言语的刺却无法拔除,因为它深埋在心中。

13.161.36

हीनाङ्गानतिरिक्ताङ्गान्विद्याहीनान्वयोधिकान् ।
रूपद्रविणहीनांश्च सत्यहीनांश्च नाक्षिपेत् ॥ १३.१६१.३६ ॥

不可侮辱肢体残缺或多余的人、缺乏学问的人、年长的人、缺少容貌或财富的人,以及缺乏真诚的人。

13.161.37

नास्तिक्यं वेदनिन्दां च परनिन्दां च कुत्सनम् ।
द्वेषस्तम्भाभिमानं च तैक्ष्ण्यं च परिवर्जयेत् ॥ १३.१६१.३७ ॥

应当避免无信、诋毁吠陀、诽谤他人与轻侮、憎恨、固执、傲慢与严厉。

13.161.38

परस्य दण्डं नोद्यच्छेत्क्रुद्धो नैनं निपातयेत् ।
अन्यत्रि पुत्राच्छिष्याच्च शिक्षार्थं ताडनं स्मृतं ॥ १३.१६१.३८ ॥

不可对他人举杖,也不可怒而将其击倒。唯有为教导而责打儿子或弟子,才是传统所规定的。

13.161.39

न ब्राह्म्णान्परिवदेन्नक्षत्राणि न निर्दिशेत् ।
तिथिं पक्षस्य न ब्रूयात्तथाऽस्यायुर्न रिष्यते ॥ १३.१६१.३९ ॥

不可诽谤婆罗门,不可指点星宿,不可说出半月的太阴日;如此,其寿命不会减损。

13.161.40

अमावास्यामृते नित्यं दन्तधावनमाचरेत् ।
इतिहासपुराणानि दानं वेदं च नित्यशः।
गायत्रीमननं नित्यं कुर्यात्सन्ध्यां समाहितः ॥ १३.१६१.४० ॥

除新月之日外,应当每日刷牙。每日应学习史诗与往世书,行布施,诵读吠陀;应当常念诵《伽耶特里》,心志专一地行黄昏之礼。

13.161.41

कृत्वा मूत्रपुरीषे तु रथ्यामाक्रम्य वा पुनः ।
पादप्रक्षालनं कुर्यात्स्वाध्याये भोजने तथा ॥ १३.१६१.४१ ॥

大小便之后,或走过街道之后,应再次洗脚;读诵经书时与进食时亦然。

13.161.42

त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन् ।
अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते ॥ १३.१६१.४२ ॥

诸神为婆罗门设定了三样净物:经水洗净、除去看不见之污秽者,以及以言语所赞美者。

13.161.43

यावकं कृसरं मांसं शष्कुलीं पायसं तथा ।
आत्मार्थंतं न प्रकर्तव्यं देवार्थं तु प्रकल्पयेत् ॥ १३.१६१.४३ ॥

大麦粥、芝麻粥、肉、炸饼和牛奶布丁不应为自己而做,应为诸神而备。

13.161.44

नित्यमग्निं परिचरेद्भिक्षां दद्याच्च नित्यदा ।
दन्तकाष्ठे च सन्ध्यायां मलोत्सर्गे च मौनगः ॥ १३.१६१.४४ ॥

应当常常侍奉圣火,经常布施乞食;在用齿木时、黄昏时以及大小便时,应保持沉默。

13.161.45

न चाभ्युदितसायी स्यात्प्रायश्चित्ती तथा भवेत् ।
मातापितरमुत्थाय पूर्वमेवाभिवादयेत्।
आचार्यमथवाऽप्यन्तं तथाऽऽयुर्विदन्ते महत् ॥ १३.१६१.४५ ॥

日出之后不应睡觉;若睡,则应行忏悔。起身后应先向父母行礼,或也向师长行礼;由此可得长寿。

13.161.46

वर्जयेद्दन्तकाष्ठानि वर्जनीयानि नित्यशः ।
भक्षयेच्छास्त्रदृष्टानि पर्वस्वपि विवर्जयेत्।
उदङ्मुखश्च सततं शौचं कुर्यात्समाहितः ॥ १३.१६१.४६ ॥

应当常常避免那些应当避免的齿木;应食用经典所规定的食物,而在节日时连这些也应避免。应常常面向北方,专心地清洁自身。

13.161.47

अकृत्वा देवपूजां च नाचरेद्दन्तधावनम् ।
अकृत्वा देवपूजां च नान्यं गच्छेत्कदाचन।
अन्यत्र तु गुरुं वृद्धं धार्मिकं वा विचक्षणम् ॥ १३.१६१.४७ ॥

未行供奉诸神之礼,不应洁齿;未行供奉诸神之礼,决不应前往他处——但往见师长、长者、有德之人或智者则不在此限。

13.161.48

अवलोक्यो न चादर्शो मलिनो बुद्धिमत्तरैः ।
न चाज्ञातां स्त्रियं गच्छेद्गर्भिणीं वा कदाचन ॥ १३.१६१.४८ ॥

智者不应照看污秽的镜子,也绝不可亲近不相识的女子或怀孕的妇人。

13.161.49

दारसङ्ग्रहणात्पूर्वं नाचरेन्मैथुनं बुधः ।
अन्यथा त्ववकीर्णः स्यात्प्रायश्चित्तं सदाऽऽचरेत् ॥ १३.१६१.४९ ॥

智者在娶妻之前不应行房,否则便会堕落,因此应当常行赎罪之事。

13.161.50

नीदीक्षेत्परदारांश्च रहस्येकासनो भवेत् ।
इन्द्रियाणि सदा यच्छेत्स्वग्ने शुद्धमना भवेत् ॥ १३.१६१.५० ॥

不应以欲念注视他人之妻,应在隐秘处独坐,常常克制诸根,并在自己的火旁保持清净之心。

13.161.51

उदक्शिरा न स्वपेत तथा प्रत्यक्शिरा न च ।
प्राक्शिरास्तु स्वपेद्विद्वांस्तथा वै दक्षिणाशिराः ॥ १३.१६१.५१ ॥

智者不应头向北而睡,也不应头向西而睡;应当头向东而睡,同样头向南也可。

13.161.52

न भग्ने नावशीर्णो च शयने प्रस्वपीत च ।
नान्तर्धानेन संयुक्ते न च तिर्यक्कदाचन ॥ १३.१६१.५२ ॥

