摩诃婆罗多 · 章 13.211
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.211.1
उक्तस्त्वया त्रिवर्गस्य धर्मश्च परमः शुभः ।
सर्वव्यापी तु यो धर्मो भगवंस्तं ब्रवीतु मे। ॥ १३.२११.१ ॥
您已讲述了三种目标中至高吉祥的法。尊贵的主啊,请告诉我那遍及一切的法。
13.211.2
ब्रह्मणा लोकसंसारे सृष्टा धात्रा गुणार्थिना ।
लोकांस्तारयितुं युक्ता मर्त्येषु क्षितिदेवताः ॥ १३.२११.२ ॥
在世界轮回中,梵天作为渴求德性的造物主,在凡人之中创造了堪当渡化世界的地上神(婆罗门)。
13.211.3
तेषु तावत्प्रवक्ष्यामि धर्मं शुभफलोदयम् ।
ब्राह्मणेष्वभयो धर्मः परमः शुभलक्षणः ॥ १३.२११.३ ॥
在他们之中,我将先宣说能带来吉祥果报的法:在婆罗门中,无畏是具有吉祥特征的至高之法。
13.211.4
इमे च धर्मा लोकानां पूर्वं सृष्टाः स्वयंभुवा ।
पृथिव्यां सद्द्विजैर्नित्यं कीर्त्यमानं निबोध मे ॥ १३.२११.४ ॥
这些世间之法,昔日由自生者(梵天)所造,地上的善生者(二度生者)常常宣讲。请从我这里听闻。
13.211.5
स्वदारनिरतिर्धर्मो नित्यं जप्यं तथैव च ।
सर्वातिथ्यं त्रिवर्गस्य यथाशक्ति दिवानिशम् ॥ १३.२११.५ ॥
忠于自己的妻子即是法,同样也包括恒常诵持;为三种目标而对一切人行待客之礼,应依自己的能力日夜行持。
13.211.6
शूद्रो धर्मपरो नित्यं शुश्रूषानिरतो भवेत् ॥ १३.२११.६ ॥
首陀罗应当恒常奉行法,专心服侍。
13.211.7
त्रैविद्यो ब्राह्मणो वृद्धो न चाध्ययनजीवकः ।
त्रिवर्गस्य व्यतिक्रान्तं तस्य धर्मः सनातनः ॥ १३.२११.७ ॥
通晓三吠陀的年长婆罗门,若不以学习谋生,便已超越三重目标;他的法是永恒的。
13.211.8
षट् कर्माणि च प्रोक्तानि सृष्टानि ब्रह्मणा पुरा ।
धर्मिष्ठानि वरिष्ठानि तानितानि शृणूत्तमे ॥ १३.२११.८ ॥
据说有六种职责,乃古时梵天所创;它们最为合法、最为殊胜。最好的人啊,请听。
13.211.9
यजनं याजनं चैव दानं पात्रे प्रतिग्रहः ।
अध्यापनमध्ययनं षट्कर्मा धर्मभागृजुः ॥ १३.२११.९ ॥
为自己祭祀,为他人主祭,布施,从合格者处受施,教授,学习——这便是六种职责;正直之人分享法。
13.211.10
नित्यः स्वाध्यायतो धर्मः नित्ययज्ञः सनातनः ।
दानं प्रशंसते नित्यं ब्राह्मणेषु त्रिकर्मसु ॥ १३.२११.१० ॥
日常的法来自自学;日常的祭祀是永恒的。在这三种职责中,布施给婆罗门总是被称赞。
13.211.11
अयमेव परो धर्मः संवृतः सत्सु विद्यते ।
गर्भस्थाने विशुद्धानां धर्मस्य नियमो महान् ॥ १३.२११.११ ॥
这便是至高的法,隐藏于善人之中。在清净者的根源之处,有法的大规则。
13.211.12
पञ्चयज्ञविशुद्धात्मा ऋतुनित्योऽनसूयकः ।
दान्तो ब्राह्मणसत्कर्ता सुसंमृष्टनिवेशनः ॥ १३.२११.१२ ॥
以五祭净化其心,常行时节之仪,无嫉妒,自制,尊敬婆罗门,居所打扫得干干净净。
