摩诃婆罗多 · 章 13.218
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
13.218.1
भगवन्देवदेवेश त्र्यक्ष भो वृषभध्वज ।
मानुषास्त्रिविधा देव दृश्यन्ते सततं विभो ॥ १३.२१८.१ ॥
尊贵的神中之神、三眼、牛旗之主啊!神啊,大能者啊,人类总是呈现为三种。
13.218.2
आसीना एव भुञ्जन्ते स्थानैश्वर्यपरिग्रहैः ।
अपरे यत्नपूर्वं तु लभन्ते भोगसङ्ग्रहम् ॥ १३.२१८.२ ॥
有人安坐不动,凭借地位与权势而享受;另一些人则竭力奋斗,才获得享乐的积累。
13.218.3
अपरे यतमानाश्च न लभन्ते तु किञ्चन ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ १३.२१८.३ ॥
而另一些人虽竭力奋斗,却一无所获。这是由哪一业报的成熟所致?请您为我说明。
13.218.4
न्यायतस्त्वं महाभागे श्रोतुकामाऽसि भामिनि ॥ १३.२१८.४ ॥
大福的女子啊,光彩的夫人啊,你想听闻,这是合理的。
13.218.5
ये लोके मानुषा देवि दानधर्मपरायणाः ।
पात्राणि विधिवज्ज्ञात्वा दूरतोप्यनुमानतः ॥ १३.२१८.५ ॥
女神啊,世上那些专注于施舍之法的人,依规则辨识值得受施之人,即便远远地,也凭推测而知。
13.218.6
अभिगम्य स्वयं तत्र ग्राहयन्ति प्रसाद्य च ।
दानादि चेङ्गितैरेव तैरविज्ञातमेव वा ॥ १३.२१८.६ ॥
他们亲自前往,使之欢喜,令其接受布施等物;仅以示意,或在对方不知情的情况下也如此。
13.218.7
पुनर्जन्मनि ते देवि तादृशाः शोभना नराः ।
अयत्नतस्तु तान्येव फलानि प्राप्नुवन्त्युत ॥ १३.२१८.७ ॥
女神啊,在来世,这样的吉祥之人不费力便能获得那些果报。
13.218.8
आसीना एव भुञ्जन्ते भोगान्सुकृतभोगिनः ॥ १३.२१८.८ ॥
享受善业果报的人,即使坐着也能享受种种福乐。
13.218.9
अपरे ये च दानानि ददत्येव प्रयाचिताः ।
यदायदाऽर्थिने दत्त्वा पुनर्दानं च याचिताः ॥ १३.२१८.९ ॥
另一些人在被请求时施舍;每当给予乞求者之后又被再次请求布施时,亦然。
13.218.10
तावत्कालं ततो देवि पुनर्जन्मनि ते नराः ।
यत्नतः श्रमसंयुक्ताः पुनस्तान्प्राप्नुवन्ति च ॥ १३.२१८.१० ॥
女神啊,经过那么长的时间,之后在来世,那些人带着努力与辛劳,再次获得它们。
13.218.11
याचिता अपि केचित्तु अदत्त्वैव कथञ्चन ।
अभ्यसूयापरा मर्त्या लोभोपहतचेतसः ॥ १३.२१८.११ ॥
有些人即使被请求,也绝不布施;那些凡人心怀嫉妒,心智被贪欲所伤。
13.218.12
ते पुनर्जन्मनि शुभे यतन्तो बहुधा नराः ।
न प्राप्नुवन्ति मनुजा मार्गन्तस्तेऽपि किञ्चन ॥ १३.२१८.१२ ॥
吉祥的女神啊,在来世,那些人虽以种种方式努力,却一无所得;即使寻求,也毫无所获。
13.218.13
नानुप्तं रोहते सस्यं तद्वद्दानफलं विदुः ।
यद्यद्ददाति पुरुषस्तत्तत्प्राप्नोति केवलम् ॥ १३.२१८.१३ ॥
未播种的庄稼不会生长;布施的果报也是如此。人所施予的,正是他所独得的。
13.218.14
इति ते कथितं देवि भूयः श्रोतुं किमिच्छसि ॥ १३.२१८.१४ ॥
女神啊,这些已经告诉你了。你还想再听什么呢?