不应卧于破损或朽坏的床上睡眠,也不应卧于连着遮蔽帷幔的床上;也绝不可横卧而睡。

13.161.53

न चापि गच्छेत्कार्येण समयाद्वाऽपि नास्तिकैः ।
आसनं तु पदाऽऽकृष्य न प्रसज्जेत्तथा नरः ॥ १३.१६१.५३ ॥

即便为了事务或依约定,也不应去往无信仰者那里;人也不应以脚拉过座位而贪恋地坐下。

13.161.54

न नग्नः कर्हिचित्स्नायान्न निशायां कदाचन ।
स्नात्वा च नावमृज्येत गात्राणि सुविचक्षणः।
न निशायां पुनः स्नायादापद्यग्निद्विजान्तिके ॥ १३.१६१.५४ ॥

不应裸体洗浴,也不应在夜间洗浴。沐浴之后,智者不应擦拭身体。即使在困境中,夜间也不应再次沐浴,除非在火和再生者面前。

13.161.55

न चानुलिम्पेदस्नात्वा वासश्चापि न निर्धुनेत् ।
आर्द्र एव तु वासांसि नित्यं सेवेत मानवः ॥ १३.१६१.५५ ॥

未沐浴时不应涂抹,也不应抖动衣服。人应当总是穿着湿的衣服。

13.161.56

स्रजश्च नावकृष्येत न बहिर्धारयीत च ।
उदक्यया च सम्भाषां न कुर्वीत कदाचन ॥ १३.१६१.५६ ॥

不应拉扯花环,也不应在外佩戴。不应与处于不净时期的女子交谈。

13.161.57

नोत्सृजेत पुरिषं च क्षेत्रे मार्गस्य चान्तिके ।
उभे मूत्रपुरीषे तु नाप्सु कुर्यात्कदाचन ॥ १३.१६१.५७ ॥

不应在田地里或路旁大小便。小便和大便都不应在水中进行。

13.161.58

देवालयेऽथ गोवृन्दे चैत्ये सस्येषु विश्रमे ।
भोक्ष्यं भुक्त्वा क्षुतेऽध्वानं गत्वा मूत्रपुरीषयोः।
द्विराचामेद्यथान्यायं हृद्गतं तु पिबन्नपः ॥ १३.१६१.५८ ॥

在寺庙中、牛群间、塔庙旁、庄稼中或休息处;饭后、打喷嚏后、走路后、或大小便后,应依规定漱水两次,饮水直达心间。

13.161.59

अन्नं बुभुक्षमाणस्तु त्रिमुखेन स्पृशेदपः ।
भुक्त्वा चान्नं तथैव त्रिर्द्विः पुनः परिमार्जयेत् ॥ १३.१६१.५९ ॥

饥饿的人在进食前应三次触水;饭后同样三次,再两次,用水擦拭。

13.161.60

प्राङ्मुखो नित्यमश्नीयाद्वाग्यतोऽन्नमकुत्सयन् ।
प्रस्कन्दयेच्च मनसा भुक्त्वा चाग्निमुपस्पृशेत् ॥ १३.१६१.६० ॥

应当总是面朝东方进食,克制言语,不诋毁食物;心中应舍弃(过失),饭后当触摸火。

13.161.61

आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः ।
धन्यं पश्चान्मुखो भुङ्क्त ऋतं भुङ्क्त उदङ्मुखः ॥ १३.१६१.६१ ॥

面朝东方进食者得长寿;面朝南方得名誉。面朝西方进食得财富;面朝北方则守持ṛta(正道秩序)。

13.161.62

अग्रासनो जितक्रोधो बालपूर्वस्त्वलङ्कृतः ।
घृताहुतिविशुद्धान्नं हुताग्निश्च क्षिपन्ग्रसेत् ॥ १३.१६१.६२ ॥

居首座、戒除愤怒、先供给孩童、衣着整齐的人,以酥油供奉使食物清净,并向火中献祭之后,应抛掷着一口口地进食。

13.161.63

अग्निमालभ्य तोयेन सर्वान्प्राणानुपस्पृशेत् ।
गात्राणि चैव सर्वाणि नाभिं पाणितले तथा ॥ १३.१६१.६३ ॥

触火之后,以水触摸诸生气(诸根);同样地触摸全身各肢体、肚脐,并以掌中水(触摸)。

13.161.64

नाधितिष्ठेत्तुषं जातु केशभस्मकपालिकाः ।
अन्यस्य चाप्यवस्नातं दूरतः परिवर्जयेत् ॥ १३.१६१.६४ ॥

切勿站在糠秕、头发、灰烬或陶片之上;他人沐浴所用之物,应远远避开。

13.161.65

शान्तिहोमांश्च कुर्वीत सावित्राणि च धारयेत् ।
निषष्णश्चापि खादेन न तु गच्छन्कदाचन ॥ १३.१६१.६५ ॥

应当举行平安祭(śāntihoma),并持诵萨维特里(Sāvitrī)诗句。应坐着进食,决不可边走边吃。

13.161.66

मूत्रं नोत्तिष्ठता कार्यं न भस्मनि न गोव्रजे ।
आर्द्रपादस्तु भुञ्जीत नार्द्रपादस्तु संविशेत् ॥ १३.१६१.६६ ॥

不可站着小便,也不可在灰烬上或牛栏中小便。湿脚可以进食,但湿脚不可躺下睡觉。

13.161.67

आर्द्रपादस्तु भुञ्जानो वर्षाणां जीवते शतम् ।
त्रीणि तेजांसि नोच्छिष्ट आलभेत कदाचन।
अग्निं गां ब्राह्मणं चैव तता ह्यायुर्न रिष्यते ॥ १३.१६१.६७ ॥

赤脚湿足进食者可活百年。口中有残渣时,决不可触碰三种光明之物——火、牛和婆罗门;如此则寿命不会减损。

13.161.68

त्रीणि ज्योतींषि नोच्छिष्ट उदीक्षेत कदाचन ।
सूर्याचन्द्रमसौ चैव नक्षत्राणि च सर्वशः ॥ १३.१६१.६८ ॥

口中有残渣时,决不可直视三光——日、月与众星。

13.161.69

ऊर्ध्वं प्राणा ह्युत्क्रमन्ति यूनः स्थविर आगते ।
प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते ॥ १३.१६१.६९ ॥

