Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.163

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.163.1

सर्वेषामेव वर्णानां म्लेच्छानां च पितामह ।
उपवासे मतिरियं कारणं च न विद्महे ॥ १३.१६३.१ ॥

祖父啊,我们不知道这种关于斋戒的念头及其原因,无论是在所有种姓中,还是在蛮夷之中。

13.163.2

ब्रह्मक्षत्रेण नियमाः कर्तव्या इति नः श्रुतम् ।
उपवासे कथं तेषां कृतमस्ति पितामह। ॥ १३.१६३.२ ॥

我们听说婆罗门与刹帝利应当遵守戒律。祖父啊,他们在斋戒中是如何做的呢?

13.163.3

नियमांश्चोपवासांश्च सर्वेषां ब्रूहि पार्थिव ।
आप्नोति कां गतिं तात उपवासपरायणः ॥ १३.१६३.३ ॥

国王啊,请讲述所有人的戒律与斋戒。亲爱的,专心于斋戒之人会达到什么归宿?

13.163.4

उपवासः परं पुण्यं पवित्रमपि चोत्तमम् ।
उपोष्येह नरश्रेष्ठ किं फलं प्रतिपद्यते ॥ १३.१६३.४ ॥

斋戒是至高的功德,清净而殊胜。人中之最,人在此斋戒后会得到什么果报呢?

13.163.5

अधर्मान्मुच्यते केन धर्ममाप्नोति वा कथम् ।
स्वर्गं पुण्यं च लभते कथं भरतसत्तम ॥ १३.१६३.५ ॥

人借何而脱离非法,又如何得到正法?婆罗多中最优秀者啊,他如何获得天界与功德?

13.163.6

उपोष्य चापि किं तेन प्रयोज्यं स्यान्नराधिप ।
धर्मेण च सुखानर्थाँल्लभेद्येन ब्रवीहि मे ॥ १३.१६३.६ ॥

人主啊,斋戒之后应当用它做什么呢?请告诉我,人通过正法借由什么获得快乐与财富。

13.163.7

एवं ब्रुवाणं कौन्तेयं धर्मज्ञं धर्मतत्त्ववित् ।
धर्मपुत्रमिदं वाक्यं भीष्मः शान्तनवोऽब्रवीत् ॥ १३.१६३.७ ॥

对如此说话的、通晓法义与法之真谛的昆提之子、法子,檀努之子毗湿摩说了这番话。

13.163.8

इदं खलु महाराज श्रुतमासीत्पुरातनम् ।
उपावासविधौ श्रेष्ठा गुणा ये भरतर्षभ ॥ १३.१६३.८ ॥

大王啊,我确实听过这古老的教导:禁食之规中所含的殊胜功德,婆罗多族中的牛啊。

13.163.9

प्राजापत्यमाङ्गिरसं पृष्टवानस्मि भारत ।
यथा मां त्वं तथैवाहं पृष्टवांस्तं तपोधनम् ॥ १३.१६३.९ ॥

婆罗多啊,正如你问我那样,我也去问了那位以苦行为财富、属于生主之系的安吉罗娑。

13.163.10

प्रश्नमेतं मया पृष्टो भगवानग्निसम्भवः ।
उपवासविधिं पुण्यमाचष्ट भरतर्षभ ॥ १३.१६३.१० ॥

我问了这个问题,那位出生于火的世尊便讲述了这功德殊胜的禁食之规,婆罗多族中的牛啊。

13.163.11

ब्रह्मक्षत्रे त्रिरात्रं तु विहितं कुरुनन्दन ।
द्विस्त्रिरात्रमथैकाहं निर्दिष्टं पुरुषर्षभ ॥ १३.१६३.११ ॥

对婆罗门与刹帝利,规定禁食三夜,库卢族的喜悦啊;也有指定两三夜,或一日的,人中之牛啊。

13.163.12

वैश्याः शूद्राश्च यन्मोहादुपवासं प्रकुर्वते ।
त्रिरात्रं वा द्विराइत्रं वा तयोर्व्युष्टिर्न विद्यते ॥ १३.१६३.१२ ॥

