Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.174

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.174.1

अधर्मस्य गतिर्ब्रह्मन्कथिता मे त्वयाऽनघ ।
धर्मस्य तु गतिं श्रोतुमिच्छामि वदतांवर ॥ १३.१७४.१ ॥

婆罗门啊,无罪者啊,您已为我讲述了非法之道;现在我愿听闻正法之道,善辩者中之最!

13.174.2

कृत्वा कर्माणि पापानि कथं यान्ति शुभां गतिम् ।
कर्मणा च कृतेनेह केन यान्ति शुभां गतिम् ॥ १३.१७४.२ ॥

人们造作罪恶之业后,如何能到达善趣?又以此世所作何种业,他们得往善趣?

13.174.3

कृत्वा पापानि कर्माणि अधर्मवशमागतः ।
मनसा विपरीतेन निरयं प्रतिपद्यते ॥ १३.१७४.३ ॥

造作罪业、陷于非法之力的人,心念颠倒,便堕入地狱。

13.174.4

मोहादधर्मं यः कृत्वा पुनः समनुतप्यते ।
मनःसमाधिसंयुक्तो न स सेवेत दुष्कृतम् ॥ १३.१७४.४ ॥

若因迷惑而行非法,事后深感悔悟,并以专注之心自持,便不应再行恶业。

13.174.5

यथायथा मनस्तस्य दुष्कृतं कर्म गर्हते ।
तथातथा शरीरं तु तेनाधर्मेण मुच्यते ॥ १३.१७४.५ ॥

他的心越是谴责所造的恶业,他的身体便越能从那非法之中解脱。

13.174.6

यदि व्याहरते राजन्विप्राणां धर्मवादिनाम् ।
ततोऽधर्मकृतात्क्षिप्रमपवादात्प्रमुच्यते ॥ १३.१७४.६ ॥

国王啊,若他在谈论正法的婆罗门面前坦陈其过,便能迅速脱离由非法之行所生的罪责。

13.174.7

यथायथा नरः सम्यगध्रममनुभाषते ।
समाहितेन मनसा विमुच्येत तथातथा।
भुजङ्ग इव निर्मोकात्पूर्वभुक्ताज्जरान्वितात् ॥ १३.१७४.७ ॥

人若如法地坦承其非法,便以专注之心得以解脱,如蛇脱去其陈旧衰老的旧皮。

13.174.8

दत्त्वा विप्रस्य दानानि विविधानि समाहितः ।
मनःसमाधिसंयुक्तः सुगतिं प्रतिपद्यते ॥ १३.१७४.८ ॥

向婆罗门施予种种布施,心神专注、意念定一,人便能获得善趣。

13.174.9

प्रदानानि तु वक्ष्यामि यानि दत्त्वा युधिष्ठिर ।
नरः कृत्वाऽप्यकार्याणि ततो धर्मेण युज्यते ॥ १३.१७४.९ ॥

尤地什提洛啊,我将说出那些布施——人即使曾做过不当之事,施予之后便重新与法相合。

13.174.10

सर्वेषामेव दानानामन्नं श्रेष्ठमुदाहृतम् ।
पूर्वमन्नं प्रदातव्यमृजुना धर्ममिच्छता ॥ १३.१७४.१० ॥

在一切布施之中,食物被称为最殊胜;求法的正直之人应当先施予食物。

13.174.11

प्राणा ह्यन्नं मनुष्याणां तस्माज्जन्तुश्च जायते ।
अन्ने प्रतिष्ठितो लोकस्तस्मादन्नं प्रशस्यते ॥ १३.१७४.११ ॥

食物确实是人的生命之气,因此众生得以诞生;世界立足于食物,因此食物受到赞扬。

13.174.12

अन्नमेव प्रशंसन्ति देवर्षिपितृमानवाः ।
अन्नस्य हि प्रदानेन स्वर्गमाप्नोति मानवः ॥ १३.१७४.१२ ॥