长者到来时,少年的生气向上升起;起身致敬之后,它们便重新回到身上。

13.161.70

अभिवादयीत वृद्धांश्च दद्याच्चैवासनं स्वयम् ।
कृताञ्जलिरुपासीत गच्छन्तं पृष्ठतोऽन्वियात् ॥ १३.१६१.७० ॥

应向长者行礼,并亲自奉上座位;合掌在旁侍坐,长者离去时,应从后跟随。

13.161.71

न चासीतासने भिन्ने भिन्नकांस्यं च वर्जयेत् ।
नैकवस्त्रेण भोक्तव्यं न नग्नः स्नातुमर्हति ॥ १३.१६१.७१ ॥

不应坐在破损的座位上,也应避免使用破裂的铜器。不应只穿一件衣服进食,裸身者也不应沐浴。

13.161.72

स्पप्तव्यं नैव नग्नेन न चोच्छिष्टोपि संविशेत् ।
उच्छिष्टो न स्पृशेच्छीर्षं सर्वे प्राणास्तदाश्रयाः ॥ १३.१६१.७२ ॥

不应裸身睡觉,即使沾染了残食也不应躺下。沾染残食者不应触摸头部,因为一切生命之气都依赖于此。

13.161.73

केशग्रहं प्रहारांश्च सिरस्येतान्विवर्जयेत् ।
न संहाताभ्यां पाणिभ्यां कण्डूयेदात्मनः शिरः।
न चाभीक्ष्णं शिरःस्नायात्तथा स्यायुर्न रिष्यते ॥ १३.१६१.७३ ॥

应避免揪扯头发和击打头部。不应以并拢的双手抓挠自己的头,也不应频繁洗头;这样寿命就不会减损。

13.161.74

शिरःस्नातस्तु तैलैश्च नाङ्गं किञ्चिदपि स्पृशेत् ।
तिलपिष्टं न चाश्नीयाद्गतसर्वरसं तथा ॥ १३.१६१.७४ ॥

洗完头后,不应以油触摸身体的任何部位。不应食用芝麻糊,也不应食用已失去全部滋味的食物。

13.161.75

नाध्यापयेत्तथोच्छिष्टो नाधीयीत कदाचन ।
वाते च पूतिगन्धे च मनसाऽपि न चिन्तयेत् ॥ १३.१६१.७५ ॥

沾染残食者不应教授,也不应自己诵习。在风中和恶臭之处,甚至不应在心中思考它。

13.161.76

अत्र गाथा यमोद्गीताः कीर्तयन्ति पुराविदः ।
आयुरस्य निकृन्तामि प्रज्ञामस्याददे तथा ॥ १३.१६१.७६ ॥

此处古代的智者诵念阎摩所唱的偈颂:“我要截断他的寿命,也要夺取他的智慧。”

13.161.77

उच्छिष्टो यः प्राद्रवति स्वाध्यायं चाधिगच्छति ।
यश्चानध्यायकालेऽपि मोहादभ्यस्यति द्विजः ॥ १३.१६१.७७ ॥

那在不净状态下奔走并从事吠陀诵习的再生族,以及在禁止诵习之时仍因迷惑而诵习的再生族——

13.161.78

तस्य वेदः प्रणश्येत आयुश्चि परिहीयते ।
तस्माद्युक्तो ह्यनध्याये नाधीयीत कदाचन ॥ १३.१६१.७८ ॥

他的吠陀会失传,寿命也会减少。因此,自律之人在禁止诵习之时绝不应当学习。

13.161.79

प्रत्यादित्यं प्रत्यनलं प्रतिगां च प्रतिद्विजान् ।
ये मेहन्ति च पन्थानं ते भवन्ति गतायुषः ॥ १३.१६१.७९ ॥

面向太阳、火、牛、再生族小便,以及在路上小便的人,都会短命。

13.161.80

उभे मूत्रपुरीषे तु दिवा कुर्यादुदङ्मुखः ।
दक्षिणाभिमुखो रात्रौ तथा हन्युर्न रिष्यते ॥ १३.१६१.८० ॥

白天应面向北方大小便,夜晚面向南方。如此行,则不会受害。

13.161.81

त्रीन्कृशान्नावजानीयाद्दीर्घमायुर्जिजीविषु ।
ब्राह्मणं क्षत्रियं सर्पं सर्वे ह्याशीविषास्त्रयः ॥ १३.१६१.८१ ॥

求长寿者不可轻视看似弱小的三者:婆罗门、刹帝利和蛇;这三者都是能以目光致毒的有毒者。

13.161.82

दहत्याशीविषः क्रुद्धो यावत्पश्यति चक्षुषा ।
क्षत्रियोपि दहेत्क्रुद्धो यावत्स्पृशति तेजसा ॥ १३.१६१.८२ ॥

愤怒的毒视者只要以眼睛注视便能烧灼;愤怒的刹帝利只要以威光触及便能烧灼。

13.161.83

ब्राह्म्णिस्तु कुलं हन्याद्ध्यानेनावेक्षितेन च ।
तस्मादेतत्त्रयं यत्नादुपसेवेत पण्डितः ॥ १३.१६१.८३ ॥

婆罗门可以凭禅思或一瞥毁灭一个家族。因此智者应当谨慎地侍奉这三者。

13.161.84

गुरुणा वैरनिर्बन्धो न कर्तव्यः कदाचन ।
अनुमान्यः प्रसाद्यश्च गुरुः क्रुद्धो युदिष्ठिर ॥ १३.१६१.८४ ॥

对老师绝不可执拗于仇怨。俱卢族的尤提希提拉啊,愤怒的老师须以恭敬之言安抚并使其欢喜。

13.161.85

सम्यङ्मिथ्याप्रवृत्तेऽपि वर्तितव्यं गुराविह ।
गुरुनिन्दा दहत्यायुर्मनुष्याणां न संशयः ॥ १३.१६१.८५ ॥

对老师,无论他行为对错,在这世上都应以敬重相待。诽谤老师会烧尽人的寿命,这一点毫无疑问。

13.161.86

दूरादावसथान्मूत्रं दूरात्पादावसेचनम् ।
उच्छिष्टोत्सर्जनं चैव दूरे कार्यं हितैषिणा ॥ १३.१६१.८६ ॥

