摩诃婆罗多 · 章 13.167
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.167.1
प्रभवश्चाप्ययस्तात वर्णितस्तेऽनुपूर्वशः ।
तथाऽध्यात्माधेभूतं च तथैवात्राधिदैवतम् ॥ १३.१६७.१ ॥
亲爱的孩子,我已依次向你讲述了起源与灭寂,以及内在自我(adhyātma)、外在元素(adhibhūta)和此处的主宰神(adhidaivata)。
13.167.2
निखिलेन तु वक्ष्यामि दैवतानि ह देहिनाम् ।
यान्याश्रितेषु देहेषु यानि पृच्छसि शङ्कर ॥ १३.१६७.२ ॥
湿婆啊,我将完整地告诉你那些寄居于有身众生之身中的诸神,以及你所问的一切。
13.167.3
वाच्यग्निस्त्वथ जिह्वायां सोमः प्राणे तु मारुतः ।
रूपे चाप्यथ नक्षत्रं जिह्वायां चाप एव तु ॥ १३.१६७.३ ॥
言语中是火神阿耆尼;舌中是月神苏摩;气息中是风神。形体中也有星宿,舌中也有水。
13.167.4
नाभ्यां समुद्रश्च विभुर्नखरोम तथैव च ।
वनस्पतिवनौषध्यस्त्वङ्गेषु मरुतस्तथा ॥ १३.१६७.४ ॥
肚脐中是海洋与遍在者;指甲与毛发中亦复如是。树木与林中草药在皮肤与肢体中;诸风也同样。
13.167.5
संवत्सराः पर्वसु च आकाशे दैवमानुषे ।
उदाने विद्युदभवद्व्याने पर्जन्य एव च ॥ १३.१६७.५ ॥
岁月在关节之中,天界与人界在天空之中。上行气中生出闪电,遍行气中有雨神帕尔贾尼亚。
13.167.6
स्तनयोरेव चाकाशं बले चेन्द्रस्तथैव च ।
मनसोऽप्यथ चेशानस्त्वपाने रुद्र एव च ॥ १३.१६७.६ ॥
双乳之中是虚空,力量中同样是因陀罗。心中也有自在天,下行气中则是楼陀罗。
13.167.7
गन्धर्वाप्सरसो व्याने सत्ये मित्रश्च शङ्कर ।
प्रज्ञायां वरुणश्चैव चक्षुष्यादित्य एव च ॥ १३.१६७.७ ॥
在行气(vyāna)中有乾闼婆与阿普萨拉斯;在真实中有密特拉,啊湿婆;在智慧中有伐楼那,在眼中也有日神阿迪提亚。
13.167.8
शरीरे पृथिवी चैव पादयोर्विष्णुरेव च ।
पायौ मित्रस्तथोपस्थे प्रजापतिररिंदम ॥ १३.१६७.८ ॥
身体中有大地,双足中有毗湿奴;肛门中有密特拉,生殖器中同样有生主(Prajāpati),啊制敌者。
13.167.9
मूर्ध्नि चैव दिशः प्राहुर्बुद्धौ ब्रह्मा प्रतिष्ठितः ।
बुध्यमानोऽऽत्मनिष्ठः स्यादधिष्ठाता तु शङ्करः ॥ १३.१६७.९ ॥
人们说,头顶中有诸方;智慧中安立着梵天。醒觉而住于自我者,其主宰者便是湿婆(Śaṅkara)。
13.167.10
अबुद्धश्चाभवत्तस्माद्बुध्यमानान्न संशयः ।
आभ्यामन्यः परो बुद्धो वेदवादेषु शङ्कर ॥ १३.१६७.१० ॥
因此,原本无知者变得觉悟,这毫无疑问。在此二者之外,至上的觉悟见于吠陀的论说之中,啊湿婆。
13.167.11
यदाश्रितानि देहेषु दैवतानि पृथक्पृथक् ।
योऽग्नये जायते नित्यमात्मयाजी समाहितः ॥ १३.१६७.११ ॥
凡常将寄居于诸身中的各种神祇,专注而定心地献给火神者,便是自我祭祀者。
13.167.12
य एवमनुपश्येत दैवतानि समाहितः ।
सोत्र योगी भवत्येव य एवमनुपश्यति।
स सर्वज्ञयाजिभ्यो ह्यात्मयाजी विशिष्यते ॥ १३.१६७.१२ ॥
凡如此专注地观见诸神者,即于此成为瑜伽行者;如此观见的自我祭祀者,胜过一切知晓一切的祭祀者。