诸天、仙人、祖先与众人都赞叹食物;人因布施食物而得生天。

13.174.13

न्यायलब्धं प्रदातव्यं द्विजातिभ्योऽन्नमुत्तमम् ।
स्वाध्यायसमुपेतेभ्यः प्रहृष्टेनान्तरात्मना ॥ १३.१७४.१३ ॥

应以正当所得的上等食物,怀着喜悦的内心,施予精通吠陀研习的再生者。

13.174.14

यस्य ह्यन्नमुपाश्नन्ति ब्राह्मणानां शतं दश ।
हृष्टेन मनसा दत्तं न स तिर्यग्गतिर्भवेत् ॥ १३.१७४.१४ ॥

若以欢喜之心施予一百一十位婆罗门所食的食物,施主便不会堕入畜生之道。

13.174.15

ब्राह्मणानां सहस्राणि दश भोज्य नरर्षभ ।
नरोऽधर्मात्प्रमुच्येत योगेष्वभिरतः सदा ॥ १३.१७४.१५ ॥

人中之雄,应供养一万名婆罗门;常乐于瑜伽者,可脱离非法。

13.174.16

भैक्ष्येणान्नं समाहृत्य दद्यादन्नं द्विजेषु वै ।
सुवर्णदानात्पापानि नश्यन्ति सुबहून्यपि ॥ १३.१७४.१६ ॥

以乞食所得之食,应施予再生者;因施金,许多罪业亦可消除。

13.174.17

दत्त्वा वृत्तिकरीं भूमिं पातकेनापि मुच्यते ।
पारायणैश्च वेदानां मुच्यते पातकैर्द्विजः ॥ १३.१७४.१७ ॥

施予可供生计的土地,人便能脱离罪过;诵读吠陀,再生者便能脱离诸罪。

13.174.18

गायत्र्याश्चैव लक्षेण गोसहस्रस्य तर्पणात् ।
वेदार्थं ज्ञापयित्वा तु शुद्धान्विप्रान्यथार्थतः ॥ १३.१७४.१८ ॥

诵持十万遍《伽耶特里》,以水供养千头牛,并如实为清净的婆罗门阐明吠陀之义……

13.174.19

सर्वत्यागादिभिश्चैव मुच्यते पातकैर्द्विजः ।
सर्वातिथ्यं परं ह्येषां तस्माद्दानं परं स्मृतम् ॥ १३.१७४.१९ ॥

以舍弃一切等法,再生者便能脱离罪过。对他们的款待最为至上,因此布施被称为最高。

13.174.20

अहिंसन्ब्राह्मणस्वानि न्यायेन परिपाल्य च ।
क्षत्रियस्तरसा प्राप्तमन्नं यो वै प्रयच्छति ॥ १३.१७४.२० ॥

不损害婆罗门的财物,依法加以守护,刹帝利将以武力所得之食物施与他们——

13.174.21

द्विजेभ्यो वेदवृद्धेभ्यः प्रयतः सुसमाहितः ।
तेनापोहति धर्मात्मन्दुष्कृतं कर्म पाण्डव ॥ १३.१७४.२१ ॥

以自制与专一之心布施给精通吠陀的再生者,正法之魂的般度子啊,便能消除那恶行。

13.174.22

षड्भागपरिशुद्धं च कृषेर्भागमुपार्जितम् ।
वैश्योऽददद्द्विजातिभ्यः पापेभ्यः परिमुच्यते ॥ १३.१७४.२२ ॥

吠舍若将以耕作所得、经六分之一净化的份额施予再生者,便能脱离罪过。

13.174.23

अवाप्य प्राणसंदेहं कार्कश्येन समार्जितम् ।
अन्नं दत्त्वा द्विजातिभ्यः शूद्रः पापात्प्रमुच्यते ॥ १३.१७४.२३ ॥

首陀罗冒着生命危险,将以辛苦劳作所得的食物施予再生者,便完全脱离罪过。

13.174.24

औरसेन बलेनान्नमर्जयित्वाऽविहिंसकः ।
यः प्रयच्छति विप्रेभ्यो न स दुर्गाणि पश्यति ॥ १३.१७४.२४ ॥

