摩诃婆罗多 · 章 13.216
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.216.1
पशवः पशुबन्धेषु ये हन्यन्तेऽध्वरेषु च ।
यूपे निबध्य मन्त्रैश्च यथान्यायं यथाविधि।
मन्त्राहुतिविपूतास्ते स्वर्गं यान्ति यशस्विनि ॥ १३.२१६.१ ॥
那些在祭祀中被系于祭柱、依照规则与仪轨、以咒语被杀的牲畜,经咒语供物净化后,升往天界,荣耀的女神啊。
13.216.2
तर्पिता यज्ञभागेषु तेषां मांसैर्वरानने ।
अग्नयस्त्रिदशाश्चैव लोकपाला महेश्वराः। ॥ १३.२१६.२ ॥
美面之人啊,以它们的肉,祭祀的份额中,诸火、三十三天、护世者与大自在天皆得满足。
13.216.3
तेषु तुष्टेषु जायेत यस्य यज्ञस्य यत्फलम् ।
तेन संयुज्यते देवि यजमानो न संशयः ॥ १३.२१६.३ ॥
他们欢喜之时,祭祀所生之果,女神啊,施主便与之相合,此无疑也。
13.216.4
सपत्नीकः सपुत्रश्चि पित्रा च भ्रातृभिः सह ।
ये तत्र दीक्षिता देवि सर्वे स्वर्गं प्रयान्ति ते ॥ १३.२१६.४ ॥
凡与妻子、儿子、父亲和兄弟一同在彼受戒者,女神啊,他们皆升天界。
13.216.5
एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥ १३.२१६.५ ॥
这一切都已告诉你了;你还想听什么?
13.216.6
भगवन्सर्वभूतेश शूलपाणे महाद्युते ।
श्रोतुमिच्छाम्यहं वृत्तं सर्वेषां गृहमेधिनाम् ॥ १३.२१६.६ ॥
尊贵的主啊,众生之主,持三叉戟者,大光明者,我愿听闻一切居家者的行为。
13.216.7
कीदृशं चरितं तेषां त्रिवर्गसहितं प्रभो ।
प्रत्यायतिः कथं तेषां जीवनार्थमुदाहृतम् ॥ १३.२१६.७ ॥
主啊,他们的行为与三目标相伴是怎样的?为了生计,他们的未来被如何宣说?
13.216.8
वर्तमानाः कथं सर्वे प्राप्नुवन्त्युत्तमां गतिम् ।
एतत्सर्वं समासेन वक्तुमर्हसि मानदः ॥ १३.२१६.८ ॥
他们这样生活,如何都能达到最高的归宿?赐予尊荣者啊,你应当简要地说出这一切。
13.216.9
न्यायतस्त्वं महाभागे श्रोतुकामाऽसि भामिनि ।
प्रायशो लोकसद्वृत्तमिष्यते गृहवासिनाम् ॥ १३.२१६.९ ॥
你理应愿意聆听,啊大福之人,光彩照人的女子。通常,对于居家者所讲授的,是世间的善行。
13.216.10
तेषां संरक्षणार्थाय राजानः संस्कृता भुवि ।
सर्वेषामथ मर्त्यानां वृत्तिं सामान्यतः शृणुः ॥ १३.२१६.१० ॥
为了保护他们,大地上已经设立了国王。现在,请听一般而言所有凡人的生活之道。
13.216.11
विद्या वार्ता च सेवा च कारुत्वं नाट्यता तथा ।
इत्यते जीवनार्थाय मर्त्यानां विहिताः प्रिये ॥ १३.२१६.११ ॥
学问、商贸与农耕、服务、手艺,以及表演艺术——这些,亲爱的,是为凡人的生计所规定的。
13.216.12
