Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.189

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.189.1

केन ते च भवेत्प्रीतिः कथं तुष्टिं तु गच्छसि ।
इति पृष्टः सुरेन्द्रेण प्रोवाच हरिरीश्वरः ॥ १३.१८९.१ ॥

“你以何为喜,又如何得满足?”天神之王如此问时,主宰者哈里答道。

13.189.2

ब्राह्मणानां परीवादो मम विद्वेषणं महत् ।
ब्राह्मणैः पूजितैर्नित्यं पूजितोऽहं न संशयः ॥ १३.१८९.२ ॥

辱骂婆罗门对我是极大的憎恶;若婆罗门常常敬拜我,我无疑便受到敬拜。

13.189.3

नित्याभिवाद्या विप्रेन्द्रा भुक्त्वा पादौ तथाऽऽत्मनः ।
तेषां तुष्यामि मर्त्यानां यश्चक्रे च बलिं हरेत् ॥ १३.१८९.३ ॥

我欢喜那些凡人:他们洗净自己的双足,常向婆罗门中的尊者致敬,并向他们奉上供品。

13.189.4

वामनं ब्राह्मणं दृष्ट्वा वराहं च जलोत्थितम् ।
उद्धृतां धरणीं चैव मूर्ध्ना धारयते तु यः।
न तेषामशुभं किञ्चित्कल्मषं चोपपद्यते ॥ १३.१८९.४ ॥

凡见到侏儒婆罗门与从水中升起的野猪,并将从水中托起的大地顶在头上者,不会遭遇任何不吉与罪恶的污染。

13.189.5

अश्वत्थं रोचनां गां च पूजयेद्यो नरः सदा ।
पूजितं च जगत्तेन सदेवासुरमानुषम् ॥ १३.१८९.५ ॥

凡人若常常供奉阿输陀树与罗遮那牛,则由他便使包括天神、阿修罗与人类在内的整个世界受到敬拜。

13.189.6

तेन रूपेण तेषां च पूजां गृह्णामि तत्त्वतः ।
पूजा ममैषा नास्त्यन्या यावल्लोकाः प्रतिष्ठिताः ॥ १३.१८९.६ ॥

我以那同样的形相,真实地接受他们的供养。这便是我所受的供奉,只要世界存续,便别无其他供养。

13.189.7

अन्यथा हि वृथा मर्त्याः पूजयन्त्यल्पबुद्ध्यः ।
नाहं तत्प्रतिगृह्णामि न सा तुष्टिकरी मम ॥ १३.१८९.७ ॥

否则,见识浅薄的凡人徒然礼拜。我不接受那种供奉,它不能令我满足。

13.189.8

चक्रं पादौ वराहं च ब्राह्मणं चापि वामनम् ।
उद्धृतां धरणीं चैव किमर्थं त्वं प्रशंससि ॥ १३.१८९.८ ॥

你为何赞颂圆盘、双足、野猪、婆罗门侏儒,以及托起大地之事?

13.189.9

भवान्सृजति भूतानि भावन्संहरति प्रजाः ।
प्रकृतिः सर्वभूतानां समर्त्यानां सनातनी ॥ १३.१८९.९ ॥

你创造众生,你也收回众生。你是一切有情、包括凡人的永恒本性。

13.189.10

सम्प्रहस्य ततो विष्णुरिदं वचनमब्रवीत् ।
चक्रेण निहता दैत्याः पद्म्यां क्रान्ता वसुन्धरा ॥ १३.१८९.१० ॥

于是毗湿奴大笑,说道:“以圆盘杀死了达提耶,以足踏平了大地。”

13.189.11

वाराहं रूपमास्थाय हिरण्याक्षो निपातितः ।
वामनं रूपमास्थाय जितो राजा मया बलिः। ॥ १३.१८९.११ ॥

化作野猪之身,希兰耶迦设被击倒;化作侏儒之身,国王钵利为我所胜。

13.189.12

परितुष्टो भवाम्येवं मानुषाणां महात्मनाम् ।
तन्मां ये पूजयिष्यन्ति नास्ति तेषां पराभवः ॥ १३.१८९.१२ ॥

我因此而对伟大的人类感到满足。凡礼拜我的人,必无败绩。

13.189.13

अपि वा ब्राह्म्णं दृष्ट्वा ब्रह्म चारिणमागतम् ।
ब्राह्मणाग्र्याहुतिं दत्त्वा अमृतं तस्य भोजनम् ॥ १३.१८९.१३ ॥