13.211.13
चक्षुःश्रोत्रमनोजिह्वास्निग्धवर्णप्रदः सदा ।
अतिथ्यभ्यागतरतः शेषान्नकृतभोजनः ॥ १३.२११.१३ ॥
常使眼、耳、意与舌得到温和悦意之享受者,喜爱客人与来访的宾客,唯食客人用餐后所余之食者。
13.211.14
पाद्यमर्घ्यं यथान्यायमासनं शयनं तथा ।
दीपं प्रतिश्रयं चैव यो ददाति स धार्मिकः ॥ १३.२११.१४ ॥
依礼而施足水、敬奉之礼、座席、床榻、灯火与住所者,即为有德之人。
13.211.15
प्रातरुत्थाय वै पश्चाद्भोजने तु निमन्त्रयेत् ।
सत्कृत्याऽनुव्रजेद्यश्च तस्य धर्मः सनातनः ॥ १३.२११.१५ ॥
清晨起身,之后邀请客人共餐;以礼相待并送客上路者,其法永恒。
13.211.16
प्रवृत्तिलक्षणो धर्मो गृहस्थेषु विधीयते ।
तदहं कीर्तयिष्यामि त्रिवर्गेषु च यद्यथा ॥ १३.२११.१६ ॥
为居家者所规定的,是以入世行事为特征的法;因此我将依三求之次第而述说它。
13.211.17
एकेनांशेन धर्मार्थः कर्तव्यो हितमिच्छता ।
एकेनांशेन कामार्थमेकमंशं विवर्धयेत् ॥ १३.२११.१७ ॥
求其利益者,当以一分行法与利,以一分增益欲与利。
13.211.18
निवृत्तिलक्षणः पुण्यो धर्मो मोक्षो विधीयते ।
तस्य वृत्तिं प्रवक्ष्यामि तां शृणुष्व समाहिता ॥ १३.२११.१८ ॥
以出离为特征的神圣之法,为解脱而规定;我将说明其行持,你当专心聆听。
13.211.19
सर्वभूतदया धर्मो निवृत्तेः परम सदा ।
बुभुक्षितं पिपासार्तमतिथिं श्रान्तमागतम्।
अर्चयन्ति वरारोहे तेषामपि फलं महत् ॥ १३.२११.१९ ॥
对一切众生的慈悲,始终是出离的至上法。尊敬那饥渴疲惫而来的客人的人,也会获得大果报,美腰的女神啊。
13.211.20
पात्रमित्येव दातव्यं सर्वस्मै धर्मकाङ्क्षिभिः ।
आगमिष्यति यत्पात्रं तत्पात्रं तारयिष्यति ॥ १३.२११.२० ॥
求法之人应当施与一切人,视每人都为可受施者。将来到的那位可受施者,会济度他们。
13.211.21
काले सम्प्राप्तमतिथिं भोक्तुकाममुपस्थितम् ।
यस्तं सम्भावयेत्तत्र व्यासोऽयं समुपस्थितः ॥ १३.२११.२१ ॥
若有人敬待按时到来、愿意进食而站立的客人,那里便是毗耶娑亲自到来。
13.211.22
तस्य पूजां यथाशक्त्या सौम्यचित्तः प्रयोजयेत् ।
चित्तमूलो भवेद्धर्मो धर्ममूलं भवेद्यशः ॥ १३.२११.२२ ॥
应当以温和之心,依自己的能力供养他。法以心为根,名声以法为根。
13.211.23
तस्मात्सौम्येन चित्तेन दातव्यं देवि सर्वथा ।
सौम्यचित्तस्तु यो दद्यात्तद्धि दानमनुत्तमम् ॥ १३.२११.२३ ॥
因此,女神啊,应当总以温和之心施与。以温和之心施舍的人,所行之施才是无上之施。
13.211.24
यथाम्बुबिन्दुभिः सूक्ष्मैः पतद्भिर्मेदिनीतले ।
केदाराश्च तटाकानि सरांसि सरितस्तथा ॥ १३.२११.२४ ॥
正如细小的水滴落在大地之上,使田畴、池塘、湖泊与河流得以充盈,
