摩诃婆罗多 · 章 13.213
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.213.1
देवदेव महादेव सर्वदेवनमस्कृत ।
यानि धर्मरहस्यानि श्रोतुमिच्छामि तान्यहम् ॥ १३.२१३.१ ॥
诸神之神、大天神啊,被一切神明所礼敬者!我想听闻那些法的秘密。
13.213.2
रहस्यं श्रूयतां देवि मानुषाणां सुखावहम् ।
नपुंसकेषु वन्ध्यासु वियोनौ पृथिवीतले ॥ १३.२१३.२ ॥
女神啊,听那能带给人类安乐的秘密:关于阉人、石女、非正常的子宫,在大地之上。
13.213.3
उत्सर्गो रेतसस्तेषु न कार्यो धर्मकाङ्क्षिभिः ।
एतेषु बीजं प्रक्षिप्तं न च रोहति वै प्रिये ॥ १३.२१३.३ ॥
希求法的人不应在他们之中泄出精液。爱人啊,撒入他们之中的种子确实不会发芽。
13.213.4
यत्र वा तत्र वा बीजं धर्मार्थीं नोत्सृजेत्पुनः ।
नरो बीजविनाशेन लिप्यते ब्रह्महत्यया ॥ १३.२१३.४ ॥
无论在哪里,求法与财富者不应再泄出种子;人因毁坏种子而被婆罗门杀害的罪业所污。
13.213.5
अहिंसा परमो धर्म अहिंसा परमं सुखम् ।
अहिंसा धर्मशास्त्रेषु सर्वेषु परमं पदम् ॥ १३.२१३.५ ॥
不害是最高的法,不害是最高的乐。在一切法论中,不害是最高之位。
13.213.6
देवतातिथिशुश्रूषा सततं धर्मशीलता ।
वेदाध्ययनयज्ञाश्च तपो दानं दमस्तथा ॥ १३.२१३.६ ॥
侍奉诸神与客人,恒常持守法德,诵习吠陀与祭祀,苦行、布施,以及自制。
13.213.7
आचार्यगुरुशुश्रूषा तीर्थाभिगमनं तथा ।
अहिंसाया वरारोहे कलां नार्हन्ति षोडशीम् ॥ १३.२१३.७ ॥
侍奉师长与长者、朝拜圣渡口以及不杀生——美腰的女子啊,这些也配不上它的十六分之一。
13.213.8
एतत्ते परमं गुह्यमाख्यातं परमार्चितम् ॥ १३.२१३.८ ॥
这至高的秘密已经告诉你了,它极其受人尊崇。
13.213.9
यद्यधर्मस्तु हिंसायां किमर्थममरोत्तम ।
यज्ञेषु पशुबन्धेषु हन्यन्ते पशवो द्विजैः ॥ १३.२१३.९ ॥
若暴力是非法,天神中最尊贵者啊,那么再生族在祭祀中为何要杀掉被缚的牲畜呢?
13.213.10
कथं च भगवन्भूयो हिंसमाना नराधिपाः ।
स्वर्गं सुदुर्गमं यान्ति तदा स्म रिपुसूदन ॥ १३.२१३.१० ॥
啊,尊贵者,灭敌者啊,那些一再杀生的君王,如何能到达极难抵达的天界呢?