吠舍与首陀罗若因迷惑而行禁食,无论三夜或两夜,对他们都找不到其果报。

13.163.13

चतुर्थभक्तक्षपणं वैश्ये शूद्रे विधीयते ।
त्रिरात्रं न तु धर्मज्ञैर्विहितं ब्रह्मवादिभिः ॥ १३.१६३.१३ ॥

对于吠舍和首陀罗,规定的是一日一夜的四餐断食;知法者和梵论者并未为他们规定三夜的断食。

13.163.14

पञ्चम्यां वाऽपि षष्ठ्यां च पौर्णमास्यां च भारत ।
उपोष्य एकभक्तेन नियतात्मा जितेन्द्रियः ॥ १३.१६३.१४ ॥

婆罗多之子啊,在阴历初五或初六,以及满月之日,心志节制、根除诸根欲望的人应当以一餐断食。

13.163.15

क्षमावान्रूपसम्पन्नः सुरभिश्चैव जायते ।
नानपत्यो भवेत्प्राज्ञो दरिद्रो वा कदाचन ॥ १३.१६३.१५ ॥

他生来宽容、相貌端正、芬芳可爱;他成为智者,不会没有后嗣,也绝不会贫穷。

13.163.16

यजिष्णुः पञ्चमीं षष्ठीं कुले भोजयते द्विजान् ।
अष्टमीमथ कौरव्य कृष्णपक्षे चतुर्दशीम्।
उपोष्य व्याधिरहितो वीर्यवानभिजायते ॥ १३.१६३.१६ ॥

行祭者在初五和初六,在自家供养再生族;库鲁的后裔啊,他在黑半月的初八和十四也禁食,便生而无病、强壮。

13.163.17

मार्गशीर्षं तु वै मासमेकभक्तेन यः क्षिपेत् ।
भोजयेच्च द्विजाञ्शक्त्या स मुच्येद्व्याधिकिल्बिषैः ॥ १३.१६३.१७ ॥

若在末迦尸沙月中以一餐度日,并依其力供养再生族,他便能脱离以疾病为形的罪业。

13.163.18

सर्वकल्याणसम्पूर्णः सर्वौषधिसमन्वितः ।
कृषिभागी बहुधनो बहुधान्यश्च जायते ॥ १३.१६३.१८ ॥

他充满一切吉祥,具备各种草药;生而为农事之主,财富丰厚,五谷丰盈。

13.163.19

पौषमासं तु कौन्तेय भक्तेनैकेन यः क्षिपेत् ।
सुभगो दर्शनीयश्च यशोभागी च जायते ॥ १३.१६३.१९ ॥

昆提之子啊,凡以一餐度过布沙月者,便得吉祥、令人喜悦,并分享荣誉。

13.163.20

पितृभक्तो माघमासं यः क्षिपेदेकभोजनः ।
श्रीमत्कुले ज्ञातिमध्ये सुभगत्वं प्रपद्यते ॥ १३.१६३.२० ॥

若人敬奉祖先,每日只进一餐度过摩伽月,便在富裕的家族、亲族之中获得福运。

13.163.21

भगदैवतमासं तु एकभक्तेन यः क्षिपेत् ।
सुभगो दर्शनीयश्च यशोभागी च जायते।
स्त्रीषु वल्लभतां याति वश्याश्चास्य भवन्ति ताः ॥ १३.१६३.२१ ॥

若人以一餐度过由薄伽神主宰之月,便得吉祥、令人喜悦,分享荣誉;他为女子所爱,女子皆顺服于他。

13.163.22

चैत्रं तु नियतो मासमेकभक्तेन यः क्षिपेत् ।
सुवर्णमणिमुक्ताढ्ये कुले महति जायते ॥ १३.१६३.२२ ॥

若人克制自己,每日只进一餐度过遮特罗月,便生于富有金、宝石与珍珠的显赫家族。

13.163.23

निस्तरेदेकभक्तेन वैशाखं यो जितेन्द्रियः ।
नरो वा यदि वा नरी ज्ञातीनां श्रेष्ठतां व्रजेत् ॥ १३.१६३.२३ ॥

