摩诃婆罗多 · 章 13.173
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.173.1
पितामह महाप्राज्ञ सर्वशास्त्रविशारद ।
श्रोतुमिच्छामि मर्त्यानां संसारविधिमुत्तमम् ॥ १३.१७३.१ ॥
祖父啊,大智慧者,精通一切典籍!我愿聆听凡人世间存在的至上法则。
13.173.2
केन वृत्तेन राजेन्द्र वर्तमाना नरा भुवि ।
प्राप्नुवन्त्युत्तमं स्वर्गं कथं च नरकं नृप ॥ १३.१७३.२ ॥
王中之王啊,世间的人们以何种行为得到至上的天堂,又如何堕入地狱?啊,国王!
13.173.3
मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः ।
प्रयान्त्यमुं लोकमितः को वै ताननुगच्छति ॥ १३.१७३.३ ॥
人们抛弃死去的身体,如同木柴或土块,从此世前往彼世;究竟有谁跟随他们呢?
13.173.4
दूरादायाति भगवान्बृहस्पतिरुदारधीः ।
पृच्छैनं सुमहाभागमेतद्गुह्यं सनातनम् ॥ १३.१७३.४ ॥
远处走来尊贵的布利哈斯巴蒂,心智高尚;请向这位大有福德的人询问这个秘密而永恒的问题。
13.173.5
नैतदन्येन शक्यं हि वक्तुं केनचिदद्य वै ।
वक्ता बृहस्पतिसमो न ह्यन्यो विद्यते क्वचित् ॥ १३.१७३.५ ॥
今日此事无人能够他人所说;无处可找到与布利哈斯巴蒂相等的讲者。
13.173.6
तयोः संवदतोरेवं पार्थगाङ्गेययोस्तदा ।
आजगाम विशुद्धात्मा भगवान्स बृहस्पतिः ॥ १३.१७३.६ ॥
当阿周那与恒河之子这样交谈时,心灵纯净的尊贵布利哈斯巴蒂来到了那里。
13.173.7
ततो राजा समुत्थाय धृतराष्ट्रपुरोगमः ।
पूजामनुषमां चक्रे सर्वे ते च सभासदः ॥ १३.१७३.७ ॥
于是国王起身,让持国居前,致以无与伦比的敬意;会众中的所有人也都如此行礼。
13.173.8
ततो धर्मसुतो राजा भगवन्तं बृहस्पतिम् ।
उपगम्य यथान्यायं प्रश्नं पप्रच्छ तत्त्वतः ॥ १३.१७३.८ ॥
于是法之子国王走近尊贵的布利哈斯帕提,依礼向他请教了关于真实之理的问题。
13.173.9
भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद ।
मर्त्यस्य कः सहायो वै पिता माता सुतो गुरुः। ॥ १३.१७३.९ ॥
尊者啊,通晓一切法、精通一切经典者!凡人真正的助伴是谁呢——父亲、母亲、儿子,还是师长?
13.173.10
मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः ।
गच्छन्त्यमुं च लोकं वै क एताननुगच्छति ॥ १३.१७३.१० ॥
人们舍弃死去的身体,如同木块或土块,前往那个世界;那么,谁跟随他们呢?
13.173.11
एकः प्रसूयते राजन्नेक एव विनश्यति ।
एकस्तरति दुर्गाणि गच्छत्येकस्तु दुर्गतिम् ॥ १३.१७३.११ ॥
国王啊,人独自出生,也独自死去;独自渡过险难,也独自堕入恶道。
13.173.12
न सहायः पिता माता तथा भ्राता सुतो गुरुः ।
ज्ञातिसम्बन्धिवर्गश्च मित्रवर्गस्तथैव च ॥ १३.१७३.१२ ॥
父亲、母亲、兄弟、儿子、师长,亲族与姻亲的群体,朋友的群体,都不是真正的助伴。
13.173.13
मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः ।
मुहूर्तमुपयुञ्ज्याथ ततो यान्ति पराङ्मुखाः ॥ १३.१७३.१३ ॥
人们抛弃如同木块或土块的死尸,停留片刻,便转过脸去离开了。
13.173.14
तैस्तच्छरीरमुत्सृष्टं धर्मि एकोऽनुगच्छति ।
तस्माद्धर्मः सहायार्थे सेवितव्यः सदा नृपः ॥ १३.१७३.१४ ॥
在众人抛弃那身体之后,只有行法之人独自随行。因此君王应当时常奉行正法,因为正法才是伴侣。
13.173.15
प्राणी धर्मसमायुक्तो गच्छेत्स्वर्गगतिं पराम् ।
तथैवाधर्मसंयुक्तो नरकं चोपपद्यते ॥ १३.१७३.१५ ॥
具足正法的众生往生最高的天界之道;同样,沾染非法的众生则堕入地狱。
13.173.16
तस्मान्न्यायागतैरर्थैर्धर्मं सेवेत पण्डितः ।
धर्म एको मनुष्याणां सहायः पारलौकिकः ॥ १३.१७३.१६ ॥
因此智者应当以正当取得的财物奉行正法。对世人而言,唯有正法是来世的伴侣。
13.173.17
लोभान्मोहादनुक्रोशाद्भयाद्वाऽप्यबहुश्रुतः ।
नरः करोत्यकार्याणि परार्थे लोभमोहितः ॥ १३.१७३.१७ ॥
人因贪欲、迷惑、怜悯,甚至恐惧,或因少闻博学,为他人而被贪欲迷惑,便去做不该做的事。
13.173.18
धर्मश्चार्थश्च कामश्च त्रितयं जीविते फलम् ।
एतत्त्रयमवाप्तव्यमधर्मपरिवर्जितम् ॥ १३.१७३.१८ ॥
正法、财富与欲望,这三者是人生的果实。应当在远离非法的前提下获得这三者。
13.173.19
श्रुतं भगवतो वाक्यं धर्मयुक्तं परं हितम् ।
शरीरनिश्चयं ज्ञातुं बुद्धिस्तु मम जायते ॥ १३.१७३.१९ ॥
我已聆听尊者那与法相应、极为有益的教言。如今我心中想要了知身体的决定。
13.173.20
मृतं शरीरं हि नृणां सूक्ष्ममव्यक्ततां गतम् ।
अचक्षुर्विषयं प्राप्तं कथं धर्मोऽनुगच्छति ॥ १३.१७३.२० ॥
死去之人的身体变得细微,进入未显现的状态,超出眼睛所能见的范围,那么法如何跟随它呢?
