Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.183

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.183.1

एवमुक्तः प्रत्युवाच मैत्रेयः कर्मपूर्वकः ।
अत्यन्तं श्रीमति कुले जातः प्राज्ञो बहुश्रुतः ॥ १३.१८३.१ ॥

受此询问,行祭仪在先的弥勒答道;他生于极为显赫的家族,智慧而博学。

13.183.2

असंशयं महाप्राज्ञ यथैवात्थ तथैव तत् ।
अनुज्ञातश्च भवता किञ्चिद्ब्रूयामहं विभो ॥ १३.१८३.२ ॥

毫无疑问,大智者啊,正如你所说。蒙你允许,我将说几句,主啊。

13.183.3

यद्यदिच्छसि मैत्रेय यावद्यावद्यथायथा ।
ब्रूहि तत्वं महाप्राज्ञ शुश्रुषे वचनं तव ॥ १३.१८३.३ ॥

弥勒啊,你愿意说什么、说多少、怎样说,就请说出那真理吧,大智者;我愿聆听你的言语。

13.183.4

निर्दोषं निर्मलं चैव वचनं सत्यसंहितम् ।
विद्यातपोभ्यां हि भवान्भावितात्मा न संशयः ॥ १३.१८३.४ ॥

你的言语无过、纯净,并与真理相合。你以学问与苦行成就了修炼之心,此无疑问。

13.183.5

भवतो भावितात्मत्वाल्लाभोऽयं सुमहान्मम ।
भूयो बुद्ध्याऽनुपश्यामि सुसमृद्धतपा इव ॥ १३.१८३.५ ॥

因你是修炼之心,这对我是极大的收获;以智慧我再次看见你,仿佛你拥有深厚的苦行。

13.183.6

अपि मे दर्शनादेव भवतोऽभ्युदयो महान् ।
मन्ये भवत्प्रसादोऽयं बुद्धिकर्मस्वभावतः ॥ १३.१८३.६ ॥

仅仅见到你,我便获得极大的兴盛;我认为这是你的恩惠,出于智慧与行为的本性。

13.183.7

तपः श्रुतं च योनिश्चाप्येतद्ब्राह्मण्यकारणम् ।
त्रिभिर्गुणैः समुदितः स्नातो भवति वै द्विजः ॥ १३.१८३.७ ॥

苦行、学识与出身,此即婆罗门性之因。具足三德者,二生族方成为沐浴者(毕业生)。

13.183.8

अस्मिंस्तृप्ते च तृप्यन्ति पितरो दैवतानि च ।
न हि श्रुतवतां किञ्चिदधिकं ब्राह्मणादृते ॥ १३.१८३.८ ॥

若使其满足,祖先与诸神亦得满足。对于博学者而言,除婆罗门外,再无更尊之物。

13.183.9

असंस्कारात्क्षत्रवैश्यौ नश्येते ब्राह्मणादृते ।
शूद्रो नश्यत्यशुश्रूषुराश्रमाणां यथार्हतः ॥ १३.१८३.९ ॥

若无婆罗门,因缺少礼仪,刹帝利与吠舍将灭亡;不恰当地侍奉诸生活期的首陀罗,亦将灭亡。

13.183.10

अन्धं स्यात्तम एवेदं न प्रज्ञायेत किञ्चन ।
चातुर्वर्ण्यं न वर्तेत धर्माधर्मावृतानृते ॥ १३.१८३.१० ॥

此世将成盲暗,万物无可辨识。若法与非法、真与伪皆被遮蔽,则四种姓之制不得存续。

13.183.11

यथाहि सुकृते क्षेत्रे फलं विन्दति मानवः ।
एवं दत्त्वा श्रुतवते फलं दाता समश्नुते ॥ १३.१८३.११ ॥

如人于善备之田获得果实,施与博学者的施主亦如是获得福果。

13.183.12

ब्राह्मणश्चेन्न विन्देत श्रुतवृत्तोपसंहितः ।
प्रतिग्रहीता दानस्य मोघं स्याद्धनिनां धनम् ॥ १३.१८३.१२ ॥

若不能得到具备博学与德行的婆罗门,则受施者缺失,富人之财将徒然无用。

13.183.13

अन्नं ह्यविद्वान्हन्त्येवमविद्वांसं च हन्ति तत् ।
तच्चान्यं हन्ति यच्चान्यत्स भुक्त्वा हन्यतेऽबुधः ॥ १३.१८३.१३ ॥

无知之人食用食物便这样毁灭,而那食物也毁灭无知之人。它毁灭他人,也毁灭其他之物;愚人食后便遭毁灭。

13.183.14

प्राहुर्ह्यन्नमदन्विद्वान्पुनर्जनयतीश्वरः ।
स चान्नाज्जायते तस्मात्सूक्ष्म एष व्यतिक्रमः ॥ १३.१८३.१४ ॥

人们说,食用食物的智者会被主再度生出;他由食物而生。因此这种违犯是微妙的。

13.183.15

ब्राह्मं ह्यनुपयोगी यो ददंश्चान्नमसंशयम् ।
यस्तारयति वै विद्वान्पितॄन्देवान्सदाऽमृतान् ॥ १३.१८३.१५ ॥

虽对婆罗门之职无用,却毫无疑问地施予食物的人;以及智者,他常常拯救祖先和不死的诸神。

13.183.16

यदेव ददतः पुण्यं तदेव प्रतिगृह्णतः ।
न ह्येकचक्रं वर्तेत इत्येवमृषयो विदुः ॥ १३.१८३.१६ ॥

施者所得的功德,受者也同样得到。单轮之车不能行进,诸仙人便是这样知道的。

13.183.17

यत्र वै ब्राह्मणाः सन्ति श्रुतवृत्तोपसंहिताः ।
तत्र दानफलं पुण्यमिह चामुत्र चाश्नुते ॥ १३.१८३.१७ ॥

有学识与德行兼备的婆罗门在之处,施舍的果报与功德便在此世与来世都能获得。

13.183.18

ये योनिशुद्धाः सततं तपस्यभिरता भृशम् ।
दानाध्ययनसम्पन्नास्ते वै पूज्यतमाः सदा ॥ १३.१८३.१८ ॥

那些生来清净、持续并深深专注于苦行、具备布施与学习的人,他们始终最值得尊敬。

13.183.19

तैर्हि सद्भिः कृतः पन्था देवयानो न मुह्यते ।
ते हि स्वर्गस्य नेतारो यज्ञवाहाः सनातनाः ॥ १३.१८३.१९ ॥

由那些善人开辟的天神之道不会迷惑。他们是通往天界的引导者,是承载祭祀的永恒者。