若见婆罗门或梵行者来到,向婆罗门奉上最上的供物,则应视其食物为甘露。

13.189.14

ऐन्द्रीं संध्यामुपासित्वा आदित्याभिमुखः स्थितः ।
सर्वतीर्थेषु स स्नातो मुच्यते सर्वकिल्बिषैः ॥ १३.१८९.१४ ॥

礼拜因陀罗的黄昏,面向太阳站立,并在一切圣渡处沐浴者,便脱离一切罪恶。

13.189.15

एतद्वः कथितं गुह्यमखिलेनि तपोधनाः ।
संशयं पृच्छमानानां किं भूयः कथयाम्यहम् ॥ १३.१८९.१५ ॥

诸位苦行富足者,此秘密已向你们完整说明。对于怀疑而发问者,我还能再说什么呢?

13.189.16

श्रूयतां परमं गुह्यं मानुषाणां सुखावहम् ।
अजानन्तो यदबुधाः क्लिश्यन्ते भूतपीडिताः ॥ १३.१८९.१६ ॥

请听这至高的秘密,它能带给人们幸福;不知此道的愚人,被鬼魅所困而受苦。

13.189.17

कल्य उत्थाय यो मर्त्यः स्पृशेद्गां वै घृतं दधि ।
सर्षपं च प्रियङ्गं च कल्मषात्प्रतिमुच्यते ॥ १३.१८९.१७ ॥

人若在黎明起身,触摸牛、酥油、凝乳、芥子与优利扬谷,便从罪恶中解脱。

13.189.18

भूतानि चैव सर्वाणि अग्रतः पृष्ठतोपि वा ।
उच्छिष्टं वाऽपि च्छिद्रेषु वर्जयन्ति तपोधनाः ॥ १३.१८९.१८ ॥

一切众生,无论在前或在后,或残食,或在孔洞中的东西,苦行者都回避。

13.189.19

प्रगृह्यौदुम्बरं पात्रं तोयपूर्णमुदङ्भुखः ।
उपवासं तु गृह्णीयाद्यद्वा सङ्कल्पयेद्व्रतम् ॥ १३.१८९.१९ ॥

手持盛满水的优昙婆罗木容器,面向北方,应当受持斋戒,或发愿立誓。

13.189.20

देवतास्तस्य तुष्यन्ति कामिकं चापि सिध्यति ।
अन्यथा हि वृथा मर्त्याः कुर्वते स्वल्पबुद्धयः ॥ १३.१८९.२० ॥

由此诸神欢喜,所求之事也得成就;否则,见识浅薄的凡人便是徒劳而行。

13.189.21

उपवासे बलौ चापि ताम्रपात्रं विशिष्यते ।
बलिर्भिक्षा तथाऽर्ध्यं च पितॄणां च तिलोदकं ॥ १३.१८९.२१ ॥

在斋戒与供养中,铜器被认为更为殊胜。供食、布施、献水以及为祖先所备的芝麻水,皆是如此。

13.189.22

ताम्रपात्रेण दातव्यमन्यथाऽल्पफलं भवेत् ।
गुह्यमेतत्समुद्दिष्टं यथा तुष्यन्ति देवताः ॥ १३.१८९.२२ ॥

应以铜器布施,否则福报微小。此秘密已宣说,使诸神欢喜。

13.189.23

राजपौरुषिके विप्रे घाण्टिके परिचारिके ।
गोरक्षके वाणिजके तथा कारुकुशीलवे ॥ १३.१८९.२३ ॥

对侍奉国王者、婆罗门、摇铃者、女仆、牧牛者、商贾、工匠与伶人。

13.189.24

मित्रद्रुह्यनधीयाने यश्च स्याद्वृषलीपतिः ।
एतेषु दैवं पित्र्यं वा न देयं स्यात्कथञ्चन।
पिण्डदास्तस्य हीयन्ते न च प्रीणाति वै पितॄन् ॥ १३.१८९.२४ ॥

对背弃朋友者、不习诵经典者,或娶低种姓女子为妻者,无论如何不应以供物献给诸神或祖先。其供奉的饭团者日渐减少,他也确实无法令祖先欢喜。

13.189.25

अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ।
पितरस्तस्य देवाश्च अग्नयश्च तथैव हि।
निराशाः प्रतिगच्छन्ति अतिथेरप्रतिग्रहात् ॥ १३.१८९.२५ ॥