求自身利益者,应在远离住处之处小便,在远处洗脚,剩余的食物也应远远丢弃。

13.161.87

रक्तमाल्यं न धार्यं स्याच्छुक्लं धार्यं तु पण्डितैः ।
वर्जयित्वा तु कमलं तथा कुवलयं प्रभो ॥ १३.१६१.८७ ॥

不应佩戴红色花环,智者佩戴白色的。主啊,莲花与青莲除外。

13.161.88

रक्तं शिरसि धार्यं तु तथा वानेयमित्यपि ।
काञ्चनीयाऽपि माला या न सा दुष्यति कर्हिचित् ॥ १३.१६१.८८ ॥

红花应戴在头上,生于森林中的花亦然。金制的花环也永远不会被玷污。

13.161.89

स्नातस्य वर्णकं नित्यमार्द्रं दद्याद्विशांपते ॥ १३.१६१.८९ ॥

对于沐浴之人,应当常常奉上新鲜的涂香,人主啊。

13.161.90

विपर्ययं न कुर्वीत वाससो बुद्धिमान्नरः ।
तथा नान्यधृतं धार्यं न चातिविकृतं तथा ॥ १३.१६१.९० ॥

智者不应将衣服穿反,也不应穿他人穿过的,或破旧不堪的衣服。

13.161.91

अन्यदेव भवेद्वासः शयनीये नरोत्तम ।
अन्यद्रथ्यासु देवानामर्चायामन्यदेव हि ॥ १३.१६१.९१ ॥

人中之最,寝卧之衣应当不同,行于街道之衣应当不同,而供奉诸神之衣则应另外。

13.161.92

प्रियङ्गुचन्दनाभ्यां च बिल्वेन स्थगरेण च ।
पृथगेवानुलिम्पेत केसरेण च बुद्धिमान् ॥ १३.१६१.९२ ॥

智者应当分别以priyaṅgu与檀香、bilva与sthagara以及藏红花涂抹身体。

13.161.93

उपवासं च कुर्वीत स्नातः शुचिरलङ्कृतः ।
नोपवासं वृथा कुर्याद्धनं नापहरेदिह ॥ १३.१६१.९३ ॥

沐浴、洁净并庄严之后,应当持斋;不应徒然持斋,也不应在此夺取他人的财物。

13.161.94

पर्वकालेषु सर्वेषु ब्रह्मचारी सदा भवेत् ।
समानमेकपात्रे तु भुञ्जेन्नान्नं जनेश्वर ॥ १३.१६१.९४ ॥

在一切节日之时,人应常守梵行;人主啊,不应与人同用一器共食。

13.161.95

नावलीढमवज्ञातमाघ्रातुं भक्षयेदपि ।
तथा नोद्धृतसाराणि प्रेक्षतामप्रदाय च ॥ १३.१६१.९५ ॥

不应食用被舔过、被轻视、仅被嗅过的食物,也不应食用已取走精华的食物,且不应在旁观者未得施舍时自己进食。

13.161.96

नासंनिविष्टो मेधावी नाशुचिर्नि च सत्यु च ।
प्रतिषिद्धान्नं धर्मेषु भक्ष्यान्भुञ्जीत पृष्ठतः ॥ १३.१६१.९६ ॥

智者不应在坐姿不正、身不洁净时进食,也不应食用被禁止的食物;可食之物应从后方取食。

13.161.97

पिप्पलं च वटं चैव शणशाकं तथैव च ।
उदुम्बरं न खादेश्च भवार्थी पुरुषो नृप ॥ १३.१६१.९७ ॥

国王啊,追求福祉的人不应食用毕钵罗无花果、榕树果、麻叶蔬菜和优昙钵果。

13.161.98

आजं गव्यं च यन्मांसं मायूरं चैव वर्जयेत् ।
वर्जयेच्छुष्कमांसं च तथा पर्युषितं च यत् ॥ १३.१६१.९८ ॥

应避免山羊肉、牛肉和孔雀肉;也应避免干肉和隔夜的食物。

13.161.99

न पाणौ लवणं विद्वान्प्राश्नीयान्न च रात्रिषु ।
दधिसक्तून्न दोषायां पिबेन्मधु च नित्यशः ॥ १३.१६१.९९ ॥

智者不应用手尝盐,也不应夜间进食;夜间不应食用凝乳与炒面,应当常饮蜂蜜。

13.161.100

सायं प्रातश्च भुञ्जीत नान्तराले समाहितः ।
वालेन तु न भुञ्जीत परश्राद्धं तथैव च ॥ १३.१६१.१०० ॥

应在早晚进食,不应在两餐之间专注地进食;不应食用混有头发的食物,也不应吃他人的祭祖(施食)之餐。

13.161.101

वाग्यतो नैकवस्त्रश्च नासंविष्टः कदाचन ।
भूमौ सदैव नाश्नीयान्नाशौचं न च शब्दवत् ॥ १३.१६१.१०१ ॥

应当始终坐在地上,保持沉默,只穿一件衣服,从不躺着进食,也不在不净之时或发出声响时进食。

13.161.102

तोयपूर्वं प्रदायान्नमतिथिभ्यो विशाम्पते ।
पश्चाद्भुञ्जीत मेधावी न चाप्यन्यमना नरः ॥ १३.१६१.१०२ ॥

人主啊,先以水与食物奉给客人,智者然后再食,且不可心念他处而食。

13.161.103

समानमेकपङ्क्त्यां तु भोज्यमन्नं नरेश्वर ।
विषं हालाहलं भुङ्क्ते योऽप्रदाय सुहृज्जने ॥ १३.१६१.१०३ ॥

人主啊,同坐一排之食应当平均分享;凡不给亲友便自己吃的人,就是在吃致命的哈拉哈拉毒。

13.161.104

पानीयं पायसं सक्तून्दधि सर्पिर्मधून्यपि ।
निरस्य शेषमन्येषां न प्रदेयं तु कस्यचित् ॥ १३.१६१.१०४ ॥

饮水、牛奶粥、大麦粉、凝乳、酥油,乃至蜂蜜——留出给他人的剩余部分后,不应把残余之物给任何人。

13.161.105

भुञ्जानो मनुजव्याघ्र नैव शङ्कां समाचरेत् ।
दधि चाप्यनु पानं वै न कर्तव्यं भवार्थिना ॥ १३.१६१.१०५ ॥