अपि जन्मफलं तावन्मानुषाणां विशेषतः ।
विहितं तत्स्ववृत्तेन तन्मे शृणु समाहिताः ॥ १३.२१६.१२ ॥
的确,对人类而言,出生的果报特别就是如此,由自己的行为所规定。专心地从我这里听吧。
13.216.13
कर्मक्षेत्रं हि मानुष्यं सुखदुःखयुताः परे ।
सर्वेषां प्राणिनां तस्मान्मानुष्ये वृत्तिरिष्यते ॥ १३.२१६.१३ ॥
人类生命确实是行动的领域;其他众生充满苦乐。因此,行为规范为一切众生在人身中所定。
13.216.14
विद्यायोगस्तु सर्वेषां पूर्वमेव विधीयते ।
कार्याकार्यं विजानन्ति विद्यया देवि नान्यथा ॥ १३.२१६.१४ ॥
对一切人而言,首先被规定的是致力于知识。女神啊,唯有凭借知识才能分辨何当为、何不当为,别无他途。
13.216.15
विद्यया स्फीयते ज्ञानं ज्ञानात्तत्वनिदर्शनम् ।
दृष्टतत्वो विनीतात्मा सर्वार्थस्य च भाजनम् ॥ १३.२१६.१५ ॥
由学问增长智慧,由智慧得以洞见真理。见到真理、心性谦逊之人,便成为一切目标的承受者。
13.216.16
शक्यं विद्याविनीतेन लोके संजीवनं शुभम् ॥ १३.२१६.१६ ॥
对于因学问而谦逊的人,在这个世界上获得吉祥的复苏、真正的生命是可能的。
13.216.17
आत्मानं विद्यया तस्मात्पूर्वं वृत्वा तु भाजनम् ।
वश्येन्द्रियो जितक्रोधो भूतात्मानं तु भावयेत्।
भावयित्वा तदाऽऽत्मानं पूजनीयः सतामपि ॥ १३.२१६.१७ ॥
因此,先以学问使自己成为承器,制服诸根、胜过愤怒,应当观想一切众生的自性。观想那自性之后,即使善人也会尊敬他。
13.216.18
कुलानुवृत्तं वृत्तं वा पूर्वमात्मा समाश्रयेत् ।
इत्येतत्कुलवासाय दानकर्म यथा पुरा ॥ १३.२१६.१८ ॥
首先应当依从本家族的传统或行为。如此为了在家族中生活,应当像往昔那样行布施之事。
13.216.19
यदि चेद्विद्यया चैव वृत्तिं काङ्क्षेदथात्मनः ।
राजविद्यानुवादेऽपि लोकविद्यामथापि वा।
तीर्थतश्चापि गृह्णीयाच्छुश्रूषादिगुणैर्युतः ॥ १३.२१६.१९ ॥
若有人欲以学问谋生,则为自己,在王道之学或世间之学的教导中,也应从老师处学习,具备恭敬侍奉等德行。
13.216.20
ग्रन्थतश्चार्थतश्चैव दृढं कुर्यात्प्रयत्नतः ।
एवं विद्याफलं देवि प्राप्नुयान्नान्यथा नरः।
न्यायाद्विद्याफलानीच्छेदधर्मं तत्र वर्जयेत् ॥ १३.२१६.२० ॥
应以经文与义理两方面,努力使之坚固。女神啊,人如此方能得到学问之果,否则不能。应依正道求取学问之果,并在其中弃除不义。
13.216.21
यदिच्छेद्वार्तया वृत्तिं काङ्क्षेत विधिपूर्वकम् ।
क्षेत्रे जलोपपन्ने च तद्योग्यां कृषिमाचरेत् ॥ १३.२१६.२१ ॥
若欲以耕作与商贩谋生,应依规则求之;在水源充足的田地中,行其所宜的耕作。
13.216.22
वाणिज्यं वा यथाकालं कुर्यात्तद्देशयोगतः ।