13.211.25
तोयपूर्णानि दृश्यन्ते अप्रतर्क्योऽतिशोभने ।
अल्पमल्पमपि ह्येकं दीयमानं विवर्धते ॥ १३.२११.२५ ॥
可见满盈的水;啊,极其光彩的女神,其果报不可思议。即使少量,一点一点地施予,也会增长。
13.211.26
पीडयाऽपि च भृत्यानां दानमेव विशिष्यते ।
पुत्रदारधनं धान्यं न मृताननुगच्छति ॥ १३.२११.२६ ॥
即使在困苦中施予仆从,也是最为殊胜的。儿子、妻子、财富、谷物都不随死者而去。
13.211.27
श्रेयो दानं च भोगश्च धनं प्राप्य यशस्विनि ।
दानेन हि महाभागा भवन्ति मनुजाधिपाः ॥ १३.२११.२७ ॥
啊,有名望的女神,得到财富后,布施与受用便是至善;因布施,大福者成为人间的君王。
13.211.28
नास्ति भूमौ दानसमं नास्ति दानसमो निधिः ।
नास्ति सत्यात्परो धर्मो नानृतात्पातकं परम् ॥ १३.२११.२८ ॥
大地之上无物可与布施相比,也无宝藏可与布施相比。没有比真实更高的法,也没有比虚妄更大的罪。
13.211.29
आश्रमे यस्तु तप्येत तपो मूलफलाशनः ।
आदित्याभिमुखो भूत्वा जटावल्कलसंवृतः।
मण्डूकशायी हेमन्ते ग्रीष्मे पञ्चतपा भवेत् ॥ १३.२११.२९ ॥
在林修处苦修的人,以根与果为食,面向太阳,身披乱发与树皮,冬日如蛤蟆般睡卧,夏日行五火之苦行。
13.211.30
सम्यक्तपश्चरन्तीह श्रद्दधाना वनाश्रमे ।
गृहाश्रमस्य ते देवि कलां नार्हन्ति षोडशीम् ॥ १३.२११.३० ॥
此处怀着信心在林修中善行苦修的人,啊女神,连家居阶段的十六分之一也不配得。
13.211.31
गृहाश्रमस्य या चर्या व्रतानि नियमाश्च ये ।
तथा च देवताः पूज्याः सततं गृहमेधिना ॥ १३.२११.३१ ॥
居家生活的行为、誓愿与戒律,以及家主应当始终敬拜诸神。
13.211.32
यद्यच्च परिहर्तव्यं गृहीणातिथिपर्वसु ।
तत्सर्वं श्रोतुमिच्छामि कथ्यमानं त्वया विभो ॥ १३.२११.३२ ॥
家主在宾客之日与节日应当避免的一切,我愿听你讲述,主啊。
13.211.33
गृहाश्रमस्य यन्मूलं फलं धर्मोऽयमुत्तमम् ।
पादैश्चतुर्भिः सततं धर्मो यत्र प्रतिष्ठितः ॥ १३.२११.३३ ॥
居家生活的根本与果实,便是这至高的法;四足之法常常立于其中。
13.211.34
सारभूतं वरारोहे दध्नो घृतमिवोद्धृतम् ।
तदहं ते प्रवक्ष्यामि श्रूयतां धर्मचारिणि ॥ १३.२११.३४ ॥
美人啊,就如从凝乳中提取的酥油,那精华我将为你宣说;请听,行法的女子。
13.211.35
दंपत्यलङ्करिष्णुश्च गृहदानरतिर्नरः ।
कलत्रसौख्यं विन्देत नास्ति तत्र विचारणा ॥ १३.२११.३५ ॥
使夫妇增光、乐于在家施舍的人,必能获得妻子的幸福;此事无疑。
13.211.36
स्त्रियो वा पुरुषो वाऽपि दम्पतीन्पूजयन्ति ते ।
मनोभिलषितान्कामान्प्राप्नुवन्ति न संशयः ॥ १३.२११.३६ ॥
无论女子或男子,凡敬奉夫妇者,必得心中所愿的欲望;毫无疑问。
13.211.37
शुश्रूषन्ते ये पितरं मातरं च गृहाश्रमे ।
