Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.166

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.166.1

तत्वसङ्ख्या श्रुता चैषा येषां ब्रह्मविदांवर ।
सर्गसङ्ख्या मया प्रोक्ता नवानामानुपूर्व्यशः।
प्रवक्ष्यामि तु तेऽध्यात्ममधिभूताधिदैवतम् ॥ १३.१६६.१ ॥

梵之知者中最殊胜者啊,你已听闻这些本原的数目。我已依次说明九种创造的数目;现在我要为你讲述内在自我、诸元素与诸神。

13.166.2

स्वभावसत्वस्थमनीशमीशम् ॥ १३.१६६.२ ॥

安住于自性与悉多之中者,无主却是主宰。

13.166.3

कैवल्यतां प्राप्य महासुरोत्तम ।
तवैतदाख्यामि मुनीन्द्रवृत्त्या।
रहस्यमेवान्यदवाप्य दिव्यं ।
पवित्रपूतस्तव मृत्युजालम् ॥ १३.१६६.३ ॥

阿修罗中最殊胜者啊,我已获得解脱,以诸大仙之王的方式为你讲述此事。若你获得另一种神圣的秘密,你的死亡之网将被净化而圣洁。

13.166.4

पृथ्वीमिमां यद्यपि रत्नपूर्णां ।
दद्यान्न देयं त्वपरीक्षिताय।
नाश्रद्दधानाय न चान्यबुद्धे ।
र्नाज्ञानयुक्ताय न विस्मिताय ॥ १३.१६६.४ ॥

即使此大地充满珍宝,也不应给予未经考验者、无信心者、心意分散者、充满无知者或惊愕者。

13.166.5

स्वाध्याययुक्ताय गुणान्विताय ।
प्रदेयमेतन्नियतेन्द्रियाय ॥ १३.१६६.५ ॥

此法应授予专心学习、具备德性、并且诸根受制的人。

13.166.6

संक्षेपं चाप्यथैतेषां तत्वानां वृषभध्वज ।
अनुलोमानुजातानां प्रतिलोमप्रमीयतम् ॥ १३.१६६.६ ॥

持牛旗者啊,也请听这些原理的概要:关于按顺序(顺生)出生者,以及按逆序(逆生)衡量者。

13.166.7

प्रवक्ष्यामि तमध्यात्मं साधिभूताधिदैवतम् ।
यथांशुजालमर्कस्य तथैतत्प्रवदन्ति वै ॥ १३.१६६.७ ॥

我将阐述那内在自我,以及与之相关的外在元素与神性;它们被说成如同太阳的光线之网。

13.166.8

संक्षीणे ब्रह्मदिवसे जगज्जलधिमाविशेत् ।
प्रलीयते जले भूमिर्जलमग्नौ प्रलीयते ॥ १३.१६६.८ ॥

梵天之日终结时,世界进入水之海洋;大地融入水中,水融入火中。

13.166.9

लीयतेऽग्निस्तथा वायौ वायुराकाश एव तु ।
मनसि प्रलीयते खं तु मनोऽहंकार एव च ॥ १३.१६६.९ ॥

火融入风,风融入虚空本身;虚空融入意,意融入我执(自我意识)。

13.166.10

अहङ्कारस्तथा तस्मिन्महति प्रविलीयते ।
महानव्यक्त इत्याहुस्तदेकत्वं प्रचक्षते ॥ १३.१६६.१० ॥

我执也同样完全融入那大(摩诃,mahat)之中。大被称为未显者;这被宣称为一体。

13.166.11

अव्यक्तस्य महादेव प्रलयं विद्धि ब्रह्म्णि ।
एवमस्यासकृत्क्रीडामाहुस्तत्वविदो जनाः ॥ १३.१६६.११ ॥

大天啊,应知未显者的消融在梵中。因此明了真理者称之为反复出现的游戏。

13.166.12

अध्यात्ममधिभूतं च तथैवाप्यधिदैवतम् ।
यथावदुदितं शास्त्रं योगे तु सुमहात्मभिः ॥ १३.१६६.१२ ॥

内在自我、外在元素,以及同样的神性——正如经典所如实教导的,伟大的灵魂们在瑜伽中也如此宣说。

13.166.13

तथैव चेह साङ्ख्ये तु परिसंख्यात्मचिन्तकैः ।
प्रपञ्चितार्थमेतावन्महादेव महात्मभिः ॥ १३.१६६.१३ ॥

同样在此数论中,以数列思维自我的大德们如此详尽地阐明了此义,大天啊。

13.166.14

ब्रह्मेति विद्यादध्यात्मं पुरुषं चाधिदैवतम् ।
प्रभवं सर्वभूतानां रक्षणं तत्र कर्म च ॥ १३.१६६.१४ ॥

应当知梵为内在(adhyātma),补鲁沙为神性原理(adhidaivata);其中亦有一切众生之生起、护持与作业。

13.166.15

अध्यात्मं प्राणमित्याहुः क्रतुमप्यधिदैवतम् ।
रथं च यज्ञवाहोऽत्र कर्माहङ्कारमेव च ॥ १३.१६६.१५ ॥