मूल्यमर्थं प्रयासं च विचार्यैव व्ययोदयौ ॥ १३.२१६.२२ ॥
或在适当的时候,依其地之情形经商;审慎考虑价格、利润、所费之力,以及支出与收入。
13.216.23
पशुसंजीवनं चैव दश गाः पोषयेद्ध्रुवम् ।
बहुप्रकारा बहवः पशवस्तस्य साधकाः ॥ १३.२१६.२३ ॥
也应经营畜牧,务必饲养十头牛。种类繁多的众多牲畜,都成为他成就的依凭。
13.216.24
यः कश्चित्सेवया वृत्तिं काङ्क्षेत मतिमान्नरः ।
यतात्मा श्रवणीयानां भवेद्वै सम्प्रयोजकः ॥ १३.२१६.२४ ॥
凡有智之人欲以服事谋生者,应自我克制,成为善于运用值得聆听之教导的人。
13.216.25
बुद्ध्या वा कर्मयोगाद्वा बोधनाद्वा समाश्रयेत् ।
मार्गतस्तु समाश्रित्य तदा तत्सम्प्रयोजयेत् ॥ १३.२१६.२५ ॥
应当以智慧、以行动之瑜伽或以教导来寻求依靠。依正道寻求依靠之后,便应使之成就。
13.216.26
यथायथा सु तुष्येत तथा संतोषयेत्तु तम् ।
अनुजीविगुणोपेतः कुर्यादात्मार्थमाश्रितम् ॥ १३.२१६.२६ ॥
以何种方式使他真正满意,就应以那种方式使他欢喜。具备依附者之德,为自己的利益,应当对依靠自己的人如此行事。
13.216.27
विप्रियं नाचरेत्तस्य एषा सेवा समासतः ।
विप्रयोगात्पुरा तेन गतिमन्यां न लक्षयेत् ॥ १३.२१६.२७ ॥
不应做他不喜欢的事;简言之,这就是侍奉。在与他分离之前,不应借他而另寻他途。
13.216.28
कारुकर्म च नाट्यं च प्रायशो नीचयोनिषु ।
तयोरपि यथायोगं न्यायतः कर्मवेतनम् ॥ १३.२१६.२८ ॥
工匠之业与表演之艺,多见于出身低贱者。对于这两者,也应依其所当,按公正之道给予劳作的报酬。
13.216.29
आजीवेभ्योऽपि सर्वभ्यः स्वार्जवाद्वेतनं हरेत् ।
अनार्जवादाहरतस्तत्तु पापाय कल्पते ॥ १३.२१६.२९ ॥
即使是从所有以劳作谋生者那里,也应凭自己的正直取得报酬。对于以欺诈取得者,那便成为罪恶的根源。
13.216.30
सर्वेषां पूर्वमारम्भांश्चिन्तयेन्नयपूर्वकम् ।
आत्मशक्तिमुपायांश्च देशकालौ च युक्तितः।
कारणानि प्रयासं च प्रक्षेपं च फलोदयम् ॥ १३.२१६.३० ॥
在开始任何事业之前,应依正当的策略加以审慎考虑:自身的力量、方法、地点与时机,恰当地权衡;还有起因、努力、投入以及成果的显现。
13.216.31
एवमादीनि सञ्चिन्त्य दृष्ट्वा दैवानुकूलताम् ।
अतः परं समारम्भेद्यत्रात्महितमाहितम् ॥ १३.२१६.३१ ॥
在仔细思量这些及类似之事,并看到天命的顺应之后,然后应在对自己有利的地方开始行动。
13.216.32
वृत्तिमेव समासाद्य तां सदा परिपालयेत् ।
देवमानुषविघ्नेभ्यो न पुनर्मन्यते यथा ॥ १३.२१६.३२ ॥
获得生计之后,应当始终守护它,使其不致因神祇与人的阻碍而再次被认为失去。
13.216.33
पालयन्वर्धयन्भुञ्जंस्तां प्राप्य न विनाशयेत् ।