भर्तारं चैव या नारी अग्निहोत्रं च ये द्विजाः ॥ १३.२११.३७ ॥
在家居生活中侍奉父母者,侍奉丈夫的妇人,以及行阿耆尼霍特拉祭的再生族,
13.211.38
तेषुतेषु च प्रीणन्ति देवा इन्द्रपुरोगमाः ।
पितरः पितृलोकस्थाः स्वधर्मेण स रज्यते ॥ १३.२११.३८ ॥
凭借这些各自的行为,以因陀罗为首的诸神得到欢喜,居于祖先界的祖先也得到欢喜;他因自身的法而感到满足。
13.211.39
मातापितृवियुक्तानां का चर्या गृहमेधिनाम् ।
विधवानां च नारीणां भवानेव ब्रवीतु मे ॥ १३.२११.३९ ॥
失去父母的居家者,以及寡妇,其行为规范是什么?请您亲自告诉我。
13.211.40
देवतातिथिशुश्रूषा गुरुवृद्धाभिवादनम् ।
अहिंसा सर्वभूतानामलोभः सत्यसन्धता ॥ १३.२११.४० ॥
侍奉诸神与宾客,恭敬礼拜师长与长者,对一切众生不杀生,无贪欲,以及坚守真实。
13.211.41
ब्रह्मचर्यं शरण्यत्वाशौचं पूर्वाभिभाषणम् ।
कृतज्ञत्वमपैशुन्यं सततं धर्मशीलता ॥ १३.२११.४१ ॥
梵行,为求庇护者作庇护,清净,先以善言相向,感恩,不说人闲话,以及恒常的守法之性。
13.211.42
दिने द्विरभिषेकं च पितृदैवतपूजनम् ।
गवाह्निकप्रदानं च संविभागोऽतिथिष्वपि ॥ १३.२११.४२ ॥
每日二次沐浴,祭拜祖先与神明,每日布施一头牛,并与宾客分享。
13.211.43
दीपप्रतिश्रयं चैव दद्यात्पाद्यासनं तथा ।
पञ्चमेऽहनि षष्ठे वा द्वादशेऽप्यष्टमेऽथवा।
तदुर्दशे पञ्चदशे ब्रह्मचारी सदा भवेत् ॥ १३.२११.४३ ॥
应当供给灯火与住处,也应供给洗足水与座席。在第五日、第六日或第十二日,或第八日,以及那第十日或第十五日,应当始终保持梵行。
13.211.44
श्मश्रुकर्म शिरोभ्यङ्गमञ्जनं दन्तधावनम् ।
नैतेष्वहस्तु कुर्वीत तेषु लक्ष्मीः प्रतिष्ठिता ॥ १३.२११.४४ ॥
在这些日子里,不应剃须、涂油于头、施用眼膏或刷牙;因为吉祥天女(Lakṣmī)安住于其中。
13.211.45
व्रतोपवासनियमस्तपो दानं च शक्तितः ।
भरणं भृत्यवर्गस्य दीनानामनुकम्पनम् ॥ १३.२११.४५ ॥
守持誓愿、斋戒与克制;苦行,以及量力布施;供养仆役之辈,怜悯困苦之人。
13.211.46
परदारान्निवृत्तिश्च स्वदारेषु रतिः सदा ।
शरीरमेकं दंपत्योर्विधात्रा पूर्वनिर्मितम्।
तस्मात्स्वदारनिरतो ब्रह्मचारी विधीयते ॥ १३.२११.४६ ॥
远离他人之妻,常乐于自己的妻子;夫妇之身本为一体,乃造物主预先所造。因此,专心于自己妻子的人被规定为梵行者。
13.211.47
शीलवृत्तविनीतस्य निगृहीतेन्द्रियस्य च ।
आर्जवे वर्तमानस्य सर्वभूतहितैषिणः ॥ १३.२११.४७ ॥
对于在德行与操守上谦逊、诸根已被克制、安住于正直、并愿利益一切众生的人。
13.211.48
प्रियातिथेश्च क्षान्तस्य धर्मार्जितधनस्य च ।
गृहाश्रमपदस्थस्य किमन्यैः कृत्यमाश्रमैः ॥ १३.२११.४८ ॥
对于那爱护客人、忍耐、财富依正法而得、并安住于家居生活的人,又何须其他的人生阶段呢?