若客人希望落空,从某人家中返回,其祖先、诸神与圣火也同样失望而去,因为客人未被接纳。

13.189.26

स्त्रीघ्नैर्गोघ्नैः कृतघ्नैश्च ब्रह्मघ्नैर्गुरुतल्पगैः ।
तुल्यदोषो भवत्येभिर्यस्यातिथितरनर्चितः ॥ १३.१८९.२६ ॥

其客人不受尊敬者,便与杀女人者、杀牛者、忘恩者、杀婆罗门者及淫污师母之人同罪。

13.189.27

अग्निरुवाच ।
पादमुद्यम्य यो मर्त्यः स्पृशेद्गाश्च सुदुर्मतिः।
ब्राह्मणं वा महाभागं दीप्यमानं तथाऽनलम् ।
तस्य दोषान्प्रवक्ष्यामि तच्छृणुध्वं समाहिताः ॥ १३.१८९.२७ ॥

阿耆尼说:凡愚蠢之人抬脚触碰牛、有大福的婆罗门或燃烧的火,我将说明其过失;你们专心听吧。

13.189.28

दिवं स्पृशत्यशब्दोऽस्य त्रस्यन्ति पितरश्च वै ।
वैमनस्यं च देवानां कृतं भवति पुष्कलम्।
पावकश्च महातेजा हव्यं न प्रतिगृह्णति ॥ १३.१८९.२८ ॥

他的不敬之声直达天界,祖先战栗,诸神大为沮丧,大光明的火也不接受供品。

13.189.29

आजन्मनां शतं चैव नरके पच्यते तु सः ।
निष्कृतिं च न तस्यापि अनुमन्यन्ति कर्हिचित् ॥ १३.१८९.२९ ॥

他在地狱中受煎熬百世,且从不被允许赎罪。

13.189.30

तस्माद्गावो न पादेन स्प्रष्टव्या वै कदाचन ।
ब्राह्मणश्च महातेजा दीप्यमानस्तथाऽनलः।
श्रद्दधानेन मर्त्येन आत्मनो हितमिच्छता ॥ १३.१८९.३० ॥

因此,决不可用脚触碰牛,也不可触碰大光辉的婆罗门,以及燃烧的火;希望自身福祉的虔信凡人应当遵守此戒。

13.189.31

एते दोषा मया प्रोक्तास्त्रिषु यः पादमुत्सृजेत्। ॥ १३.१८९.३१ ॥

我已说明了:凡对这三者抬脚者,便有这些过失。

13.189.32

श्रूयतां परमं गुह्यं रहस्यं धर्मसंहितम् ।
परमान्नेन यो दद्यात्पितॄणामौपहारिकम् ॥ १३.१८९.३२ ॥

请听这至高的秘密,蕴含法义:凡以上等食物向祖先供奉祭品者。

13.189.33

गजच्छायायां पूर्वस्यां कुतपे दक्षिणामुखः ।
यदा भाद्रपदे मासि भवते बहुले मघा ॥ १३.१८९.३३ ॥

在东方,于象影之中,在库塔巴时,面向南方,当婆陀罗波陀月黑半月、摩伽星宿出现时。

13.189.34

श्रूयतां तस्य दानस्य यादृशो गुणविस्तरः ।
कृतं तेन महच्छ्राद्धं वर्षाणीह त्रयोदश ॥ १३.१८९.३४ ॥

请听那布施的功德之广大。他在此举行了十三年的大祭祖仪式。

13.189.35

बहपल् समङ्गे ह्यकुतोभये च ।
क्षेमे च संख्येव हि भूयसी च।
यथा पुरा ब्रह्मपुरे सवत्सा ।
शतक्रतोर्वज्रधरस्य यज्ञे ॥ १३.१८९.३५ ॥

多有牧场,身体端正,四面无惧,在安宁与战阵中皆丰盛——如往昔在梵城,与牛犊一同,于持金刚者、百祭者因陀罗的祭祀中那样。

13.189.36

भूयश्च या विष्णुपदे स्थिताया ।
विभावसोश्चापि पथे स्थिता या।
देवाश्च सर्वे सह नारदेन ।
प्रकुर्वते सर्वसहेति नाम ॥ १३.१८९.३६ ॥