13.167.13
मुखे जुहोति यो नित्यं कृत्स्नं विश्वमिदं जगत् ।
सोत्मवित्प्रोच्यते तज्ज्ञैर्महादेव महात्मभिः ॥ १३.१६७.१३ ॥
常以口奉献此整个世界为祭品的人,知晓此事的大智者称他为知自我者,大天啊。
13.167.14
सर्वेभ्यः परमेभ्यो वै दैवतेभ्यो ह्यात्मयाजिना ।
गन्तव्यं परमाकाङ्क्षन्परमेव च चिन्तयन् ॥ १३.१६७.१४ ॥
自我献祭者应超越一切至高神灵,渴求至上,只思念至上者。
13.167.15
यथा संक्रमते देहाद्देही त्रिपुरसूदन ।
तथास्य स्थानमाख्यास्ये पृथक्त्वेनेह शङ्कर ॥ १३.१६७.१५ ॥
如有身者从身体迁移,三城毁灭者啊,我今在此分别说明其所居之处,湿婆啊。
13.167.16
पादाभ्यां वैष्णवं स्थानमाप्नोति विनियोजनात् ।
पायुना मित्रमाप्नोति उपस्थेन प्रजापतिम् ॥ १३.१६७.१६ ॥
以足行事则得毗湿奴之处;以肛门得密多罗,以生殖器得生主。
13.167.17
नाभ्या च वारुणं स्थानं स्तनाभ्यां तु भवो लभेत् ।
बाहुभ्यां वासवं स्थानं श्रोत्राभ्यामाप्नुयाद्दिशः।
आदित्यं चक्षुषा स्थानं मूर्ध्ना ब्रह्मण एव च ॥ १३.१६७.१७ ॥
经脐可得水神伐楼那之处,经乳可得婆婆;经臂可得帝释之处,经耳可得诸方。经眼可得日神之处,经顶则得梵天之处。
13.167.18
अथ मूर्धसु यः प्राणान्धारयेत समाहितः ।
बुद्ध्या मानमवाप्नोति द्रव्यावस्थं च संशयः ॥ १३.१६७.१८ ॥
若有人专注,将诸气息安住于头顶,则以智慧获得尊荣,也得到实体之境,此无疑问。
13.167.19
अव्यक्तात्परमं शुद्धमप्रमेयमनामयम् ।
तमाहुः परमं नित्यं यद्यदाप्नोति बुद्धिमान् ॥ १३.१६७.१९ ॥
超越未显现者,至上、纯净、不可量度、无病无忧,人们称之为至上永恒;智者所得的正是此。
13.167.20
बुध्यमानाप्रबुद्धाभ्यां स बुद्ध इति पठ्यते ।
बुध्यमानमबुद्धश्च नित्यमेवानुपश्यति ॥ १३.१६७.२० ॥
因觉与不觉,他被称为“觉者”;觉者与不觉者,他恒常照见。
13.167.21
विकारपुरुषस्त्वेष बुध्यमान इति स्मृतः ।
पञ्चविंशतितत्वं तत्प्रोच्यते तत्र संशयः ॥ १३.१६७.२१ ॥
此变异之人被称为“觉者”;它与二十五谛一同被宣说,此中有疑。
13.167.22
स एष प्रकृतिस्थत्वात्तस्थुरित्युपदिश्यते ।
महानात्मा महादेव महानत्राधितिष्ठति ॥ १३.१६७.२२ ॥
因居于自性之中,他被教导为“不动者”;大我、大神、大者居于此。
13.167.23
अधिष्ठानादधिष्ठाता प्रोच्यते शास्त्रदर्शनात् ।
एष चेतयते देव मोहजालमबुद्धिमान् ॥ १३.१६७.२३ ॥
由于所依,他被称为能依者,依经论之见;此神觉知迷惑之网,因其无智。
13.167.24
अव्यक्तस्यैव साधर्म्यमेतदाहुर्मनीषिणः ।
सोहं सोहमतो नित्यादज्ञानादिति मन्यते ॥ १३.१६७.२४ ॥
智者说,这正是未显现者的相似;“我即彼,我即彼”——由于恒常的无明,他如此认为。
13.167.25
यदि बुध्यति चैवायं मन्येयमिति भास्वरः ।
न प्रबुद्धो न वर्तेत पानीयं मत्स्यको यथा ॥ १३.१६७.२५ ॥
若此光明者觉知'我在思此',虽已觉醒却不行动,则如水中之鱼。