无论男女,若能制伏诸根,以一餐完成吠舍佉月,便在亲族之中获得尊位。

13.163.24

ज्येष्ठामूलं तु यो मासमेकभक्तेन संक्षिपेत् ।
ऐश्वर्यमतुलं श्रेष्ठं पुमान्स्त्री वा प्रपद्यते ॥ १३.१६३.२४ ॥

无论男女,若以一餐简略度过惹湿陀-穆拉月,便得无比殊胜的权势。

13.163.25

आषाढमेकभक्तेन स्थित्वा मासमतन्द्रितः ।
बहुधान्यो बहुधनो बहुपुत्रश्च जायते ॥ १३.१६३.२५ ॥

若人在阿沙荼月中不懈怠地一日一食,度过整月,便会拥有丰足的五谷、丰厚的财富和众多的子嗣。

13.163.26

श्रावणं नियतो मासमेकभक्तेन यः क्षिपेत् ।
रूपद्रविणसम्पन्नः सुखी भवति नित्यशः।
बहुभार्यो बहुधनो बहुपुत्रश्चि जायते ॥ १३.१६३.२६ ॥

若人自制,在室罗伐拏月中一日一食度过整月,具备美貌与财富,便常得快乐;他将拥有众多妻室、丰厚财富和众多子嗣。

13.163.27

प्रौष्ठपादं तु यो मासमेकाहारो भवेन्नरः ।
गवाढ्यं स्फीतमचलमैश्वर्यं प्रतिपद्यते ॥ १३.१६३.२७ ॥

在婆陀月中仅一日一食的人,将获得富有牛群、丰盛而稳固的兴盛。

13.163.28

तथैवाश्वयुजं मासमेकभक्तेन यः क्षिपेत् ।
प्रज्ञावान्वाहनाढ्यश्च बहुपुत्रश्च जायते ॥ १३.१६३.२८ ॥

同样,在阿湿縛庾月中一日一食度过整月的人,将变得有智慧,车乘丰足,并有众多子嗣。

13.163.29

कार्तिकं तु नरो मासं यः कुर्यादेकभोजनम् ।
शूरश्च बहुभार्यश्च कीर्तिमांश्चैव जायते ॥ १३.१६३.२९ ॥

在迦湿提迦月中一日一食的人,将成为勇士,妻妾众多,并且声名显赫。

13.163.30

इति मासा नरव्याघ्र क्षिपतां परिकीर्तिताः ।
तिथीनां नियमा ये तु शृणु तानपि पार्थिव ॥ १३.१६३.३० ॥

人中之虎啊,以上所述为持斋者所宣说的各月。国王啊,现在也请听取各太阴日的戒律。

13.163.31

पक्षेपक्षे गते यस्तु भक्तमश्नाति भारत ।
गवाढ्यो बहुपुत्रश्च दीर्घायुश्च स जायते ॥ १३.१६३.३१ ॥

婆罗多啊,每个半月过去后才进食的人,生来富有牛群,多子,且长寿。

13.163.32

मासिमासि त्रिरात्राणि कृत्वा वर्षाणि द्वादश ।
गणाधिपत्यं प्राप्नोति निःसपत्नमनाविलम् ॥ १३.१६३.३२ ॥

每月行三夜之戒,历十二年,人便得到无敌而清净的群主之位。

13.163.33

एते तु नियमाः सर्वे कर्तव्याः शरदो दश ।
द्वे चान्ये भरतश्रेष्ठ प्रवृत्तिरनुकीर्तिता ॥ १३.१६३.३३ ॥

这些誓戒都应在十年和两个秋季中奉行;婆罗多之最啊,其余的修习方式也已说明。

13.163.34

यस्तु प्रातस्तथा सायं भुञ्जानो नान्तरा पिबेत् ।
अहिंसानिरतो नित्यं जुह्वानो जातवेदसम् ॥ १३.१६३.३४ ॥