13.173.21
पृथिवी वायुराकाशमापो ज्योतिरनन्तरम् ।
बुद्धिरात्मा च सहिता धर्मं पश्यन्ति नित्यदा ॥ १३.१७३.२१ ॥
地、风、空、水,其次是火光,连同智慧与自我,总是能看见法。
13.173.22
प्राणिनामिह सर्वेषां साक्षिभूतं दिवानिशम् ।
एतैश्च सह धर्मोऽपि तं जीवमनुगच्छति ॥ १३.१७३.२२ ॥
作为此间一切众生日夜的见证者,连同这些,法也跟随那个生命。
13.173.23
त्वगस्थि मांसं शुक्रं च शोणितं च महामते ।
शरीरं वर्जयन्त्येते जीवितेन विवर्जितम् ॥ १३.१७३.२३ ॥
大智者啊,皮、骨、肉、精与血,都会舍弃失去生命的身体。
13.173.24
ततो धर्मसमायुक्तः स जीवः सुखमेधते ।
इह लोके परे चैव किं भूयः कथयामि ते ॥ १३.१७३.२४ ॥
那时,与法相应的那个生命,在此世与后世都能增长安乐。我还能再对你说什么呢?
13.173.25
तद्दर्शितं भगवता यथा धर्मोऽनुगच्छति ।
एतत्तु ज्ञातुमिच्छामि कथं रेतः प्रवर्तते ॥ १३.१७३.२५ ॥
世尊已说明法如何随行,我想知道精液(retas)如何产生。
13.173.26
अन्नमश्नन्ति यद्देवाः शरीरस्था नरेश्वर ।
पृथिवी वायुराकाशमापो ज्योतिर्मनस्तथा ॥ १३.१७३.२६ ॥
人主啊,居于身中的诸神所食用的食物是:地、风、空、水、光,以及意。
13.173.27
ततस्तृप्तेषु राजेन्द्र तेषु भूतेषु पञ्चसु ।
मनःषष्ठेषु शुद्धात्मन्रेतः सम्पद्यते महत् ॥ १३.१७३.२७ ॥
然后,王中之王啊,当那五大与第六意皆得满足时,纯净的灵魂啊,大精便产生了。
13.173.28
ततो गर्भः सम्भवति श्लेषात्स्त्रीपुंसयोर्नृप ।
एतत्ते सर्वमाख्यातं भूयः किं श्रोतुमिच्छसि ॥ १३.१७३.२८ ॥
然后,国王啊,由于男女的结合,胎儿便产生了。这一切都已告诉你了,你还想再听什么呢?
13.173.29
आख्यातं मे भगवता गर्भः सञ्जायते यथा ।
यथा जातस्तु पुरुषः प्रपद्यति तदुच्यताम् ॥ १३.१७३.२९ ॥
世尊已告诉我胎儿如何产生。现在请告诉我,人一旦出生,如何获得他所得到的。
13.173.30
आसन्नमात्रः पुरुषस्तैर्भूतैरभिभूयते ।
विप्रयुक्तश्च तैर्भूतैः पुनर्यात्यपरां गतिम्।
स च भूतसमायुक्तः प्राप्नुते जीव एव हि ॥ १३.१७३.३० ॥
将要出生的人为那些元素所支配;与那些元素分离后,他又走向另一条道路;与诸元素相结合的有情,正是获得者。
13.173.31
ततोऽस्य कर्म पश्यन्ति शुभं वा यदि वाशुभम् ।
देवताः पञ्चभूतस्थाः किं भूयः श्रोतुमिच्छसि ॥ १३.१७३.३१ ॥
此时,居于五大元素中的诸神看见此人的善业或恶业。您还想听什么?