13.167.26
देवता निखिलेनैताः प्रोक्तास्त्रिभुवनेश्वर ।
योगकृत्यं तु तावन्मे त्वं निबोधानुपूर्वशः ॥ १३.१६७.२६ ॥
三界之主啊,这些天神已全部宣说。现在请依次听我讲瑜伽的修行之事。
13.167.27
शून्यागारेष्वरण्येषु सागरे वा गुहासु वा ।
विष्टम्भयित्वा त्रीन्दण्डानवाप्तो ह्यद्वयो भवेत् ॥ १३.१६७.२७ ॥
于空屋、森林、大海或洞穴之中,制住三杖,便可得到不二。
13.167.28
प्राङ्मुखोदङ्मुखो वापि तथा पश्चान्मुखोपि वा ।
दक्षिणावदनो वापि बद्ध्वा विधिवदासनम् ॥ १३.१६७.२८ ॥
面向东、北、西或南,依规矩结好座位而坐。
13.167.29
स्वस्तिकेनोपसंविष्टः कायमुन्नाम्य भास्वरम् ।
यथोपदिष्टं गुरुणा तथा तद्ब्रह्म धारयेत् ॥ १३.१६७.२९ ॥
以吉祥坐结跏趺而坐,挺直光明之身,依师父所教,持守那梵。
13.167.30
लघ्वाहारो यतो दान्तस्त्रिकालपरिवर्जकः ।
मूत्रोत्सर्गपुरीषाभ्यामाहारे च समाहितः ॥ १३.१६७.३० ॥
饮食清淡、自我克制而调伏,三时皆断食,大小便及饮食之时皆专心一意。
13.167.31
शेषकालं तु युञ्जीत मनसा सुसमाहितः ।
इन्द्रियाणीन्द्रियार्थेभ्यो मनसा विनिवर्तयेत् ॥ १३.१६७.३१ ॥
在其余的时间里,应以专注的心修习瑜伽;以心使诸根从境界中收回。
13.167.32
मनस्तथैव सङ्गृह्य बुद्ध्या बुद्धिमतां वर ।
विधावमानं धैर्येण विस्फुरन्तमितस्ततः ॥ १३.१६७.३२ ॥
智者中的最优者啊,同样,以智慧收摄意,当它四处奔走颤动时,应以坚定将其制止。
13.167.33
निरुध्य सर्वसङ्कल्पांस्ततो वै स्थिरतां व्रजेत् ।
एकाग्रस्तद्विजानीयात्सर्वं गुह्यतमं परम् ॥ १३.१६७.३३ ॥
收摄一切念想之后,方可得到安定;专一地去认识它——那一切都是至上且最为秘密的。
13.167.34
निवातस्थ इवालोलो यथा दीपोऽतिदीप्यते ।
ऊर्ध्वमेव न तिर्यक्च तथैवाभ्रान्ति ते मनः ॥ १३.१६७.३४ ॥
如同无风之处的灯,不摇不动而光明炽盛,你的心也应只向上,不向旁侧,不游荡。
13.167.35
हृदिस्थस्तिष्ठते योसौ तस्यैवाभिमुखो यदा ।
मनो भवति देवेश पाषाणमिव निश्चलम् ॥ १३.१६७.३५ ॥
当心向着那位住在心中的存在时,天神之主啊,心便如石头一般不动。
13.167.36
स निर्जने विनिर्घोषे सघोषे चाऽऽवसञ्जने ।
युक्तो यो न विकम्पेत योगी योगविधिः श्रुतः ॥ १३.१६७.३६ ॥
无论身处寂静之地、安静之处、喧嚣之处,还是人群居住之所,凡与瑜伽相应而不动摇者,便是瑜伽行者——这便是所闻的瑜伽之法。
13.167.37
ततः पश्यति तद्ब्रह्म ज्वलदात्मनि संस्थितम् ।
विद्युदम्बुधरे यद्वत्तद्वदेकमनाश्रयम् ॥ १३.१६७.३७ ॥
此后他见到那梵安住于燃烧的自我之中,如同云中闪电,唯一而无所依。
13.167.38
तमस्यगाधे तिष्ठन्तं निस्तमस्कमचेतनम् ।
चेतयानमचेतं च दीप्यमानं स्वतेजसा ॥ १३.१६७.३८ ॥
安住于深不可测的黑暗之中,却无黑暗;无意识,赋予意识却自身无意识;以自身光辉照耀。
13.167.39
अङ्गष्ठपर्वमात्रं तन्नैश्रेयसमनिन्दितम् ।
