摩诃婆罗多 · 章 13.162
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.162.1
कथं ज्येष्ठः कनिष्ठेषु वर्तेत भरतर्षभ ।
कनिष्ठाश्च यथा ज्येष्ठे वर्तेरंस्तद्ब्रवीहि मे ॥ १३.१६२.१ ॥
婆罗多族的雄牛啊,长者应如何对待幼者,幼者又应如何对待长者?请告诉我。
13.162.2
ज्येष्ठवत्तात वर्तस्व ज्येष्ठोसि हि तथा भवान् ।
गुरोर्गरीयसी वृत्तिर्या च शिष्यस्य भारत ॥ १३.१६२.२ ॥
亲爱的孩子,你应像长者一样行事,因为你本就是长者。对待老师的行为比对待学生的行为更为重要,婆罗多的后裔啊。
13.162.3
न गुरावकृतप्रज्ञे शक्यं शिष्येण वर्तितुम् ।
गुरौ हि सदृशी वृत्तिर्यथा शिष्यस्य भारत ॥ १३.१६२.३ ॥
若老师的智慧尚未成熟,学生便难以与之相处。婆罗多的后裔啊,对待老师的适当行为应与学生的行为相称。
13.162.4
अन्धः स्यादन्धवेलायां जडः स्यादपि वा बुधः ।
परिहारेण तद्ब्रूयाद्यस्तेषां स्याद्व्यतिक्रमः ॥ १३.१६२.४ ॥
无论他是盲目、愚钝还是明智,若其中任何人在盲目之时犯错,应当以暗示的方式告诉他,避免直接责备。
13.162.5
प्रत्यक्षं भिन्नहृदया भेदयेयुर्यथाऽहिताः ।
श्रियाऽभितप्तास्तद्भेदान्नभिन्नाः स्युः समाहिताः
श्रियाऽभितप्ताः कौन्तेय भेदकामास्तथाऽरयः ॥ १३.१६२.५ ॥
心已分裂的人会像敌人一样公然挑起纷争。被财富灼烧的人因这种分裂而分开,而团结者不会分开。贡蒂之子啊,被财富灼烧的敌人只想要分裂。
13.162.6
ज्येष्ठः कुलं वर्धयति विनाशयति वा पुनः ।
हन्ति सर्वमपि ज्येष्ठः प्रायो दुर्विनयादिह ॥ १३.१६२.६ ॥
长者既能使家族兴盛,也能使其毁灭。在此世间,大多由于缺乏教养,长者会毁掉一切。
13.162.7
अथ यो विनिकुर्वीत ज्येष्ठो भ्राता यवीयसः ।
अज्येष्ठः स्यादभागश्च नियम्यो राजभिश्च सः ॥ १३.१६२.७ ॥
若长兄欺凌幼弟,他便不再是长兄,失去应得之份,并应由诸王加以约束。
13.162.8
निकृती हि नरो लोकान्पापान्गच्छत्यसंशयम् ।
विफलं तस्य पुत्रत्वं मोघं जनयितुः स्मृतम् ॥ १३.१६२.८ ॥
奸诈之人无疑将堕入罪恶之界;他的为子之名毫无益处,对生他的人而言也被视为徒然。
13.162.9
पित्रोरनर्थायक कुले जायते पापपूरुषः ।
अकीर्तिं जनयत्येव कीर्तिमन्तर्दधाति च ॥ १३.१६२.९ ॥
罪人生于家族,只为令父母遭殃;他只带来恶名,并掩蔽美名。
13.162.10
सर्वे चापि विकर्मस्था भागं नार्हन्ति सोदराः ।
ज्येष्ठोऽपि दुर्विनीतस्तु कनिष्ठस्तु विशेषतः।
नाप्रदाय कनिष्ठेभ्यो ज्येष्ठः कुर्वीत वेतनम् ॥ १३.१६२.१० ॥
凡行恶之兄弟皆不应得份额;即使是行为不端的长兄也不应得,尤其长兄不应先给幼弟而自取报酬。
13.162.11
अनुजस्य पितुर्दायो जङ्घाश्रमफलोऽध्वगः ।
स्वयमीहेत लब्धं तु नाकामो दातुमर्हति ॥ १३.१६२.११ ॥
对幼子而言,父亲的遗产如同步行旅人的收获;他应当自己努力去取得。不愿给予者,不配给予。
13.162.12
भ्रातॄणामविभक्तानामुत्थानमपि चेत्सह ।
न पुत्रभागं विषमं पिता दद्यात्कदाचन। ॥ १३.१६२.१२ ॥
即使未分家的兄弟共同努力,父亲也绝不应不均地分配诸子之份。
13.162.13
न ज्येष्ठो वाऽवमन्येत दुष्कृतः सुकृतोऽपि वा ।
गुरूणामपराधो हि शक्यः क्षन्तव्य एव च ॥ १३.१६२.१३ ॥
无论长兄行为善恶,都不可轻慢。长者的过错应当容忍并予以原谅。
13.162.14
यदि स्त्री यद्यवरज श्रेयः पश्येत्तदाचरेत् ।
धर्मार्थः श्रेय इत्याहुस्त्रयो ज्ञाता विधायकाः ॥ १३.१६२.१४ ॥
无论女子或幼者,若见善法,便应践行。人们说法与利为至善;此三者被认为是立法之本。
13.162.15
दशाचार्यानुपाध्याय उपाध्यायान्पिता दश ।
दश चैव पितॄन्माता सर्वां वा पृथिवीमपि।
गौरवेणाभिभवति नास्ति मातृसमो गुरुः ॥ १३.१६२.१५ ॥
十位师傅相当于一位导师,十位导师相当于一位父亲,十位父亲相当于一位母亲。母亲的尊贵超过整个大地。没有任何老师能与母亲相比。
13.162.16
माता गरीयसी यच्च तेनैतां मन्यते गुरुम् ।
ज्येष्ठो भ्राता पितृसमो मृते पितरि भारत ॥ १३.१६२.१६ ॥
母亲更为尊贵,因此人们以她为师。婆罗多啊,父亲去世后,长兄便与父亲相同。
13.162.17
स ह्येषां वृत्तिदाता स्यात्स चैतान्प्रतिपालयेत् ।
कनिष्ठास्तं नमस्येरन्सर्वे छन्दानुवर्तिनः ॥ १३.१६२.१७ ॥
他应当是他们的供养者,并保护他们。幼者都应向他行礼,顺从他的意愿。
13.162.18
तमेव चोपजीवेरन्यथैव पितरं तथा ।
शरीरमेतौ सृजतः पिता मता च भारत ॥ १३.१६२.१८ ॥
人应依靠他,正如依靠父亲一样。婆罗多啊,创造身体的正是这二人——父亲与母亲。
13.162.19
आचार्यशिष्टा या जातिः सा सत्या साऽजरामरा ।
ज्येष्ठा मातृसमा चापि भगिनी भरतर्षभ। ॥ १३.१६२.१९ ॥
由老师所授而生的,才是真正的出生;它不老不死。婆罗多之牛啊,长姐也如同母亲。
13.162.20
भ्रातुर्भार्या च तद्वत्स्याद्यस्या बाल्ये स्तनं पिबेत् ॥ १३.१६२.२० ॥
兄长的妻子也是如此;在幼年时曾有人吮吸过其乳房的女子,亦是如此。