13.173.32
त्वगस्थिमांसमुत्सृज्य तैश्च भूतैर्विवर्जितः ।
जीवः सह वसन्कृत्स्नं सुखदुःखसहः प्रभो ॥ १३.१७३.३२ ॥
舍弃皮、骨、肉,与那些元素分离的灵魂,遍住于全体,承受苦乐,啊,主。
13.173.33
भोगवश्यं कर्मवश्यं यातनावश्यमित्यपि ।
एतत्त्रयाणामासाद्य कर्मतः सोऽश्नुते फलम् ॥ १३.१७३.३३ ॥
他受享乐支配,受业支配,受苦痛支配。得此三者,他因业而获得果报。
13.173.34
जीवः कर्मसमायुक्तः शीघ्रं रेतस्त्वमागतः ।
स्त्रीणां पुष्पं समासाद्य सूतिकाले लभेत तत् ॥ १३.१७३.३४ ॥
与业相应的灵魂迅速以精液之形而来;到达女子之经血,在出生之时得之。
13.173.35
यमस्य पुरुषैः क्लेसं यमस्य पुरुषैर्वधम् ।
दुःखं संसारचक्रं च नरः क्लेशं स विन्दति ॥ १३.१७३.३५ ॥
阎摩之使者所施的苦恼,阎摩之使者所行的杀害,痛苦与轮回之轮;人遭受那苦恼。
13.173.36
इह लोके स च प्राणी जन्मप्रभृति पार्थिव ।
सुकृतं कर्म वै भुङ्क्ते धर्मस्य फलमाश्रितः ॥ १३.१७३.३६ ॥
在此世间,那有情自出生起,啊,王者,依靠法之果报,享受善业之果。
13.173.37
यदि धर्मं यथाशक्ति जन्मप्रभृति सेवते ।
ततः स पुरुषो भूत्वा सेवते नियतं सुखम् ॥ १३.१७३.३७ ॥
若人从出生起依其能力奉行法,则其成为人后必定享受安乐。
13.173.38
अथान्तरा तु धर्मस्याप्यधर्ममुपसेवते ।
सुखस्यानन्तरं दुःखं स जीवोऽप्यधिगच्छति ॥ १३.१७३.३८ ॥
然而若有人在法之中间亦行非法,则此有情于乐之后亦遇苦。
13.173.39
अधर्मेण समायुक्तो यमस्य विषयं गतः ।
महद्दुःखं समासाद्य तिर्यग्योनौ प्रजायते ॥ १३.१७३.३९ ॥
为非法所缠、往阎摩之域者,此有情遭遇大苦,生于畜生之胎。
13.173.40
कर्मणा येन येनेह यस्यां योनौ प्रजायते ।
जीवो मोहसमायुक्तस्तन्मे निगदतः शृणु ॥ १३.१७३.४० ॥
此世中以何业,迷惑所缠的有情生于何胎,你听我说。
13.173.41
यदेतदुच्यते शास्त्रे सेतिहासे च च्छन्दसि ।
यमस्य विषयं घोरं मर्त्यो लोकः प्रपद्यते ॥ १३.१७३.४१ ॥
此在典籍、史诗传说及吠陀中所说:有死之世界将抵达阎摩可怖之域。
13.173.42
इह स्थानानि पुण्यानि देवतुल्यानि भूपते ।
तिर्यग्योन्यतिरिक्तानि गतिमन्ति च सर्वशः ॥ १३.१७३.४२ ॥
此世,哀哉地主,有异于畜生之胎、与天神等同的福地,且处处有其趣向。
13.173.43
यमस्य भवने दिव्ये ब्रह्मलोकसमे गुणैः ।
कर्मभिर्नियतैर्बद्धो जन्तुर्दुःखान्युपाश्नुते ॥ १३.१७३.४३ ॥
在阎摩的天上宫殿中,其殊胜与梵天世界相等,被定业所缚的众生承受苦难。
13.173.44
येनयेन तु भावेन कर्मणा पुरुषो गतिम् ।
प्रयाति परुषां घोरां तत्ते वक्ष्याम्यतः परम् ॥ १३.१७३.४४ ॥
人以何种心念、何种行为走向严酷可怕的归宿,此后我将告诉你。
13.173.45
अधीत्य चतुरो वेदान्द्विजो मोहसमन्वितः ।
पतितात्प्रतिगृह्याथ खरयोनौ प्रजायते ॥ १३.१७३.४५ ॥
婆罗门虽已学习四吠陀,却为迷惑所缠,若接受堕落者的布施,便投生于驴胎之中。
13.173.46
खरो जीवति वर्षाणि दश पञ्च च भारत ।
खरो मृतो बलीवर्दः सप्तवर्षाणि जीवति ॥ १३.१७३.४६ ॥
婆罗多之子啊,驴活十五年。驴死后化为公牛,再活七年。
13.173.47
बलीवर्दो मृतश्चापि जायते ब्रह्मराक्षसः ।
ब्रह्मरक्षश्च मासांस्त्रींस्ततो जायेत ब्राह्मणः ॥ १३.१७३.४७ ॥
公牛死后转生为婆罗门罗刹;婆罗门罗刹活三个月,然后转生为婆罗门。
13.173.48
पतितं याजयित्वा तु कृमियोनौ प्रजायते ।
तत्र जीवति वर्षाणि दश पञ्च च भारत ॥ १३.१७३.४८ ॥
使堕落者主持祭祀的人,将投生于虫胎之中;在那里他活十五年,婆罗多之子啊。
13.173.49
कृमिभावाद्विमुक्तस्तु ततो जायेत गर्दभः ।