人中之虎啊,进食时不应心存疑虑;求福之人饭后也不应以凝乳作饮料。

13.161.106

आचम्य चैकहस्तेन परिस्राव्य तथोदकम् ।
अङ्गुष्ठं चरणस्याथ दक्षिणस्यावसेचयेत् ॥ १३.१६१.१०६ ॥

先行漱口净口(阿质摩那),以一手滤水,然后将水洒在右脚的大拇趾上。

13.161.107

पाणिं मूर्ध्नि समाधाय स्पृष्ट्वा चाग्निं समाहितः ।
ज्ञातिश्रैष्ठ्यमवाप्नोति प्रयोगकुशलो नरः ॥ १३.१६१.१०७ ॥

将手置于头上,心志专一地触摸火焰,熟于仪轨的人便能在亲族之中获得尊崇。

13.161.108

अद्भिः प्राणान्समालभ्य नाभिं पाणितले तथा ।
स्पृशंश्चैव प्रतिष्ठेत न चाप्यार्द्रेण पाणिना ॥ १३.१६१.१०८ ॥

以水触摸气息,以掌心触摸肚脐,然后起身站立;也不可用湿手。

13.161.109

अङ्गुष्ठमूलस्य तले ब्राह्मं तीर्तमुदाहृतम् ।
कनिष्ठिकायाः पश्चात्तु देवतीर्थमिहोच्यते ॥ १३.१६१.१०९ ॥

在掌中拇指根下方称为梵天渡口;而小指之后的部位,此处称为天神渡口。

13.161.110

अङ्गुष्ठस्य च यन्मध्यं प्रदेशिन्याश्च भारत ।
तेन पित्र्याणि कुर्वीत स्पृष्ट्वाऽऽपो न्यायतः सदा ॥ १३.१६१.११० ॥

婆罗多之子啊,以拇指与食指之间的中部触水,应当始终依法行祖先之祭。

13.161.111

परापवादं न ब्रूयान्नाप्रियं च कदाचन ।
न मन्युः कश्चिदुत्पाद्यः पुरुषेणि भवार्थिना ॥ १३.१६१.१११ ॥

不可诽谤他人,也绝不说令人不快的话;求福之人不应引发任何愤怒。

13.161.112

एतितैस्तु कथां नेच्छेद्दर्शनं च विवर्जयेत् ।
संसर्गं च न गच्छेत तथाऽऽयुर्विन्दते महत् ॥ १३.१६१.११२ ॥

不可与此等人交谈,也应避免与他们相见;不可与他们结交。如此,人便能获得长寿。

13.161.113

न दिवा मैथुनं गच्छेन्न कन्यां न च बन्धकीम् ।
न चास्नातां स्त्रियं गच्छेत्तथाऽऽयुर्विन्दते महत् ॥ १३.१६१.११३ ॥

白天不可行房事,不可亲近少女或娼妓,也不可亲近未沐浴的女子;如此,人便得享长寿。

13.161.114

स्वेस्वे तीर्थे समाचम्य कार्ये समुपकल्पिते ।
त्रिः पीत्वाऽऽपो द्विः प्रमृज्य कृतशौचो भवेन्नरः ॥ १३.१६१.११४ ॥

在自己的圣地行漱水礼,为所定之事作好准备,三次饮水、两次拭净,人便清净了。

13.161.115

इन्द्रियाणि सकृत्स्पृश्य त्रिरभ्युक्ष्य च मानवः ।
कुर्वीत पित्र्यं दैवं च वेददृष्टेन कर्मणा ॥ १३.१६१.११५ ॥

人应一次触摸诸根,三次洒水,依吠陀所示之仪轨,行祭祖之礼与祭神之礼。

13.161.116

ब्राह्मणार्थे च यच्छौचं तच्च मे शृणु कौरव ।
प्रवृत्तं चाहितं चोक्त्वा बहुभोजनवत्तदा ॥ १३.१६१.११६ ॥

俱卢之子啊,也请听我说为婆罗门所行的净化之法,那是此前所说的已行之事、不利之事,犹如多食一般。

13.161.117

सर्वशौचेषु ब्राह्मेण तीर्थेन समुपस्पृशेत् ।
निष्ठीव्य तु तथा क्षुत्वा स्पृश्यापो हि शुचिर्भवेत् ॥ १३.१६१.११७ ॥

凡行净化,皆当以梵之津口触水;吐唾与喷嚏之后,触水即得清净。

13.161.118

निष्ठिवने मैथुने च क्षुते अक्ष्याविमेचने ।
उदक्या दर्शने तद्वन्नग्नस्याचमनं स्मृतम्।
स्पृशेत्कर्णं सप्रणवं सूर्यमीक्षेत्सदा तदा ॥ १३.१६१.११८ ॥

吐唾、行房、喷嚏、睁眼、见经期女子以及赤身之时,皆规定行漱水礼;随后以唵(praṇava)触耳,并常望太阳。

13.161.119

वृद्धो ज्ञातिस्तथा मित्रमनाथा च स्वसा गुरुः ।
कुलीनः पण्डित इति रक्ष्या निःस्वः स्वशक्तितः।
गृहे वासयितव्यास्ते धन्यमायुष्यमेव च ॥ १३.१६१.११९ ॥

应当庇护长者、亲族、朋友、无依无靠的姐妹、师长、出身高贵者与学者;贫穷者应依自己的能力接纳到家中居住。让他们住在家中既吉祥又能延年益寿。

13.161.120

गृहे पारावता धार्याः शुकाश्च सहशारिकाः ।
देवताप्रतिमाऽऽदर्शश्चन्दनाः पुष्पवल्लिकाः ॥ १३.१६१.१२० ॥

家中应养鸽子,也养鹦鹉和八哥;还应有神像、镜子、檀香和开花的藤蔓。

13.161.121

शुद्धं जलं सुवर्णं च रजतं गृहमङ्गलम् ।
गृहेष्वेते न पापाय यथा वै तैलपायिकाः ॥ १३.१६१.१२१ ॥