早晚进食、中间不饮水,常修不害,向耆多伐陀(火神)献祭的人——

13.163.35

षड्भिः स वर्षैर्नृपते सिध्यते नाइत्र संशयः ।
अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ १३.१६३.३५ ॥

君王啊,六年之内他便成就——此事无疑;人得到阿耆尼什图玛祭的果报。

13.163.36

अधिवासे सोप्सरसां नृत्यगीतविनादिते ।
रमते स्त्रीसहस्राढ्ये सुकुती विरजा नरः ॥ १३.१६३.३६ ॥

在那充满歌舞乐声、与阿普萨拉斯同在、拥有千名女子的居所中,有德而清净的人欢乐。

13.163.37

तप्तकाञ्चनवर्णाभं विमानमधिरोहति ।
पूर्णं वर्षसहस्रं च ब्रह्मिलोके महीयते।
तत्क्षयादिह चागम्य माहात्म्यं प्रतिपद्यते ॥ १३.१६३.३७ ॥

他登上色如熔金的天车,在梵天界受尊崇满千年。待此福报耗尽,他又来到此处,获得尊贵。

13.163.38

यस्तु संवत्सरं पूर्णमेकाहारो भवेन्नरः ।
अतिरात्रस्य यज्ञस्य स फलं समुपाश्नुते ॥ १३.१६३.३८ ॥

若人整整一年只食一餐,便能完全获得阿提罗特罗祭祀的果报。

13.163.39

त्रिंशद्वर्षसहस्राणि स्वर्गे च स महीयते ।
तत्क्षयादिह चागम्य माहात्म्यं प्रतिपद्यते ॥ १३.१६३.३९ ॥

他在天界受尊崇三万年,待此福报耗尽,他又来到此处,获得尊贵。

13.163.40

यस्तु संवत्सरं पूर्णं चतुर्थं भक्तमश्नुते ।
अहिंसानिरतो नित्यं सत्यवाग्विजितेन्द्रियः ॥ १३.१६३.४० ॥

若人整整一年每隔三日才进食一次,恒常修习不害,言说真实,克服诸根。

13.163.41

वाजपेयस्य यज्ञस्य स फलं समुपाश्नुते ।
त्रिंशद्वर्षसहस्राणि स्वर्गलोके महीयते ॥ १३.१६३.४१ ॥

他完全获得婆遮佩耶祭祀的果报,在天界受尊崇三万年。

13.163.42

षष्ठे काले तु कौन्तेय नरः संवत्सरं क्षिपन् ।
अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ १३.१६३.४२ ॥

贡蒂之子啊,人若在第六期中度过一年,便获得马祭的果报。

13.163.43

चक्रवाकप्रयुक्तेन विमानेन स गच्छति ।
चत्वारिंशत्सहस्राणि वर्षाणि दिवि मोदते ॥ १३.१६३.४३ ॥

他乘坐由遮羅婆鹅牵引的飞车前行,在天界欢乐四万年。

13.163.44

अष्टमेन तु भक्तेन जीवन्संवत्सरं नृप ।
गवामयनयज्ञस्य फलं प्राप्नोति मानवः ॥ १३.१६३.४४ ॥

国王啊,一人以第八餐之食维持一年,便获得牛行祭的果报。

13.163.45

हंससारसयुक्तेन विमानेन स गच्छति ।
पञ्चाशतं सहस्राणि वर्षाणां दिवि मोदते ॥ १३.१६३.४५ ॥

他乘坐由天鹅与鹤牵引的飞车前行,在天界欢乐五万年。

13.163.46

पक्षेपक्षे गते राजन्योऽश्नीयाद्वर्षमेव तु ।
षण्मासानशनं तस्य भगवानङ्गिराऽब्रवीत्।
षष्टिं वर्षसहस्राणि दिवमावसते च सः ॥ १३.१६३.४६ ॥

国王啊,每半月才进食一次、过一年、并禁食六个月的人——吉祥的盎吉罗娑如是说——在天界居住六万年。

13.163.47

विणानां वल्लकीनां च वेणूनां च विशाम्पते ।
सुघोषैर्मधुरैः शब्दैः सुप्तः स प्रतिबोध्यते ॥ १३.१६३.४७ ॥