13.213.11
यस्यैव गोसहस्राणि विंशतिः स्वादिकानि तु ।
अहन्यहनि हन्यन्ते द्विजानां मांसकारणात् ॥ १३.२१३.११ ॥
他的二万头牛,因其肉味鲜美,每天都为了给再生族提供肉食而被宰杀,
13.213.12
समांसं तु स दत्त्वाऽन्नं रन्तिदेवो नराधिपः ।
कथं स्वर्गमनुप्राप्तः परं कौतूहलं हि मे ॥ १३.२१३.१२ ॥
国王兰提提婆连同肉食一起布施食物,他是如何到达天界的呢?我对此非常好奇。
13.213.13
किन्तु धर्मं न शृण्वन्ति न श्रद्दधति वा श्रुतम् ।
मृयां वै विनिर्गत्य मृगान्हन्ति नराधिपाः ॥ १३.२१३.१३ ॥
然而他们不听法,也不信所闻;国王出外狩猎,杀害鹿群。
13.213.14
एतत्सर्वं विशेषेण विस्तरेण वृषध्वज ।
श्रोतुमिच्छामि सर्वज्ञ तत्त्वमद्य ममोच्यताम् ॥ १३.२१३.१४ ॥
哦,伐里沙陀嚩阇(湿婆),我愿详细而完整地听闻这一切。哦,全知者,今日请告诉我其中的真实道理。
13.213.15
बहुमान्यमिदं देवि नास्ति कश्चिदहिंसकः ।
श्रूयतां कारणं चात्र यथाऽनेकविधं भवेत् ॥ १३.२१३.१५ ॥
哦,女神,此事甚为可重:世上并无一人是不杀生者。请听其中的缘由,它有多种多样。
13.213.16
दृश्यते चापि लोकेऽस्मिन्न हि कश्चिदहिंसकः ।
धरणीसंश्रिता देवि सुसूक्ष्मांश्चैव मध्यमान् ॥ १३.२१३.१६ ॥
在这个世界上,哦,女神,也看不到一个不杀生的人;即使是栖居于大地上的极微小和中等大小的生灵,(也不被饶恕)。
13.213.17
सञ्चरंश्चरणाभ्यां च हन्ति जीवाननेकशः ।
अज्ञानाज्ज्ञानतो वाऽपि यो जीवः शयनासनात्।
उपाविशञ्शयानश्च हन्ति जीवाननेकशः ॥ १३.२१३.१७ ॥
行走时,他以双脚杀害许多生灵,或出于无知,或明知故犯。那生灵因坐卧而杀生,坐着和躺着时,他也以多种方式杀害众多生灵。
13.213.18
शिरोवस्त्रेषु ये जीवा नरणां स्वेदसम्भवाः ।
तांश्च हिंसन्ति सततं दंशांश्च मशकानपि ॥ १३.२१३.१८ ॥
人们头巾中由汗水所生的生灵,以及牛虻和蚊子,(人们)也经常伤害它们。
13.213.19
जले जीवास्तथाऽऽकाशे पृथिवी जीवमालिनी ।
एवं जीवाकुले लोके कोसौ स्याद्यस्त्वहिंसकः ॥ १३.२१३.१९ ॥
水中有生灵,天空亦然;大地以生灵为饰。在这充满生灵的世界里,谁能够不伤害呢?
13.213.20
स्थूलमध्यमसूक्ष्मैश्च स्वेदवारिमहीरुहैः ।
दृश्यरूपैरदृश्यैश्च नानारूपैश्च भामिनि ॥ १३.२१३.२० ॥
美丽的女子啊,世界充满了生灵:粗大的、中等的、细微的,由汗、水和树木所生,有可见的,也有不可见的,形态各异。
13.213.21
जीवैस्ततमिदं सर्वमाकाशं पृथिवी तथा ।
अन्योन्यं ते च हिंसन्ति दुर्बलान्बलवत्तराः ॥ १३.२१३.२१ ॥
这一切,包括天空与大地,都被生灵所遍布。它们彼此伤害;强者伤害弱者。
13.213.22
मत्स्या मत्स्यान्ग्रसन्तीह खगाश्चैव खगांस्तथा ।
सरीसृपैश्च जीवन्ति कपोताद्या विहङ्गमाः ॥ १३.२१३.२२ ॥
在此,鱼吞食鱼,鸟吞食鸟;鸟以爬行动物为食,鸽子等鸟类亦然。
13.213.23
भूचराः खेचराश्चान्ये क्रव्यादा मांसगृद्धिनः ।
समृद्धाः परमांसैस्तु भक्षेरंस्तेऽपि चापरैः ॥ १३.२१३.२३ ॥
地行者、空中飞者及其他肉食者,贪求肉食,以他者之肉而兴盛;而它们也被他者所吞食。
13.213.24
सत्वैः सत्वानि जीवन्ति शतशोथ सहस्रशः ।
अपीडयित्वा नैवान्यं जीवा जीवन्ति सुन्दरि ॥ १३.२१३.२४ ॥
众生以成百上千的其他众生为生。美丽的女子啊,众生若不伤害他者,便无法生存。