凭自身之力获得食物,并保持非暴力,将之施予婆罗门者,不会见到艰难困苦。

13.174.25

न्यायेनैवाप्तमन्नं तु नरो हर्षसमन्वितः ।
द्विजेभ्यो वेदवृद्धेभ्यो दत्त्वा पापात्प्रमुच्यते ॥ १३.१७४.२५ ॥

人若以正当手段得来的食物,怀着喜悦施给精通吠陀的年长再生族,便可脱离罪恶。

13.174.26

अन्नमूर्जस्करं लोके दत्त्वोर्जस्वी भवेन्नरः ।
सतां पन्थानमावृत्य सर्वपापैः प्रमुच्यते ॥ १३.१७४.२६ ॥

在世上施予能增添力量的食物,人便变得有力;循着善人之道而行,便能脱离一切罪恶。

13.174.27

शूद्रान्नं नैव भोक्तव्यं विप्रैर्धर्मपरायणैः ।
आपद्येव स्वदासानां भोक्तव्यं स्वयमुद्यतैः ॥ १३.१७४.२७ ॥

恪守法度的婆罗门绝不可食用首陀罗的食物;只有在危难之时,才可自行准备并食用自家奴仆的食物。

13.174.28

दानवद्भिः कृतः पन्था येन यान्ति मनीषिणः ।
ते हि प्राणस्य दातारस्तेभ्यो धर्मः सनातनः ॥ १३.१७४.२८ ॥

慷慨者开辟的道路,智者由此而行——他们便是生命的施予者;永恒的法属于他们。

13.174.29

सर्वावस्थं मनुष्येण न्यायेनान्नमुपार्जितम् ।
कार्यं पात्रागतं नित्यमन्नं हि परमा गतिः ॥ १३.१७४.२९ ॥

无论何时,人都应将以正当手段得来的食物,施给前来的合格宾客,因为食物是至高的归宿。

13.174.30

अन्नस्य हि प्रदानेन नरो रौद्रं न सेवते ।
तस्मादन्नं प्रदातव्यमन्यायपरिवर्जितम् ॥ १३.१७४.३० ॥

施予食物,人便不会行残暴之事;因此只应施予不含不义的食物。

13.174.31

यतेद्ब्राह्मणपूर्वं हि भोक्तुमन्नं गृही सदा ।
अवन्ध्यं दिवसं कुर्यादन्नपानीयदानतः ॥ १३.१७४.३१ ॥

居家者应当始终努力先供养婆罗门,并以施舍饮食之物使每一天都不虚度。

13.174.32

भोजयित्वा दशशतं नरो वेदविदां नृप ।
न्यायविद्धर्मविदुषामितिहासविदां तथा ॥ १३.१७४.३२ ॥

国王啊,若供养了一千位通晓吠陀、通晓正法与礼法、精通法义和史诗传说的人…

13.174.33

न याति नरकं घोरं संसारांश्च न सेवते ।
सर्वकामसमायुक्तः प्रेत्य चाप्यश्नुते सुखम् ॥ १३.१७४.३३ ॥

他不会堕入可怕的地狱,也不会陷入轮回的流转;拥有一切如愿的欲望,死后也享有安乐。

13.174.34

एवं सुखसमायुक्तो रमते विगतज्वरः ।
रूपवान्कीर्तिमांश्चैव धनवांश्चोपपद्यते ॥ १३.१७४.३४ ॥

如此充满安乐,远离烦恼,他欢喜自在;并且会以容貌端正、名声显赫、财富充足的身份出生。

13.174.35

एतत्ते सर्वमाख्यातमन्नदानफलं महूत् ।
मूलमेतत्तु धर्माणां प्रदानानां च भारत ॥ १३.१७४.३५ ॥

婆罗多之子啊,这一切已为你宣说:施舍饮食的伟大果报。这正是诸法与一切布施的根本。