人主啊,睡眠者被维纳琴、瓦拉基琴与笛的甜美悦耳之声唤醒。

13.163.48

संवत्सरमिहैकं तु मासिमासि पिबेदपः ।
फलं विश्वजितस्तात प्राप्नोति स नरो नृप ॥ १३.१६३.४८ ॥

亲爱的,国王啊,在此人一年之中每月只饮水,便获得胜一切祭的果报。

13.163.49

सिंहव्याघ्रप्रयुक्तेन विमानेन स गच्छति ।
सप्ततिं च सहस्राणि वर्षाणां दिवि मोदते ॥ १३.१६३.४९ ॥

他乘坐由狮子和老虎驾驭的天车前行,在天上欢乐七万年。

13.163.50

मासादूर्ध्वं नरव्याघ्र नोपवासो विधीयते ।
विधिं त्वनशनस्याहुः पार्थ धर्मविदो जनाः ॥ १३.१६३.५० ॥

虎中之人啊,超过一个月的禁食并不被规定;普利塔之子啊,知法者如此宣说断食之法。

13.163.51

अनार्तो व्याधिरहितो गच्छेदनशनं तु यः ।
पदेपदे यज्ञफलं स प्राप्नोति न संशयः ॥ १३.१६३.५१ ॥

若人无苦无病而绝食,便步步得到祭祀的果报,此无疑义。

13.163.52

दिवं हंसप्रयुक्तेन विमानेन स गच्छति ।
शतं वर्षसहस्राणां मोदते स दिवि प्रभो ॥ १३.१६३.५२ ॥

他乘由天鹅驾驭的天车前往天界,啊主上,他在天上欢乐十万年。

13.163.53

शतं चाप्सरसः कन्या रमयन्त्यपि तं नरम् ।
आर्तो वा व्याधितो वाऽपि गच्छेदनशनं तु यः ॥ १३.१६३.५३ ॥

百位阿普萨拉少女使那人欢悦;无论痛苦或患病而绝食者,也(得到同样的果报)。

13.163.54

शतं वर्षसहस्राणां मोदते स दिवि प्रभो ।
काञ्चीनूपुरशब्देन सुप्तश्चैव प्रबोध्यते ॥ १३.१६३.५४ ॥

啊主上,他在天上欢乐十万年;即使在睡眠中,也会被腰带与脚环的声音唤醒。

13.163.55

सहस्रहंसयुक्तेन विमानेन तु गच्छति ।
स गत्वा स्त्रीशताकीर्णे रमते भरतर्षभ ॥ १३.१६३.५५ ॥

他乘着由千只天鹅牵引的飞车前行;抵达充满数百女子的所在,婆罗多之牛啊,他尽情欢乐。

13.163.56

क्षीणस्याप्यायनं दृष्टं क्षतस्य क्षतरोहणम् ।
व्याधितस्यौषधग्रामः क्रुद्धस्य च प्रसादनम् ॥ १३.१६३.५६ ॥

对于虚弱者可见补养,对于受伤者可见伤口愈合,对于病人有各种药物,对于愤怒者可见平息。

13.163.57

दुःखितस्यार्तपूर्वस्य द्रव्याणां प्रतिपादनम् ।
न चैतद्रोचते तेषां ये धनैः सुखमेधिताः ॥ १३.१६३.५७ ॥

把财物给予忧伤且曾经受苦的人,这并不合那些因财富而在安乐中长大的人的心意。

13.163.58

अतः स कामसंयुक्ते विमाने हेमसन्निभे ।
रमते स्त्रीशताकीर्णे पुरुषोऽलङ्कृतः शुचिः ॥ १३.१६३.५८ ॥

因此,他身着装饰、洁净,在如金般闪耀、与欲望相合的飞车中,于充满数百女子的所在尽情欢乐。

13.163.59

स्वस्थः सफलसङ्कल्पः सुखी विगतकल्मषः ।
अनश्नन्देहमुत्सृज्य फलं प्राप्नोति मानवः ॥ १३.१६३.५९ ॥

