Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 13.209

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

13.209.1

भगवन्देवदेवेश त्रिपुरान्तक शङ्कर ।
अयं त्वृषिगणो देव तपस्तप इति प्रभो ॥ १३.२०९.१ ॥

啊,尊贵的主,众神之神,摧毁三城者,湿婆!啊,神,啊,主,这群仙人在苦修,苦修。

13.209.2

तपसा कर्शितो नित्यं तपोऽर्जनपरायणः ।
अस्य किंलक्षणो धर्मः कीदृशश्चागमस्तथा।
एतदिच्छाम्यहं श्रोतुं तन्मे वद वरप्रद ॥ १३.२०९.२ ॥

常因苦修而消瘦,专注于苦修与获取,他们的法有何特征,他们的传承又是怎样的?我想听,请告诉我,赐予恩惠者啊。

13.209.3

एवं ब्रुवन्त्यां रुद्राण्यामृषयः साधुसाध्विति ।
अब्रुवन्हृष्टमनसः सर्वे तद्गतमानसाः ॥ १३.२०९.३ ॥

楼陀罗妃如此说话时,众仙人欢喜地齐声说:“善哉,善哉!”他们的心都专注于此。

13.209.4

शृण्वन्तीमृषिधर्मांस्तु ऋषयश्चाभ्यपूजयन् ॥ १३.२०९.४ ॥

她聆听仙人之法,仙人们也向她致敬。

13.209.5

त्वत्प्रसादद्वयं देवि श्रोष्यामः परमं हितम् ।
धन्याः खलु वयं सर्वे पादमूलं तवाश्रिताः।
इति सर्वे तदा देवीं वाचा समभिपूजयन् ॥ १३.२०९.५ ॥

女神啊,凭借您的两份恩惠,我们将听闻至上的利益;我们都确实有福,因为我们皈依于您的足下。众仙人于是以言辞充分地赞颂了女神。

13.209.6

न्यायतस्त्वं महाभागे श्रोतुकामा मनस्विनि ।
हन्त ते कथयिष्यामि मुनिधर्मं शुचिस्मिते ॥ १३.२०९.६ ॥

啊,大福者,高尚的人,你想听闻是理所当然的。好吧,啊,笑容纯净的人,我将告诉你仙人之法。

13.209.7

वानप्रस्थं समाश्रित्य क्रियते बहुधा नरैः ।
बहुशाखो बहुविधो ऋषिधर्मः सनातनः ॥ १३.२०९.७ ॥

人们进入林居期后,以多种方式修行;圣仙们永恒的法有许多分支、许多形式。

13.209.8

प्रायशः सर्वभोगार्थमृषिभिः क्रियते तपः ।
तथा सञ्चरतां तेषां देवि धर्मविधिं शृणु ॥ १३.२०९.८ ॥

圣仙们大多为享受一切而修苦行。女神啊,请听那些如此游方者的法则。

13.209.9

भूत्वा पूर्वं गृहस्थस्तु पुत्रानृण्यमवाप्य च ।
कलत्रकार्यं संस्थाप्य कारणात्संत्यजेद्गृहम् ॥ १३.२०९.९ ॥

先做家主,偿清对儿子的债务,安排好妻子与家务之后,因某种缘由,应当离开家园。

13.209.10

अवस्थाप्य मनो धृत्या व्यवसायपुरःसरः ।
निर्दारो वा सदारो वा वनवासाय संव्रजेत् ॥ १३.२०९.१० ॥

以坚定稳住心意,以决心为先导,无论独自或与妻同行,都应前往森林居住。

13.209.11

देशाः परमपुण्या ये नदीवनसमन्विताः ।
अबोधमुक्ताः प्रायेण तीर्थायतनसंयुताः ॥ १३.२०९.११ ॥

那些极具功德、河流与森林环绕、大多远离愚昧、并有圣渡口与神庙的地方。

13.209.12

तत्र गत्वा विधिं ज्ञात्वा दीक्षां कुर्याद्यथागमम् ।
दीक्षित्वैकमना भूत्वा परिचर्यां समाचरेत् ॥ १३.२०९.१२ ॥

到了那里,知晓规则,应依照经典受入门礼。受礼之后,专一其心,应行侍奉。

13.209.13

काल्योत्थानं च शौचं च सर्वदेवप्रणामनम् ।
सकृदालेपनं काये त्यक्तदोषोऽप्रमादिता ॥ १३.२०९.१३ ॥

早起,清净,向一切神祇行礼,身体上涂抹一次香膏,舍弃过失,并保持警觉。

13.209.14

सायंप्रातश्चाभिषेकं चाग्निहोत्रं यथाविधि ।
काले शौचं च कार्यं च जटावल्कलधारणम् ॥ १३.२०९.१४ ॥