गर्दभः पञ्चवर्षाणि पञ्चवर्षाणि सूकरः ॥ १३.१७३.४९ ॥
脱离虫类之身后,他便转生为驴,作驴五年,又作野猪五年。
13.173.50
कुक्कुटः पञ्चवर्षाणि पञ्चवर्षाणि जम्बुकः ।
श्वा वर्षमेकं भवति ततो जायेत मानवः ॥ १३.१७३.५० ॥
作鸡五年,又作豺五年。作狗一年,然后转生为人。
13.173.51
उपाध्यायस्त्रियः पापं शिष्यः कुर्यादबुद्धिमान् ।
स जीव इह संसारांस्त्रीनाप्नोति न संशयः ॥ १३.१७३.५१ ॥
若无智的弟子与师父之妻行淫,他于此便得三轮轮回;此无疑。
13.173.52
वृको भवति राजेन्द्र ततः क्रव्यात्ततः खरः ।
ततः प्रेतः परिक्लिष्टः पश्चाज्जायेत ब्राह्मणः ॥ १३.१७३.५२ ॥
他变为狼,啊,王中之王;然后为食肉者,再为驴。然后作受苦的鬼魂,之后转生为婆罗门。
13.173.53
मनसाऽपि गुरोर्भार्यां यः शिष्यो याति पापकृत् ।
स उग्रान्प्रैति संसारानधर्मेणेह चेतसा ॥ १३.१७३.५३ ॥
作恶的弟子若心中也去近师父之妻,便以非法、以此心,堕入可怖的轮回。
13.173.54
श्वयोनौ तु स सम्भूतस्त्रीणि वर्षाणि जीवति ।
तत्रापि निधनं प्राप्तः कृमियोनौ प्रजायते ॥ १३.१७३.५४ ॥
他生于狗胎,活三年;在那里也死亡,又生于虫胎。
13.173.55
कृमिभावमनुप्राप्तो वर्षमेकं तु जीवति ।
ततस्तु निधनं प्राप्तो ब्रह्मयोनौ प्रजायते ॥ १३.१७३.५५ ॥
他达到虫的境界后活一年。随后死亡,便投生于婆罗门的胎中。
13.173.56
यदि पुत्रसमं शिष्यं गुरुर्हन्यादकारणे ।
आत्मनः कामकारेण सोपि हिंस्रः प्रजायते ॥ १३.१७३.५६ ॥
若师长无故打击如子的弟子,则因其自身意愿,他也会投生为暴戾之物。
13.173.57
पितरं मातरं चैव यस्तु पुत्रोऽवमन्यते ।
सोऽपि राजन्मृतो जन्तुः पूर्वं जायेत गर्दभः ॥ १३.१७३.५७ ॥
轻慢父母的儿子,大王啊,死后先会投生为驴。
13.173.58
गर्दभत्वं तु सम्प्राप्य दशवर्षाणि जीवति ।
संवत्सरं तु कुम्भीरस्ततो जायेत मानवः ॥ १३.१७३.५८ ॥
得驴身后活十年。作鳄鱼一年,随后投生为人。
13.173.59
पुत्रस्य मातापितरौ यस्य रुष्टावुभावपि ।
गुर्वपध्यानतः सोपि मृतो जायति गर्दभः ॥ १३.१७३.५९ ॥
父母皆对其愤怒的儿子,因怠慢长辈,死后投生为驴。
13.173.60
खरो जीवति मासांस्तु दश श्वा च चतुर्दशः ।
बिडालः सप्तमासांस्तु ततो जायेत मानवः ॥ १३.१७३.६० ॥
驴活十个月,狗活十四个月。猫活七个月,然后投生为人。
13.173.61
मातापितरावाक्रुश्य शारिका सम्प्रजायते ।
ताडयित्वा तु तावेव जायते कच्छपो नृप ॥ १३.१७३.६१ ॥
辱骂父母者转生为鹊鸟(舍利迦);殴打父母者,大王,转生为龟。
13.173.62
कच्छपो दशवर्षाणि त्रीणि वर्षाणि शल्यकः ।
व्यालो भूत्वा च षण्मासांस्ततो जायति मानुषः ॥ १३.१७३.६२ ॥
做龟十年,做豪猪三年,做蛇六个月;然后转生为人。
13.173.63
भर्तृपिण्डमुपाश्नन्यो राजद्विष्टानि सेवते ।
सोपि मोहसमापन्नो मृतो जायति वानरः ॥ १३.१७३.६३ ॥
食主人之食,却侍奉国王所憎之事,陷入迷惑,死后转生为猴。
13.173.64
वानरो दशवर्षाणि पञ्चवर्षाणि सूकरः ।
श्वाऽथ भूत्वा तु षण्मासांस्ततो जायति मानुषः ॥ १३.१७३.६४ ॥
做猴十年,做野猪五年,做狗六个月;然后转生为人。
13.173.65
न्यासापहर्ता तु नरो यमस्य विषयं गतः ।
यातनानां शतं गत्वा कृमियोनौ प्रजायते ॥ १३.१७३.६५ ॥
盗取寄存之物的人前往阎摩之境,历经百种苦刑,然后投生为虫。
13.173.66
तत्र जीवति वर्षाणि दशपञ्च च भारत ।
दुष्कृतस्य क्षयं कृत्वा ततो जायति मानुषः ॥ १३.१७३.६६ ॥
他在那里活十五年,婆罗多之子啊;耗尽恶业之果后,便转生为人。