क्षीयते गिरिसङ्काशमश्नतो ह्यनपेक्षया ॥ १३.२१६.३३ ॥
得到之后,守护、增益并享用它,而不应毁坏;因为即便如山的财富,对于不加珍惜地消耗者也会减少。
13.216.34
आजीवेभ्यो धनं प्राप्य चतुर्धा विभजेद्बुधः ।
धर्मायार्थाय कामाय आपत्प्रशमनाय च ॥ १३.२१६.३४ ॥
智者应将从生计中获得的财富分为四份:用于法、用于利、用于欲,以及用于平息灾祸。
13.216.35
चतुर्ष्वपि विभागेषु विधानं शृणु शोभने ॥ १३.२१६.३५ ॥
美丽的人啊,也请听这四份的分配规则。
13.216.36
यज्ञार्थं चान्नदानार्थं दीनानुग्रहकारणात् ।
देवब्राह्मणपूजार्थं पितृपूजार्थमेव च ॥ १३.२१६.३६ ॥
用于祭祀,用于施食,为了对贫苦者施以恩惠,用于敬奉神祇与婆罗门,也用于祭拜祖先。
13.216.37
मूलार्थं सन्निवासार्थं क्रियानित्यैश्चि धार्मिकैः ।
एवमादिषु चान्येषु धर्मार्थं संत्यजेद्धनम् ॥ १३.२१६.३७ ॥
为了基础与共同生活,恪守日常祭仪的正直之人,以及在其他类似的事情中,都应为了法而舍弃财富。
13.216.38
धर्मकार्ये धनं दद्यादनवेक्ष्य फलोदयम् ।
ऐश्वर्यस्थानलाभार्थं राजवाल्लभ्यकारणात् ॥ १३.२१६.३८ ॥
在法事中施舍财物,不计较其果报的生起,为了获得权位与尊荣,也因为得到国王的宠爱。
13.216.39
वार्तायां च समारम्भेऽमात्यमित्रपरिग्रहे ।
आवाहे च विवाहे च पुत्राणां वृत्तिकारणात् ॥ १३.२१६.३९ ॥
在经营事业之始,在接纳大臣与朋友时,在迎娶新娘与婚姻之中,以及为了儿子们的生计。
13.216.40
अर्थोदयसमावाप्तावनर्थस्य विघातने ।
एवमादिषु चान्येषु अर्थार्थं विसृजेद्धनम् ॥ १३.२१६.४० ॥
在充分获得利益之增长,以及消除损害之时;在其他类似的事情中,都应为了利益而舍弃财富。
13.216.41
अनुबन्धं हेतुयुक्तं दृष्ट्वा वित्तं परित्यजेत् ।
अनर्थं बाधते ह्यर्थो अर्तं चैव फलान्युत ॥ १३.२१६.४१ ॥
看清其后果与因由,便应舍弃财富。财富本身能防止损失;财富的败坏及其果实亦然。
13.216.42
नाधनाः प्राप्नुन्त्यर्थं नरा यत्नशतैरपि ।
तस्माद्धनं रक्षितव्यं दातव्यं च विधानतः ॥ १३.२१६.४२ ॥
无财之人即便百般努力也得不到财富。因此应当守护财富,并依照规矩施舍。
13.216.43
शरीरपोषणार्थाय आहारस्य विशोषणे ।
नटधर्वसंयोगे कामयात्राविहारयोः ॥ १३.२१६.४३ ॥
为滋养身体,当食物匮乏时,在演员与舞者的陪伴中,以及在享乐的旅行和游乐中(应当花费财物)。
13.216.44
मनःप्रियाणां संयोगे प्रीतिदाने तथैव च ।
एवमादिषु चान्येषु कामार्तं विसृजेद्धनम् ॥ १३.२१६.४४ ॥
与心中所爱之人相聚时,赠送情意之礼时,以及类似的其他场合,被欲望所困扰的人应当花费财物。
13.216.45