早晚依礼沐浴,依仪轨行火祭,在适当时候保持清净,戴结发并穿树皮衣。

13.209.15

सततं वनचर्या च समित्कुसुमकारणात् ।
नीवाराग्रयणं काले शाकमूलोपचायनम् ॥ १३.२०९.१५ ॥

常在林中行走,为柴薪与花朵而行;适时取野稻的初熟之实,并采集蔬菜与根茎。

13.209.16

सदायतनशौचं च तस्य धर्माय चेष्यते ।
अतिथीनामाभिमुख्यं तत्परत्वं च सर्वदा ॥ १३.२०९.१६ ॥

居所常保清净,是为其法所规定;迎接宾客,时时以之为务,亦是所规定。

13.209.17

पाद्यासनाभ्यां सम्पूज्य तथाऽऽहारनिमन्त्रणम् ।
अग्राम्यपचनं काले पितृदेवार्चनं तथा ॥ १३.२०९.१७ ॥

以洗足水和座位敬待宾客,同样邀请其用餐;适时烹饪,不为世俗之目的;并供奉祖先与诸神。

13.209.18

पश्चादतिथिसत्कारस्तस्य धर्मः सनातनः ।
शिष्टैर्धर्मासने चैव धर्मार्थसहिताः कथाः ॥ १३.२०९.१८ ॥

其后,敬待宾客是其永恒之法;而贤者应坐于法座,宣说与法和利相应的言论。

13.209.19

प्रतिश्रयविभागश्च भूमिशय्या शिलासु वा ।
व्रतोपवासयोगश्च क्षमा चेन्द्रियनिग्रहः ॥ १३.२०९.१९ ॥

分配居所,睡在地上或石头上,修持誓戒与斋戒,忍耐与克制诸根。

13.209.20

दिवारात्रं यथायोगं शौचं धर्मस्य चिन्तनम् ।
एवं धर्माः पुरा दृष्टाः सामान्या वनवासिनाम् ॥ १३.२०९.२० ॥

昼夜依时保持清净,并思维法。如此,古时所见林居者的共同法则便是如此。

13.209.21

एवं वै यतमानस्य कालधर्मो यथा भवेत् ।
तथैव सोऽभिजयति स्वर्गलोकं शुचिस्मिते ॥ १३.२०९.२१ ॥

若人如此精进,无论时代的法则如何,他都以同样方式赢得天界。纯净微笑的女子啊!

13.209.22

तत्र संविदिता भोगाः स्वर्गस्त्रीभिरनिन्दिते ।
परिभ्रष्टो यथा स्वर्गाद्विशिष्टस्तु भवेन्नृषु ॥ १३.२०९.२२ ॥

无瑕者啊,天界女子所享之乐在彼处为人所知;然而从天界堕落者,在人间反而变得卓越。

13.209.23

एवं धर्मस्तथा देवि सर्वेषां वनवासिनाम् ।
एतत्ते कथितं सर्वं किं भूयः श्रोतुमिच्छसि ॥ १३.२०९.२३ ॥

女神啊,如此即是一切林居者的法。以上皆已告诉你,你还想再听什么?

13.209.24

भगवन्देवदेवेश ऋषीणां चरितं शुभम् ।
विशेषधर्मानिच्छामि श्रोतुं कौतूहलं हि मे ॥ १३.२०९.२४ ॥

尊者,诸神之主啊,我想听闻诸仙人吉祥的行为与特殊的法;我心中确有好奇。

13.209.25

तदहं ते प्रवक्ष्यामि शृणु देवि समाहिता ॥ १३.२०९.२५ ॥

因此我将告诉你;女神啊,请专心听。

13.209.26

वननित्यैर्वनरतैर्वानप्रस्थैर्महर्षिभिः ।
वनं गुरुमिवालम्ब्य वस्तुव्यमिति निश्चयः ॥ १३.२०९.२६ ॥

常居森林、乐于林中的林居大仙人们,把森林当作老师来依靠,决心在此居住。

13.209.27

वीरशय्यामुपासद्भिर्वारस्थानोपसेविभिः ।
व्रतोपवासैर्बहुलैर्ग्रीष्मे पञ्चतपैस्तथा ॥ १३.२०९.२७ ॥

躺在英雄床上的人,保持站立姿势的人,专注于众多誓愿与斋戒的人,以及在夏季修行五火苦行的人。

13.209.28

पञ्चयज्ञपरैर्नित्यं पौर्णमास्यापरायणैः ।
मण्डूकशायैर्हेमन्ते शैवालाङ्कुरभोजनैः ॥ १३.२०९.२८ ॥