13.173.67
असूयकः कुत्सितश्च चण्डालो दुःखमश्नुते ।
विश्वासहर्ता तु नरो मीनो जायति दुर्मतिः ॥ १३.१७३.६७ ॥
好嫉妒、遭人鄙弃的旃陀罗受苦。毁坏信任的人则以愚昧之心转生为鱼。
13.173.68
भूत्वा मीनोऽष्टमासांस्तु मृगो जायति भारत ।
मृगस्तु चतुरो मासांस्ततश्छागः प्रजायते ॥ १३.१७३.६८ ॥
薄罗多之裔啊,他作为鱼度过八个月后,转生为鹿。鹿度过四个月后,便转生为山羊。
13.173.69
छागस्तु निधनं प्राप्य पूर्णे संवत्सरे ततः ।
गौः स सञ्जायते जन्तुस्ततो जायति मानुषः ॥ १३.१७३.६९ ॥
山羊死后,满一年之时,那生灵便转生为母牛。之后便转生为人。
13.173.70
धान्यान्यवांस्तिलान्माषान्कुलत्थान्सर्षपांश्चणान् ।
कलायानथ मुद्गांश्च गोधूमानतसीस्तथा ॥ १३.१७३.७० ॥
谷物、大麦、芝麻、黑绿豆、马豆、芥子、鹰嘴豆、豌豆、绿豆、小麦和亚麻。
13.173.71
यस्तु धान्यापहर्ता च मोहाज्जन्तुरचेतनः ।
स जायते महाराज मूषिको निरपत्रपः ॥ १३.१७३.७१ ॥
大王啊,因迷惑而无知觉地偷取谷物的生灵,会转生为无耻的老鼠。
13.173.72
ततः प्रेत्य महाराज मृतो जायति सूकरः ।
सूकरो जातमात्रस्तु रोगेणि म्रियते नृप ॥ १३.१७३.७२ ॥
大王啊,死后化为鬼魂,之后便转生为野猪。那野猪刚出生,便因疾病而死,大王。
13.173.73
श्वा ततो जायते मूढः कर्मणा तेन पार्थिव ।
भूत्वा श्वा पञ्चवर्षाणि ततो जायति मानवः ॥ १३.१७३.७३ ॥
然后,愚痴之人因那业报而生为狗,国王啊。作狗五年之后,他又生为人。
13.173.74
परदाराभिमर्शं तु कृत्वा जायति वै वृकः ।
श्वा शृगालस्ततो गृध्रो व्यालः कङ्को बकस्तथा ॥ १३.१७३.७४ ॥
触碰他人之妻者,生为狼。之后又生为狗、豺、秃鹫、蛇、鹤和鹭。
13.173.75
भ्रातुर्भार्यां तु पापात्मा यो धर्मयति मोहितः ।
पुंस्कोकिलत्वमाप्नोति सोऽपि संवत्सरं नृप ॥ १३.१७३.७५ ॥
心存邪恶、被迷惑而玷污兄弟之妻者,也将成为雄杜鹃,为期一年,国王啊。
13.173.76
सखिभार्यां गुरोर्भार्यां राजभार्यां तथैव च ।
प्रधर्षयित्वा कामाद्यो मृतो जायति सूकरः ॥ १३.१७३.७६ ॥
因贪欲而侵犯朋友之妻、师长之妻或国王之妻,死后便生为野猪。
13.173.77
सूकरः पञ्चवर्षाणि दशवर्षाणि श्वाविधः ।
बिडालः पञ्चवर्षाणि दशवर्षाणि कुक्कुटः ॥ १३.१७३.७७ ॥
作野猪五年与十年,作犬类十年,作猫五年与十年,然后生为公鸡。
13.173.78
पिपीलिका तु मासांस्त्रीन्वानरो मासमेव तु ।
एतानासाद्य संसारान्कृमियोनौ प्रजायते ॥ १३.१७३.७८ ॥
作蚂蚁三个月,作猴子仅一个月;历经这些轮回之后,便生于蠕虫之胎。
13.173.79
तत्र जीवति मासांस्तु कृमियोनौ चतुर्दश ।
ततोऽधर्मक्षयं कृत्वा पुनर्जायति मानवः ॥ १३.१७३.७९ ॥
他在虫类之胎中生活十四个月;然后,灭尽其非法之业,便再次投生为人。
13.173.80
उपस्थिते विवाहे तु यज्ञे दानेऽपि वा विभो ।
मोहात्करोति यो विघ्नं स मृतो जायते कृमिः ॥ १३.१७३.८० ॥
噢,威力者!婚礼、祭祀或布施临近时,若因迷惑而设障碍者,死后便投生为虫。
13.173.81
कृमिर्जीवति वर्षाणि दश पञ्च च भारत ।
अधर्मिस्य क्षयं कृत्वा ततो जायति मानवः ॥ १३.१७३.८१ ॥
婆罗多之子啊,虫活十五年;然后,消除不义者的罪业,便生为人。
13.173.82
पूर्वं दत्त्वा तु यः कन्यां द्वितीये दातुमिच्छति ।
सोपि राजन्मृतो जन्तुः कृमियोनौ प्रजायते ॥ १३.१७३.८२ ॥
大王啊,先已许配女子,又欲将她嫁与他人者,死后也投生于虫类之胎。
13.173.83
तत्र जीवति वर्षाणि त्रयोदश युधिष्ठिर ।
अधर्मसंक्षये युक्तस्ततो जायति मानवः ॥ १३.१७३.८३ ॥
犹地希特啊,他在彼处活十三年;致力于灭除不义,然后投生为人。