13.218.15
भगवन्भगनेत्रघ्न केचिद्वार्धकसंयुताः ।
अभोगयोग्यकाले तु भोगांश्चैव धनानि च ॥ १३.२१८.१५ ॥
世尊啊,毁灭薄伽眼睛的神啊,有些人年老体衰,在不适合享受的时候才得到享乐和财富。
13.218.16
लभन्ते स्थविरा भूता भोगैश्वर्यं यतस्ततः ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ १३.२१८.१६ ॥
虽然年老,他们仍从各处获得享乐与权势。这是由哪一种业报成熟所致?请你为我说明。
13.218.17
हन्त ते कथयिष्यामि शृणु तत्वं समाहिता ॥ १३.२१८.१७ ॥
好吧,我将告诉你。请专心聆听这个真理。
13.218.18
धर्मकार्यं चिरं कालं विस्मृत्य धनसंयुताः ।
प्राणान्तकाले सम्प्राप्ते व्याधिभिश्च निपीडिताः ॥ १३.२१८.१८ ॥
富有财物,长期忘却法业,待到临终之时,又被疾病所折磨……
13.218.19
आरभन्ते पुनर्धर्मं दातुं दानानि वा नराः ।
ते पुनर्जन्मनि शुभे भूत्वा दुःखपरिप्लुताः ॥ १३.२१८.१९ ॥
世人重新开始行法与施舍;然而即便生于吉祥的再生之中,他们仍被苦难所困。
13.218.20
अतीतयौवने काले स्थविरत्वमुपागताः ।
लभन्ते पूर्वदत्तानां फलानि शुभलक्षणे ॥ १३.२१८.२० ॥
当青春已逝、步入老年时,吉祥之女啊,他们便得到先前所施之布施的果报。
13.218.21
एतत्कर्मफलं देवि कालयोगाद्भवत्युत ॥ १३.२१८.२१ ॥
女神啊,这是业的果报;它是因时节的因缘而生的。
13.218.22
भोगयुक्ता महादेव केचिद्व्याधिपरिप्लुताः ।
असमर्थाश्च तान्भोक्तं भवन्ति किमु कारणम् ॥ १३.२१८.२२ ॥
大神啊,有些人拥有享受,却被疾病所困,无法享用,这是什么缘故?
13.218.23
व्याधियोगपरिक्लिष्टा ये निराशाः स्वजविते ।
आरभन्ते तदा कर्तुं दानानि शुभलक्षणम् ॥ १३.२१८.२३ ॥
那些因病魔缠身而绝望于自身性命的人,此时便开始行吉祥的布施。
13.218.24
ते पुनर्जन्मनि शुभे प्राप्य तानि फलान्युत ।
असमर्थाश्च तान्भोक्तुं व्याधितास्ते भवन्त्युत ॥ १३.२१८.२४ ॥
他们在吉祥的再生中得到了那些果报,却仍无法享用,并被疾病所困。
13.218.25
भगवन्देवदेवेश मानुषेष्वेव केचन ।
रूपयुक्ताः प्रदृश्यन्ते शुभाङ्गा प्रियदर्शनाः।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ १३.२१८.२५ ॥
尊贵的神中之神啊,人间有些人显得容貌端正、肢体吉祥、令人喜悦。由于何种业报的成熟而如此?请您告诉我。
13.218.26
हन्त ते कथयिष्यामि शृणु तत्वं समाहिता ॥ १३.२१८.२६ ॥
好吧,我将告诉你。请专心聆听真理。
13.218.27
ये पुरा मनुजा देवि लज्जायुक्ताः प्रियंवदाः ।
शक्ताः सुमधुरा नित्यं भूत्वा चैव स्वभावतः ॥ १३.२१८.२७ ॥
女神啊,那些往昔谦逊、言语柔和、有能力、极其温和的人,天性上始终如此。
13.218.28
अमांसभोजिनश्चैव सदा प्राणिदयायुताः ।
प्रतिकर्मप्रदा वाऽपि वस्त्रदा धर्मकारणात्।
भूमिशुद्धिकरा वाऽपि कारणादग्निपूजकाः ॥ १३.२१८.२८ ॥
从不食肉、常怀悲悯之心对待众生、以服务报答服务或施舍衣物的人,为了法而净化土地的人,以及出于某种缘由而崇拜火的人。
13.218.29
एवं युक्तसमाचाराः पुनर्जन्मनि ते नराः ।
रूपेण स्पृहणीयास्तु भवन्त्येव न संशयः ॥ १३.२१८.२९ ॥
如此行为端正的人,在轮回再生中会因容貌而令人向往,这毫无疑问。
13.218.30
विरूपाश्च प्रदृश्यन्ते मानुषेष्वेव केचन ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ १३.२१८.३० ॥
而人间也有些人显得丑陋。由于何种业报的成熟而如此?请您告诉我。
