摩诃婆罗多 · 章 13.198
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.198.1
के भोज्या ब्राह्मणस्येह के भोज्याः क्षत्रियस्य ह ।
तथा वैश्यस्य के भोज्याः के शूद्रस्य च भारत ॥ १३.१९८.१ ॥
婆罗多之后啊,在此,谁可与婆罗门共食?谁可与刹帝利共食?同样,谁可与吠舍共食?谁可与首陀罗共食?
13.198.2
ब्राह्मणा ब्राह्मणस्येह भोज्या ये चैव क्षत्रियाः ।
वैश्याश्चापि तथा भोज्याः शूद्राश्च परिवर्जिताः ॥ १३.१९८.२ ॥
在此,婆罗门可与婆罗门共食,刹帝利亦然。吠舍也可共食;首陀罗则被排除。
13.198.3
ब्राह्मणाः क्षत्रिया वैश्या भोज्या वै क्षत्रियस्य ह ।
वर्जनीयास्तु वै शूद्राः सर्वभक्षा विकर्मिणः ॥ १३.१९८.३ ॥
与刹帝利共食时,婆罗门、刹帝利和吠舍皆可;但那些什么都吃、行为违禁的首陀罗必须回避。
13.198.4
वैश्यास्तु भोज्या विप्राणां क्षत्रियाणां तथैव च ।
नित्याग्नयो विविक्ताश्च चातुर्मास्यरताश्च ये ॥ १३.१९८.४ ॥
然而,吠舍可与婆罗门和刹帝利共食;每日持守圣火、独居修行、奉行四月戒律者,亦是如此。
13.198.5
शूद्राणामथ यो भुङ्क्ते स भुङ्क्ते पृथिवीमलम् ।
मलं नृणां स पिबति मलं भुङ्क्ते जनस्य च ॥ १३.१९८.५ ॥
若食首陀罗之食,便是食地之秽;他饮人之秽,食人之秽。
13.198.6
शूद्राणां यस्तथा भुङ्क्ते स भुङ्क्ते पृथिवीमलम् ।
पृथिवीमलमश्नन्ति ये द्विजाः शूद्रभोजिनः ॥ १३.१९८.६ ॥
同样,食首陀罗之食者,即是食地之秽;食首陀罗之食的再生族,实乃食地之秽。
13.198.7
शूद्रस्य कर्मनिष्ठायां विकर्मस्थोपि पच्यते ।
ब्राह्मणः क्षत्रियो वैश्यो विकर्मस्थश्च पच्यते ॥ १३.१९८.७ ॥
即使首陀罗忠于自己的本分,行为失当者仍会受苦;婆罗门、刹帝利、吠舍中行为失当者也同样受苦。
13.198.8
स्वाध्यायनिरता विप्रास्तथा स्वस्त्ययने नृणाम् ।
रक्षणे क्षत्रियं प्राहुर्वैश्यं पुष्ट्यर्थमेव च ॥ १३.१९८.८ ॥
专心诵习吠陀、为众人行吉祥仪式的婆罗门被如此称呼;他们说刹帝利为保护而设,吠舍则正是为供养而设。
13.198.9
करोति कर्म यद्वैश्यस्तद्गत्वा ह्युपजीवति ।
कृषिगोरक्ष्यवाणिज्यमकुत्सा वैश्यकर्मणि ॥ १३.१९८.९ ॥
吠舍所做之业,他便依靠它生活;耕作、牧牛与贸易,在吠舍之业中都是无可指责的。
13.198.10
शूद्रकर्म तु यः कुर्यादवहाय स्वकर्म च ।
स विज्ञेयो यथा शूद्रो न च भोज्यः कदाचन ॥ १३.१९८.१० ॥
舍弃自己本分而行首陀罗之业的人,应被视为首陀罗,决不可与之同食。
13.198.11