人们称气息为内在(adhyātma),亦称祭祀为神性原理(adhidaivata)。此处亦有车、祭祀之载体、行为与我慢。

13.166.16

अध्यात्मं तु मनो विद्याच्चन्द्रमाश्चाधिदैवतम् ।
दैवं च प्रभवश्चैव कर्म व्याहृतयस्तथा ॥ १३.१६६.१६ ॥

应当知意为内在(adhyātma),月为神性原理(adhidaivata);天神、生起、作业与语词(vyāhṛti)亦复如是。

13.166.17

विद्यात्तु श्रोत्रमध्यात्ममाकाशमधिदैवतम् ।
सर्वभावाभिधानार्थं शब्दः कर्म सदा स्मृतं ॥ १३.१६६.१७ ॥

应当知耳为内在(adhyātma),虚空为神性原理(adhidaivata);声音常被视为作业,用以命名一切状态。

13.166.18

त्वगध्यात्ममथो विद्याद्वायुरत्राधिदैवतम् ।
सन्निपातय विज्ञानं सर्वकर्म च तत्र ह ॥ १३.१६६.१८ ॥

应当知皮肤为内在(adhyātma),此中风为神性原理(adhidaivata);其中有知识的会合,亦有一切作业。

13.166.19

अध्यात्मं चक्षुरित्याहुर्भास्करोऽत्राधिदैवतम् ।
ज्ञापतं सर्ववर्णानां रूपं कर्म सदा स्मृतम् ॥ १३.१६६.१९ ॥

人们称眼睛为内在方面;此处的主神是太阳。形色使一切颜色得以被认知,其作用常被铭记。

13.166.20

जिह्वेति विद्यादध्यात्ममापश्चात्राधिदैवतम् ॥ १३.१६६.२० ॥

应当知道舌是内在方面;此处的主神是水。

13.166.21

पायुरध्यात्ममित्याहुर्यथावद्यतिसत्तमाः ।
विसर्गमधिभूतं च मित्रं चाप्यधिदैवतम् ॥ १३.१६६.२१ ॥

人们称肛门为内在方面,诸位最优秀的苦行者啊,确实如此。排泄是元素方面,弥陀罗也是主神。

13.166.22

उपस्थोऽध्यात्ममित्याहुर्देवदेव पिनाकधृक् ।
अनुभावोऽधिभूतं तु दैवतं च प्रजापतिः ॥ १३.१६६.२२ ॥

人们称生殖器为内在方面,神中之神、持毗那迦弓者啊。享受是元素方面,主神是生主。

13.166.23

पादावध्यात्ममित्याहुस्त्रिशूलाङ्क मनीषिणः ।
गन्तव्यमधिभूतं तु विष्णुस्तत्राधिदैवतम् ॥ १३.१६६.२३ ॥

智者们(以三叉戟为记者)说,双足是内在方面。所往之处是元素方面,那里的主神是毗湿奴。

13.166.24

वागध्यात्मं तथैवाहुः पिनाकिंस्तत्वदर्शिनः ।
वक्तव्यमधिभूतं तु वह्निस्तत्राधिदैवतम् ॥ १३.१६६.२४ ॥

言语亦然,持毗那迦的真理见者如是说,是内在方面。所应说的是元素方面,那里的主神是火。

13.166.25

एतदध्यात्ममतुलं साधिभूताधिदैवतम् ।
मया तु वर्णितं सम्यग्देहिनाममरर्षभ ॥ १३.१६६.२५ ॥

这无与伦比的内在自我之教,连同元素与神圣之义,我已为有身众生完整阐述,诸不死者中的雄牛啊。

13.166.26

एतत्कीटपतङ्गे च श्वपाके शुनि हस्तिनि ।
पुत्रिकादंशमशके ब्राह्मणे गवि पार्थिवे ॥ १३.१६६.२६ ॥

此理同样存在于虫与飞蛾之中,存在于贱民屠狗者、狗、象、小蝇、蚊与苍蝇之中,存在于婆罗门、牛与国王之中。

13.166.27

सर्वमेव हि द्रष्टव्यमन्यथा मा विचिन्तय ।
अतोऽन्यथा ये पश्यन्ति न सम्यक्तेषु दर्शनम् ॥ १३.१६६.२७ ॥

一切都应当如此看待,不要另作他想。以别样眼光观看者,便无正确的见识。

13.166.28

देवदानवगन्धर्वयक्षराक्षसकिन्नराः ।
यन्न जानन्ति को ह्येष कुतो वा भगवानिति ॥ १३.१६६.२८ ॥

诸天、檀那婆、乾闼婆、夜叉、罗刹、紧那罗所不知者:此人究竟是谁,或是世尊从何而来?