विचार्य गुणदोषांस्तु त्रयाणां तत्र संत्यजेत् ।
चतुर्थं सन्निदध्याच्च आपदर्थं शुचिस्मिते ॥ १३.२१६.४५ ॥
权衡利弊之后,应在那里舍去三份,而将第四份储存起来以备灾难,哦,纯洁微笑的人。
13.216.46
राज्यभ्रंशविनाशार्थं दुर्भिक्षार्थं च शोभने ।
महाव्याधिविमोक्षार्थं वार्धकस्यैव कारणात् ॥ १३.२१६.४६ ॥
为王国的衰亡与毁灭,为饥荒,哦,光彩的人,为摆脱重病,以及仅仅因为年老(应当积存财物)。
13.216.47
शत्रूणां प्रतिकाराय साहसैश्चाप्यमर्षणात् ।
प्रस्थाने चान्यदेशार्थमापदां विप्रमोक्षणे।
एवमादि समुद्दिश्य सन्निदध्यात्स्वकं धनम् ॥ १३.२१६.४७ ॥
为了抵御敌人,为了勇敢的行动,也因愤怒,为了出行,为了他国,为了从灾难中解脱。以这些目的为念,应当积存自己的财物。
13.216.48
सुखमर्थवतां लोके कृच्छ्राणां विप्रमोक्षणम् ।
यस्य नास्ति धनं किञ्चित्तस्य लोकद्वयं न च ॥ १३.२१६.४८ ॥
在世间,幸福属于富有的人,从苦难中解脱也属于他们。对于一无所有的人而言,两个世界都不存在。
13.216.49
अशनादिन्द्रियाणीव सर्वमर्थात्प्रवर्तते ।
निधानमात्रं यस्तेषामन्यथा विलयं व्रजेत्।
एवं देवि मनुष्याणां लोकानां जीवनं प्रति ॥ १३.२१६.४९ ॥
如同感官依食物而运作,一切都依财富而运行。若仅是积存,则会以别的方式消亡。女神啊,这就是关于人类与诸世界的生存。
13.216.50
एवं लोकस्य वृत्तस्य लोकवृत्तं पुनः शृणु ।
धन्यं यशस्यमायुष्यं स्वर्ग्यं च परमं यशः ॥ १३.२१६.५० ॥
如此,再听世间的行为:那吉祥的、带来名声的、带来长寿的、通往天国的,以及至高的名誉。
13.216.51
त्रिवर्गो हि वशे युक्तः सर्वेषां संविधीयते ।
तथा संवर्तमानास्तु लोकयोर्हितमाप्नुयुः ॥ १३.२१६.५१ ॥
三目标(法、利、欲)若真正被掌控,便为众人所安排。愿如此行事者,在两个世界中都获得福利。
13.216.52
काल्योत्थानं च शौचं च देवब्राह्मणभक्तितः ।
गुरुणामेव शुश्रूषा ब्राह्मणेष्वभिवादनम् ॥ १३.२१६.५२ ॥
黎明即起与清净,出于对神明和婆罗门的虔敬;唯独侍奉师长,并恭敬地向婆罗门行礼。
13.216.53
प्रत्युत्थानं च वृद्धानां देवस्थानप्रणामनम् ।
आभिमुख्यं पुरस्कृत्य अतिथीनां च पूजनम् ॥ १३.२१६.५३ ॥
对长者起身致敬,在神庙前俯身礼拜;将客人置于前面并加以礼敬。
13.216.54
वृद्धोपदेशकरणं श्रवणं हितपथ्ययोः ।
पोषणं भूत्यवर्गस्य सान्त्वदानपरिग्रहे ॥ १३.२१६.५४ ॥
遵从长者的教导,聆听有益与合宜之言;供养仆役之众,以温言与施予使之归附。
13.216.55
न्यायतः कर्मकरणमन्यायाहितवर्जितम् ।
सम्यग्वृत्तं स्वदारेषु दोषाणां प्रतिषेधनम् ॥ १३.२१६.५५ ॥