चिकित्सकः काण्डपृष्ठः पुराऽध्यक्षः पुरोहितः ।
सांवत्सरो वृथाध्यायी सर्वे ते शूद्रसंमिताः ॥ १३.१९८.११ ॥
医者、制弓者、城市长官、家庭祭司、占星者,以及徒然诵读的人——这些人都被视为与首陀罗相当。
13.198.12
शूद्रकर्मस्वथैतेषु यो भुङ्क्ते निरपत्रपः ।
अभोज्यभोजनं भुक्त्वा भयं प्राप्नोति दारुणम् ॥ १३.१९८.१२ ॥
又有人毫无羞耻地与行首陀罗之业者同食,食下不可食之物,便会招致可怕的恐惧。
13.198.13
कुलं वीर्यं च तेजश्च तिर्यग्योनित्वमेव च ।
स प्रयाति यथा श्वा वै निष्क्रियो धर्मवर्जितः ॥ १३.१९८.१३ ॥
他失去家族、力量与光辉,堕入畜生之道;如狗一般无所作为、远离法,他就此而去。
13.198.14
भुङ्क्ते चिकित्सकस्यान्नं तदन्नं च पुरीषवत् ।
पुंश्चल्यन्नं च मूत्रं स्यात्कारुकान्नं च शोणितम् ॥ १३.१९८.१४ ॥
吃医者之食,如同吃粪;娼妓之食为尿,工匠之食为血。
13.198.15
विद्योपजीविनोऽन्नं च यो भुङ्क्ते साधुसम्मतः ।
तदप्यन्नं यथा शौद्रं तत्साधुः परिवर्जयेत् ॥ १३.१९८.१५ ॥
吃以学问为生者之食,即使为善人所称许,那食物也如同首陀罗之食;因此善人应当远离它。
13.198.16
वचनीयस्य यो भुङ्क्ते तमाहुः शोणितं ह्रदम् ।
पिशुनं भोजनं भुङ्क्ते ब्रह्महत्यासमं विदुः ॥ १३.१९८.१६ ॥
吃被诽谤者之食的人,被称为血池;吃挑拨者之食的人,被认为与杀害婆罗门者相等。
13.198.17
असत्कृतमवज्ञातं न भोक्तव्यं कदाचन ॥ १३.१९८.१७ ॥
被轻慢、被鄙视之人的食物,绝不可食用。
13.198.18
व्याधिं कुलक्षयं चैव क्षिप्रं प्राप्नोति ब्राह्मणः ।
नगरीरक्षिणो भुङ्क्ते श्वपचप्रवणो भवेत् ॥ १३.१९८.१८ ॥
婆罗门会迅速遭受疾病与家族覆灭;吃城市守卫之食的人,会变得近似狗肉者(旃陀罗)。
13.198.19
गोघ्ने च ब्राह्मणघ्ने च सुरापे गुरुतल्पगे ।
भुक्त्वाऽन्नं जायते विप्रो रक्षसां कुलवर्धनः ॥ १३.१९८.१९ ॥
若食用杀牛者、杀婆罗门者、饮酒者或与师母通奸者的食物,婆罗门便会转生为增益罗刹家族之人。
13.198.20
न्यासापहारिणो भुक्त्वा कृतघ्ने क्लीबवर्तिनि ।
जायते शबरावासे मध्यदेशबहिष्कृते ॥ १३.१९८.२० ॥
若食用侵吞寄托财物者、忘恩负义者或过着怯懦生活者的食物,婆罗门便会被逐出中土,生于沙巴罗人的居所。
13.198.21
अभोज्याश्चैव भोज्याश्च मया प्रोक्ता यथाविधि ।
किमन्यदद्य कौन्तेय मत्तस्त्वं श्रोतुमिच्छसि ॥ १३.१९८.२१ ॥
我已依照规则告诉你,谁的食物不可食,谁的食物可食。俱卢族的孩子啊,今天你还想从我这里听什么?