महद्भूतमनन्तं च स्वतन्त्रं विगतज्वरम् ॥ १३.१६७.३९ ॥
它只有拇指关节那么大,却是至高的福祉,无可指摘,伟大的存在,无限,自主,无烦热。
13.167.40
ज्योतिषां ज्योतिषं देवं विष्णुमत्यन्तनिर्मलम् ।
नारायणमणीयांसमीश्वराणामधीश्वरम् ॥ १३.१६७.४० ॥
光中之光,神毗湿奴,极为纯净,那罗延,更为精微,主宰之主。
13.167.41
विश्वतः परमं नित्यं विश्वं नारायणं प्रभुम् ।
अविज्ञाय निमज्जन्ति लोकाः संसारसागरे ॥ १३.१६७.४१ ॥
不认识超越宇宙、永恒、即是宇宙本身的主宰那罗延,世界便沉没于轮回之海。
13.167.42
यं दृष्ट्वा यतयस्तात न शोचन्ति गतज्वराः ।
जन्ममृत्युभयान्मुक्तास्तीर्णाः संसारसागरम् ॥ १३.१६७.४२ ॥
孩子啊,见到他,苦行者不再悲伤;无烦热,摆脱生死之怖,他们渡过轮回之海。
13.167.43
अणिमा लघिमा भूमा प्राप्तिः प्राकम्यमेव च ।
ईशित्वं च वशित्वं च यत्र कामावसायिता।
एतदष्टुगुणं योगं योगानाममितं स्मृतम् ॥ १३.१६७.४३ ॥
阿尼玛、拉格玛、布玛、普拉普提、普拉卡摩、伊希提瓦、瓦希提瓦,以及愿望得以成就之境——此八德之瑜伽被称为无量瑜伽中的首要者。
13.167.44
दृष्ट्वात्मानं निरात्मानमप्रमेयं सनातनम् ।
ते विशन्ति शरीराणि योगेनानेन भास्वरम्।
दैत्यदेवमनुष्याणां बलेन बलवत्तमाः ॥ १३.१६७.४४ ॥
见自我为无我、不可量度而永恒,他们借此瑜伽进入光明的身体——乃阿修罗、天神与人类中最强大者。
13.167.45
एतत्तत्वमनाद्यन्तं यद्भवाननुपृच्छति ।
नित्यं वयमुपास्यामो योगधर्मं सनातनम् ॥ १३.१६७.४५ ॥
你所问的这一真理无始无终——我们始终修习那永恒的瑜伽法。
13.167.46
योगधर्मान्न धर्मोस्ति गरीयान्सुरसत्तम ।
एतद्धर्म हि धर्माणामपुनर्भवसंस्कृतम् ॥ १३.१६७.४६ ॥
瑜伽法之上再无更大的法,诸天之最胜者啊;此法已净化至不再轮回,是诸法之首。
13.167.47
तत्वतः परमस्तीस्ति केचिदाहुर्मनीषिणः ।
केचिदाहुः परं नास्ति ये ज्ञानफलमाश्रिताः ॥ १३.१६७.४७ ॥
实则,有些智者说有至上者;而依靠知识之果的另一些人则说无至上者。
13.167.48
ज्ञानस्थः पुरुषस्त्वेष विकृतः स्वेन वर्णितः ।
ये ध्यानेनानुपश्यन्ति नित्यं योगपरायणाः ॥ १३.१६७.४८ ॥
此人安住于知识之中,因自我描述而似乎偏离其本性;那些专心瑜伽、以禅定常见之者,才真正看见他。
13.167.49
तमेव पुरुषं देवं केचिदेव महेश्वर ।
नित्यमन्यतमाः प्राहुर्ज्ञानं परमकं स्मृतम् ॥ १३.१६७.४९ ॥
大自在啊,某些人总是以另一种方式称呼那同一位补禄沙神;这被认为是至上的知识。
13.167.50
ज्ञानमेव विनिर्मुक्ताः सांख्या गच्छन्ति केवलम् ।
चिन्ताध्यात्मनि चान्यत्र योगाः परमबुद्धयः ॥ १३.१६७.५० ॥
凭借知识而完全解脱的数论者仅能到达那里;而具有至上智慧的瑜伽行者,在内省自我及其他场合也能到达那里。
13.167.51
उक्तमेतावदेतत्ते योगदर्शनमुत्तमम् ।
साङ्ख्यज्ञानं प्रवक्ष्यामि परिसंख्याविदर्शनम् ॥ १३.१६७.५१ ॥
至此已向你宣说了这至上的瑜伽见解;现在我将宣说数论之知,即列举的见解。