立于毗湿奴之位、行于毗婆娑(火神)之道者,诸天与那罗陀一同称她为“一切忍”。

13.189.37

मन्त्रेणैतेनाभिवन्देत यो वै ।
विमुच्यते पापकृतेन कर्मणा।
लोकानवाप्नोति पुरंदरस्य ।
गवां फलं चन्द्रमसो द्युतिं च ॥ १३.१८९.३७ ॥

以此咒语礼敬者,可脱离罪业;得至补兰达罗(因陀罗)之界,获得牛之福报与月之光辉。

13.189.38

एवं हि मन्त्रं त्रिदशाभिजुष्टं ।
पठेत यः पर्वसु गोष्ठमध्ये।
न तस्यि पापं न भयं न शोकः ।
सहस्रनेत्रस्य च याति लोकम् ॥ १३.१८९.३८ ॥

如是,于节日在牛栏中诵此诸天所喜之咒者,无罪、无怖、无忧;彼往千眼(因陀罗)之界。

13.189.39

अथ सप्त महाभाग ऋषयो लोकविश्रुताः ।
वसिष्ठप्रमुखाः सर्वे ब्रह्मणं पद्मसम्भवम्। ॥ १३.१८९.३९ ॥

于是,以婆犀瑟吒为首、名震三界的七位大福德仙人,一同前往莲花所生的梵天处。

13.189.40

प्रदक्षिणमभिक्रम्य सर्वे प्राञ्जलयः स्थिताः ।
उवाच वचनं तेषां वसिष्ठो ब्रह्मवित्तमः। ॥ १३.१८९.४० ॥

右绕之后,众人合掌而立;于是,梵智者中最殊胜的婆犀瑟吒代众人发言。

13.189.41

सर्वप्राणिहितं प्रश्नं ब्रह्मिक्षत्रे विशेषतः ।
द्रव्यहीनाः कथं मर्त्या दरिद्राः साधुवर्तिनः। ॥ १३.१८९.४१ ॥

此问关乎一切众生之利,尤其关乎婆罗门与刹帝利:无财、贫穷而行善的凡人,将如何生存?

13.189.42

प्राप्नुवन्तीह यज्ञस्य फलं केन च कर्मणा ।
एतच्छ्रुत्वा वचस्तेषां ब्रह्मा वचनमब्रवीत् ॥ १३.१८९.४२ ॥

凡人在此因何种行为而获得祭祀的果报?闻其言,梵天便回答道。

13.189.43

अहो प्रश्नो महाभाग गूढार्थः परमः शुभः ।
सूक्ष्मः श्रेयांश्च मर्त्यानां भवद्भिः समुदाहृतः ॥ १३.१८९.४३ ॥

啊,大福之人!你们所问的意义幽深,至上而吉祥;对凡人而言,你们提出的这一问题精微而殊胜。

13.189.44

श्रूयतां सर्वमाख्यास्ये निखिलेन तपोधनाः ।
यथा यज्ञफलं मर्त्यो लभते नात्र संशयः ॥ १३.१८९.४४ ॥

诸位苦修之宝,请听!我将完整地说明凡人如何获得祭祀的果报,此事毫无疑问。

13.189.45

पौषमासस्य शुक्ले वै यदा युज्येत रोहिणी ।
तेन नक्षत्रयोगेन आकाशशयनो भवेत् ॥ १३.१८९.४५ ॥

在布沙月的白半月,当罗希尼星宿相合之时,依此星宿相合,应当露天而卧。

13.189.46

एकवस्त्रः शुचिः स्नातः श्रद्दधानः समाहितः ।
सोमस्य रश्मयः पीत्वा महायज्ञफलं लभेत् ॥ १३.१८९.४६ ॥

身着一衣,清净沐浴,怀着信心,专注一心,饮用月神的光华,便可获得大祭祀的果报。

13.189.47

एतद्वः परमं गुह्यं कथितं द्विजसत्तमाः ।
यन्मां भवन्तः पृच्छन्ति सूक्ष्मतत्त्वार्थदर्शिनः ॥ १३.१८९.४७ ॥

诸位再生者中的至上者,你们这些洞见精微真理与义理的人向我所问的这至上秘密,我已为你们说明。