13.211.49
यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः ।
तथा गृहाश्रमं प्राप्य सर्वे जीवन्ति चाश्रमाः ॥ १३.२११.४९ ॥
犹如一切众生依靠母亲而生存,一切住期也因获得居家住期而得以存续。
13.211.50
राजानः सर्वपाषण्डाः सर्वे रङ्गोपजीविनः ।
व्यालग्रहाश्च डम्याश्च चोरा राजभटास्तथा ॥ १३.२११.५० ॥
诸王、一切异端、以舞台谋生者、耍蛇者与ḍamba(伶人)、盗贼以及王家士兵,皆是如此。
13.211.51
सविद्याः सर्वजीवज्ञाः सर्वे वै विचिकित्सकाः ।
दूराध्वानं प्रपन्नाश्च क्षीणपथ्योदना नराः।
एते चान्ये च बहवस्तर्कयन्ति गृहाश्रमम् ॥ १३.२११.५१ ॥
有学问者、通晓一切众生者、一切存疑者、走过远路而清淡食物已尽的人们——这些人及其他众多之人,都在思量居家之法。
13.211.52
मार्जारा मूषिकाः श्वानः सूकराश्च शुकास्तथा ।
कपोतका कावटकाः सरीसृपनिषेवणाः।
अरण्यवासिनश्चान्ये सङ्घा ये मृगपक्षिणाम् ॥ १३.२११.५२ ॥
猫、鼠、狗、猪与鹦鹉,鸽子,kāvaṭaka,以爬行动物为食者,林中居者,以及其他鹿与鸟的群体——它们也是如此。
13.211.53
एवं बहुविधा देवि लोकेऽस्मिन्सचराचराः ।
गृहे क्षेत्रे बिले चैव शतशोऽथ सहस्रशः ॥ १३.२११.५३ ॥
如是,女神啊,在这世间有种种之类的动静众生,在屋中、田间与洞穴中,成百上千。
13.211.54
गृहस्थेन कृतं कर्म सर्वैस्तैरिह भुज्यते ।
उपयुक्तं च यत्तेषां मतिमान्नानुशोचति ॥ १३.२११.५४ ॥
居家者所作之业,那一切众生在此享用;对于他们所用之物,有智者不会悲伤。
13.211.55
धर्म इत्येव सह्कल्प्य यस्तु तस्य फलं शृणु ।
सर्वयज्ञप्रणीतस्य हयमेधेन यत्फलम्।
वर्षे स द्वादशे देवि फलेनैतेन युज्यते ॥ १३.२११.५५ ॥
听那以此为法而立誓者的果报。凡已行一切祭祀者,以马祭所得之果,女神啊,他在第十二年凭此果报而得之。
13.211.56
आशापाशविमोक्षं च विधिधर्ममनुत्तमम् ।
वृक्षमूलचरो नित्यं शून्यागारिनिवेशनमम् ॥ १३.२११.५६ ॥
从欲望之网中解脱,以及依规而行的至上法:常在树根下行走、居于空屋之中者。
13.211.57
नदीपुलिनशायी च नदीतीरमनुव्रजन् ।
विमुक्तः सर्वसङ्गेभ्यः स्नेहबन्धेन वै द्विजः। ॥ १३.२११.५७ ॥
睡在河边沙洲上、沿河岸行走的再生者,已脱离一切执着与情爱的束缚。
13.211.58
आत्मन्येवात्मना भावं समायोज्येह तेन वै ।
आत्मभूतो यताहारो मोक्षदृष्टेन कर्मणा ॥ १३.२११.५८ ॥
在此,以自我于自我之中结合心念,由此成为自我,节制饮食,以着眼解脱所行之业。
13.211.59
पवित्रनित्यो युक्तश्च तस्य धर्मःक सनातनः ।
नैकत्र रमते सक्तो न चैकग्रामगोचरः।
युक्तोऽप्यटति यो युक्तो न चैकपुलिनाश्रयः ॥ १३.२११.५९ ॥
常保清净、自持之人,其法是永恒的。他不执着于一处而欢娱,也不只在一个村庄行走。虽自持,他仍四处游行,不依止于一处沙洲。
13.211.60
एष मोक्षविदां धर्मो वेदोक्तः सत्पथे स्थितः ॥ १३.२११.६० ॥
这是知解脱者之法,吠陀所宣说,立于善道之上。