清水、黄金、白银和家中的吉祥之物在房屋中不会带来祸害,正如饮油之灯也不会。

13.161.122

उद्दीपकाश्च गृध्रास्च कपोता भ्रमरास्तथा ।
निविशेयुर्यदा तत्र शान्तिमेव तदाऽऽचरेत् ॥ १३.१६१.१२२ ॥

若燃烧之物、秃鹫、鸽子和蜜蜂飞入其中,那时便应行安抚之法。

13.161.123

अमङ्गल्यः सतां शापस्तथाऽऽक्रोशो महात्मनाम् ।
महात्मनोतिगुह्यानि न वक्तव्यानि कर्हिचित्। ॥ १३.१६१.१२३ ॥

善人的诅咒和对大人物的辱骂都是不吉利的。大人物最秘密的事情绝不可说出。

13.161.124

अगम्याश्च न गच्छेत राज्ञः पत्नीं सखीस्तथा ।
वैद्यानां बालवृद्धानां भृत्यानां च युधिष्ठिर ॥ १३.१६१.१२४ ॥

不可接近禁忌之女:不可接近国王的妻子和女伴;也不可接近医生、孩童、老人或仆人的妻子,俱卢之子啊。

13.161.125

बन्धूनां ब्राह्मणानां च तथा शारणिकस्य च ।
सम्बन्धिनां च राजेन्द्र तथाऽऽयुर्विन्दते महत् ॥ १३.१६१.१२५ ॥

尊敬亲属、婆罗门、寻求庇护者和姻亲的人,王中之王啊,便能获得长寿。

13.161.126

ब्राह्मणस्तपतिभ्यां च निर्मितं यन्निवेशनम् ।
तदा वसेत्सदा प्राज्ञो भवार्थी मनुजेश्वर ॥ १३.१६१.१२६ ॥

人主啊,在阳光与火光都能适当到达而建造的住所中,寻求兴旺的智者应当常住。

13.161.127

सन्ध्यायां न स्वपेद्राजन्विद्यां न च समाचरेत् ।
न भुञ्जीत च मेधावी तथाऽऽयुर्विन्दते महत् ॥ १३.१६१.१२७ ॥

国王啊,黄昏时不应睡觉,不应学习,也不应进食;如此,智者便能获得长寿。

13.161.128

नक्तं न कुर्यात्पित्र्याणि नक्तं चैव प्रसाधनम् ।
पानीयस्य क्रिया नक्तं न कार्या भूतिमिच्छता ॥ १३.१६१.१२८ ॥

夜间不应举行祖先祭祀,夜间不应梳妆,夜间也不应举行水祭;希求兴旺者应当如此。

13.161.129

वर्जनीयाश्चैव नित्यं सक्तवो निशि भारत ।
शेषाणि चावदातानि पानीयं चापि भोजने ॥ १३.१६१.१२९ ॥

婆罗多之子啊,夜间应当始终避免大麦粉;食物中剩余的洁净之物和饮水(也应在夜间避免)。

13.161.130

सौहित्यं न च कर्तव्यं रात्रौ न च समाचरेत् ।
न भुक्त्वा मैथुनं गच्छेन्न धावेन्नातिहासकम्।
द्विजच्छेदं न कुर्वीत भुक्त्वा न च समाचरेत् ॥ १३.१६१.१३० ॥

不应过饱,夜间更不可如此。饭后不应行房,不应奔跑,不应过度大笑。不应伤害再生族;饭后也不应如此行事。

13.161.131

महाकुले प्रसूतां च प्रशस्तां लक्षणैस्तथा ।
वयसाऽवरां सुनक्षत्रां कन्यामावोढुमर्हति ॥ १३.१६१.१३१ ॥

应娶出身于大族、以吉相著称、年幼、生于吉星之下的少女为妻。

13.161.132

अपत्यमुत्पाद्य ततः प्रतिष्ठाप्य कुलं तथा ।
पुत्राः प्रदेया जातेषु कुलधर्मेषु भारत ॥ १३.१६१.१३२ ॥

婆罗多啊,生育子嗣、立定家族之后,所生之子应当授以家族的职责。

13.161.133

कन्या चोत्पाद्य दातव्या कुलपुत्राय धीमते ।
पुत्रा निवेश्याश्च कुलाद्भृत्या लभ्याश्च भारत ॥ १३.१६१.१३३ ॥

女儿所生,应嫁给出身良好的智慧之子。婆罗多啊,儿子应当安置,仆役应从本族中获得。

13.161.134

शिरःस्नातोथ कुर्वीत दैवं पित्र्यमथापि च ॥ १३.१६१.१३४ ॥

先沐浴头发,然后应行祭神之礼,也应行祭祖之礼。

13.161.135

तैलं जन्मदिनेऽष्टम्यां चतुर्दश्यां च पर्वसु ।
नक्षत्रे न च कुर्वीत यस्मिञ्जातो भवेन्नरः।
न प्रोष्ठपदयोः कार्यं तथाऽऽग्नेये च भारत ॥ १३.१६१.१३५ ॥

生日、初八与十四日以及节日都不应涂油;在人出生的那颗星宿之下也不应涂油。婆罗多啊,在两个Prauṣṭhapada星宿下,以及在Āgneya星宿下,也不应涂油。

13.161.136

दारुणेषु च सर्वेषु प्रत्यरिं च विवर्जयेत् ।
ज्योतिषे यानि चोक्तानि तानि सर्वाणि वर्जयेत् ॥ १३.१६१.१३६ ॥

在一切凶险之时,应避开敌星;凡占星术所说的,都应避开。

13.161.137

प्राङ्मुखः श्मश्रुकर्माणि कारयेत्सुसमाहितः ।
उदङ्मुखो वा राजेन्द्र तथाऽऽयुर्विन्दते महत् ॥ १३.१६१.१३७ ॥

王中之王啊,应心神专注,面向东方或北方剃除胡须;如此便可获得长寿。

13.161.138

सामुद्रेणाम्यसा स्नानं क्षौरं श्राद्धेषु भोजनम् ।
अन्तर्वत्नीपतिः कुर्वन्न पुत्रफलमश्नुते ॥ १३.१६१.१३८ ॥

以海水沐浴,在祭祀亡者之礼中剃须并进食——孕妇之夫若如此行,便得不到生子之果。

13.161.139

सतां गुरूणां वृद्धानां कुलस्त्रीणां विशेषतः ।
परिवादं न च ब्रूयात्परेषामात्मनस्तथा।
परिवादो ह्यधर्माय प्रोच्यते भरतर्षभ ॥ १३.१६१.१३९ ॥

