Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.182

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.182.1

विद्या तपश्च दानं च किमेतेषां विशिष्यते ।
पृच्छामि त्वां सतां श्रेष्ठ तन्मे ब्रूहि पितामह ॥ १३.१८२.१ ॥

学识、苦行与布施,哪一样更为殊胜?善人中最上者,我请问您,祖父,请告诉我。

13.182.2

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
मैत्रेयस्य च संवादं कृष्णद्वैपायनस्य च ॥ १३.१८२.२ ॥

关于此事,人们也传述这个古老的故事——弥勒与黑岛(毗耶娑)的对话。

13.182.3

कृष्णद्वैपायनो राजन्नज्ञातचरितं चरन् ।
वाराणस्यामुपातिष्ठन्मैत्रेयं स्वैरिणीकुले ॥ १३.१८२.३ ॥

君王啊,黑岛(毗耶娑)隐其行迹而游历,在瓦拉纳西一位放纵女子的家中拜见了弥勒。

13.182.4

तमुपच्छन्नमासीनं ज्ञात्वा स मुनिसत्तमः ।
अर्चित्वा भोजयामास मैत्रेयोऽशनमुत्तमम् ॥ १३.१८२.४ ॥

弥勒认出他隐身坐在那里,这位最上的圣者便恭敬地款待他,奉上了上好的饭食。

13.182.5

तदन्नमुत्तमं भुक्त्वा गुणवत्सार्वकामिकम् ।
उत्तिष्ठमानोऽस्मयत प्रीतः कृष्णो महामनाः ॥ १३.१८२.५ ॥

黑天(克里希纳)吃了这份上好、精美、能满足一切愿望的食物,心怀大度而欢喜,起身时微笑起来。

13.182.6

तमुत्स्मयन्तं सम्प्रेक्ष्य मैत्रेयः कृष्णमब्रवीत् ।
कारणं ब्रूहि धर्मात्मन्व्यस्मयिष्ठाः कुतश्च ते।
तपस्विनो धृतिमतः प्रमोदः समुपागतः ॥ १३.१८२.६ ॥

弥勒看见他微笑,便对黑天说:“正直的人啊,请说出缘由:您为何惊讶?这位坚毅的苦行者,这喜悦从何而来?”

13.182.7

एतदिच्छामि ते विद्वन्नभिवाद्य प्रणम्य च ।
आत्मनश्च तपोभाग्यं सुखभाग्यं ममेह च ॥ १३.१८२.७ ॥

智者啊,我向你致礼顶礼,愿望如此:愿我在此也得到苦行之分与幸福之分。

13.182.8

तपोभाग्यान्महाभाग सुखभाग्यात्तथैव च ।
पृथगाचरितं तात पृथगाचरितात्मनः।
अल्पान्तरमहं मन्ये विशिष्टमपि चान्वयात् ॥ १३.१८२.८ ॥

大福者啊,我认为在苦行之分和幸福之分上各自修行的人之间差别甚微;虽然因出身或许有些特别,孩子。

13.182.9

अतिच्छेदातिवादाभ्यां स्मयोऽयं समुपागतः ।
असत्यं वेदवचनं कस्माद्वेदोऽनृतं वदेत् ॥ १३.१८२.९ ॥

因过度的斩断与过度的言说,此骄慢已生起。吠陀之语不可能虚假;吠陀为何要说谎?

13.182.10

त्रीण्येव तु पदान्याहुः पुरुषस्योत्तमं प्रति ।
न द्रुह्येच्चैव दद्याच्च सत्यं चैव परान्वदेत् ॥ १३.१८२.१० ॥

人之上者只有三步:不害,施予,并且对他人也要说真话。

13.182.11

इति वेदोक्तमृषिभिः पुरस्तात्परिकल्पितम् ।
इदानीं चैव नः कृत्यं पुरस्ताच्च परिश्रुतम् ॥ १३.१८२.११ ॥

这是诸仙人在吠陀中所说、先前已经确立的;如今我们的责任也正是如此,先前也已听闻。

13.182.12

अल्पोऽपि तादृशो न्यासो भवत्युत महाफलः ।
तृषिताय च यद्दत्तं हृदयेनानसूयता ॥ १३.१८२.१२ ॥

即使是这样的小小寄托也能带来大果报;而施予口渴之人的东西,若以真心、无嫉妒而施,同样带来大果报。

13.182.13

तोषितास्त्रिदशा यत्ते दत्त्वैतद्दर्शनं मम ।
अजैषीर्महतो लोकान्महायज्ञैरिव प्रभो ॥ १३.१८२.१३ ॥

主啊,你赐予我此景象,使诸天欢喜,如以大祭祀一般征服了广大的世界。

13.182.14

ततो दानपवित्रेण प्रीतोऽस्मि तपसैव च ।
दूरात्पुण्यवतो गन्धः पुण्यस्यैव च दर्शनात् ॥ १३.१८२.१४ ॥