依正义履行职责,远离不义与伤害,对自己的妻子行为端正,防止过错。
13.216.56
पुत्राणां विनयं कुर्यात्तत्तत्कार्यनियोजनम् ।
वर्जनं चाशुभार्थानां शुभानां जोषणं तथा ॥ १३.२१६.५६ ॥
应教导儿子谦逊有礼,各按其职派其任务,使其远离不吉之志,并专注于吉祥之事。
13.216.57
कुलोचितानां धर्माणां यतावत्परिपालनम् ।
कुलसन्धारणं चैव पौरुषेणैव सर्वशः।
एवमादि शुभं सर्वं तस्य वृत्तमिति स्थितम् ॥ १३.२१६.५७ ॥
恰当地遵守与家族相称的诸法,维持家族,并以男子的努力在各方面守护它——这些以及一切类似的吉祥行为,皆被确立为他的。
13.216.58
वृद्धसेवी भवेन्नित्यं हितार्थं ज्ञानकाङ्क्षया ।
परार्थं नाहरेद्द्रव्यमनामन्त्र्य तु सर्वथा।
न याचेत परान्धीरः स्वबाहुबलमाश्रयेत् ॥ १३.२१६.५८ ॥
出于求知之心并为求善,应当常常侍奉长者。未经允许,绝不可取他人之财。坚毅之人不应向他人乞求,而应依靠自己双臂的力量。
13.216.59
स्वशरीरं सदा रक्षेदाहाराचारयोरपि ।
हितं पथ्यं सदाहारं जीर्णं भुञ्जीत मात्रया ॥ १३.२१६.५९ ॥
应当始终保护自己的身体,无论在饮食还是行为上。应食用有益、宜人、总是易于消化的食物,并且适量进食。
13.216.60
देवतातिथिसत्कारं कृत्वा सर्वं यथाविधि ।
शेषं भुञ्जेच्छुचिर्भूत्वा न च भाषेत विप्रियम् ॥ १३.२१६.६० ॥
如法地恭敬神明与宾客之后,应洁净地食用剩余之食,且不可说不悦耳之言。
13.216.61
प्रतिश्रयं च पानीयं बलिं भिक्षां च सर्वतः ।
गृहस्थवासी सततं तद्याद्गाश्चैव पोषयेत् ॥ १३.२१६.६१ ॥
居家者应当始终向众人提供住所、饮水、供奉与施食,并且养护牛群。
13.216.62
बहिर्निष्क्रमणं चैव कुर्यात्कारणतोपि वा ।
मध्याह्ने वाऽर्धरात्रे वा गमनाय न रोचयेत् ॥ १३.२१६.६२ ॥
若有缘由,可以外出,但不应在正午或午夜外出。
13.216.63
विषयान्नावगाहेत स्वशक्त्या तु समाचरेत् ।
यथाऽऽयव्ययता लोके गृहस्थानां प्रपूजितम् ॥ १३.२१६.६३ ॥
不应沉溺于感官之乐,而应依自身能力行事;收支相抵在世间深受居家者推崇。
13.216.64
अयशस्करमर्थघ्नं कर्म यत्परपीडनम् ।
भयाद्वा यदि लोभाद्वा न कुर्वीत कदाचन ॥ १३.२१६.६४ ॥
凡招致恶名、耗损财富或使他人受苦的行为,无论因恐惧还是贪欲,都不应去做。
13.216.65
बुद्धिपूर्वं समालोक्य दूरतो गुणदोषतः ।
आरभेत तदा कर्भ शुभं वा यदि वेतरत् ॥ १३.२१६.६५ ॥
先以智慧审慎权衡行为的优劣得失,然后再去行事,无论其吉祥与否。
13.216.66
आत्मसाक्षी भवेन्नित्यमात्मनस्तु शुभाशुभे ।
मनसा कर्मणा वाचा न च काङ्क्षेत पातकम् ॥ १३.२१६.६६ ॥
应当始终做自己善恶的见证者,不以心念、行为或言语去贪求罪恶。