13.213.25
स्थूलकायस्य सत्वस्य खरस्य महिषस्य च ।
जीवस्यैकस्य मांसेन पयसा रुधिरेण वा।
तृप्यन्ते बहवो जीवाः क्रव्यादा मांसजीविनः ॥ १३.२१३.२५ ॥
以一个大身体众生、驴或水牛的肉、乳或血,许多众生得以满足,即食肉者与以肉为生者。
13.213.26
एको जीवसहस्राणि सदा खादति मानवः ।
अन्नाद्यस्य च भोगेन दान्यसंज्ञानि यानि तु ॥ १३.२१३.२६ ॥
一个人总是吞食数千众生,也吞食由饮食等享用而被称为谷物的东西。
13.213.27
मांसधान्यैः सबीजैश्च भोजनं परिवर्जयेत् ॥ १३.२१३.२७ ॥
应当戒除以肉及带种子的谷物为食。
13.213.28
त्रिरात्रं पञ्चरात्रं वा सप्तरात्रं तथाऽपि वा ।
धान्यानि यो न हिंसेताहिंसकः परिकीर्तितः ॥ १३.२१३.२८ ॥
即使三夜、五夜或七夜,不伤害谷物者,被称为不杀生者。
13.213.29
नाश्नाति यावतो जीवस्तावत्पुण्येन युज्यते ।
आहारस्य वियोगेन शरीरं परितप्यते ॥ १३.२१३.२९ ॥
众生不食之时,便与福德相应;因断绝饮食,身体便受煎熬。
13.213.30
तप्यमाने शरीरे तु शरीरे चेन्द्रियाणि तु ।
वशे तिष्ठन्ति सुश्रोणि नृपाणामिव किंकराः ॥ १३.२१३.३० ॥
美腰者啊,身体受煎熬时,身体的诸根也如同国王的侍从,服从于人。
13.213.31
निरुणद्धीन्द्रियाण्येव स सुखी स विचक्षणः ।
इन्द्रियाणां निरोधेन दानेन च दमेन च।
नरः सर्वमवाप्नोति मनसा यद्यधिच्छति ॥ १३.२१३.३१ ॥
能够克制诸根的人,便是幸福而有智慧的人。凭借制御诸根、布施与自制,人便能获得心中所愿的一切。
13.213.32
एवं मूलमर्हिसाया उपवासः प्रकीर्तितः ॥ १३.२१३.३२ ॥
由此宣说,禁食是不害(ahiṃsā)的根本。
13.213.33
आहारं कुरुते यस्तु भूमिमाक्रमते च यः ।
सर्वे ते हिंसका देवि यथा धर्मेषु दृश्यते ॥ १३.२१३.३३ ॥
烹煮食物之人与践踏大地之人——女神啊,他们都是有暴力的,正如在法典中所见。
13.213.34
यथैवाहिंसको देवि तत्वतो ज्ञायते नरः ।
तथा ते सम्प्रवक्ष्यामि श्रूयतां धर्मचारिणि ॥ १३.२१३.३४ ॥
女神啊,正如真正的不害之人是如何被认识的,我将为你说明;法行者啊,请听。
13.213.35
फलानि मूलपर्णानि भस्म वा योपि भक्षयेत् ।
अलेख्यमिव निश्चेष्टं तं मन्येऽहमहिंसकम् ॥ १३.२१३.३५ ॥
凡只食果实、根茎、树叶或灰烬,且静止如画像者,我便认为他是不害之人。
13.213.36
आरम्भा हिंसया युक्ता धूमेनाग्निरिवावृताः ।
तस्माद्यस्तु निराहारस्तं मन्येऽहमहिंसकम् ॥ १३.२१३.३६ ॥
一切作为都与暴力相连,如火被烟所覆。因此,我认为那断食之人才是不害之人。
13.213.37
यस्तु सर्वं समुत्सृज्य दीक्षित्वा नियतः शुचिः ।
कृत्वा मण्डलमर्यादां सङ्कल्पं कुरुते नरः ॥ १३.२१३.३७ ॥
若人舍弃一切,受持灌顶,自制清净,于曼陀罗的界限之内立下誓愿。
13.213.38
यावज्जीवमनाशित्वा कालकाङ्क्षी दृढव्रतः ।
ध्यानेन तपसा युक्तस्तं मन्येऽहमहिंसकम् ॥ १३.२१३.३८ ॥
我认为那人不伤生:终身不食,待时而行,坚守誓愿,专心禅定与苦行。
13.213.39
अन्यथा हि न पश्यामि नरो यः स्यादहिंसकः ।
बहु चिन्त्यमिदं देवि नास्ति कश्चिदहिंसकः ॥ १३.२१३.३९ ॥
否则我看不到能够不伤生的人。女神啊,此事应当深思:并无一人是不伤生的。
13.213.40
यतो यतो महाभागे हिंसा स्यान्महती ततः ।