13.218.31
तदहं ते प्रवक्ष्यामि शृणु कल्याणि कारणम् ॥ १३.२१८.३१ ॥
因此我将告诉你其中的原因。听着,吉祥的女子。
13.218.32
रूपयोगात्पुरा मर्त्या दर्पाहंकारसंयुताः ।
विरूपहासकास्चैव स्तुतिनिन्दादिभिर्भृशम् ॥ १३.२१८.३२ ॥
往昔,世人因容貌而满怀傲慢与自负,嘲笑丑陋之人,并以赞誉、诽谤等方式极度地(伤害他人)。
13.218.33
परोपतापनाश्चैव मांसादाश्च तथैव च ।
अभ्यसूयापराश्चैव अशुद्धाश्च तथा नराः ॥ १३.२१८.३३ ॥
折磨他人者、食肉者,同样沉溺于嫉妒与挑剔者,以及不净之人。
13.218.34
एवं युक्तसमाचारा यमलोके सुदण्डिताः ।
कथंचित्प्राप्य मानुष्यं तत्र ते रूपवर्जिताः।
विरूपाः सम्भवन्त्येव नास्ति तत्र विचारणा ॥ १३.२१८.३४ ॥
行为如此者在阎摩界受严厉惩罚;之后,不知何故得到人身,他们便生于此世,失去美貌,成为丑陋之人。这一点毫无疑问。
13.218.35
भगवन्देवदेवेश केचित्सौभाग्यसंयुताः ।
रूपभोग्यविहीनाश्च दृश्यन्ते प्रमदाप्रियाः।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ १३.२१८.३५ ॥
尊贵的主,诸神之主啊,有些人似乎拥有福德,却缺乏美貌与享受,却仍为女子所爱。这是由哪种业果所致?请你告诉我。
13.218.36
ये पुरा मनुजा देवि सौम्यशीलाः प्रियंवदाः ।
स्वदारैरेव संतुष्टा दारेषु समवृत्तयः ॥ १३.२१८.३६ ॥
往昔那些人,女神啊,性情温和,言语悦耳,只满足于自己的妻子,对待妻子始终行为平等,
13.218.37
दाक्षिण्येनैव वर्तन्ते प्रमदास्वप्रियास्वपि ।
न तु प्रत्यादिशन्त्येव स्त्रीदोषान्गुणसंश्रितान्। ॥ १३.२१८.३७ ॥
即使对于不讨人喜欢的女子,他们也只是出于礼节而对待;然而他们并不真正拒绝与女子之美德相伴而来的过失。
13.218.38
अन्नपानीयदाः काले नृणां स्वादुप्रदाश्च ये ।
स्वदारवर्तिनश्चैव धृतिमन्तो निरत्ययाः ॥ १३.२१८.३८ ॥
那些按时供给人们饮食、并给予美味之物的人;那些只忠于自己妻子、坚定而无过失的人。
13.218.39
एवं युक्तसमाचाराः पुनर्जन्मनि शोभने ।
मानुषास्ते भवन्त्येव सततं सुभगा भृशम्।
अर्थादृतेऽपि ते देवि भवन्ति प्रमदाप्रियाः ॥ १३.२१८.३९ ॥
如此行为端正之人,在美好的来世总是成为极其幸运的人。女神啊,即便没有财富,他们也不会不被女子所喜爱。
13.218.40
दुर्भगाः सम्प्रदृश्यन्ते आढ्या भोगयुता अपि ।
केन कर्मविपाकेन तन्मे शंसितुमर्हसि ॥ १३.२१८.४० ॥
有些人虽富有、享有享乐,却显得不幸。这是由哪一业行成熟所致?你应当告诉我。
13.218.41
तदहं ते प्रवक्ष्यामि शृणु सर्वं समाहिता ॥ १३.२१८.४१ ॥
因此我将告诉你;你要专心听完全部。
13.218.42
ये पुरा मनुजा देवि स्वदारेष्वनपेक्षया ।
यथेष्टवृत्तयश्चैव निर्लज्जा वीतसम्भ्रमाः ॥ १३.२१८.४२ ॥
女神啊,往昔那些不顾自己妻子、随心所欲而行、无耻且毫无拘束的人。
13.218.43
परेषां विप्रियकरा वाङ्मनःकायकर्मभिः ।
निराश्रया निरानन्दाः स्त्रीणां हृदयकोपनाः ॥ १३.२१८.४३ ॥
那些以言语、意念和身体之行为令他人不悦的人,会变得无所依靠、没有欢乐,并在女人心中引起愤怒。
13.218.44
एवं युक्तसमाचाराः पनर्जन्मनि ते नराः ।
दुर्भगास्तु भवन्त्येव स्त्रीणां हृदयविप्रियाः। ॥ १३.२१८.४४ ॥
如此行为端正的人,在来世会成为不幸的人,并且确实令女人的心不悦。
13.218.45
नास्ति तेषां रतिसुखं स्वदारेष्वपि किञ्चन ॥ १३.२१८.४५ ॥
他们即使与自己的妻子在一起,也没有任何男女欢愉。