13.173.84
देवकार्यमकृत्वा तु पितृकार्यमथापि वा ।
अनिर्वाप्य समश्नन्वै मृतो जायति वायसः ॥ १३.१७३.८४ ॥
未行天神之事或祖先之事,又不献祭供养祖灵便进食者,死后投生为乌鸦。
13.173.85
वायसः शतवर्षाणि ततो जायति कुक्कुटः ।
जायते व्यालकश्चापि मासं तस्मात्तु मानुषः ॥ १३.१७३.८५ ॥
他先百年为乌鸦而生,再为公鸡而生;也曾为蛇而生一月;此后方成为人。
13.173.86
ज्येष्ठं पितृसमं चापि भ्रातरं योऽवमन्यते ।
सोऽपि मृत्युमुपागम्य क्रौञ्चयोनौ प्रजायते ॥ १३.१७३.८६ ॥
轻慢与父亲同等的长兄者,死后也会投生于鹤类之胎。
13.173.87
क्रौञ्चो जीवति वर्षं तु ततो जायति चीरकः ।
ततो निधनमापन्नो मानुषत्वमुपाश्नुते ॥ १३.१७३.८७ ॥
鹤活一年;然后投生为一种名为“慈罗迦”的鸟。死后,它获得人身。
13.173.88
वृषलो ब्राह्मणीं गत्वा कृमियोनौ प्रजायते ।
ततः सम्प्राप्य निधनं जायते सूकरः पुनः ॥ १३.१७३.८८ ॥
首陀罗与婆罗门女子交合,便投生于虫类之胎;死后又投生为野猪。
13.173.89
सूकरो जातमात्रस्तु रोगेण म्रियते नृप ।
श्वा ततो जायते मूढः कर्मणा तेन पार्थिव ॥ १३.१७३.८९ ॥
君王啊,野猪刚一出生便因疾病而死;然后,大地之主啊,因同一业报,它便投生为愚蠢的狗。
13.173.90
श्वा भूत्वा कृतकर्माऽसौ जायते मानुषस्ततः ।
तत्रापत्यं समुत्पाद्य मृतो जायति मूषिकः ॥ १३.१७३.९० ॥
成为狗并造作业行后,他又投生为人;在那里生育子嗣并死去后,他投生为老鼠。
13.173.91
कृतघ्नस्तु मृतो राजन्यमस्य विषयं गतः ।
यमस्य पुरुषैः क्रुद्धैर्वधं प्राप्नोति दारणम् ॥ १३.१७३.९१ ॥
大王啊,忘恩负义者死后进入阎摩的国度,被愤怒的阎摩差役施以撕裂之击。
13.173.92
दण्डं समुद्गरं शूलमग्निकुम्भं च दारुणम् ।
असिपत्रवनं घोरवालुकं कूटशाल्मलीम् ॥ १३.१७३.९२ ॥
杖、铁锤、长矛、可怖的火釜、剑叶林、可怕的沙地,以及欺诈的木棉树。
13.173.93
एताश्चान्याश्च बह्वीश्च यमस्य विषयं गतः ।
यातनाः प्राप्य तत्रोग्रास्ततो वध्यति भारत ॥ १३.१७३.९३ ॥
婆罗多啊,他去到阎摩的国度,承受这些以及许多其他的酷刑,然后在那里被猛烈的酷刑所击杀。
13.173.94
ततो हतः कृतघ्नः स तत्रोग्रैर्भरतर्षभ ।
संसारचक्रमासाद्य कृमियोनौ प्रजायते ॥ १३.१७३.९४ ॥
婆罗多之牛啊,那忘恩负义者在那里被猛烈的酷刑击倒,进入轮回之轮,并投生为虫的胎。
13.173.95
कृमिर्भवति वर्षाणि दशपञ्च च भारत ।
ततो गर्भं समासाद्य तत्रैव म्रियते शिशुः ॥ १३.१७३.९५ ॥
婆罗多啊,他作为虫存活十五年;之后进入胎中,便在那里以婴儿之身死去。
13.173.96
ततो गर्भशतैर्जन्तुर्बहुभि सम्प्रपद्यते ।
संसारांश्च बहून्गत्वा ततस्मिर्यक्षु जायते ॥ १३.१७३.९६ ॥
然后,那众生历经数百个胎藏与许多轮回,之后投生于夜叉之中。
13.173.97
ततो दुःखमनुप्राप्य बहुवर्षगणानिह ।
स पुनर्भवसंयुक्तस्ततः कूर्मः प्रजायते ॥ १३.१७३.९७ ॥
此后,他在此历经许多年的痛苦,再度与生存相连,然后投生为龟。
13.173.98
दधि हृत्वा बकश्चापि प्लवो मत्स्यानसंस्कृतान् ।
चोरयित्वा तु दुर्बुद्धिर्मधुदंशः प्रजायते ॥ १३.१७३.९८ ॥
偷了凝乳的鹭鸶,以及偷了生鱼的水鸟;心术邪恶者则投生为咬蜜的昆虫。
13.173.99
फलं वा मूलकं हृत्वा अपूपं वा पिपीलिकाः ।
चोरयित्वा च निष्पावं जायते हलगोलकः ॥ १३.१७३.९९ ॥
偷了果子或萝卜,或偷了饼,便化为蚂蚁;偷了豆子,则投生为犁球虫(一种昆虫)。
13.173.100
पायसं चोरयित्वा तु तित्तिरित्वमवाप्नुते ।
हृत्वा पिष्टमयं पूपं कुम्भोलूकः प्रजायते ॥ १३.१७३.१०० ॥
偷了奶米粥,他便获得鹧鸪的状态;偷了面饼,则投生为瓶鸮(一种猫头鹰)。