不可诽谤善人、师长、长者,尤其是良家妇女;他人如此,自己亦然。因为毁谤被说成是非法,婆罗多族的雄牛啊。

13.161.140

वर्जयेद्व्यङ्गिनीं नारीं तथा कन्यां नरोत्तम ।
समार्षां व्यङ्गिकां श्चैव मातुः सकुलजां तथा ॥ १३.१६१.१४० ॥

人中最好的人啊,应避开有肢体残缺的女子与少女;同样也应避开同一仙人族系的女子、有残缺的女子,以及出身于母亲家族的女子。

13.161.141

वृद्धां प्रव्रजितां चैव तथैव च पतिव्रताम् ।
तथा निकृष्टवर्णा च वर्णोत्कृष्टां च वर्जयेत्। ॥ १३.१६१.१४१ ॥

应避开年老的女子、出家的女子,同样也应避开贞节的妻子、低等种姓的女子,以及高等种姓的女子。

13.161.142

अयोनिं च वियोनिं च न गच्छेत विचक्षणः ।
पिङ्गलां कुष्ठिनीं नारीं न त्वमुद्वोढुमर्हसि ॥ १३.१६१.१४२ ॥

智者不应接近出身不当(ayoni)或血统错误(viyoni)的女子;你也不应娶赤褐色(piṅgalā)或患麻风的女子为妻。

13.161.143

अपस्मारिकुले जातां निहीनां चापि वर्जयेत् ।
श्वित्रिणां च कुले जातां क्षयिणां मनुजेश्वर ॥ १३.१६१.१४३ ॥

人主啊,也应避开出生于癫痫病家族、出身低贱、或生于麻风病或痨病家族的少女。

13.161.144

सुरोमशामतिस्थूलां कन्यां मातृपितृस्थिताम् ।
अलज्जां भ्रातृजां तुष्टां वर्जयेद्रक्तकेशिनीम् ॥ १३.१६१.१४४ ॥

应避开体毛过多、过于肥胖、仍与父母同住、无羞耻心、是兄弟之女、知足且红发的少女。

13.161.145

लक्षणैरन्विता या च प्रशस्ता या च लक्षणैः ।
मनोज्ञां दर्शनीयां च तां भवान्वोढुमर्हति ॥ १३.१६१.१४५ ॥

具备吉祥相、以诸相而受赞美、令人喜爱且美丽可观的少女,这样的人才是你应当娶的。

13.161.146

महाकुले निवेष्टव्यं सदृशे वा युधिष्ठिर ।
अवरा पतिता चैव न ग्राह्या भूतिमिच्छता ॥ १३.१६१.१४६ ॥

યુધિષ્ઠિર啊,应与显赫之家或门当户对之家结亲。欲求兴旺者不应娶低贱或堕落的女子。

13.161.147

अग्नीनुत्पाद्य यत्नेन क्रियाः सुविहिताश्च याः ।
वेदे च ब्राह्मणैः प्रोक्तास्ताश्च सर्वाः समाचरेत् ॥ १३.१६१.१४७ ॥

精心点燃圣火后,应当施行婆罗门在吠陀中宣说的、规定妥善的一切祭仪。

13.161.148

न चेर्ष्या स्त्रीषु कर्तव्या रक्ष्या दाराश्च सर्वशः ।
अनायुष्या भवेदीर्ष्या तस्मादीर्ष्यां विवर्जयेत् ॥ १३.१६१.१४८ ॥

不应对女子心生嫉妒,应当全面地保护妻子。嫉妒会减损寿命,因此应当戒除嫉妒。

13.161.149

अनायुष्यं दिवा स्वप्नं तथाऽभ्युदितशायिता ।
प्रातर्निशायां च तथा ये चोच्छिष्टा भवन्ति च ॥ १३.१६१.१४९ ॥

白天睡觉减损寿命,日出之后睡觉亦然;晨间与夜间亦复如是,凡沾染残食者亦然。

13.161.150

पारदार्यमनायुष्यं नापितोच्छिष्टता तथा ।
यत्नतो वै न कर्तव्यमत्याशश्चैव भारत ॥ १३.१६१.१५० ॥

通奸减损寿命,被理发匠残食所污亦然;婆罗多的后裔啊,应当小心避免这些,也应避免过度的贪欲。

13.161.151

सन्ध्यां न भुञ्ज्यान्न स्नायेन्न पुरीषं समुत्सृजेत् ।
प्रयतश्च भवेत्तस्यां न च किञ्चित्समाचरेत् ॥ १३.१६१.१५१ ॥

黄昏时不应进食、沐浴或大小便;此时应当自制,不做任何事情。

13.161.152

ब्राह्मणान्पूजयेच्चापि तथा स्नात्वा नराधिप ।
देवांश्च प्रणमेत्स्नातो गुरूंश्चाप्यभिवादयेत् ॥ १३.१६१.१५२ ॥

人主啊,沐浴之后也应敬奉婆罗门;沐浴之后应向诸神致敬,并恭敬地向师长行礼。

13.161.153

अनिमन्त्रितो न गच्छेत यज्ञं गच्छेत दर्शकः ।
अनर्चिते ह्यनायुष्यं गमनं तत्र भारत ॥ १३.१६१.१५३ ॥

未受邀请不应前往;可以作为旁观者去参加祭祀。婆罗多啊,前往不被尊敬之地会减损寿命。

13.161.154

न चैकेन परिव्रज्यं न गन्तव्यं तथा निशि ।
नानापदि परस्यान्नमनिमन्त्रितमाहरेत् ॥ १३.१६१.१५४ ॥

不应独自游荡,夜间也不应外出;在各种灾难中,不应未经邀请而取用他人的食物。

13.161.155

एकोद्दिष्टं न भुञ्जीत प्रथमं तु विशेषतः ।
सपिण्डीकरणं वर्ज्यं सविधानं च मासिकम् ॥ १३.१६१.१५५ ॥