心志安定、所愿有成、快乐且无染污的人,绝食舍弃此身,便能获得果报。

13.163.60

बालसूर्यप्रतीकाशे विमाने सोमवर्चसि ।
वैदूर्यमुक्ताखचिते वीणामुरजनादिते ॥ १३.१६३.६० ॥

在如初升太阳、如月光般明亮的飞车中,镶嵌着吠琉璃与珍珠,回响着琵琶与鼓声。

13.163.61

पताकादीपिकाकीर्णे दिव्यघण्टानिनादिते ।
स्त्रीसहस्रानुचरिते स नरः सुखमेधते ॥ १३.१६३.६१ ॥

装饰着旗幡与灯火,回响着天界铃声,有千名女子随侍,那人在幸福中昌盛。

13.163.62

यावन्ति रोमकूपाणि तस्य गात्रेषु पाण्डव ।
तावन्त्येव सहस्राणि वर्षाणां दिवि मोदते ॥ १३.१६३.६२ ॥

般度之子啊,他肢体上有多少毛孔,便有多少千年在天界欢乐。

13.163.63

नास्ति वेदात्परं शास्त्रं नास्ति मातृसमो गुरुः ।
न धर्मात्परमो लाभस्तपो नानशनात्परम् ॥ १३.१६३.६३ ॥

没有比吠陀更高的经典,没有与母亲相等的师长;没有比法更大的利益,没有比绝食更高的苦行。

13.163.64

ब्राह्मणेभ्यः परं नास्ति पावनं दिवि चेह च ।
उपवासैस्तथा तुल्यं तपःकर्म न विद्यते ॥ १३.१६३.६४ ॥

在天界与人间,没有比婆罗门更能净化的;也找不到与斋戒相等的苦行之业。

13.163.65

उपोष्य विधिवद्देवास्त्रिदिवं प्रतिपेदिरे ।
ऋषयश्च परां सिद्धिमुपवासैरवाप्नुवन् ॥ १३.१६३.६५ ॥

诸神依仪轨斋戒,得到三界之天;仙人也因斋戒而获得最高成就。

13.163.66

दिव्यवर्षसहस्राणि विश्वामित्रेण धीमता ।
क्षान्तमेकेन भक्तेन तेन विप्रत्वमागतम् ॥ १३.१६३.६६ ॥

智慧的毗首密多罗以一餐之食忍受了千年天上岁月,因此获得了婆罗门身份。

13.163.67

च्यवनो जमदग्निश्च वसिष्ठो गौतमो भृगुः ।
सर्व एव दिवं प्राप्ताः क्षमावन्तो महर्षयः ॥ १३.१६३.६७ ॥

车耀、阇摩达吉尼、婆悉吒、乔达摩与婆利古——所有具足忍辱的大仙都升入了天界。

13.163.68

इदमङ्गीरसा पूर्वं महर्षिभ्यः प्रदर्शितम् ।
यः प्रदर्शयते नित्यं न स दुःखमवाप्नुते ॥ १३.१६३.६८ ॥

此法昔日由安吉罗娑向诸大仙所示。常常示人此法者,不会遭受痛苦。

13.163.69

इमं तु कौन्तेय यथाक्रमं विधिं ।
प्रवर्तितं ह्यङ्गिरसा महर्षिणा।
पठेच्च यो वै शृणुयाच्च नित्यदा ।
न विद्यते तस्य नरस्य किल्बिषम् ॥ १३.१६३.६९ ॥

俱卢之子啊!此仪轨由大仙安吉罗娑依序立定。常常诵读或听闻之人,身上没有罪过。

13.163.70

विमुच्यते चापि स सर्वसङ्करै-
र्न चास्य दोषैरभिभूयते मनः।
वियोनिजानां च विजानते रुतं ।
ध्रुवां च कीर्तिं लभते नरोत्तमः ॥ १३.१६३.७० ॥

他从一切杂染中解脱,心不为过失所胜。他也能听懂各类胎生、卵生等众生的鸣声,获得长久不灭的名声——他是人中之最。