13.166.29

ओमित्येकाक्षरं ब्रह्म यत्तत्सदसतः परम् ।
अनादिमध्यपर्यन्तं कूटस्थमचलं ध्रुवम् ॥ १३.१६६.२९ ॥

唯一音节"唵"即是梵,超越有与非有,无始无中无终,恒常不动、坚固不移。

13.166.30

योगेश्वरं पद्मनाभं विष्णुं जिष्णुं जगत्पतिम् ।
अनादिनिधं देवं देवदेवं सनातनम् ॥ १३.१६६.३० ॥

瑜伽之主、莲花脐的毗湿奴、胜者、世界之主,无始无终的神,神中之神,永恒者。

13.166.31

अपमेयमविज्ञेयं हरिं नारायणं प्रभुम् ।
कृताञ्जलिः शुचिर्भूत्वा प्रणम्य प्रयतोऽर्चयेत् ॥ १३.१६६.३१ ॥

对于不可度量、不可知晓的哈里、那罗延、主宰者,应当合掌、清净、礼拜,并以克制的心去供奉。

13.166.32

अनाद्यन्तं परं ब्रह्म न देवा ऋषयो विदुः ।
एकोयं वेद भगवांस्त्राता नारायणो हरिः ॥ १३.१६६.३२ ॥

无始无终的至高梵,诸神与仙人都不知晓;唯有这一位世尊知晓——护持者那罗延哈里。

13.166.33

नारायणादृषिगणास्ततः सिद्धा महोरगाः ।
देवा देवर्षयश्चैव यं विदुर्दुःखभेषजम् ॥ १३.१६६.३३ ॥

从那罗延中生出诸仙众;随后是成就者、大蛇、诸神与天仙——他们视之为苦痛的良药。

13.166.34

यमाहुर्विजितक्लेशं यस्मिंश्च विहिताः प्रजाः ।
यस्मिँल्लोकाः स्फुरन्तीमे जाले शकुनयो यथा ॥ १३.१६६.३४ ॥

他们称之为克服烦恼者;众生安立于他,这些世界在他之中如网中的鸟儿般闪耀。

13.166.35

सप्तर्षयो मनः सप्त साङ्ख्यास्तु मुनिदर्शनात् ।
सप्तर्षयश्चेन्द्रियाणि पञ्च बुद्धीन्द्रियाणि च ॥ १३.१६६.३५ ॥

七仙即是意;数论者依仙人之见而言七;七仙即是诸根,亦即五知根。

13.166.36

श्रोत्रयोश्च दिशः प्राहुर्मनसि त्वथ चन्द्रमाः ॥ १३.१६६.३६ ॥

两耳对应诸方,而意则对应月亮。

13.166.37

मनः षष्ठं बुद्धिः सप्तमी ह्यात्मनि स्थापितानि ।
शरीरेषु नात्मनि तस्य हि कारणानि भन्ति सर्वा-
ण्यपि सर्वकर्मसु वा विषयेषुवा युञ्जन्ति यथात्म-
नि स्वानि कर्माणि प्रवृत्तानि सप्तस्वपि ॥ १३.१६६.३७ ॥

意为第六,觉为第七;这些都安立于自我之中。身体中的并不在自我中,因为它们是自我的原因。在一切行动或对象中,它们推动各自的功能于七者之中。

13.166.38

विषयाणां व्यापकत्वानि तान्येव स्वपतो भूत ।
ग्रामस्याजमात्मानं देवलोकस्थानसंमितं देहान्तर।
गामिनं मुमुक्षुं वानुप्रतिशन्ति सूक्ष्माणि प्रलीयन्ते ॥ १३.१६६.३८ ॥

这些对象的扩展正属于入睡者,啊众生。那不生的自我,如同村庄,以天界之居为度,进入他身或求解脱者:精微者随之回归而消融。

13.166.39

मोक्षकाले तमेकं न कश्चिद्वेत्ति स्वपरम् ।
एवं प्रविष्टेषु भूतेषु को जागर्तीत्युच्यते ॥ १३.१६६.३९ ॥

在解脱之时,无人知晓那唯一者,无论是自己的还是他人的。众生如此入内之时,有人问:谁在醒着?

13.166.40

निद्राप्रसुप्तेषु वाऽत्र जाग्रत्स्वप्नशीलोत्रसदनौ ।
च देवद्योतनो भगवांश्चात्र क्षत्रेज्ञो बुद्धिर्वाऽभिसुप्त।
स्यापि स्वप्नदर्शनानि पश्यन्ति ॥ १३.१६६.४० ॥

在此,在深度睡眠中沉睡者之中,或在醒与梦两处所居者之中,照耀诸天的世尊,以及此处的知场者,或深睡的觉性——他们也见到梦境。

13.166.41

अप्रतिबुद्धेषु लोकेषु स एव प्रतिबुध्यते। स ।
एष प्राज्ञः। अथ तैजसः कायाग्निः स हि सुप्तस्यात्मा वा ॥ १३.१६६.४१ ॥

即使在未醒的世界中,唯有他醒来。此为智者(慧者)。其次是光明者(太迦娑),即身体之火;他正是熟睡者的自我,或…

13.166.42

अविदुषो वाऽप्रतिबुध्यमानस्यान्नं पचतीत्यन्ते ।
वै तिष्ठति एतदात्मानमधिकृत्यानुज्ञातमिति ॥ १३.१६६.४२ ॥

末尾说,它消化无知者或未醒者的食物。实则它以此自我为根基而存在,如所宣示与所许可。