不应食用一人祭(ekoddiṣṭa)的供品,尤其不应先吃;应避免sapiṇḍīkaraṇa仪式以及按规定程序举行的每月祭礼。

13.161.156

अनागतायां सन्ध्यायां पश्चिमायां गृहे वसेत् ॥ १३.१६१.१५६ ॥

在黄昏未到之前,应当留在家中,面向西方,于日落时分。

13.161.157

मातुः पितुर्गुरूणां च कार्यमेवानुशासनम् ।
हितं चाप्यहितं चापि न विचार्यं नरर्षभ ॥ १३.१६१.१५७ ॥

母亲、父亲与师长的命令,只应当执行;哦,人中雄牛,不应当去权衡它是有益还是有害。

13.161.158

क्षत्रियस्तु विशेषेण धनुर्वेदं समभ्यसेत् ।
धनुर्वेदे च वेदे च यत्नः कार्यो नाराधिप ॥ १३.१६१.१५८ ॥

刹帝利尤其应当精熟射箭之学(dhanurveda);哦,人主,应当在射箭之学与吠陀中都下功夫。

13.161.159

हस्तिपृष्ठेऽश्वपृष्ठे च रथचर्यासु चैव ह ।
यत्नवान्भव राजेन्द्र यत्नवान्सुवमेधते ॥ १३.१६१.१५९ ॥

在象背上、马背上以及战车的操练中,都要勤奋努力;哦,王中之王,勤奋之人必定兴旺。

13.161.160

अप्रधृष्यश्च शत्रूमां भृत्यानां स्वजनस्य च ।
प्रजापालनयुक्तश्च नारतिं लभते क्वचित् ॥ १३.१६१.१६० ॥

对敌人、仆从和亲族都难以被冒犯,且专注于保护臣民的人,从不会遭遇不满。

13.161.161

युक्तिशास्त्रं च ते ज्ञेयं शब्दशास्त्रं च भारत ।
गान्धर्वशास्त्रं च कलाः परिज्ञेया नराधिप ॥ १३.१६१.१६१ ॥

婆罗多之子啊,你应当通晓推理之学与语言之学;也应当精通乐艺之学与诸般技艺,人主啊。

13.161.162

पुराणमितिहासाश्च तथाऽऽख्यानानि यानि च ।
महात्मनां च चरितं श्रोतव्यं नित्यमेव ते ॥ १३.१६१.१६२ ॥

往世书与史诗,以及现存的各种传说,还有大德之人的事迹,这些你应当时常聆听。

13.161.163

मान्यानां माननं कुर्यान्निन्द्यानां निन्दनं तथा ।
गोब्राह्मणार्थे युध्येत प्राणानपि परित्यजेत् ॥ १३.१६१.१६३ ॥

应尊敬值得尊敬的人,斥责应受斥责的人;为牛与婆罗门而战,甚至应舍弃生命。

13.161.164

न स्त्रीषु सज्जेद्द्रष्टव्यं शक्त्या दानरुचिर्भवेत् ।
न ब्राह्मणान्परिभवेत्कार्पण्यं ब्राह्मणैर्वृतम्।
पतितान्नाभिभाषेत नाह्वयेत रजस्वलाम् ॥ १३.१६१.१६४ ॥

不可迷恋女子,只应视之为可观之物;应依自己的力量,喜好布施。不可轻慢婆罗门,也不可效仿婆罗门所行的吝啬。不可与堕落之人交谈,也不可召唤经期中的女子。

13.161.165

पत्नीं रजस्वलां चैव नाभिगच्छेन्न चाह्वयेत् ।
स्नातां चतुर्थे दिवसे रात्रौ गच्छेद्विचक्षणः ॥ १३.१६१.१६५ ॥

不可接近或召唤经期中的妻子;智者应在第四日,妻子沐浴之后,于夜间前去。

13.161.166

पञ्चमे दिवसे नारी षष्ठेऽहनि पुमान्भवेत् ।
आषोडशादृतुर्मुख्यः पुत्रजन्मनि शब्दितः ॥ १३.१६१.१६६ ॥

第五日所生为女,第六日所生为男;十六日之内的经期,被称为生子的最佳时节。

13.161.167

एतेन विधिना पत्नीमुपगच्छेत पण्डितः ।
ज्ञातिसम्बन्धिमित्राणि पूजनीयानि सर्वशः ॥ १३.१६१.१६७ ॥

智者应以此法亲近其妻,并在各方面尊敬亲族、姻亲与朋友。

13.161.168

यष्टव्यं च यथाशक्ति यज्ञैर्विविधदक्षिणैः ।
अत ऊर्ध्वमरण्यं च सेवितव्यं नराधिप ॥ १३.१६१.१६८ ॥

应依自身能力,以各种布施行祭祀;此后,人主啊,应当入林而居。

13.161.169

एष ते लक्षणोद्देश आयुष्याणां प्रकीर्तितः ।
शेषस्त्रैविद्यवृद्धेभ्यः प्रत्याहार्यो युधिष्ठिर ॥ १३.१६१.१६९ ॥

元稹啊,此为增益寿命之相的纲要已为你宣说;其余当向通晓三吠陀的长者请教。

13.161.170

एष ते लक्षणोद्देश आयुष्याणां प्रकीर्तितः ।
शेषस्त्रैविद्यवृद्धेभ्यः प्रत्याहार्यो युधिष्ठिर ॥ १३.१६१.१७० ॥

元稹啊,此为增益寿命之相的纲要已为你宣说;其余当向通晓三吠陀的长者请教。

13.161.171

आचारो भूतिजनन आचारः कीर्तिवर्धनः ।
आचाराद्वर्धते ह्यायुराचारो हन्त्यलक्षणम् ॥ १३.१६१.१७१ ॥

良好的品行带来繁荣,良好的品行增益名声。寿命确实因良好的品行而增长,良好的品行也能消除不祥之相。

13.161.172

आगमानां हि सर्वेषामाचारः श्रेष्ठ उच्यते ।
आचारप्रभवो धर्मो धर्मादायुर्विवर्धते ॥ १३.१६१.१७२ ॥

在一切经典中,品行被称为最为殊胜。法从品行而生,由法而寿命增长。

13.161.173

एतद्यशस्यमायुष्यं स्वर्ग्यं स्वस्त्ययनं महत् ।
अनुकम्प्य सर्ववर्णान्ब्रह्मणा समुदाहृतम् ॥ १३.१६१.१७३ ॥

此乃带来名声、长寿、天堂与大吉祥之道;梵天怀着对一切种姓的慈悲宣说了它。