13.173.101
अयो हृत्वा तु दुर्बुद्धिर्वायसो जायते नरः ।
कांस्यं हृत्वा तु दुर्बद्धिर्हारितो जायते नरः ॥ १३.१७३.१०१ ॥
偷了铁的恶心之人投生为乌鸦;偷了铜的恶心之人投生为鹦鹉(绿色的hārīta)。
13.173.102
राजतं भाजनं हृत्वा कपोतः सम्प्रजायते ।
हृत्वा तु काञ्चनं भाण्डं कृमियोनौ प्रजायते ॥ १३.१७३.१०२ ॥
偷了银器的人投生为鸽子;偷了金器的人则投生于虫类之胎中。
13.173.103
पत्रोर्णं चोरयित्वा तु कृकलत्वं निगच्छति ।
कौशिकं तु ततो हृत्वा नरो जायति वर्तकः ॥ १३.१७३.१०३ ॥
偷窃叶毛者,将转生为鹧鸪鸟(kṛkala);偷取憍尸迦(kauśika)布帛者,则转生为鹌鹑(vartaka)。
13.173.104
अंशुकं चोरयित्वा तु शुक्रो जायति मानवः ।
चोरयित्वा दुकूलं तु मृतो हंसः प्रजायते ॥ १३.१७३.१०४ ॥
偷窃细布者转生为鹦鹉;偷窃杜古罗(dukūla)细麻布而死去者,则转生为天鹅。
13.173.105
क्रौञ्चः कार्पासिकं हृत्वा मृतो जायति मानवः ।
चोरयित्वा नरः पट्टं त्वाविकं चैव भारत। ॥ १३.१७३.१०५ ॥
偷窃棉布而死者,转生为鹤(krauñca);婆罗多啊,人偷窃丝绸(paṭṭa)与毛织物(āvika)。
13.173.106
वर्णान्हृत्वा तु पुरुषो मृतो जायति बर्हिणः ।
हृत्वा रक्तानि वस्त्राणि जायते जीवजीवकः ॥ १३.१७३.१०६ ॥
偷窃颜料而死去者,转生为孔雀;偷窃红色衣服者,则转生为“命命鸟”(jīvajīvaka)。
13.173.107
वर्णकादींस्तथा गन्धांश्चोरयित्वेह मानवः ।
छुन्दुन्दरित्वमाप्नोति राजँल्लोभपरायणः ॥ १३.१७३.१०७ ॥
在此,偷窃颜料、香料等而沉溺于贪欲的人,o大王,将堕入“楚恭达罗”(chundundara)之境。
13.173.108
तत्र जीवति वर्षाणि ततो दश च पञ्च च ।
अधर्मस्य क्षयं गत्वा ततो जायति मानुषः ॥ १३.१७३.१०८ ॥
彼在那里生活十五年;然后,待非法(adharma)消尽,便再度以人身出生。
13.173.109
चोरयित्वा पयश्चापि बलाका सम्प्रजायते ॥ १३.१७३.१०९ ॥
偷牛奶的人会转生为鹭鸶。
13.173.110
यस्तु चोरयते तैलं नरो मोहसमन्वितः ।
सोपि राजन्मृतो जन्तुस्तैलपायी प्रजायते ॥ १३.१७३.११० ॥
迷惑之人偷油,大王,死后会转生为饮油之虫。
13.173.111
अशस्त्रं पुरुषं हत्वा सशस्त्रः पुरुषाधमः ।
अर्थार्थी यदि वा वैरी स मृतो जायते स्वरः ॥ १३.१७३.१११ ॥
卑劣之人持械杀害手无寸铁之人,或为求财,或出于仇恨,死后转生为发出声音的生灵“斯瓦拉”。
13.173.112
खरो जीवति वर्षे द्वे ततः शस्त्रेण वध्यते ।
स मृतो मृगयोनौ तु नित्योद्विग्नोऽभिजायते ॥ १३.१७३.११२ ॥
这头驴活两年,然后被兵器杀死。死后它转生于鹿胎之中,永远惶恐不安。
13.173.113
मृगो वध्यति शस्त्रेण गते संवत्सरे तु सः ।
हतो मृगस्ततो मीनः सोपि जालेन बध्यते ॥ १३.१७३.११३ ॥
过了一年,那只鹿被兵器杀死;作为被杀的鹿,它随后变成鱼,而这鱼也被网所捕。
13.173.114
मासे चतुर्थे सम्प्राप्ते श्वापदः सम्प्रजायते ।
श्वापदो दशवर्षाणि द्वीपी वर्षाणि पञ्च च ॥ १३.१७३.११४ ॥
第四个月到来时,他转生为猛兽;猛兽活十年,豹子活五年。
13.173.115
ततस्तु निधनं प्राप्तः कालपर्यायचोदितः ।
अधर्मस्य क्षयं कृत्वा ततो जायति मानुषः ॥ १३.१७३.११५ ॥
随后,他迎来死亡,受时节轮转所驱使,灭尽了非法,之后便以人身而生。
13.173.116
स्त्रियं हत्वा तु दुर्बुद्धिर्यमस्य विषयं गतः ।
बहून्क्लेशान्समासाद्य नरकानेकविंशतिम् ॥ १३.१७३.११६ ॥
杀害女子之后,那恶念之人前往阎摩之界;历经诸般苦难,抵达二十一地狱。
13.173.117
ततः पश्चान्महाराज कृमियोनौ प्रजायते ।