常年奉行五祭的人,专注于满月斋仪的人,冬季像青蛙一样躺卧的人,以及食用苔藓嫩芽的人。

13.209.29

चीरवल्कलसंवीतैर्मृगाजिनधरैस्तथा ।
चातुर्मास्यपरैः कैश्चिद्देवधर्मपरायणैः ॥ १३.२०९.२९ ॥

身穿树皮与破布衣,披着鹿皮,有些人奉行四月安居之誓,专注于神祇的职责。

13.209.30

एवंविधैर्वनेवासैस्तप्यते सुमहत्तपः ।
एवं कृत्वा शुभं कर्म पश्चाद्याति त्रिविष्टपम् ॥ १३.२०९.३० ॥

以这样的林居生活,行极大的苦行;做了这样的善业之后,他们随后升往天界。

13.209.31

तत्रापि सुमहत्कालं संविहृत्यि यथासुखम् ।
जायते मानुषे लोके दानभोगसमन्वितः ॥ १३.२०९.३१ ॥

他在那里也长久安乐地居住之后,降生于人间,具备布施与享受。

13.209.32

तपोविशेषसंयुक्ताः कथितास्ते शुचिस्मिते ॥ १३.२०९.३२ ॥

具备特殊苦行者已被描述,纯净微笑的女神啊。

13.209.33

भगवन्देवदेवेश तेषु ये दारसंयुताः ।
कीदृशं चरितं तेषां तन्मे शंसितुमर्हसि ॥ १३.२०९.३३ ॥

世尊,诸神之主啊,他们中那些有妻室陪伴者,其行为如何?您应当向我说明。

13.209.34

य एकपत्नीधर्माणश्चरन्ति विपुलं तपः ।
विंध्यपादेषु ये केचिद्ये च नैमिशवासिनः ॥ १३.२०९.३४ ॥

那些守持一妻之戒、行广大苦行者,那些在温底耶山麓的人,以及居住在奈弥沙林的人。

13.209.35

पुष्करेषु च ये चान्ये नदीवनसमाश्रिताः ।
सर्वे ते विधिदृष्टेन चरन्ति विपुलं तपः ॥ १३.२०९.३५ ॥

在布什卡拉圣水处的人,以及依傍河流与森林居住的其他人,他们都依照规定的仪轨行广大苦行。

13.209.36

हिंसाद्रोहविमुक्ताश्च सर्वभूतानुकम्पिनः ।
शान्ता दान्ता जितक्रोधाः सर्वातिथ्यपरायणाः ॥ १३.२०९.३६ ॥

远离暴力与恶意,怜悯一切众生,平和,自制,已战胜愤怒,专心于对一切人的款待。

13.209.37

प्राणिष्वात्मोपमा नित्यमृतुकालाभिगामिनः ।
स्वदारसहिता देवि चरन्ति व्रतमुत्तमम् ॥ १३.२०९.३७ ॥

女神啊,那些始终将众生视同自己、只在合适的季节亲近妻子、并与自己的妻子一同持守最高誓愿的人。

13.209.38

वसन्ति सुखमव्यग्राः पुत्रदारसमन्विताः ।
तेषां परिच्छदारम्भाः कृतोपकरणानि च ॥ १३.२०९.३८ ॥

他们与子女和妻子一同安乐地居住,无忧无虑;家中器物的准备和已备好的用具也都在他们身边。

13.209.39

गृहस्थवद्द्वितीयं ते यथायोगं प्रमाणतः ।
पोषणार्थं स्वदाराणामग्निकार्यार्थमेव च।
गावश्च कर्षणं चैव सर्वमेतद्विधीयते। ॥ १३.२०९.३९ ॥

如同家主一般,为他们规定了第二(居所),依其合宜的尺度;为供养自己的妻子、为火祭之事、为牛群和耕作——这一切都已被规定。

13.209.40

एवं वनगतैर्देवि कर्तव्यं दारसङ्ग्रहैः ।
ते स्वदारैः समायान्ति पुण्याँल्लोकान्द्दढव्रताः ॥ १३.२०९.४० ॥

女神啊,如此,入林者应当与妻子同住;誓言坚定的人,与自己的妻子一同抵达福德之界。

13.209.41

पतिभिः सह ये दाराश्चरन्ति विपुलं तपः ।
अव्यग्रभावादैकात्म्यात्ताश्च गच्छन्ति वै दिवम्।
एतत्ते कथितं देवि किं भूयः श्रोतुमिच्छसि ॥ १३.२०९.४१ ॥

与丈夫一同行大苦行的妻子,因心不散乱、彼此一体而升往天界。女神啊,这已经告诉你了;你还想再听什么?