निवृत्तो मधुमांसाभ्यां हिंसा त्वल्पतरा भवेत् ॥ १३.२१३.४० ॥
大福者啊,凡有大害之处,便当远离;戒除蜂蜜与肉食,则伤害便少得多。
13.213.41
निवृत्तिः परमो धर्मो निवृत्तिः परमं सुखम् ।
मनसा विनिवृत्तानां धर्मस्य निचयो महान् ॥ १३.२१३.४१ ॥
舍离是至高的法,舍离是至上的乐。意念已舍离者,法便大为积聚。
13.213.42
मनःपूर्वागमा धर्मा अधर्माश्च न संशयः ।
मनसा बध्यते चापि मुच्यते चापि मानवः ॥ १३.२१३.४२ ॥
法与非法,皆以心为先导,此无疑问。人由心而被缚,也由心而得解脱。
13.213.43
निगृहीते भवेत्स्वर्गो विसृष्टे नरको ध्रुवः ।
घातकः शस्त्रमुद्यम्य मनसा चिन्तयेद्यदि ॥ १३.२१३.४३ ॥
若能克制,便得天界;若放纵,则必入地狱。若杀人者举起兵器,仅在心中思想此事,(也是罪过)。
13.213.44
आयुःक्षयं गतेऽन्येषां मृते तु प्रहराम्यहम् ।
इति यो घातको हन्यान्न स पापेन लिप्यते ॥ १३.२१३.४४ ॥
若杀人者心想:“我只是在他人寿命已尽、死去之后才击打”,这样杀人的人不会被罪过所污染。
13.213.45
विधिना निहताः पूर्वं निमित्तं स तु घातकः ।
विधिर्हि बलवान्देवि दुस्त्यजं वै पुराकृतम् ॥ १३.२१३.४५ ॥
那些早已被命运所杀者,杀人者仅是工具;因为命运强大,女神啊,前世所作之业难以舍弃。
13.213.46
जीवाः पुराकृतेनैव तिर्यग्योनिसरीसृपाः ।
नानायोनिषु जायन्ते स्वकर्मपरिवेष्टिताः ॥ १३.२१३.४६ ॥
众生仅由前世所作,便生于畜生之道,作为爬行之类;被自己的业所缠绕,生于种种不同的胎中。
13.213.47
नानाविधविचित्राङ्गा नानाशौर्यपराक्रमाः ।
नानाभूमिप्रदेशेषु नानाहारश्च जन्तवः ॥ १३.२१३.४७ ॥
具有种种奇异肢体、种种勇力与威力,居住于大地各处、以种种食物为生的众生。
13.213.48
जायमानस्य जीवस्य मृत्युः पूर्वं प्रजायते ।
सुखं वा यदि वा दुःखं यथापूर्वं कृतं तु वा ॥ १३.२१३.४८ ॥
对于出生的众生,死亡首先产生;无论乐还是苦,都如前世所作而来。
13.213.49
प्राप्नुवन्ति नरा मृत्युं यदा यत्र च येन च ।
नातिक्रान्तुं हि शक्यः स्यान्निदेशः पूर्वकर्मणः ॥ १३.२१३.४९ ॥
人在何时、何地、以何种方式遭遇死亡,皆由前业所定;此命令无法逾越。
13.213.50
अप्रमत्तः प्रमत्तेषु विधिर्जागर्ति जन्तुषु ।
न हि तस्य प्रियः कश्चिन्न द्वेष्यो न च मध्यमः ॥ १३.२१३.५० ॥
在放逸者之中,警觉的定命守护众生;对它而言,无人可爱,无人可憎,也无人居中。
13.213.51
समः सर्वेषु भूतेषु कालः कालं निरीक्षते ।
गतायुषो ह्याक्षिपते जीवः सर्वस्य देहिनः ॥ १३.२१३.५१ ॥
时间对一切众生平等;时间审视时间;寿命尽时,它便夺去一切有身者之命。
13.213.52
यथा येन च मर्तव्यं नान्यथा म्रियते हि सः ।
दृश्यते न च लोकेऽस्मिन्भूतो भव्यो द्विधा पुनः ॥ १३.२१३.५२ ॥
何种方式、因何而死,人便如此死去,不会另有他法;在此世间,过去与未来不会以两种方式再现。
13.213.53
विज्ञानैर्विक्रमैर्वाऽपि नानामन्त्रौषधैरपि ।
यो हि वञ्चयितुं शक्तो विधेस्तु नियतां गतिम् ॥ १३.२१३.५३ ॥
无论凭智慧、勇力,还是凭种种咒语与药物,无人能欺骗天命所定的确定之路。
13.213.54
एष तेऽभिहितो देवि जीवहिंसाविधिक्रमः ॥ १३.२१३.५४ ॥
女神啊,这已向你宣说:关于伤害众生的定命次第。