कृमिर्विंशतिवर्षाणि भूत्वा जायति मानुषः ॥ १३.१७३.११७ ॥
此后,大王啊,他投生于虫类之胎;作虫二十年之后,又以人身而生。
13.173.118
भोजनं चोरयित्वा तु मक्षिका जायते नरः ।
मक्षिकासङ्घवशगो बहून्मासान्भवत्युत ॥ १३.१७३.११८ ॥
窃取食物的人投生为苍蝇;受制于蝇群,长达许多个月。
13.173.119
ततः पापक्षयं कृत्वा मानुषत्वमवाप्नुते ।
भक्ष्यं हृत्वा तु पुरुषो जालपाशः प्रजायते ॥ १३.१७३.११९ ॥
之后,他灭尽罪业,得人身之果;然而窃取食物之人投生为罗网之套。
13.173.120
स्वाद्यं हृत्वा तु पुरुषश्चीरपाशः प्रजायते ।
धान्यं हृत्वा तु पुरुषो लोमशः सम्प्रजायते ॥ १३.१७३.१२० ॥
窃取美味食物的人投生为布罗之套;窃取谷物的人投生为多毛之物。
13.173.121
तथा पिण्याकसम्मिश्रमशनं चोरयेन्नरः ।
स जायते भृतिधनो दारुणो मूषिको नरः ॥ १३.१७३.१२१ ॥
同样,偷窃掺有油饼的食物的人,会投生为残忍的老鼠,其财富只是工钱。
13.173.122
दशन्वै मानुषान्नित्यं पापात्मा स विशाम्पते ।
घृतं हृत्वा तु दुर्बुद्धिः काकमद्गुः प्रजायते ॥ १३.१७३.१२२ ॥
众生之主啊,那常咬人的罪人,偷酥油的恶念者,会投生为乌鸦-木德伽。
13.173.123
मत्स्यमांसमथो हृत्वा काको जायति। दुर्मतिः ।
लवणं चोरयित्वा तु चिरिकाकः प्रजायते ॥ १३.१७३.१२३ ॥
偷鱼肉的恶念者投生为乌鸦;偷盐者投生为吃吃乌鸦。
13.173.124
विश्वासेन तु निक्षिप्तं यो विनिह्नोति मानवः ।
स गतायुर्नरस्तात मत्स्ययोनौ प्रजायते ॥ १३.१७३.१२४ ॥
孩子啊,那否认受托保管之物的人,寿命短促,会投生于鱼的胎中。
13.173.125
मत्स्ययोनिमनुप्राप्य मृतो जायति मानुषः ।
मानुषत्वमनुप्राप्य क्षीणायुरुपपद्यते ॥ १३.१७३.१२५ ॥
人投生于鱼胎而死后,又会再生;而得了人身后,又因寿命减短而生。
13.173.126
पापानि तु नराः कृत्वा तिर्यग्जायन्ति भारत ।
न चात्मनः प्रयाणान्ते धर्मं जानन्ति कञ्चन ॥ १३.१७३.१२६ ॥
婆罗多啊,人造作罪恶便投生为畜生,临命终时,他们竟不知何为正法。
13.173.127
ये पापानि नराः कृत्वा निरस्यन्ति व्रतैः सदा ।
सुखदुःखसमायुक्ता व्यथितास्ते भवन्त्युत ॥ १३.१७३.१२७ ॥
那些作恶之人,常以誓愿除去其罪,却与苦乐相连,因而确实陷入痛苦。
13.173.128
अपुमांसः प्रजायन्ते म्लेच्छाश्चापि न संशयः ।
नराः पापसमाचारा लोभमोहसमन्विताः ॥ १३.१७३.१२८ ॥
生为non-男性,亦为蛮夷,此无疑问;行恶之人,怀贪欲与迷惑者,亦复如是。
13.173.129
वर्जयन्ति च पापानि जन्मप्रभृति ये नराः ।
अरोगा रूपवन्तस्ते धनिनश्च भवन्त्युत ॥ १३.१७३.१२९ ॥
自出生起便远离诸恶之人,便得无病、有相貌,且确实富有。
13.173.130
स्त्रियोऽप्येतेन कल्पेन कृत्वा पापमवाप्नुयुः ।
एतेषामेव जन्तूनां भार्यात्वमुपयान्ति ताः ॥ १३.१७३.१३० ॥
女子亦以同样方式作恶,而得其报;她们便成为这些众生的妻子。
13.173.131
परस्वहरणे दोषाः सर्व एव प्रकीर्तिताः ।
एतद्धि लेशमात्रेण कथितं ते मयाऽनघ ॥ १३.१७३.१३१ ॥
夺取他人财物的种种过失,皆已宣说;此事我只是略微告诉你了,无罪者啊。
13.173.132
अपरस्मिन्कथायोगे भूयः श्रोष्यसि भारत ।
एतन्मया महाराज ब्रह्मणो गदतः पुरा ॥ १३.१७३.१३२ ॥
婆罗多啊,在故事的另一脉络中你将再次听到。大王啊,此事我依昔日梵天所说而告诉你。
13.173.133
सुरर्षीणां श्रुतं मध्ये पृष्टश्चापि यथातथम् ।
मयाऽपि तच्च कार्त्स्न्येन यथावदनुवर्णितम्।
एतच्छ्रुत्वा महाराज धर्मे कुरु मनः सदा ॥ १३.१७३.१३३ ॥
我也已将在天界仙人之中所听闻、并如实询问的内容完整而准确地叙述了。大王,听闻此事后,应当时时将心志专注于正法。