于是我因布施的清净与苦行而欢喜。有福德者的香气从远处传来,福德的显现亦然。

13.182.15

पुण्यश्च वातिगन्धस्ते मन्ये कर्म विधानजम् ।
अथ कर्मार्जितस्तात यथाचैवानुलेपनात् ॥ १३.१८२.१५ ॥

你的香气纯净而浓烈。我认为它来自依规定而行的业。亲爱的孩子,正如香气来自涂抹,这是由业所得的。

13.182.16

शुभं सर्वपवित्रेब्यो दानमेव परं द्विज ।
नोचेत्सर्वपवित्रेभ्यो दानमेव परं भवेत् ॥ १३.१८२.१६ ॥

再生者啊,在一切清净之法中,布施才是最上最吉祥的。若不如此,布施便不会高于一切清净了。

13.182.17

यानीमान्युत्तमानीह वेदोक्तानि प्रशंसति ।
तेषां श्रेष्ठतरं दानमिति मे नात्र संशयः ॥ १३.१८२.१७ ॥

吠陀所说、此处所赞的那些殊胜之业中,布施最为殊胜——对此我毫无疑问。

13.182.18

दानवद्भिः कृतः पन्था येन यान्ति मनीषिणः ।
ते हि प्राणस्य दातारस्तेषु धर्मः प्रतिष्ठितः ॥ १३.१८२.१८ ॥

施者所开辟的道路,便是智者所行之路。他们正是生命的施予者,法也确立于他们之中。

13.182.19

यथा वेदाः स्वधीताश्च यथा चेन्द्रियसंयमः ।
सर्वत्यागो यता चेह तता दानमनुत्तमम् ॥ १३.१८२.१९ ॥

正如此处赞美善习的吠陀、克制诸根与舍弃一切,布施才是至上的。

13.182.20

त्वं हि तात सुखादेव शुभमेष्यसि शोभनम् ।
सुखात्सुखतरप्राप्तिमाप्नुते मतिमान्नरः ॥ १३.१८२.२० ॥

孩子啊,你只会从快乐中获得善与美;有智慧的人从快乐中获得更大的快乐。

13.182.21

तन्नः प्रत्यक्षमेवेदमुपलक्ष्यमसंशयम् ।
श्रीमन्तः प्राप्नुवन्त्यर्थान्दानं यज्ञं तथा सुखम् ॥ १३.१८२.२१ ॥

这对我们来说是显而易见的,毫无疑问:富贵之人通过布施、祭祀,以及快乐而获得财富。

13.182.22

सुखादेव परं दुःखं दुःखादन्यत्परं सुखम् ।
दृश्यते हि महाप्राज्ञ नियतं वै स्वभावतः ॥ १३.१८२.२२ ॥

由快乐生出更大的痛苦,由痛苦又生出更大的快乐;大智者啊,这确实是依其本性而明显可见的。

13.182.23

विविधानीह वृत्तानि नरस्याहुर्मनीषिणः ।
पुण्यमन्यत्पापमन्यन्न पुण्यं न च पापकम् ॥ १३.१८२.२३ ॥

智者说,人在此世的行为种类繁多:有的是功德,有的是罪过;有的既非功德,也非罪过。

13.182.24

न वृत्तं मन्यतेऽन्यस्य मन्यतेऽन्यस्य पातकम् ।
यथा स्वकर्मनिर्वृत्तं न पुण्यं न च पापकम् ॥ १३.१८२.२४ ॥

一人的行为不被视为另一人的罪过;由自己的业所成就的行为,既非功德,也非罪过。

13.182.25

यज्ञदानतपःशीला नरा वै पुण्यकर्मिणः ।
येऽभिद्रुह्यन्ति भूतानि ते वै पापकृतो जनाः ॥ १३.१८२.२५ ॥

具有祭祀、布施与苦行之本性的人,确是行福德之业者;那些伤害众生的人,确是作恶之人。

13.182.26

द्रव्याण्याददते चैव दुःखं यान्ति पतन्ति च ।
ततोऽन्यत्कर्म यत्किंचिन्न पुण्यं न च पातकम् ॥ १३.१८२.२६ ॥

夺取他人财物的人遭受痛苦并堕落;此外的任何其他行为,既非福德,也非罪过。

13.182.27

नित्यं चाकृपणो भुङ्क्ते स्वजनैर्देहि याचतः ।
भाग्यक्षयेण क्षीयन्ते नोपभोगेन सञ्चयाः ॥ १३.१८२.२७ ॥

慷慨之人常与亲人共同享用,并施予乞求者;积蓄因福运耗尽而减少,而非因享用。

13.182.28

रमस्वैधस्व मोदस्व देहि दाने रमस्व च ।
न त्वामतिभविष्यन्ति वैद्या न च तपस्विनः ॥ १३.१८२.२८ ॥

欢喜吧,兴盛吧,喜悦吧,施予吧,并以布施为乐;医者与苦行者都不能胜过你。